रेवाखाण्ड (संशोधित पाठ) · अध्याय 71
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रवितीर्थमाहात्म्यवर्णनं नाम सप्ततितमो ऽध्यायः ॥
र्क्व् अध्याय 71
श्रीमार्कण्डेय उवाच:
कामेश्वरं ततश्चान्यच्छृणु पाण्डवसत्तम ।
सिद्धो यत्र गणाध्यक्षो गौरीपुत्रो महाबलः
तत्र तीर्थे तु यो भक्त्या भक्तियुक्तो जितेन्द्रियः ।
पञ्चामृतेन संस्नाप्य धूपनैवेद्यपूजनैः
प्रसाद्य जगतामीशं सर्वपापैः प्रमुच्यते ।
अष्टम्यां मार्गशीर्षस्य तत्र स्नात्वा युधिष्ठिर
यो येन यजते तत्र स तं काममवाप्नुयात्
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0