ऋग्वेदसंहिता, पदपाठ · अध्याय 1.136
॥25॥.
-र्व्_2:1।26-
(र्व्_1,136)
प्र । सु । ज्येष्ठम् । नि-चिराभ्याम् । बृहत् । नमः । हव्यम् । मतिम् । भरत । मृळयत्-भ्याम् । स्वादिष्ठम् । मृळयत्-भ्याम् । ता । सम्-राजा । घृतासुती इतिघृत-आसुती । यज्ञे--यज्ञे । उप-स्तुता । अथ । एनोः । क्षत्रम् । न । कुतः । चन । आधृषे । देव-त्वम् । नु । चित् । आधृषे
अदर्शि । गातुः । उरवे । वरीयसी । पन्थाः । ऋतस्य । सम् । अयंस्त । रश्मि-भिः । चक्षुः । भगस्य । रश्मि-भिः । द्युक्षम् । मित्रस्य । सादनम् । अर्यम्णः । वरुणस्य । च । अथ । दधातेइति । बृहत् । उक्थ्यम् । वयः । उप-स्तुत्यम् । बृहत् । वयः
ज्योतिष्मतीम् । अदितिम् । धारयत्--क्षितिम् । स्वः-वतीम् । आ । सचेतेइति । दिवे--दिवे । जागृ-वांसा । दिवे--दिवे । ज्योतिश्मत् । क्षत्रम् । आशातेइति । आदित्या । दानुनः । पती । मित्रः । तयोः । वरुणः । यातयत्-जनः । अर्यमा । यातयत्-जनः
अयम् । मित्राय । वरुणाय । शम्-तमः । सोमः । भूतु । अव-पानेषु । आभगः । देवः । देवेषु । आभगः । तम् । देवासः । जुषेरत । विश्वे । अद्य । स-जोषसः । तथा । राजाना । करथः । यत् । ईमहे । ऋत-वाना । यत् । ईमहे
यः । मित्राय । वरुणाय । अविधत् । जनः । अनर्वाणम् । तम् । परि । पातः । अंहसः । दाश्वांसम् । मर्तम् । अंहसः । तम् । अर्यमा । अभि । रक्षति । ऋजु-यन्तम् । अनु । व्रतम् । उक्थैः । यः । एनोः । परि-भूषति । व्रतम् । स्तोमैः । आभूषति । व्र्तम्
नमः । दिवे । बृहते । रोदसीभ्याम् । मित्राय । वोचम् । वरुणाय । मीळ्हुषे । सु-मृळीकाय । मीळ्हुषे । इन्द्रम् । अग्निम् । उप । स्तुहि । द्युक्षम् । अर्यमणम् । भगम् । ज्योक् । जीवन्तः । प्र-जया । सचेमहि । सोमस्य । ऊती । सचेमहि
ऊती । देवानाम् । वियम् । इन्द्र-वन्तः । मंसीमहि । स्व-यशसः । मरुत्-भिः । अग्निः । मित्रः । वरुणः । शर्म । यंसन् । तत् । अश्याम । मघ-वानः । वयम् । च
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0