भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.139

1.139.1

॥2॥.
-र्व्_2:2।3-
(र्व्_1,139)
अस्तु । श्रौषट् । पुरः । अग्निम् । धिया । दधे । आ । नु । तत् । शर्धः । दिव्यम् । वृणीमहे । इन्द्रवायू इति । वृणीमहे । यत् । ह । क्राणा । विवस्यति । नाभा । सम्-दायि । नव्यसी । अघ । प्र । सु । नः । उप । यन्तु । धीतयः । देवान् । अच्छ । न । धीतयः

1.139.2

यत् । ह । त्यत् । मित्रावरुणौ । ऋतात् । अधि । आददाथेइत्य् आददाथे । अनृतम् । स्वेन । मन्युना । दक्षस्य । स्वेन । मन्युना । युवोः । इत्था । अधि । सद्म-सु । अपश्याम । हिरण्ययम् । धीभिः । चन । मनसा । स्वेभिः । अक्ष-भिः । सोमस्य । स्वेभिः । अक्ष-भिः

1.139.3

युवाम् । सोमेभिः । देव-यन्तः । अश्विना । आश्रावयन्तः-इव । श्लोकम् । आयवः । युवाम् । हव्या । अभि । आयवः । युवोः । विश्वाः । अधि । श्रियः । पृक्षः । च । विश्व-वेदसा । प्रुषायन्ते । वाम् । पवयः । हिरण्यये । रथे । दस्र् । हिरण्यये

1.139.4

अचेति । दस्रा । वि । ओं इति । नाकम् । ऋण्वथः । युञ्जते । वाम् । रथ-युजः । दिविष्टिशु । अध्वस्मानः । दिवि ष्टिषु । अधि । वाम् । स्थाम । वन्धुरे । रथे । दस्रा । हिरण्यये । पथाइव । यन्तौ । अनु-शासता । रजः । अञ्जसा । सासता । रजः

1.139.5

शचीभिः । नः । शचीवसूइतिशची-वसू । दिवा । नक्तम् । दशस्यतम् । मा । वाम् । रातिः । उप । दसत् । कदा । चन । अस्मत् । रातिः । कदा । चन

1.139.6

॥3॥.
-र्व्_2:2।4-
वृषन् । इन्द्र । वृष-पानासः । इन्दवः । इमे । सुताः । अद्रि-सुतासः । उत्-भि दः । तुभ्यम् । सुतासः । उत्-भिदः । ते । त्वा । मन्दन्तु । दावने । महे । चित्राय । राधसे । गीः-भिः । गिर्वाहः । स्तवमानः । आ । गहि । सु-मृळीकः । नः । आ । गहि

1.139.7

ओ इति । सु । णः । अग्ने । शृणुहि । त्वम् । ईळितः । देवेभ्यः । ब्रवसि । यज्ञियेभ्यः । राज-भ्यः । यज्ञियेभ्यः । यत् । ह । त्याम् । अङ्गिरस्-भ्यः । धेनुम् । देवाः । अदत्तन । वि । ताम् । दुह्रे । अर्यमा । कर्तरि । सचा । एषः । ताम् । वेद । मेच । सचा

1.139.8

मो इति । सु । वः । अस्मत् । अभि । तानि । पैंस्या । सना । भूवन् । द्युम्नानि । मा । उत । जारि षुः । अस्मत् । पुरा । उत । जारिषुः । यत् । वः । चित्रम् । युगे--युगे । नव्यम् । घोषात् । अमर्त्यम् । अस्मासु । तत् । मरुतः । यत् । च । दुः-तरम् । द्चिधृत । यत् । च । दुः-तरम्

1.139.9

दध्यङ् । ह । मे । जनुषम् । पूर्वः । अङ्गिराः । प्रिय-मेधः । कण्वः । अत्रिः । मनुः । विदुः । ते । मे । पूर्वे । मनुः । विदुः । तेषाम् । देवेषु । आयतिः । अस्माकम् । तेषु । नाभयः । तेषाम् । पदेन । महि । आ । नमे । गिरा । इन्द्राग्नी इत्गि । आ । नमे । गिरा

1.139.10

होता । यक्षत् । वनिनः । वन्त । वार्यम् । बृहस्पतिः । यजति । वेनः । उक्ष-भिः । पुरु-वारेभिः । उक्ष-भिः । जगृम्भ । दूरे--आदिशम् । श्लोकम् । अद्रेः । अध । त्मना । अधारयत् । अरिरिन्दानि । सु-क्रतुः । पुरु । सद्मानि । सु-क्रतुः

1.139.11

ये । देवासः । दिवि । एकादश । स्थ । पृथिव्याम् । अधि । एकादश । स्थ । अप्सु-क्षितः । महिना । एकादश । स्थ । ते । देवासः । यज्ञम् । इमम् । जुषध्वम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc