ऋग्वेदसंहिता, पदपाठ · अध्याय 1.131
॥19॥.
-र्व्_2:1।20-
(र्व्_1,131)
इन्द्राय । हि । द्यौः । असुरः । अनम्नत । इन्द्राय । मही । पृथिवी । वरीम-भिः । द्युम्न-साता । वरीम-भिः । इन्द्रम् । विश्वे । स-जोषसः । देवासः । दधिरे । पुरः । इन्द्राय । विश्वा । सवनानि । मानुषा । रातानि । सन्तु । मानुषा
विश्वेषु । हि । त्वा । सवनेषु । तुञ्जते । समानम् । एकम् । वृष-मन्यवः । पृथक् । स्वआऋःरितिस्वः । सनिष्यवः । पृथक् । तम् । त्वा । नावम् । न । पर्षणि म् । शूषस्य । धुरि । धीमहि । इन्द्रम् । न । यज्ञैः । चितयन्तः । आयवः । स्तोमेभिः । इन्द्रम् । आयवः
वि । त्वा । ततस्रे । मिथुनाः । अवस्यवः । व्रजस्य । साता । गव्यस्य । निः-सृजः । सक्षन्तः । इन्द्र । निः-सृजः । यत् । गव्यन्ता । द्वा । जना । स्वः । यन्ता । सम्-ऊहसि । आविः । करिक्रत् । वृषणम् । सचाभुवम् । वज्रम् । इन्द्र । सचाभुवम्
विदुः । ते । अस्य । वीर्यस्य । पूरवः । पुरः । यत् । इन्द्र । शारदीः । अव-अत् इरः । ससहानः । अव-अतिरः । शासः । तम् । इन्द्र । मर्त्यम् । अयज्युम् । शवसः । पते । महीम् । अमुष्णाः । पृथिवीम् । इमाः । अपः । मन्दसानः । इमाः । अपः
आत् । इत् । ते । अस्य । वीर्यस्य । चर्किरन् । मदेषु । वृषन् । उशिजः । यत् । आविथ । सखि-यतः । यत् । आविथ । चकर्थ । कारम् । एभ्यः । पृतनासु । प्र-वन्तवे । ते । अन्याम्-अन्याम् । नद्यम् । सनिष्णत । श्रवस्यन्तः । सनिष्णत
उतो इति । नः । अस्याः । उषसः । जुषेत । हि । अर्कस्य । बोधि । हविषः । हवीम-भ् इः । स्वः-साता । हवीम-भिः । यत् । इन्द्र । हन्तवे । मृधः । वृषा । वज्रिन् । चिकेतसि । आ । मे । अस्य । वेधसः । नवीयसः । मन्म । श्रुधि । नवीयसः
त्वम् । तम् । इन्द्र । ववृधानः । अस्म-युः । अमित्र-यन्तम् । तुवि-जात । मर्त्यम् । वज्रेण । शूर । मर्त्यम् । जहि । यः । नः । अघ-यति । शृणुष्व । सुश्रवः-तमः । रिष्टम् । न । यामन् । अप । भूतु । दुः-मतिः । विश्वा । अप । भूतु । दुः-मतिः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0