रामायण · अध्याय 3.005
शरभङ्गे दिवं प्राप्ते मुनिसंघाः समागताः
अभ्यगच्छन्त काकुत्स्थं रामं ज्वलिततेजसं
वैखानसा वालखिल्याः संप्रक्षाला मरीचिपाः
अश्मकुट्टाश् च बहवः पत्राहाराश् च तापसाः
दन्तोलूखलिनश् चैव तथैवोन्मज्जकाः परे
मुनयः सलिलाहारा वायुभक्षास् तथापरे
आकाशनिलयाश् चैव तथा स्थण्डिलशायिनः
तथोर्ध्ववासिनो दान्तास् तथार्द्रपटवाससः
सजपाश् च तपोनित्यास् तथा पञ्चतपोऽन्विताः
सर्वे ब्राह्म्या श्रिया जुष्टा दृढयोगसमाहिताः
शरभङ्गाश्रमे रामम् अभिजग्मुश् च तापसाः
अभिगम्य च धर्मज्ञा रामं धर्मभृतां वरम्
ऊचुः परमधर्मज्ञम् ऋषिसंघाः समाहिताः
त्वम् इक्ष्वाकुकुलस्यास्य पृथिव्याश् च महारथः
प्रधानश् चासि नाथश् च देवानां मघवान् इव
विश्रुतस् त्रिषु लोकेषु यशसा विक्रमेण च
पितृव्रतत्वं सत्यं च त्वयि धर्मश् च पुष्कलः
त्वाम् आसाद्य महात्मानं धर्मज्ञं धर्मवत्सलम्
अर्थित्वान् नाथ वक्ष्यामस् तच् च नः क्षन्तुम् अर्हसि
अधार्मस् तु महांस् तात भवेत् तस्य महीपतेः
यो हरेद् बलिषड्भागं न च रक्षति पुत्रवत्
युञ्जानः स्वान् इव प्राणान् प्राणैर् इष्टान् सुतान् इव
नित्ययुक्तः सदा रक्षन् सर्वान् विषयवासिनः
प्राप्नोति शाश्वतीं राम कीर्तिं स बहुवार्षिकीम्
ब्रह्मणः स्थानम् आसाद्य तत्र चापि महीयते
यत् करोति परं धर्मं मुनिर् मूलफलाशनः
तत्र राज्ञश् चतुर्भागः प्रजा धर्मेण रक्षतः
सो ऽयं ब्राह्मणभूयिष्ठो वानप्रस्थगणो महान्
त्वन् नाथो ऽनाथवद् राम राक्षसैर् वध्यते भृशम्
एहि पश्य शरीराणि मुनीनां भावितात्मनाम्
हतानां राक्षसैर् घोरैर् बहूनां बहुधा वने
पम्पानदीनिवासानाम् अनुमन्दाकिनीम् अपि
चित्रकूटालयानां च क्रियते कदनं महत्
एवं वयं न मृष्यामो विप्रकारं तपस्विनम्
क्रियमाणं वने घोरं रक्षोभिर् भीमकर्मभिः
ततस् त्वां शरणार्थं च शरण्यं समुपस्थिताः
परिपालय नो राम वध्यमानान् निशाचरैः
एतच् छ्रुत्वा तु काकुत्स्थस् तापसानां तपस्विनाम्
इदं प्रोवाच धर्मात्मा सर्वान् एव तपस्विनः
नैवम् अर्हथ मां वक्तुम् आज्ञाप्यो ऽहं तपस्विनम्
भवताम् अर्थसिद्ध्यर्थम् आगतो ऽहं यदृच्छया
तस्य मे ऽयं वने वासो भविष्यति महाफलः
तपस्विनां रणे शत्रून् हन्तुम् इच्छामि राक्षसान्
दत्त्वा वरं चापि तपोधनानां धर्मे धृतात्मा सहलक्ष्मणेन
तपोधनैश् चापि सहार्य वृत्तः सुतीष्क्णम् एवाभिजगाम वीरः
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0