भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 9

9.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये बककल्पसमुद्भवो नामाष्टमो ऽध्यायः ॥
र्क्व् अध्याय 9
श्रीमार्कण्डेय उवाच:
पुनर्युगान्तं ते चान्यं सम्प्रवक्ष्यामि तच्छृणु ।
सूर्यैरादीपिते लोके जङ्गमे स्थावरे पुरा

9.2

सरित्सरःसमुद्रेषु क्षयं यातेषु सर्वशः ।
निर्मानुषवषट्कारे ह्यमर्यादगतिं गते

9.3

नानारूपैस्ततो मेधैः शक्रायुधविराजितैः ।
सर्वमापूरितं व्योम वार्यौघैः पूरिते तदा

9.4

ततस्त्वेकार्णवीभूते सर्वतः सलिलावृते ।
जगत्कृत्वोदरे सर्वं सुष्वाप भगवान्हरः

9.5

प्रकृतिं स्वामवष्टभ्य योगात्मा स प्रजापतिः ।
शेते युगसहस्रान्तं कालमाविश्य सार्णवम्

9.6

तत्र सुप्तं महात्मानं ब्रह्मलोकनिवासिनः ।
भृग्वादिऋषयः सर्वे ये चान्ये सनकादयः

9.7

पर्यङ्के विमले शुभ्रे नानास्तरणसंस्तृते ।
शयानं ददृशुर्देवं सपत्नीकं वृषध्वजम्

9.8

विश्वरूपा तु सा नारी विश्वरूपो महेश्वरः ।
गाढमालिङ्ग्य सुप्तस् तां ददृशे चाहमव्ययम्

9.9

पादमूले ततस्तस्य श्यामां तां पद्मलक्षणाम् ।
कन्यां पश्यामि सुश्रोणीं चरणौ तस्य मृद्गतीम्

9.10

विमलाम्बरसंवीतां व्यालयज्ञोपवीतिनीम् ।
श्यामां कमलपत्राक्षीं सर्वाभरणभूषिताम्

9.11

सकलं युगसाहस्रं नर्मदेयं विजानती ।
प्रसुप्तं देवदेवेशमुपास्ते वरवर्णिनी

9.12

हृतैर्वेदैश्चतुर्भिश्च ब्रह्माप्येवं महेश्वरः ।
भृग्वाद्यैर्मानसैः पुत्रैः स्तौति शङ्करमव्ययम्

9.13

भक्त्या परमया राजंस्तत्र शम्भुम् अनामयम् ।
स्तुवन्तस्तत्र देवेशं मन्त्रैरीश्वरसम्भवैः

9.14

प्रसुप्तं देवमीशानं बोधयन्समुपस्थितः ।
उत्तिष्ठ हर पिङ्गाक्ष महादेव महेश्वर

9.15

मम वेदा हृताः सर्वे अतो ऽहं स्तोतुमुद्यतः ।
वेदैर्व्याप्तं जगत्सर्वं दिव्यादिव्यं चराचरम्

9.16

अतीतं वर्तमानं च स्मरामि च सृजाम्यहम् ।
तैर्विना चाहमेकस्तु मूको ऽधो जडवत्सदा

9.17

गतिर्वीर्यं बलोत्साहौ तैर्विना न प्रजायते ।
तैर्विना देवदेवेश नाहं किंचित् स्मरामि वै

9.18

तान्वेदान्देवदेवेश शीघ्रं मे दातुमर्हसि ।
जडान्धबधिरं सर्वं जगत्स्थावरजङ्गमम्

9.19

स्थानादि दश चत्वारि न शोभन्ते सुरेश्वर ।
प्रणमाम्य् अल्पवीर्यत्वाद् वेदहीनः सुरेश्वर

9.20

वेदेभ्यः सकलं जातं यत्किंचित्सचराचरम् ।
तावच्छोभन्ति शास्त्राणि समस्तानि जगद्गुरो

9.21

यावद्वेदनिधिरयं नोपतिष्ठेत्सनातनः ।
यथोदितेन सूर्येण तमो याति विनाशताम्

9.22

एवं समस्तपापानि यान्ति वेदस्य धारणात् ।
वेदे रहसि यत्सूक्ष्मं यत्तद्ब्रह्म सनातनम्

9.23

हृदिस्थं देव जानामि गतं तद्वेदगर्जनात् ।
वेदानुच्चरतो मे ऽद्य तव शङ्कर चाग्रतः

9.24

अकस्मात्ते गता वेदा न सृजेयं विभो भुवम् ।
ते ऽपि सर्वे महादेव प्रविष्टाः सम्मुखार्णवम्

9.25

ते याच्यमाना देवेश तिष्ठन्तु स्मरणे मम ।
दुहितेयं विशालाक्षी सर्वः सर्वं विजानते

9.26

जायती युगसाहस्रं नान्या काचिद्भवेदृशी ।
ऋषिश्चायं महाभागो मार्कण्डो धीमतां वरः

9.27

कल्पे कल्पे महादेव त्वामयं पर्युपासते ।
जगत्त्रयहितार्थाय चरते व्रतमुत्तमम्

9.28

एवमुक्तस्तु देवेशो ब्रह्मणा परमेष्ठिना ।
उवाच श्लक्ष्णया वाचा नर्मदां सरितां वराम्

9.29

कथयस्व महाभागे ब्रह्मणस्त्वं तु पृच्छतः ।
केन वेदा हृताः सर्वे वेधसो जगतीगुरोः

9.30

एवमुक्ता तु रुद्रेण उवाच मृगलोचना ।
ब्रह्मणो जपतो वेदांस्त्वयि सुप्ते महेश्वर

9.31

भवतश्छिद्रमासाद्य घोरे ऽस्मिन्सलिलावृते ।
पूर्वकल्पसमुद्भूतावसुरौ सुरदुर्जयौ

9.32

श्रियावृत्तौ महादेव त्वया चोत्पादितौ पुरा ।
सुरासुरसुदुर्जेयौ दानवौ मधुकैटभौ

9.33

तौ वायुभूतौ सूक्ष्मौ च पठतो ऽस्मात्पितामहात् ।
तावाशु हृत्वा वेदांश्च प्रविष्टौ च महार्णवम्

9.34

एतच्छ्रुत्वा महातेजा ह्यमृतायास्ततो वचः ।
सस्मार स च देवेशं शङ्खचक्रगदाधरम्

9.35

स विवेश महाराज भूतलं ससुरोत्तमः ।
दानवान्तकरो देवः सर्वदैवतपूजितः

9.36

मीनरूपधरो देवो लोडयामास चार्णम् ।
वेदांश्च ददृशे तत्र पाताले निहितान्प्रभुः

9.37

तौ च दैत्यौ महावीर्यौ दृष्टवान्मधुसूदनः ।
महावेगौ महाबाहू सूदयामास तेजसा

9.38

वेदांस्तत्रापि तोयस्थानानिनाय जगद्गुरुः ।
चतुर्वक्त्राय देवायाददाच्चक्रविभूषितः

9.39

ततः प्रहृष्टो भगवान् वेदांल्लब्ध्वा पितामहः ।
जनयामास निखिलं जगद्भूयश्चराचरम्

9.40

सा च देवी नदी पुण्या रुद्रस्य परिचारिका ।
पावनी सर्वभूतानां प्रोवाह सलिलं तदा

9.41

तस्यास्तीरे ततो देवा ऋषयश्च तपोधनाः ।
यजन्ति त्र्यम्बकं देवं प्रहृष्टेनान्तरात्मना

9.42

एका मूर्तिर्महेशस्य कारणान्तरगता ।
त्रैगुण्या कुरुते कर्म ब्रह्मचक्रीशरूपतः

9.43

एतेषां तु पृथग्भावं ये कुर्वन्ति सुमोहिताः ।
तेषां धर्मः कुतः सिद्धिर्जायते पापकर्मिणाम्

9.44

एवमेता महानद्यस्तिस्रो रुद्रसमुद्भवाः ।
एका एव त्रिधा भूता गङ्गा रेवा सरस्वती

9.45

गङ्गा तु वैष्णवी मूर्तिः सर्वपापप्रणाशिनी ।
रुद्रदेहसमुद्भूता नर्मदा चैवमेव तु

9.46

ब्राह्मी सरस्वती मूर्तिस्त्रिषु लोकेषु विश्रुता ।
दिव्या कामगमा देवी वाग्विभूत्यै तु संस्थिता

9.47

नर्मदा परमा काचिन्मर्त्यमूर्तिकला शिवा ।
दिव्या कामगमा देवी सर्वत्र सुरपूजिता

9.48

व्यापिनी सर्वभूतानां सूक्ष्मात्सूक्ष्मतरा स्मृता ।
अक्षया ह्यमृता ह्येषा स्वर्गसोपानमुत्तमा

9.49

सृष्टा रुद्रेण लोकानां संसारार्णवतारिणी

9.50

सीरजलं ये ऽपि पिबन्ति लोके मुच्यन्ति ते पापविशेषसङ्घैः ।
व्रजन्ति संसारमनादिभावं त्यक्त्वा चिरं मोक्षपदं विशुद्धम्

9.51

यथा गङ्गा तथा रेवा तथा चैव सरस्वती ।
समं पुण्यफलं प्रोक्तं स्नानदर्शनचिन्तनैः

9.52

वरदानान्महाभागा ह्यधिका चोच्यते बुधैः ।
कारुण्यान्तरभावेन न मृता समुपागता

9.53

मुच्यन्ते दर्शनात्तेन पातकैः स्नानमङ्गलैः ।
नर्मदायां नृपश्रेष्ठ ये नमन्ति त्रिलोचनम्

9.54

उमारुद्राङ्गसम्भूता येन चैषा महानदी ।
लोकान्प्रापयते स्वर्गं तेन पुण्यत्वमागता

9.55

य एवमीशानवरस्य देहं विभज्य देवीमिह संशृणोति ।
स याति रुद्रं महतारवेण गन्धर्वयक्षैरिव गीयमानः

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc