भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 81

81.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नन्दिकेश्वरतीर्थमाहात्म्यवर्णनं नामाशीतितमो ऽध्यायः ॥
र्क्व् अध्याय 81
श्रीमार्कण्डेय उवाच:
ततो गच्छेन्महाराज वरुणेश्वरमुत्तमम् ।
यत्र सिद्धो महादेवो वरुणो नृपसत्तम

81.2

पिण्याकशाकपर्णैश्च कृच्छ्रचान्द्रायणादिभिः ।
आराध्य गिरिजानाथं ततः सिद्धिं परां गतः

81.3

तत्र तीर्थे तु यः स्नात्वा संतर्प्य पितृदेवताः ।
पूजयेच्छङ्करं भक्त्या स याति परमां गतिम्

81.4

कुण्डिकां वर्धनीं वापि महद्वा जलभाजनम् ।
अन्नेन सहितं पार्थ तस्य पुण्यफलं शृणु

81.5

यत्फलं लभते मर्त्यः सत्रे द्वादशवार्षिके ।
तत्फलं समवाप्नोति नात्र कार्या विचारणा

81.6

सर्वेषामेव दानानामन्नदानं परं स्मृतम् ।
सद्यः प्रीतिकरं तोयमन्नं च नृपसत्तम

81.7

तत्रतीर्थे मृतानां तु नराणां भावितात्मनाम् ।
वरुणस्य पुरे वासो यावद् आभूतसंप्लवम्

81.8

पश्चात्पूर्णे ततः काले मर्त्यलोके प्रजायते ।
अन्नदानप्रदो नित्यं जीवेद् वर्षशतं नरः

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc