ऋग्वेदसंहिता, पदपाठ · अध्याय 1.140
॥4॥.
-र्व्_2:2।5-
(र्व्_1,140)
वेदि-सदे । प्रिय-धामाय । सु-द्युते । धासिम्-इव । प्र । भर । योनिम् । अग्नये । वस्त्रेण-इव । वासय । मन्मना । शुचिम् । ज्योतिः-रथम् । शुक्र-वर्णम् । तमः-हनम्
अभि । द्वि-जन्मा । त्रि-वृत् । अन्नम् । ऋज्यते । संवत्सरे । ववृधे । जग्धम् । ईम् इति । पुनरिति । । अन्यस्य । आसा । जिह्वया । जेन्यः । वृषा । नि । अन्येन । वनिनः । मृष्ट । वारणः
कृष्ण-प्रुतौ । वेविजे इति । अस्य । स-क्षितौ । उभा । तरेते इति । अभि । मातरा । शिशुम् । प्राचाजिह्वम् । ध्वसयन्तम् । तृषु-च्युतम् । आ । साच्यम् । कुपयम् । वर्धनम् । पितुः
मुमुक्ष्वः । मनवे । मानवस्यते । रघु-द्रुवः । कृष्ण-सीतासः । ओं इति । जुवः । असमनाः । अजिरासः । रघु-स्यदः । वात-जूताः । उप । युज्यन्ते । आशवः
आत् । अस्य । ते । ध्वसयन्तः । वृथा । ईरते । कृष्णम् । अभ्वम् । महि । वर्पः । करिक्रतः । यत् । सीम् । महीम् । अवनिम् । प्र । अभि । मर्मृशत् । अभि-श्वसन् । स्तनयन् । एति । नानदत्
॥5॥.
-र्व्_2:2।6-
भूषन् । न । यः । अधि । बभ्रूषु । नम्नते । वृषाइव । पत्नीः । अभि । एति । रोरुवत् । ओजायमानः । तन्वः । च । शुम्भते । भीमः । न । शृङ्गा । दविधाव । दुः-गॄभ् इः
सः । सम्-स्तिरः । वि-ष्टिरः । सम् । गृभायति । जानन् । एव । जानतीः । नित्यः । आ । शये । पुनः । वर्धन्ते । अपि । यन्ति । देव्यम् । अन्यत् । वर्पः । पित्रोः । कृण्वते । सचा
तम् । अग्नुवः । केशिनीः । सम् । हि । रेभिरे । ऊर्ध्वाः । तस्थुः । मम्रुषीः । प्र । आयवे । पुनरिति । तासाम् । जराम् । प्र-मुञ्चन् । एति । नानदत् । असुम् । परम् । जनयन् । जीवम् । अस्तृतम्
अधीवासम् । परि । मातुः । रिहन् । अह । तुवि-ग्रेभिः । सत्व-भिः । याति । वि । ज्रयः । वयः । दधत् । पत्-वते । रेरिहत् । सदा । अनु । श्येनी । सचते । वर्तनिः । अह
अस्माकम् । अग्ने । मघवत्-सु । दीदिहि । अध । श्वसीवान् । वृषभः । दमूनाः । अव-अस्य । शिशु-मतीः । अदीदेः । वर्म-इव । युत्-सु । परि-जर्भुराणः
॥6॥.
-र्व्_2:2।7-
इदम् । अग्ने । सु-धितम् । दुः-धितात् । अधि । प्रियात् । ओं इति । चित् । मन्मनः । प्रेयः । अस्तु । ते । यत् । ते । शुक्रम् । तन्वः । रोचते । शुचि । तेन । अस्मभ्यम् । वनसे । रत्नम् । आ । त्वम्
रथाय । नावम् । उत । नः । गृहाय । नित्य-अरित्राम् । पत्-वतीम् । रासि । अग्ने । अस्माकम् । वीरान् । उत । नः । मघोनः । जनान् । च । या । पारयात् । शर्म । या । च
अभि । नः । अग्ने । उक्थम् । इत् । जुगुर्याः । द्यावाक्षामा । सिन्धवः । च । स्व-गूर्ताः । गव्यम् । यव्यम् । यन्तः । दीर्घा । अहा । इषम् । वरम् । अरुण्यः । वरन्त
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0