भाषा

ENहिગુ
ग्रंथ पाठ

रेवाखाण्ड (संशोधित पाठ) · अध्याय 110

110.1

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सेनापुरे चक्रतीर्थमाहात्म्यवर्णनं नाम नवोत्तरशततमो ऽध्यायः ॥
र्क्व् अध्याय 110
श्रीमार्कण्डेय उवाच:
धौतपापं ततो गच्छेन् महापातकनाशनम् ।
समीपे चक्रतीर्थस्य विष्णुना निर्मितं पुरा

110.2

निहतैर् दानवैर् घोरैर् देवदेवो जनार्दनः ।
तत्पापस्य विनाशार्थं दानवान्तोद्भवस्य च

110.3

तत्र तीर्थे जितक्रोधश्चचार विपुलं तपः ।
दुश्चरं मौनमास्थाय ह्यशक्यं देवदानवैः

110.4

स्नात्वा दत्त्वा द्विजातिभ्यो दानानि विविधानि च ।
तत्क्षणात् सुपापस् तु गतस्तद्वैष्णवं पदम्

110.5

एवं युक्तस्तु यस्तत्र पापं कृत्वा सुदारुणम् ।
स्नात्वा जप्त्वा विधानेन मुच्यते सर्वपातकैः

मूल पाठ: Revākhāṇḍa of the Vāyupurāṇa (RKV) · Edition: Śrīkṛṣṇadās, Kṣemrāj (ed.): Śrīskandamahāpurāṇam. Veṅkateśvara Steam Press, Bombay: 1910 and its reprint: Siṃha, Nāgaśaraṇa (ed.): Śrīskandamahāpurāṇam. pañcama bhāga: śrī āvantyakhaṇḍam. Nag Publishers, Delhi: 1986. · Data entry Jürgen Neuss · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc