रेवाखाण्ड (संशोधित पाठ) · अध्याय 176
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कपिलेश्वरतीर्थमाहात्म्यवर्णनं नाम पञ्चसप्ताधिकशततमो ऽध्यायः ॥
र्क्व् अध्याय 176
श्रीमार्कण्डेय उवाच:
ततो गच्छेन्महीपाल पिङ्गलावर्तमुत्तमम् ।
तीर्थं सर्वगुणोपेतं कामिकं भुवि दुर्लभम्
वाचिकं मानसं पापं कर्मजं यत्पुरा कृतम् ।
पिङ्गलेश्वरमासाद्य तत्सर्वं विलयं व्रजेत्
तत्र स्नानं च दानं च देवखाते कृतं नृप ।
अक्षयं तद्भवेत्सर्वमित्येवं शङ्करो ऽब्रवीत्
पृथिव्यां सर्वतीर्थेषु समुद्धृत्य शुभोदकम् ।
मुक्तं तत्र सुरैः खात्वा देवखातं ततो ऽभवत्
युधिष्ठिर उवाच:
कथं तु देवखातं तत्संजातं द्विजसत्तम ।
सुराः सर्वे कथं तत्र मुमुचुर् वारि तीर्थजम् ।
सर्वं कथय मे विप्र श्रवणे लम्पटं मनः
श्रीमार्कण्डेय उवाच:
यदा तु शूलशुद्ध्यर्थं रुद्रो देवगणैः सह ।
बभ्राम पृथिवीं सर्वां कमण्डलुधरः शुभाम्
प्रभासाद्येषु तीर्थेषु स्नानं चक्रुः सुरास्तदा ।
सर्वतीर्थोत्थितं तोयं पात्रे वै निहितं तु तैः
शूलभेदमनुप्राप्य शूलं शुद्धं तु शूलिनः ।
तत्रोत्थमुदकं गृह्य आगता भृगुकच्छके
तत्रापश्यंस्ततो ह्यग्निं च पिङ्गलाक्षं च रोगिणम् ।
तपस्युग्रे व्यवसितं ध्यायमानं महेश्वरम्
हविर्भागैस्तु विप्राणां राज्ञां चैवामयाविनाम् ।
दृष्ट्वा तु बहुरोगार्तमग्निं देवमुखं सुराः ।
प्राहुस्ते सहिता देवं शङ्करं लोकशङ्करम्
देवा ऊचुः ।
प्रसादः क्रियतां शम्भो पिङ्गलस्यामयाविनः ।
यथा हि नीरुजः कायो हविषां ग्रहणक्षमः ।
पुनर्भवति पिङ्गस्तु तथा कुरु महेश्वर
ईश्वर उवाच:
भोभोः सुरा हि तपसा तुष्टो ऽहं वो विशेषतः ।
वचनाच्च विशेषेण ददाम्यभिमतं वरम्
पिङ्गल उवाच:
यदि तुष्टो ऽसि देवेश दीयते देव चेप्सितम् ।
चन्द्रादित्यौ च नयने कृत्वात्र कलया स्थितः
तथा पुनर्नवः कायो भवेद्वै मम शङ्कर ।
तथा कुरु विरूपाक्ष नमस्तुभ्यं पुनः पुनः
मार्कण्डेय उवाच:
ततः स भगवाञ्छम्भुर् मूर्तिमादित्यरूपिणीम् ।
कृत्वा तु तस्य तद्रोगम् अपानुदत शङ्करः
ततः पुनर्नवीभूतः पुनः प्रोवाच शङ्करम् ।
अत्रैव स्थीयतां शम्भो तथैव भास्करः स्वयम्
प्राणिनामुपकाराय रोगाणामुपशान्तये ।
पापानां ध्वंसनार्थाय श्रेयसां चैव वृद्धये
एवमुक्तस्तु भगवान्पिङ्गलेन महात्मना ।
अवतारं च कृतवान् गीर्वाणान् इदम् अब्रवीत्
ईश्वर उवाच:
मुञ्चध्वमुदकं देवास्तीर्थेभ्यो यत्समाहृतम् ।
मम चोत्तरतः कृत्वा खातं देवमयं शुभम्
तत्र निक्षिप्यतां वारि सर्वरोगविनाशनम् ।
सर्वपापहरं दिव्यं सर्वैरपि सुरादिभिः
एवमुक्ताः सुराः सर्वे खातं कृत्वा तथोत्तरे ।
वयस्त्रिंशत्कोटिगणैर्मुक्तं तत्तीर्थजं जलम्
प्रोचुस्ते सहिताः सर्वे विरूपाक्षपुरोगमाः ।
यः कश्चिद्देवखाते ऽस्मिन्मृदालम्भनपूर्वकम्
स्नानं कृत्वा रविदिने संस्नाय नर्मदाजले ।
श्राद्धं कृत्वा पितृभ्यो वै दानं दत्त्वा स्वशक्तितः
पूजयिष्यति पिङ्गेशं तस्य वासस्त्रिविष्टपे ।
भविष्यति सुरैरुक्तं शृणोति सकलं जगत्
आमया भुवि मर्त्यानां क्षयरोगविचर्चिकाः ।
व्याधयो विकृताकाराः कासश्वासज्वरोद्भवाः
एकद्वित्रिचतुर्थाहा ये ज्वरा भूतसम्भवाः ।
ये चान्ये विकृता दोषा दद्रुश्च कामलं तथा
दिनैस्ते सप्तभिर्यान्ति नाशं स्नानैर् रवेर्दिने ।
शतभेदप्रभिन्ना ये कुष्ठा बहुविधास् तथा
शतमादित्यवाराणां स्नायादष्टोत्तरं तु यः ।
सम्पूज्य शङ्करं दद्यात्तिलपात्रं द्विजातये
नश्यन्ति तस्य कुष्ठानि गरुडेनेव पन्नगाः ।
एवमुक्त्वा गताः सर्वे त्रिदशास्त्रिदशालयम्
मार्कण्डेय उवाच:
नदीषु देवखातेषु तडागेषु सरित्सु च ।
स्नानं समाचरेन्नित्यं नरः पापैः प्रमुच्यते
षष्टितीर्थसहस्रेषु षष्टितीर्थशतेषु च ।
यत्फलं स्नानदानेषु देवखाते ततो ऽधिकम्
देवखातेषु यः स्नात्वा तर्पयित्वा पित्ःन्नृप ।
पूजयेद् देवदेवेशं पिङ्गलेश्वरमुत्तमम्
सो ऽश्वमेधस्य यज्ञस्य वाजपेयस्य भारत ।
द्वयोः पुण्यमवाप्नोति नात्र कार्या विचारणा
मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0