भाषा

ENहिગુ
ग्रंथ पाठ

रामचरितमहाकाव्ये · अध्याय 3

3.1

अथ प्रबुद्धः प्रथमं विबुद्धम् आसीनम् आदाय तदङ्घ्रियुग्मम् ।
प्रकामनिद्राभिगमाभिरामो रामः सुमित्रासुतम् इत्य् उवाच ॥

3.2

किम् इत्थम् एव क्षपितो निशीथः कच्चिन् मुहूरार्धम् असि प्रसुप्तः ।
अस्मिन् प्रसादावसरे धियां च प्रतिष्ठितश् चेतसि कस् तवार्थः ॥

3.3

वनौकसस् तस्य नवेश्वरस्य भावावबोधाय पुनर् विमृश्य ।
यत् प्राप्तकालं तद् उदाहराशु प्रस्थानकालो ऽयम् अतिप्रशस्तः ॥

3.4

स्वकार्यलाभस्तिमितः कपिश् चेन् न कश्चिद् अर्थो ऽनुसृतेन तेन ।
रिपऊपेतं वरम् अर्थिभावाद् विकारसंदेहसहे न मित्रे ॥

3.5

कार्यान्तराशारहितेन तेन व्यक्तं खलेनाद्य वयं निरस्ताः ।
दत्तः प्रदीर्घाग्रहणाभिधानो येनायम् आराद् अपि नो ऽर्धचन्द्रः ॥

3.6

रुद्धस् तपस्वी स कथं न कैश्चिन् मोहान्धकूपे निपतन् मदान्धः ।
किं देशकास् ते ऽपि हनूमदाद्याः सद्यः पदं प्राप्य समं विपन्नाः ॥

3.7

रिष्टं न दृष्टं पवमानसूनोर् न चाग्निसूनोर् न च वालिसूनोः ।
सर्वे ऽपि किंकारणम् एकदैव प्रमीतकल्पाः कपिदारकास् ते ॥

3.8

स दुर्निवारो हरिर् अद्य शेताम् आस्वादितैश्वर्यमधुर् मदेन ।
कथं पुनर् जागरकाल एव सुप्तास् तदाप्ता इति मे वितर्कः ॥

3.9

देवात् प्रसूतेन हिमेतरांशोर् ऊर्जस्वलैस् तैः सखिभिर् वृतेन ।
उदारदेहद्युतिनास्मदर्थे निरन्वयं तेन तमः प्रपन्नम् ॥

3.10

अहो महन् मोहजम् अन्धकारं येनाद्य मध्येसभम् उद्धुरेण ।
उत्सार्य तान् मन्त्रिमणिप्रदीपान् प्लवङ्गराजः प्रसभं गृहीतः ॥

3.11

लोभस्य मोहस्य मनोभवस्य मदस्य चातिप्रसरो न रुद्धः ।
रुद्धः परं पूर्णमनोरथेन तेनाद्य नः प्रत्युपकारवेगः ॥

3.12

सम्राट्पदस्थस्य पदाद् अपेताः सम्प्रीतये सम्प्रति मा स्म भूमः ।
दृष्टास्त्रसारा अपि तस्य भीरोः किं भीतये वत्स वयं न भूताः ॥

3.13

स्थाने निरस्तः सुधियाग्रजेन स तेन मायामसृणो दुरात्मा ।
मया मदान्धेन पुनर् वृथैव क्रोष्टा मृगेन्द्रस्य पदे ऽभिषिक्तः ॥

3.14

निर्वेशनिर्यातनशाठ्यनिद्रां नीचेषु दण्डः परुषो निहन्ति ।
तथापि दाक्षिण्यविलम्बितव्यम् इदं धनुस् तं प्रति मामकीनम् ॥

3.15

यावन् न विश्राम्यति वेगजन्मा दिक्षु ध्वनिर् वालिभिदः शरस्य ।
तावत् पुनस् तङ्क इह त्रिलोक्याम् आक्रान्तकिष्किन्धम् उपक्रमेत ॥

3.16

अस्मासु नावेदयति स्म गर्वात् कुर्वीत शेषारिवधं भुजाभ्याम् ।
विधाय सौराज्यम् असऊपेयाद् इत्य् अर्थिता पश्यति न प्रमाणम् ॥

3.17

तद् एष मे निर्मलसर्गसर्गः षड्वर्गरुद्धो रिपुवत् स हेयः ।
नासौ निषिद्धस् तव यानपक्षो मया बत प्राग् असमाहितेन ॥

3.18

असंशयं स प्रतिहारपालीससम्भ्रमावेदितसन्निकर्षम् ।
त्वां प्रत्य् असूयां हृदयेन धास्यत्य् उपस्थितान्तःपुरविप्रयोगः ॥

3.19

तद्वक्त्रम् आर्केस् तरुणार्कताम्रं त्वत्प्रीतिवाक्यैर् अकृतप्रमोदम् ।
भविष्यति प्रत्युपकारभारनिर्वाहचिन्तागमसान्धकारम् ॥

3.20

स्मरिष्यति त्वां न स बोध्यमानो ऽप्य् आलोकयिष्यत्य् अथवा न पृष्टः ।
प्रत्येषि कान्ताजनमध्यवर्ती स चिन्तयास्मद्गतयाधुनास्ते ॥

3.21

आवां यदैवाद्रितटे निविष्टौ स कालिकां वीक्ष्य पुरीं प्रविष्टः ।
आमृष्टम् आसीच् चपलेन तेन सौहार्दम् अस्मद्विषयं तदैव ॥

3.22

अहःस्व् अमीषु क्षण एव नासीद् आसीन् न संदेशहरो ऽनुरूपः ।
इत्यादि स व्यक्तम् अलीकम् एव त्वत्प्रीत्युपालम्भपदेषु वक्ता ॥

3.23

कृतावहेलः प्रणयप्रसन्नं निरुत्तरः सत्वरकार्यवादम् ।
प्रेक्षिष्यते रोषलवानुरक्तं वलीमुखः शुष्कमुखो मुखं ते ॥

3.24

तस्यागमाद् यः सहसा भविष्यत्य् अर्थस्य तस्याभवनं ममास्तु ।
बाधिष्यते वालिवधातिरिक्तस् तद्वेश्मयात्रानुशयः सदा नौ ॥

3.25

स प्राक्तनो नूनम् अनर्थभाजा नीतस् तलं तेन हितैषिवर्गः ।
उत्थापितैर् दूरम् असाव् इदानीं दिवानिशं दीव्यति दुर्विदग्धैः ॥

3.26

अक्षा मृगाक्ष्यो मृगया मधूनि प्रेक्षाश् च तस्याद्य हरन्ति कालम् ।
न प्राप्नुवन्ति क्षणम् आप्तवाचः सदादृताश् चारणचाटुवादाः ॥

3.27

वदन्ति भीताः सचिवा न किंचित् किं चिन्तयास्मद्गतया विटानाम् ।
स्वयं न सम्प्रत्य् अनुसंदधाति पूर्वापरं कामपरः स राजा ॥

3.28

न सूरयो न स्थविरा न धीराः पुरःस्थिताः प्राश्निकतां प्रयान्ति ।
संतिष्ठते संसदि संशयानः पृष्ठोपविष्टासु विलासिनीषु ॥

3.29

इत्थंगते तत्र गतस्य केन मन्युस् तवोदीर्णरयो निवार्यः ।
विचायमाणो न गुणाय नः स्याद् असौ कपीनां कदनानुबन्धः ॥

3.30

प्रपन्नशाठ्यस्य हठोपनामाद् आनेष्यमाणस्य गुणं न वीक्षे ।
तथाविधा हि द्विषतां स्तवेन कषन्ति कर्णौ परम् अन्तिकस्थाः ॥

3.31

स्पृष्.ओ न चेद् विक्रियया कयापि नोपस्थितः कार्यवशाद् इदानीम् ।
एतु स्वयं न क्रियते वृथैव स त्वद्बलात्कारनिरुद्धशोभः ॥

3.32

यथावयोस् तातजटायुषोक्तम् उक्तं कबन्धेन यथा च तेन ।
तथोपयास्यत्य् अचिराद् अवश्यम् आहूतचक्रो हरिचक्रवर्ती ॥

3.33

यत् सत्यम् आदित्यसमुद्भवत्वाद् उद्भूतिम् एष्यन्ति गुणास् तदीयाः ।
तुलाग्रसम्पातविलम्बदोषे तस्मिन् विसंवादम् अहं न शङ्के ॥

3.34

विरोपतप्तस्य विदेशवासाद् आजग्मुषस् तस्य निजाधिवासम् ।
इयन्त्य् अहान्य् उत्सुकबन्धुवर्गसंवर्गणव्यग्रतयैव यान्ति ॥

3.35

स नूनम् आयास्यति वानरेन्द्रः संदेशकार्पण्यम् असंमतं मे ।
सर्वस्वभूतं विसृजन्ति वत्स कार्यातिपाते ऽपि न धैर्यम् आर्याः ॥

3.36

व्यतीतविघ्नः सुहृदर्थनिघ्नो न शीतलः स्थास्यति किं गतेन ।
स त्वर्यमाणस् त्वरमाण एव धैर्यस्य नः पारम् अवाप्स्यतीव ॥

3.37

धिग् अस्तु मां तं प्रति विप्रतीपम् आशङ्कितं तद् बहु येन यद् वा ।
स्वकार्यदोलासु जनो ऽल्पभाग्यः प्राङ् निश्चिनोति व्यतिरेकम् एव ॥

3.38

इत्थं न मां प्रत्युपपत्तिम् एति तत्राद्यपक्षद्वितये ऽपि यात्रा ।
वरं विसोढानि कियन्त्य् अपीह सङ्ख्यातकालाभ्यधिकान्य् अहानि ॥

3.39

स्वालोचितं वक्तु भवान् इदानीम् इत्य् अनुष्ठेयम् असंशयं यत् ।
बाल्यात् प्रभृत्य् एव तवोत्तरा धीर् न पूर्वपक्षे ऽभिनिवेशम् एति ॥

3.40

इति प्रसन्नां गिरम् अग्रजस्य श्रुत्वा चिराद् वीतविषादपङ्कः ।
मुखश्रियैवोज्ज्वलयाभिनन्दन्न् इदं सुमित्रातनयो जगाद ॥

3.41

समर्थितं साधु समस्तम् एव कृती कपिः किं बहुनोदितेन ।
प्रव्यक्तम् अप्य् एतद् अदोषदृष्ट्या गृहीतम् आर्येण न यत् तदागः ॥

3.42

तस्योर्जितेनातिरवेर् अवद्यं नैवेक्षते ऽन्तःकरणं ममापि ।
अयं पुनस् तेन कुतो न जानाम्य् अतिक्रमः कालकृतो न दृष्टः ॥

3.43

विसर्जिता वा पुनरागमाय समापतन्त्य् अद्य न ते नलाद्याः ।
समाहरतिउद्यतवित्तवर्षो वर्षान्तरेभ्यः प्रवरान् हरीन् वा ॥

3.44

अष्टादशद्वीपकपीन्द्रमौलिर् मौलान् असौ वालिवधप्रलीनान् ।
नैकाभ्युपायोपहितान् इदानीम् उत प्रतीच्छत्य् अतिसत्क्रियाभिः ॥

3.45

अप्राप्तसंतोषम् असंविभक्तसम्भुक्तसर्वस्वम् अनुप्लवेषु ।
अथादिशत्य् अर्पितसारकोशः प्रकामपाथेयपरिग्रहाय ॥

3.46

अथो स भीतातुरबालवृद्धान् वृद्धोपसेवी सनिभं नियुङ्क्ते ।
यथायथं सद्मनि पद्मसंख्यासमेतशाखामृगयूथनाथः ॥

3.47

तद् इत्थम् उत्थानसमाकुलत्वान् न त्वर्यमाणो ऽपि स दूषणाय ।
आर्येण तत्राप्य् असमागतस्य छायाच्युतिः कैव निरूपिता मे ॥

3.48

ज्ञेयो ऽस्ति नः पूर्वम् अरेर् उदन्तस् ततस् तदन्ताय विधेयम् अस्ति ।
इत्य् आकुलत्वान् मम तावद् आर्य कार्योपतप्तिः क्षमते न धैर्यम् ॥

3.49

अनर्थिभावाद् उपचारवादाद् आकारगुप्तेश् च परीभवन्ति ।
यथातथार्थप्रतिपादनेन प्रयान्ति मित्राणि निरन्तरत्वम् ॥

3.50

मिथः प्रसादस्खलनाद् उपाधेर् उपैति सख्यं खलयोः खिलत्वम् ।
गृह्णाति सत्पूरुषयोर् न दोषम् औदार्यसंवादकृता तु मैत्री ॥

3.51

निर्यन्त्रणं यत्र न वर्तितव्यं न मोदितव्यं प्रणयातिवादे ।
विशङ्कितान्योन्यभयं विदूरान् नमस्क्रियाम् अर्हति सौहृदं तत् ॥

3.52

विस्रब्धम् आज्ञापय किं करोमि कथं घटेन प्लवगाधिराजः ।
यत् किंचिद् आदिश्य निभेन किं मां निषेधसि क्लेशम् इवेक्षमाणः ॥

3.53

स्थितो ऽस्मि तावद् दिनम् एतद् एष्यत्य् अन्येद्युर् आज्ञां तव न प्रतीक्षे ।
आर्यो ऽनुरोधान् न युनक्ति यत्र तत्राहम् अम्बानियमात् स्वतन्त्रः ॥

3.54

तद् एष निष्क्रम्य तथा करोमि तत्पूर्वसङ्गः प्लवगो यथाशु ।
तं वैरिसंहारमहोपकारम् आर्याय निर्यातयितुं यतेन ॥

3.55

धिक् तं धनुष्पाणिम् अनुप्लवं मां मुधा मनःपर्युषितावलेपम् ।
अन्वीक्षते यस्य ममावसादाद् आर्यः सहायान्तरम् अन्तरज्ञः ॥

3.56

धिक्शाततां सन्नतपर्वतां धिग् धिक् पातवेगं च ममाशुगानाम् ।
अलक्षितोद्देशम् अपि द्विषन्तं निहत्य नायान्ति हि यत् क्षणेन ॥

3.57

खरादिरक्षःकदनेषु दीर्घम् अमी परिज्ञातरसाः किम् अन्यत् ।
असृग्भुजां भोक्तुम् असृक् त्वरन्तां भूयो ऽपि भूचन्द्र तवार्धचन्द्राः ॥

3.58

आताटकासंज्ञपनात् प्रपन्नस् त्वयैष वर्णाश्रमरक्षणाय ।
समाप्यतां शेषनिबर्हणेन क्षपाचराणां निधनाधिकारः ॥

3.59

उद्धृत्य घोरायुधवृन्दवृष्टिम् अनुष्ठिताम् ओघशरव्ययेन ।
स राक्षसेभ्यो ऽम्बरगोचरेभ्यस् त्रातस् त्वयैकेन मखो महर्षेः ॥

3.60

तं कालकल्पं कियता श्रमेण तथावधीर् मार्गरुधं विराधम् ।
आसन् मुहूर्ताः कति च घ्नतस् ते सैन्यं जनस्थानपतेः स्वरस्य ॥

3.61

आसीत् क्षुरप्रस्य कियान् विलम्बः क्रूरेषु तेषु त्रिशिरःशिरःसु ।
कतीषवो दूषणदेहयात्रानिवारणार्थं च रणे विसृष्टाः ॥

3.62

कस्यावलम्बाद् अकरोत् परासुं मारीचम् उच्चावचमायम् आर्यः ।
ज्ञाता च दिक्संज्ञपितस् त्वयैव क्षपाचराणाम् अधिपश् च सो ऽपि ॥

3.63

इत्य् अप्रपञ्चोदितकारणानि मिथस् तयोस् तथ्यगुणग्रहाणि ।
नेदुः स्तुवाना इव सूनृतानि खगाः कुलायेषु कृतैकमत्याः ॥

3.64

आरोप्य सन्ध्यां दिशि वज्रपाणेः पर्यस्य चन्द्रं ककुभि प्रतीच्याम् ।
उत्सङ्गितोडुप्रकरा खगानाम् आदाय निद्रां रजनी जगाम ॥

3.65

कविश् च जीवश् च सुतश् च भूमेः स दक्षिणाशातिलको मुनिश् च ।
आसन्नसूर्यांशुभयद्रुतस्य क्षणं ररक्षुर् भगणस्य पृष्ठम् ॥

3.66

दिग् दर्शयामास मुखं सरागं न यावद् ऐन्द्री गणिकेव मत्ता ।
तावद् द्विजेशो ऽङ्कम् इयाय सिन्धोः सन्ध्यासुराशीकरसेकशङ्की ॥

3.67

विसर्जितोडुः क्षणम् इन्दुर् आसीद् आसीद् उपान्तेष्व् अपि नान्धकारम् ।
भृशं दिशीन्द्रस्य रराज सन्ध्या सिन्दूरिणीव ग्रहराजमुद्रा ॥

3.68

उच्चेतुम् उच्चैर् उडुकुड्मलानि व्याकुर्वती रागम् अतिप्रगाढम् ।
शाखाम् इवालम्ब्य दिशं मघोनः सन्ध्या वियद् भूरुहम् आरुरोह ॥

3.69

शेषोडुपुष्पस्तबकोच्चयाय संजातरागातिशयेव सन्ध्या ।
अप्य् उच्चकैः पूर्वमहीध्रमूर्ध्नि स्थित्वा वियद्भूरुहम् आरुरोह ॥

3.70

विसृज्य पाण्डुच्छदनौघतुल्यं तारागणं व्योमतरुस् तदानीम् ।
बभार सन्ध्यारुचिमञ्जरीणां जालानि बालाधरकोमलानि ॥

3.71

उत्सारितेवाभ्रकरेणुकुम्भाज् जम्भारियुग्याधिकृतैर् मरुद्भिः ।
ततान सन्ध्येति समुल्लसन्ती नभोङ्गणं रङ्गविकारधूलिः ॥

3.72

संवित्तयस् तत्त्वविगाहशुभ्राः सांसारिके राग इवाधिरूढे ।
शनैः शनैर् म्लानरुचो ममज्जुस् ताराः प्रसर्पत्य् अरुणे चिरेण ॥

3.73

कैः शिक्षिता वर्तयितुं तदासीद् उन्मीलितं तूलिकयेव चित्रम् ।
तरङ्गवत् तुङ्गशरद्घनालीविसंस्थुले व्योमनि बालसन्ध्या ॥

3.74

प्रत्युप्तमात्रं दिशि देवभर्तुर् अभ्यक्तखण्डाभ्रतरङ्गमालम् ।
बभौ विसर्पत्य् अयसीव तैलं नभस्तले बालपतङ्गतेजः ॥

3.75

प्रसत्तिनिर्व्यूढसुधामयूखं खम् उष्णरश्माव् अपि रक्तिम् ऊहे ।
भरं प्रतीच्छन्ति महोदयानां पात्राणि पर्यायवशंवदानि ॥

3.76

तापिञ्छकल्पः ककुभि प्रतीच्याम् आच्छादयामास मृगो मृगाङ्कम् ।
दूराधिरूढं जनम् आपदीव प्रकाशमानो ऽतिशयाद् अवर्णः ॥

3.77

प्रदीप्तसन्ध्याग्नि नदद्द्विजौघं निरंशुकध्वस्तपराङ्मुखेन्दु ।
वियद्विलुप्तोडुकुलं तदाभूच् चक्रान्तराक्रान्तपुरोपमेयम् ॥

3.78

मिथः कृतालोकमहोत्सवानां कृतारवः सारसदम्पतीनाम् ।
न बालभानोः किरणाद् अभैषीन् नदीषु नीहारमयो ऽन्धकारः ॥

3.79

ततार संतीर्य हिमान्धकारं तता रसन्ती सरितः खगाली ।
रक्तारविन्दस्य रजोभिर् आर्द्रैर् अक्ता रविं वारिणि वीक्षमाणा ॥

3.80

स्मरव्ययक्लान्तवलत्पुलिन्दीसर्वाङ्गसंवाहकलाविदग्धः ।
विलम्ब्य कोशेषु कुशेशयानां ससार कासारतरङ्गवातः ॥

3.81

अतीत्य शैत्यं तटवालुकानां कोष्णासु सस्नुर् मुनयो नदीषु ।
अपाम् अपूर्यन्त च नैर्झरीणां कुटा गिरिग्रामकुटुम्बिनीभिः ॥

3.82

जातप्रकाशासु बहिःस्थलीषु प्रकामचारोत्सवजागरूकः ।
इभो भुवि प्रस्खलदग्रहस्तः सस्मार शय्योदरकुञ्जशय्याम् ॥

3.83

समेत्य जृम्भानुपदं स्वयूथ्यैर् मिथः क्षणं लीढतुषारलेपाः ।
प्रतस्थिरे दिग्वलयं विलोक्य यथायथं कच्छभुवः कुरङ्गाः ॥

3.84

अदृश्यतारात् तरलैः स्थलीषु वनेचराणां पृतना कुरङ्गैः ।
पपौ रवेः संज्वलितोग्रभासं भुजङ्गम् औघः श्रितनाकुरन्ध्रैः ॥

3.85

स्थलं कुरङ्गीनयनैर् अनिद्रैर् उन्मुक्तमुद्रैर् जलजैर् जलं च ।
विलोलतारैस् तरलद्विरेफैर् उवाह भेदं न मिथस् तदानीम् ॥

3.86

जृम्भाभराद् दूरविसंगतानां मुद्राविलम्बेन दलावलीनाम् ।
निर्विश्य निःशेषम् अलिः परागम् अगाद् अबद्धः कुमुदाकरेभ्यः ॥

3.87

विवेश गर्तं गतम् उत्तमोहिर् उच्चैः पदं सन्ततम् उत्तमो हि ।
आसीन् महः सम्पदि तुङ्गतायां नभो न कैश्चिद् गदितुं गतायाम् ॥

3.88

नैःसङ्ग्यम् आलम्ब्यत कैरवेषु यैः शान्तिमद्भिः शनकई रवेषु ।
सौजन्यम् अम्भोजगृहे समेतैश् चिराद् द्विरेफैर् जगृहे समे तैः ॥

3.89

रेजे ऽरविन्दैर् अरविन्दबन्धोः संदर्शने दर्शितहर्षवेगैः ।
विधोर् विषेहे विरहः कथंचिन् निद्रावलम्बात् कुमुदाकरेण ॥

3.90

ऊहे जलैर् आहितकोपरागः क्षोभाद् अल्नीनां नलिनीपरागः ।
व्यसर्जयद् द्यां विवृतापरागः शशी चिराद् अध्युषितापरागः ॥

3.91

यथा विलुप्तोडुकदम्बकायां बालार्कपादैर् दिवि दीप्यते स्म ।
तथैव सुप्ताखिलकैरवायां रक्तारविन्दैर् अभितः सरस्याम् ॥

3.92

मुखेन भाति स्म सहस्रपत्रं मित्रोदयालोकविकस्वरेण ।
मञ्जुस्वनानाम् अलिमार्गणानां स्वयंग्रहायैअव् विमुद्रकोशम् ॥

3.93

श्लथेन केचिद् विविशुर् मुखेन तलेन केचिद् दलसंहतीनाम् ।
मधूत्सुकानां मधुपव्रजानाम् अब्जेषु न द्वारविनिश्चयो ऽभूत् ॥

3.94

लुलोठ धूलीषु पपौ मधूनि पक्ष्माणि लीढानि पुनर् लिलेह ।
आगन्तवे स्तोकम् अपि द्विरेफः स्थितो ददौ नान्तरम् अब्जमध्ये ॥

3.95

भेजे विनिद्रां नलिनीं न कूलान् न शीलयामास नवार्कभासम् ।
प्रियां प्रतीयाय तथैव मूढां खगः स्वबोधागमसाभ्यसूयः ॥

3.96

बहून् असौ पत्ररथस् तपस्वी चकार चाटून् उपकण्ठलीनः ।
दृशं प्रमीलापगमात् कषायाम् उन्मीलयामास चिरेण चक्री ॥

3.97

पारं तुषारक्षणसान्धकारम् अपि स्मरार्तित्वरितः पवित्री ।
श्रुतप्रियाह्न्वानरवः प्रतस्थे सीमन्तयन्न् अब्जवनं विनिद्रम् ॥

3.98

जगाम भञ्जन्कमलानि कोकः कोकीपरिष्वङ्गमनोरथोत्कः ।
साप्य् उत्सुका तत्क्षणम् आजगाम विलोकयन्ती वनम् उत्पलानाम् ॥

3.99

कुर्वाणयोः सरसि पद्मवनावनद्धे भिन्नाध्वनोर् वितथम् एव गतागतानि ।
संवादिदिक्पतितयोः पततोः कथंचिद् द्वन्द्वं चिराद् घटितम् अर्धपथे बभूव ॥

3.100

व्यस्मर्यताम् ऋतमरीचिकराभितापः प्रातः पतत्रिमिथुनैस् तपनं विलोक्य ।
जात्यैव शीतलम् अथोष्णम् अलं न किंचिच् चित्रा गतिर् जगति जन्तुदशावशेन ॥

3.101

कर्तव्यनिर्णयविरूढमनःप्रसादशंसिस्मितेन मुखचन्द्रमसा विराजन् ।
रामः प्रभातपवनाहितवीचिकम्पां पम्पाम् इयाय सरसीं सह लक्ष्मणेन ॥

3.102

पार्श्वस्थावरजससम्भ्रमोपनीतप्रत्यग्रस्फुटितविलोहितारविन्दः ।
सुस्नातः कृतविधिर् अञ्जसोपतस्थे काकुत्स्थः कनकरसावदातम् अर्कम् ॥

3.103

तौ दीर्घं विधिवद् उपास्य पूर्वसन्ध्यां पूष्णीषत्प्रकटितरश्मिबर्बरीके ।
आसातां रहितमहीरुहोपकण्ठऊद्वेल्लस्तिमितजटावनौ वनान्ते ॥

मूल पाठ: Rāmacaritamahākāvye · Edition: K.S. Ramaswami Sastri Siromani: Ramacarita of Abhinanda. Baroda: Oriental Institute, 1930. Gaekwad's Oriental Series No. XLVI. · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc