रामोदन्त · श्लोक 121*-140
रक्षोदीपितलाङ्गूलः स तु लङ्काम् अशेषतः
दग्ध्वा सागरम् उत्तीर्य वानरान् समुपागमत् ॥
स गत्वा वानरैः साकं राघवायात्मना कृतम्
निवेदयित्वा सकलं ददौ चूडामणिं च तम् ॥
अथासंख्यैः कपिगणैः सुग्रीवप्रमुखैः सह
निर्ययौ राघवस् तूर्णं तीरं प्राप महोदधेः ॥
तदा विभीषणो भ्रात्रा त्यक्तो रामम् उपागमत्
लङ्काधिपत्ये ऽभ्यषिञ्चद् एनं रमो ऽरिमर्दनः ॥
दत्तमार्गः समुद्रेण तत्र सेतुं नलेन सः
कारयित्वा तेन गत्वा सुवेलं प्राप पर्वतम् ॥
ततो राघवनिर्दिष्टा नीलमुख्याः प्लवङ्गमाः
रुरुधुः सर्वतो लङ्कां वृक्षपाषाणपाणयः ॥
रावणस्य नियोगेन निर्गतान् युधि राक्षसान्
प्रहस्तप्रमुखान् हत्वा नेदुस् ते सिंहविक्रमाः ॥
सुग्रीवश् च हनूमांश् च तथा राघवलक्ष्मणौ
राक्षसान् सुबहून् युद्धे जघ्नुर् भीमपराक्रमाः ॥
रावणिस् तु तदाभ्येत्य समरे रामलक्ष्मणौ
ननाह नागपाशेन नागारिस् तौ व्यमोचयत् ॥
रावणो ऽपि ततो युद्धे राघवेण पराजितः
कुम्भकर्णं प्रबोध्याशु रामं हन्तुं न्ययुङ्क्त च ॥
रक्षोभिः सह निर्याय भक्षयन्तं प्लवङ्गमान्
सहानुगं कुम्भकर्णं जघानाशु स राघवः ॥
इन्द्रजित् पुनर् अप्य् आजौ सानुजं च रघूत्तमम्
अमोहयद् वानरांश् च ब्रह्मास्त्रेणास्त्रकोविदः ॥
तदैव गत्वा हनुमान् आनीयौषधिपर्वतम्
तान् सर्वान् बोधयित्वाशु तत्स्थाने ऽस्थापयच् च तम् ॥
ततो निकुम्भिलां गत्वा सौमित्रिः सविभीषणः
निषिद्ध्येन्द्रजितो होमं संयुगे तं जघान च ॥
तच् छ्रुत्वा रावणः क्रुद्धो निर्याय शरवृष्टिभिः
प्लवङ्गमान् पीडयित्वा रामेण युयुधे भृशं ॥
रामो ऽपि सुचिरं तेन कृत्वा युद्धं सुदारुणं
ब्रह्मास्त्रेण जघानैनं ब्रह्मदत्तवरं रिपुम् ॥
तदा शक्रादयो देवा हृष्टा रावणनिग्रहात्
रघूत्तमस्योत्तमाङ्गे पुष्पवृष्टिम् अकुर्वत ॥
राक्षसानाम् अधिपतिं कृत्वा रामो विभीषणम्
अग्निप्रवेशसंशुद्धां परिजग्राह मैथिलीम् ॥
पुरन्दरवरेणाशु जीवयित्वा प्लवङ्गमान्
अतोषयद् रघुश्रेष्ठो विविधैर् धनसंचयैः ॥
ततः पुष्पकम् आरुह्य ससीतः सहलक्ष्मणः
निर्ययौ वानरैः साकं रामो रक्षोऽधिपेन च ॥
मूल पाठ: Rāmodanta · Data entry Christophe Vielle · GRETIL (Göttingen) · CC BY-NC-SA 4.0