रामायण · अध्याय 2.027
सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा
वनवासनिमित्ताय भर्तारम् इदम् अब्रवीत्
सा तम् उत्तमसंविग्ना सीता विपुलवक्षसं
प्रणयाच् चाभिमानाच् च परिचिक्षेप राघवम्
किं त्वामन्यत वैदेहः पिता मे मिथिलाधिपः
राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम्
अनृतं बललोको ऽयम् अज्ञानाद् यद् धि वक्ष्यति
तेजो नास्ति परं रामे तपतीव दिवाकरे
किं हि कृत्वा विषण्णस् त्वं कुतो वा भयम् अस्ति ते
यत् परित्यक्तुकामस् त्वं माम् अनन्यपरायणाम्
द्युमत्सेनसुतं वीर सत्यवन्तम् अनुव्रताम्
सावित्रीम् इव मां विद्धि त्वम् आत्मवशवर्तिनीम्
न त्व् अहं मनसाप्य् अन्यं द्रष्टास्मि त्वदृते ऽनघ
त्वया राघव गच्छेयं यथान्या कुलपांसनी
स्वयं तु भार्यां कौमारीं चिरम् अध्युषितां सतीम्
शैलूष इव मां राम परेभ्यो दातुम् इच्छसि
स माम् अनादाय वनं न त्वं प्रस्थातुम् अर्हसि
तपो वा यदि वारण्यं स्वर्गो वा स्यात् सह त्वया
न च मे भविता तत्र कश् चित् पथि परिश्रमः
पृष्ठतस् तव गच्छन्त्या विहारशयनेष्व् अपि
कुशकाशशरेषीका ये च कण्टकिनो द्रुमाः
तूलाजिनसमस्पर्शा मार्गे मम सह त्वया
महावात समुद्धूतं यन् माम् अवकरिष्यति
रजो रमण तन् मन्ये परार्ध्यम् इव चन्दनम्
शाद्वलेषु यद् आसिष्ये वनान्ते वनगोरचा
कुथास्तरणतल्पेषु किं स्यात् सुखतरं ततः
पत्रं मूलं फलं यत् त्वम् अल्पं वा यदि वा बहु
दास्यसि स्वयम् आहृत्य तन् मे ऽमृतरसोपमम्
न मातुर् न पितुस् तत्र स्मरिष्यामि न वेश्मनः
आर्तवान्य् उपभुञ्जाना पुष्पाणि च फलानि च
न च तत्र गतः किं चिद् द्रष्टुम् अर्हसि विप्रियम्
मत्कृते न च ते शोको न भविष्यामि दुर्भरा
यस् त्वया सह स स्वर्गो निरयो यस् त्वया विना
इति जानन् परां प्रीतिं गच्छ राम मया सह
अथ माम् एवम् अव्यग्रां वनं नैव नयिष्यसि
विषम् अद्यैव पास्यामि मा विशं द्विषतां वशम्
पश्चाद् अपि हि दुःखेन मम नैवास्ति जीवितम्
उज्झितायास् त्वया नाथ तदैव मरणं वरम्
इदं हि सहितुं शोकं मुहूर्तम् अपि नोत्सहे
किं पुनर् दशवर्षाणि त्रीणि चैकं च दुःखिता
इति सा शोकसंतप्ता विलप्य करुणं बहु
चुक्रोश पतिम् आयस्ता भृशम् आलिङ्ग्य सस्वरम्
सा विद्धा बहुभिर् वाक्यैर् दिग्धैर् इव गजाङ्गना
चिर संनियतं बाष्पं मुमोचाग्निम् इवारणिः
तस्याः स्फटिकसंकाशं वारि संतापसंभवम्
नेत्राभ्यां परिसुस्राव पङ्कजाभ्याम् इवोदकम्
तां परिष्वज्य बाहुभ्यां विसंज्ञाम् इव दुःखिताम्
उवाच वचनं रामः परिविश्वासयंस् तदा
न देवि तव दुःखेन स्वर्गम् अप्य् अभिरोचये
न हि मे ऽस्ति भयं किं चित् स्वयम्भोर् इव सर्वतः
तव सर्वम् अभिप्रायम् अविज्ञाय शुभानने
वासं न रोचये ऽरण्ये शक्तिमान् अपि रक्षणे
यत् सृष्टासि मया सार्धं वनवासाय मैथिलि
न विहातुं मया शक्या कीर्तिर् आत्मवता यथा
धर्मस् तु गजनासोरु सद्भिर् आचरितः पुरा
तं चाहम् अनुवर्ते ऽद्य यथा सूर्यं सुवर्चला
एष धर्मस् तु सुश्रोणि पितुर् मातुश् च वश्यता
अतश् चाज्ञां व्यतिक्रम्य नाहं जीवितुम् उत्सहे
स मां पिता यथा शास्ति सत्यधर्मपथे स्थितः
तथा वर्तितुम् इच्छामि स हि धर्मः सनातनः
अनुगच्छस्व मां भीरु सहधर्मचरी भव
ब्राह्मणेभ्यश् च रत्नानि भिक्षुकेभ्यश् च भोजनम्
देहि चाशंसमानेभ्यः संत्वरस्व च माचिरम्
अनुकूलं तु सा भर्तुर् ज्ञात्वा गमनम् आत्मनः
क्षिप्रं प्रमुदिता देवी दातुम् एवोपचक्रमे
ततः प्रहृष्टा परिपूर्णमानसा यशस्विनी भर्तुर् अवेक्ष्य भाषितम्
धनानि रत्नानि च दातुम् अङ्गना प्रचक्रमे धर्मभृतां मनस्विनी
मूल पाठ: Rāmāyaṇa · Edition: John Smith's Rāmāyaṇa-Page (last comparison: 2020-04-16) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0