ऋग्वेदसंहिता, पदपाठ · अध्याय 1.130
॥17॥.
-र्व्_2:1।18-
(र्व्_1,130)
आ । इन्द्र । । याहि । उप । नः । परावतः । न । अयम् । अच्छ । विदथानि-इव । सत्-पतिः । अस्तम् । राजाइव । सत्-पतिः । हवामहे । त्वा । वयम् । प्रयस्वन्तः । सुते । सचा । पुत्रासः । न । पितरम् । वाज-सातये । मंहिष्ठम् । वाज-सातये
पिब । सोमम् । इन्द्र । सुवानम् । अद्रि-भिः । कोशेन । सिक्तम् । अवतम् । न । वंसगः । ततृषाणः । न । वंसगः । मदाय । हर्यताय । ते । तुविः-तमाय । धायसे । आ । त्वा । यच्छन्तु । हरितः । न । सूर्यम् । अहा । विश्वाइव । सूर्यम्
अविन्दत् । दिवः । नि-हितम् । गुहा । निधिम् । वेः । न । गर्भम् । परि-वीतम् । अश्मनि । अनन्ते । अन्तः । अश्मनि । व्रजम् । वज्री । गवाम्-इव । सिसासन् । अङ्गिरः-तमः । अप । अवृणोत् । इषः । इन्द्रः । परि-वृताः । द्वारः । इषः । परि-वृताः
दादृहाणः । वज्रम् । इन्द्रः । गभस्त्योः । क्षद्म-इव । तिग्मम् । असनाय । सम् । श्यत् । अहि-हत्याय । सम् । श्यत् । सम्-विव्यानः । ओजसा । शवः-भिः । इन्द्र । मज्मना । तष्टाइव । वृक्षम् । वनिनः । नि । वृश्चसि । परश्वाइव । नि । वृश्चसि
त्वम् । वृथा । नद्यः । इन्द्र । सर्तवे । अच्छ । समुद्रम् । असृजः । रथान्-इव । वाजयतः । रथान्-इव । इतः । ऊतीः । अयुञ्जत । समानम् । अर्थम् । अक्षितम् । धेनूः-इव । मनवे । विश्व-दोहसः । जनाय । विश्व-दोहसः
॥18॥.
-र्व्_2:1।19-
इमाम् । ते । वाचम् । वसु-यन्तः । आयवः । रथम् । न । धीरः । सु-अपाः । अतक्ष् इषुः । सुम्नाय । त्वाम् । अतक्षिषुः । शुम्भन्तः । जेन्यम् । यथा । वाजेषु । विप्र । वाजिनम् । अत्यम्-इव । शवसे । सातये । धना । विश्वा । धनानि । सातये
भिनत् । पुरः । नवतिम् । इन्द्र । पूरवे । दिवः-दासाय । महि । दाशुषे । नृतो
इति । वज्रेण । दाशुषे । नृतो इति । अतिथि-ग्वाय । शम्बरम् । गिरेः । उग्रः । अव । अभरत् । महः । धनानि । दयमानः । ओजसा । विश्वा । धनानि । ओजसा
इन्द्रः । समत्-सु । यजमानम् । आर्यम् । प्र । आवत् । विश्वेषु । शतम्-ऊतिः । आजिषु । स्वः-मीळ्हेषु । आजिषु । मनवे । शासत् । अव्रतान् । त्वचम् । कृष्णाम् । अरन्धयत् । दक्षम् । न । विश्वम् । ततृषाणम् । ओषति । नि । अर्शसानम् । ओष्चति
सूरः । चक्रम् । प्र । वृहत् । जातः । ओजसा । प्र । पित्वे । वाचम् । अरुणः । मुषायति । ईशानः । आ । मुषायति । उशना । यत् । परावतः । अजगन् । ऊतये । कवे । सुम्नानि । विश्वा । मनुषाइव । तुर्वणिः । अहा । विश्वाइव । तुर्वणिः
सः । नः । नव्येभिः । वृष-कर्मन् । उक्थैः । पुराम् । दर्तरितिदर्तः । पायु-भिः । पाहि । शग्मैः । दिवः-दासेभिः । इन्द्र । स्तवानः । ववृधीथाः । अहोभिः-इव । द्यौः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0