रेवाखाण्ड (संशोधित पाठ) · अध्याय 179
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे गङ्गावहकतीर्थमाहात्म्यवर्णनं नामाष्टसप्तत्युत्तरशततमो ऽध्यायः ॥
र्क्व् अध्याय 179
मार्कण्डेय उवाच:
ततो गच्छेत्तु राजेन्द्र गौतमेश्वरमुत्तमम् ।
सर्वपापहरं तीर्थं त्रिषु लोकेषु विश्रुतम्
गौतमेन तपस्तप्तं तत्र तीर्थे युधिष्ठिर ।
दिव्यं वर्षसहस्रं तु ततस्तुष्टो महेश्वरः
प्रणम्य शिरसा तत्र स्थापितः परमेश्वरः ।
स्थापितो गौतमेनेशो गौतमेश्वर उच्यते
तत्र देवैश्च गन्धर्वैर् ऋषिभिः पितृदैवतैः ।
सम्प्राप्ता ह्युत्तमा सिद्धिर् आराध्य परमेश्वरम्
तत्र तीर्थे तु यः स्नात्वा पूजयेत् पितृदेवताः ।
पूजयेत् परमीशानं सर्वपापैः प्रमुच्यते
बहवस्तन्न जानन्ति विष्णुमायाविमोहिताः ।
तत्र संनिहितं देवं शूलपाणिं महेश्वरम्
ब्रह्मचारी तु यो भूत्वा तत्र तीर्थे नरेश्वर ।
स्नात्वार्चयेन् महादेवं सो ऽश्वमेधफलं लभेत्
ब्रह्मचारी तु यो भूत्वा तर्पयेत् पितृदेवताः ।
पूजयेत् परमीशानं सर्वपापैः प्रमुच्यते
तत्र तीर्थे तु यो दानं भक्त्या दद्याद् द्विजातये ।
तदक्षयफलं सर्वं नात्र कार्या विचारणा
मासे चाश्वयुजे राजन् कृष्णपक्षे चतुर्दशीम् ।
स्नात्वा तत्र विधानेन दीपकानां शतं ददेत्
पूजयित्वा महादेवं गन्धपुष्पादिभिर् नरः ।
मुच्यते सर्वपापेभ्यो मृतः शिवपुरं व्रजेत्
अष्टम्यां च चतुर्दश्यां कार्त्तिक्यां तु विशेषतः ।
उपोष्य प्रयतो भूत्वा घृतेन स्नापयेच्छिवम्
पञ्चगव्येन मधुना दध्ना वा शीतवारिणा ।
स च सर्वस्य यज्ञस्य फलं प्राप्नोति मानवः
भक्त्या तु पूजयेत् पश्चात् स लभेत् फलमुत्तमम् ।
बिल्वपत्रैरखण्डैश्च पुष्पैरुन्मत्तकोद्भवैः
कुशापामार्गसहितैः कदम्बद्रोणजैरपि ।
मल्लिकाकरवीरैश्च रक्तपीतैः सितासितैः
पुष्पैरन्यैर्यथालाभं यो नरः पूजयेच्छिवम् ।
नैरन्तर्येण षण्मासं यो ऽर्चयेद् गौतमेश्वरम् ।
सर्वान्कामानवाप्नोति मृतः शिवपुरं व्रजेत्
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0