भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 1.135

1.135.1

॥23॥.
-र्व्_2:1।24-
(र्व्_1,135)
स्तीर्णम् । बर्हिः । उप । नः । याहि । वीतये । सहस्रेण । नि-युता । नियुत्वते । शतिनीभिः । नियुत्वते । तुभ्यम् । हि । पूर्व-पीतये । देवाः । देवाय । येमिरे । प्र । ते । सुतासः । मधु-मन्तः । अस्थिरन् । मदाय । क्रत्वे । अस्थिरन्

1.135.2

तुभ्य । अयम् । सोमः । परि-पूतः । अद्रि-भिः । स्पार्हा । वसानः । परि । कोशम् । अर्षति । शुक्रा । वसानः । अर्षति । तव । अयम् । भागः । आयुषु । सोमः । देवेषु । हूयते । वह । वायो इति । नि-युतः । याहि । अस्म-युः । जुषाणः । याहि । अस्म-युः

1.135.3

आ । नः । नियुत्-भिः । शतिनीभिः । अध्वरम् । सहस्रिणीभिः । उप । याहि । वीतये । वायो इति । हव्यानि । वीतये । तव । अयम् । भागः । ऋत्वियः । स-रश्मिः । सूर्ये । सचा । अध्वर्यु-भिः । भरमाणाः । अयंसत । वायो इति । शुक्राः । अयंसत

1.135.4

आ । वाम् । रथः । नियुत्वान् । वक्षत् । अवसे । अभि । प्रयांसि । सु-धितानि । वीतये । वायो इति । हव्यानि । वीतये । पिबतम् । मध्वः । अन्धसः । पूर्व-पेयम् । हि । वाम् । हितम् । वायो इति । आ । चन्द्रेण । राधसा । आ । गतम् । इन्द्रः । च । राधसा । आ । गतम्

1.135.5

आ । वाम् । धियः । ववृत्युः । अध्वरान् । उप । इमम् । इन्दुम् । मर्मृजन्त । वाजिनम् । आशुम् । अत्यम् । न । वाजिनम् । तेषाम् । पिबतम् । अस्मयू इत्य् अस्म-यू । आ । नः । गन्तम् । इह । ऊत्या । इन्द्रवायूइति । सुतानाम् । अद्रि-भिः । युवम् । मदाय । वाज-दा । युवम्

1.135.6

॥24॥.
-र्व्_2:1।25-
इमे । वाम् । सोमाः । अप्-सु । आ । सुताः । इह । अध्वर्यु-भिः । भरमाणाः । अयंसत । वायो इति । शुक्राः । अयंसत । एते । वाम् । अभि । असृक्षत । तिरः । पवित्रम् । आशवः । युवायवः । अति । रोमाणि । अव्यया । सोमासः । अति । अव्यया

1.135.7

अति । वायो इति । ससतः । याहि । शश्वतः । यत्र । ग्रावा । वदति । तत्र । गच्छतम् । गृहम् । इन्द्रः । च । गच्छतम् । वि । सूनृता । ददृशे । रीयते । घृतम् । आ । पूर्णया । नि-युता । याथः । अध्वरम् । इन्द्रः । च । याथः । अध्वरम्

1.135.8

अत्र । अह । तत् । वहेथेइति । मध्वः । आहुतिम् । यम् । अश्वत्थम् । उप-तिष्ठन्त । जायवः । अस्मे इति । ते । सन्तु । जायवः । साकम् । गावः । सुवते । पच्यते । यवः । न । ते । वायो इति । उप । दस्यन्ति । धेनवः । न । अप । दस्यन्ति । धेनवः

1.135.9

इमे । ये । ते । सु । वायो इति । बाहु-ओजसः । अन्तः । नदी इति । ते । पतयन्ति । उक्षणः । महि । व्राधन्तः । उक्षणः । धन्वन् । चित् । ये । अनाशवः । जीराः । चित् । अगिराओकसः । सूर्यस्य-इव । रश्मयः । दुः-नियन्तवः । हस्तयोः । दुः-नियन्तवः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc