रेवाखाण्ड (संशोधित पाठ) · अध्याय 227
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे विमलेश्वरतीर्थमाहात्म्यवर्णनं नाम षड्विंशत्यधिकद्विशततमो ऽध्यायः ॥
र्क्व् अध्याय 227
मार्कण्डेय उवाच:
एतानि तव संक्षेपात् प्राधान्यात् कथितानि च ।
न शक्तो विस्तराद् वक्तुं संख्यां तीर्थेषु पाण्डव
एषा पवित्रा विमला नदी त्रैलोक्यविश्रुता ।
नर्मदा सरितां श्रेष्ठा महादेवस्य वल्लभा
मनसा संस्मरेद् यस्तु नर्मदां सततं नृप ।
चान्द्रायणशतस्याशु लभते फलमुत्तमम्
अश्रद्दधानाः पुरुषा नास्तिकाश्चात्र ये स्थिताः ।
पतन्ति नरके घोरे प्राहैवं परमेश्वरः
नर्मदां सेवते नित्यं स्वयं देवो महेश्वरः ।
तेन पुण्या नदी ज्ञेया ब्रह्महत्यापहारिणी
इयं माहेश्वरी गङ्गा महेश्वरतनूद्भवा ।
प्रोक्ता दक्षिणगङ्गेति भारतस्य युधिष्ठिर
जाह्नवी वैष्णवी गङ्गा ब्राह्मी गङ्गा सरस्वती ।
इयं माहेश्वरी गङ्गा रेवा नास्त्यत्र संशयः
यथा हि पुरुषे देवस् त्रैमूर्तत्वम् उपाश्रितः ।
ब्रह्मविष्णुमहेशाख्यं न भेदस् तत्र वै यथा ।
तथा सरित्त्रये पार्थ भेदं मनसि मा कृथाः
कोटिशो ह्यत्र तीर्थानि लक्षशश्चापि भारत ।
तथा सहस्रशो रेवातीरद्वयगतानि तु
वृक्षान्तरिक्षसंस्थानि जलस्थलगतानि च ।
कः शक्तस्तानि निर्णेतुं वागीशो वा महेश्वरः
स्मरणाज्जन्मजनितं दर्शनाच्च त्रिजन्मजम् ।
सप्तजन्मकृतं नश्येत् पापं रेवावगाहनात्
देवकार्यं कृतं तेन अग्नयो विधिवद्धुताः ।
वेदा अधीताश्चत्वारो येन रेवावगाहिता
प्राधान्याच्चापि संक्षेपात् तीर्थान्युक्तानि ते मया ।
न शक्यो विस्तरः पार्थ श्रोतुं वक्तुं च वै मया
युधिष्ठिर उवाच:
विधानं च यमांश्चैव नियमांश्च वदस्व मे ।
प्रायश्चित्तार्थगमने को विधिस्तं वदस्व मे
श्रीमार्कण्डेय उवाच:
साधु पृष्टं महाराज यच्छ्रेयः पारलौकिकम् ।
शृणुष्वावहितो भूत्वा यथाज्ञानं वदामि ते
अध्रुवेण शरीरेण ध्रुवं कर्म समाचरेत् ।
अवश्यमेव यास्यन्ति प्राणाः प्राघूर्णिका इव
दानं वित्तादृतं वाचः कीर्तिधर्मौ तथा ख्युषः ।
परोपकरणं कायादसारात्सारम् उद्धरेत्
अस्मिन्महामोहमये कटाहे सूर्याग्निना रात्रिदिवेन्धनेन ।
मासर्तुदर्वीपरिघट्टनेन भूतानि कालः पचतीति वार्ता
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुम् इहार्हसि ।
नायं लोको ऽस्ति न परो न सुखं संशयात्मनः
मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ ।
यादृशी भावना यस्य सिद्धिर् भवति तादृशी
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह
यः शास्त्रविधिम् उत्सृज्य वर्तते कामकारतः ।
न स सिद्धिम् अवाप्नोति न सुखं न परां गतिम्
सन्तीह विविधोपाया नृणां देहविशोधनाः ।
तीर्थसेवासमं नास्ति स्वशरीरस्य शोधनम्
कृच्छ्रचान्द्रायणाद् यैर् वा द्वितीयं तीर्थसेवया ।
यदा तीर्थं समुद्दिश्य प्रयाति पुरुषो नृप ।
तदा देवाश्च पितरस् तं व्रजन्त्यनु खेचराः
परमा मोदपूर्णास्ते प्रयान्त्य् अस्यानुयायिनः ।
कृत्वाभ्युदयिकं श्राद्धं समापृच्छय तु देवताम्
इष्टबन्धूंश्च विष्णुं च शङ्करं सगणेश्वरम् ।
व्रजेद्द्विजाभ्यनुज्ञातो गृहीत्वा नियमानपि
एकाशनं ब्रह्मचर्यं भूशय्यां सत्यवादिताम् ।
वर्जनं च परान्नस्य प्रतिग्रहविवर्जनम्
वर्जयित्वा तथा द्रोहवञ्चनादि नृपोत्तम ।
साधुवेषं समास्थाय विनयेन विभूषितः
दम्भाहङ्कारमुक्तो यः स तीर्थफलमश्नुते ।
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम्
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ।
अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः
आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ।
मुण्डनं चोपवासश्च सर्वतीर्थेष्वयं विधिः
वर्जयित्वा कुरुक्षेत्रं विशालां विरजां गयाम् ।
स्नानं सुरार्चनं चैव श्राद्धे वै पिण्डपातनम्
विप्राणां भोजनं शक्त्या सर्वतीर्थेष्वयं विधिः ।
प्रायश्चित्तनिमित्तं च यो व्रजेद्यतमानसः
तस्यापि च विधिं वक्ष्ये शृणु पार्थ समाहितः ।
एकाशनं ब्रह्मचर्यमक्षारलवणाशनम्
स्नात्वा तीर्थाभिगमनं हविष्यैकान्नभोजनम् ।
वर्जयेत् पतितालापं बहुभाषणमेव च
परीवादं परान्नं च नीचसङ्गं विवर्जयेत् ।
व्रजेच्च निरुपानत्को वसानो वाससी शुचिः
संकल्पं मनसा कृत्वा ब्राह्मणानुज्ञया व्रजेत् ।
तीर्थे गत्वा तथा स्नात्वा कृत्वा चैव सुरार्चनम्
दुष्कर्मतो विमुक्तः स्याद् अनुतापी भवेद् यदि ।
वेदे तीर्थे च देवे च दैवज्ञे चौषधे गुरौ
यादृशी भावना यस्य सिद्धिर् भवति तादृशी ।
उक्ततीर्थफलानां च पुराणेषु स्मृतिष्वपि
अर्थवादभवां शङ्कां विहाय भरतर्षभ ।
कृत्वा विचारं शास्त्रोक्तं परिकल्प्य यथोचितम्
कायेन कृच्छ्रचरणे ह्यशक्तानां विशुद्धये ।
ज्ञात्वा तीर्थाविशेषं हि प्रायश्चित्तं समाचरेत्
तच्छृणुष्व महाराज नर्मदायां यथोचितम् ।
चतुर्विंशतिसंख्येभ्यो योजनेभ्यो व्रजेन्नरः
चतुर्विंशतिकृच्छ्राणां फलमाप्नोति शोभनम् ।
अत ऊर्ध्वं योजनेषु पादकृच्छ्रम् उदाहृतः
तन्मध्ये च महाराज यो व्रजेच्छुद्धिकाङ्क्षया ।
योजने योजने तस्य प्रायश्चित्तं विदुर्बुधाः
प्रणवाख्ये महाराज तथा रेवोरिसंगमे ।
भृगुक्षेत्रे तथा गत्वा फलं तद्द्विगुणं स्मृतम्
सङ्गमे देवनद्याश्च शूलभेदे नृपोत्तम ।
द्विगुणं पादहीनं स्यात् करजासंगमे तथा
एरण्डीसङ्गमे तद्वत् कपिलायाश्च संगमे ।
केचित् त्रिगुणितं प्राहुः कुब्जारेवोत्थसङ्गमे
ओंकारे च महाराज तदपि स्यात् समञ्जसम् ।
सङ्गमेषु तथान्यासां नदीनां रेवया सह
प्राहुस्ते सार्धकृच्छ्रं वै फलं पूर्वं युधिष्ठिर ।
त्रिगुणं कृच्छ्रम् आप्नोति रेवासागरसङ्गमे
कृच्छ्रं चतुर्गुणं प्रोक्तं शुक्लतीर्थे युधिष्ठिर ।
योजने योजने गत्वा चतुर्विंशतियोजनम् ।
तत्र तत्र वसेद्यस्तु सुचिरं नृवरोत्तम
रेवासेवासमाचारः संयुक्तः शुद्धबुद्धिमान् ।
दम्भाहङ्काररहितः शुद्ध्यर्थं स विमुच्यते
इति ते कथितं पार्थ प्रायश्चित्तार्थलक्षणम् ।
रेवायात्राविधानं च गुह्यमेतद् युधिष्ठिर
युधिष्ठिर उवाच:
योजनस्य प्रमाणं मे वद त्वं मुनिसत्तम ।
यज्ज्ञात्वा निश्चितं मे स्यान् मनःशुद्धेस्तु कारणम्
मार्कण्डेय उवाच:
शृणु पाण्डव वक्ष्यामि प्रमाणं योजनस्य यत् ।
तथा यात्राविशेषेण विशेषं कृच्छ्रसम्भवम्
तिर्यग्यवोदराण्यष्टावूर्ध्वा वा व्रीहयस्त्रयः ।
प्रमाणमङ्गुलस्याहुर्वितस्तिर् द्वादशांगुला
वितस्तिद्वितयं हस्तश्चतुर्हस्तं धनुः स्मृतम् ।
स एव दण्डो गदितो विशेषज्ञैर् युधिष्ठिर
धनुःसहस्रे द्वे क्रोशश् चतुःक्रोशं च योजनम् ।
एतद्योजनमानं ते कथितं भरतर्षभ
येन यात्रां व्रजन् वेत्ति फलमानं निजार्जितम् ।
उक्तं कृच्छ्रफलं तीर्थे जलरूपे नृपोत्तम
यथाविशेषं ते वच्मि पूर्वोक्ते तत्र तत्र च ।
तन्मे शृणु महीपाल श्रद्दधानाय कथ्यते
यस्मिंस्तीर्थे हि यत्प्रोक्तं फलं कृच्छ्रादिकं नृप ।
तत्राप्युपोषणात् कृच्छ्रफलं प्राप्नोत्यथाधिकम्
दिनजाप्याच्च लभते फलं कृच्छ्रस्य शक्तितः ।
तत्र विख्यातदेवेशं स्नात्वा दृष्ट्वाभिपूज्य च
प्रणम्य लभते पार्थ फलं कृच्छ्रभवं सुधीः ।
तीर्थे मुख्यफलं स्नानाद् द्वितीयं चाप्युपोषणात्
तृतीयं ख्यातदेवस्य दर्शनाभ्यर्चनादिभिः ।
चतुर्थं जाप्ययोगेन देहशक्त्या त्वहर्निशम्
पञ्चमं सर्वतीर्थेषु कल्पनीयं हि दूरतः ।
तीरस्थो योजनादर्वाग्दशांशं लभते फलम्
उक्ततीर्थफलात्पार्थ नात्र कार्या विचारणा
उपवासेन सहितं महानद्यां हि मज्जनम् ।
अप्यर्वाग्योजनात्पार्थ दद्यात्कृच्छ्रफलं नृणाम्
षड्योजनवहा कुल्य नद्यो ऽल्पा द्वादशैव च ।
चतुर्विंशतिगा नद्यो महानद्यस् ततो ऽधिकाः
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0