भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 70

70.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मङ्गलेश्वरतीर्थमाहात्म्यवर्णनं नामैकोनसप्ततितमो ऽध्यायः ॥
र्क्व् अध्याय 70
श्रीमार्कण्डेय उवाच:
रेवाया उत्तरे कूले तीर्थं परमशोभनम् ।
रविणा निर्मितं पार्थ सर्वपापक्षयंकरम्

70.2

स्वांशेन भास्करस्तत्र तिष्ठते चोत्तरे तटे ।
सर्वव्याधिहरः पुंसां नर्मदायां व्यवस्थितः

70.3

षष्ठ्यांषष्ठ्यां नृपश्रेष्ठ ह्यष्टम्यां च चतुर्दशीम् ।
स्नानं यः कारयेन्मर्त्यः श्राद्धं प्रेतेषु भक्तितः ।
तस्य पापक्षयः पार्थ सूर्यलोके महीयते

70.4

ततः स्वर्गाच्च्युतः सो ऽपि जायते विमले कुले ।
धनाढ्यो व्याधिनिर्मुक्तो जीवेज्जन्मनिजन्मनि

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc