Pudgalavastu · भाग 13
पुद्गलवस्तु
पिण्डोद्दानम्* ।
उदायी समुच्छ्रयः पर्यन्तो ऽथापरेण भवति पश्चिमम्* ।
उद्दानम्* ।
उदायी अन्येन स्मरन्ति लज्जित इदानीं जानामि द्वय द्वय कृतम्* ।
सुदत्त दुर्दत्त चतुष्कभाषितम्* स्मृतिप्रमोषेण चत्वारः प्रकाशिताः ॥
बुद्धो भगवान् श्रावस्त्यां विहरति जेतवने अनाथपिण्डदस्यारमे । तेन खलु समयेन उदायी संघावशेषाम् आपत्तिम् आपन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थिताम् ( 303र्1 = ग्ब्म् 6.918 ) अर्धमासप्रतिच्छन्नाम्* । ए तत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । ददत यूयं भिक्षवः उदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया अर्धमासं परिवासम् इति । यो वा पुनर् अन्यो ऽप्य् एवंजातीयः ।
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः अप्रतिच्छन्नाम्* । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । ददत यूयं भिक्षवो ऽस्य पुद्गलस्यास्याः संघावशेषाया आपत्तेर् अप्रतिच्छन्नायाः षड् रात्रं मानाप्यम् इति । यो वा पुनर् अन्यो ऽप्य् एवंजातीयः ।
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः । स ते द्वे आपत्ती द्वौ मासौ न जानाति । द्वयोर् मासयोर् अत्ययाज् ज्ञात्वा द्वौ मासौ ( म्स्व् इइइ 62 ) प्रतिच्छाद्य एकां भिक्षूणाम् आरोचयति । एकां नारोचयति । तस्य संघेन द्वौ मासौ परिवासो दत्तः । स पारिवासिक एव सन् ताम् अन्यापत्तिं प्रतिजानाति या अनेन संघमध्ये नारोचयति । स एतत् प्रकरणं भिक्षूणाम् आरोचयति । भिक्षवो भगवतः । भगवान् आह । ददत यूयं भिक्षवस् तस्य पुद्गलस्यापत्तेस् ताव् एव द्वौ मासौ परिवासम् इति । यो वा पुनर् अन्यो ऽप्य् एवंजातीयः । यथा प्रतिजानात्य् एवं स्मरति ।
अथापरः पुद्गलः संघावशेषे द्वे आपत्ती आपन्नः । स ते द्वे आपत्ती द्वौ मासौ न जानाति । द्वयोर् मासयोर् अत्ययाज् ज्ञात्वा द्वौ मासौ प्रतिच्छाद्य एकां भिक्षूणाम् आरोचयति । एकां नारोचयति । तस्य संघे न द्वौ मासौ परिवासो दत्तः । स पारिवासिको लज्जी धर्मम् अवक्रान्तः । स एतत् प्रकरणं भिक्षूणाम् आरोचयति । अहम् अस्म्य् आयुष्मन्तः संघावशेषे द्वे आपत्ती आपन्नः । सो ऽहं ते द्वे आपत्ती द्वौ मासौ न जानामि । द्वयोर् मासयोर् अत्ययाज् ज्ञात्वा द्वौ मासौ प्रतिच्छाद्य एकां भिक्षूणाम् आरोचयामि । तस्य मम संघेन द्वौ मासौ परिवासो दत्तः । सो ऽहं पारिवासिको लज्जी धर्मम् अवक्रान्तः । तस्य तत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । ददत यूयं भिक्षवस् तस्य पुद्गलस्य तस्या आपत्तेर् यथाप्रतिच्छन्नायाः परिवासम् इति । यो वा पुनर् अन्यो ऽप्य् एवंजातीयः । यथा जानात्य् एवं स्मरति ।
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः । स त्व् अर्धमासं प्रातिमोक्षसूत्रोद्देश उद्दिश्यमाने एवम् आह इदानीम् अहम् आयुष्मन्तो जाने यथा यं धर्मः सूत्रगतः सूत्रपर्यापन्न इति । तं चेद् भिक्षवो जानीरन् संनिषण्णः पूर्वो ऽयम् आयुष्मान् द्वे त्रीणि वा पोषधकर्माणि कः पुनर् वादो भूय इति । तस्यायुष्मतो नैवाज्ञानान् मुक्तिः । स यां चापत्तिम् आपन्नस् तां च यथाधर्मं कारयितव्यः । उत्तरे च संवेजयितव्यः । यथा जानात्य् एवं स्मरति ।
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः । स त्व् अर्धमासं प्रातिमोक्षसूत्रोद्देश उद्दिश्यमाने एवम् आह इदानीम् अहम् आयुष्मन्तो जाने यथायं धर्मः सूत्रगतः सूत्रपर्यापन्न इति । तं चेद् भिक्षवो न जानीरन् संनिषण्णः पूर्वो ऽयम् आयुष्मान् द्वे त्रीणि वा पोषधकर्माणि कः पुनर् वादो भूय इति । तस्यैवायुष्मतो नैवाज्ञानान् मुक्तिः । स यां चापत्तिम् ( 303व्1 = ग्ब्म् 6.919 ) आपन्नस् तां यथाधर्मं कारयितव्यः । यथा जानात्य् एवं स्मरति ।
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः । स तां मासं न जानाति । मासस्यात्ययाज् ज्ञात्वा मासं प्रतिच्छाद्य भिक्षूणाम् आरोचयति । तस्य संघेन द्वौ मासौ परिवासो दत्तः । स पारिवासिकः सन्न् आगतागतानां भिक्षूणाम् आरोचयति । अहम् अस्म्य् आयुष्मन्तः संघावशेषाम् आपत्तिम् आपन्नः । सो ऽहं ताम् आपत्तिम् आपन्नो जानामि मासस्यात्ययाज् ज्ञात्वा मासं प्रतिच्छाद्य भिक्षूणाम् आरोचयामि । तस्य मम संघेन द्वौ मासौ परिवासो दत्तः । ( म्स्व् इइइ 64 ) मासम् आयुष्मन्तः सुदत्तो मासं दुर्दत्तः । तत् कस्य हेतोः । अधर्मत्वात् कोप्यत्वात् कर्मणः । यथा जानात्य् एवं स्मरति ।
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः । स ताम् आपत्तिं मासं न जानाति । मासस्यात्ययाज् ज्ञात्वा अप्रतिच्छाद्य भिक्षूणाम् आरोचयति । तस्य संघेन मासं परिवासो दत्तः । स आगतागतानां भिक्षूणाम् आरोचयति । अहम् अस्म्य् आयुष्मन्तः संघावशेषाम् आपत्तिम् आपन्नः । सो ऽहं ताम् आपत्तिम् मासं न जानामि । मासस्यात्ययाज् ज्ञात्वा अप्रतिच्छाद्य भिक्षूणाम् आरोचयामि । तस्य मम संघेन मासं परिवासो दत्तः । दुर्दत्तः आयुष्मन् न सुदत्तः । तत् कस्य हेतोः । मानाप्यार्ह आयुष्मन्* । यथा जानात्य् एवं स्मरति ।
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः प्रतिच्छन्नां देशयिष्यामीति न स्मरति । स ताम् आपत्तिं स्मृत्वाप्रतिच्छाद्य भिक्षूणाम् आरोचयति । भिक्षवो भगवतः । भगवान् आह । ददत यूयं भिक्षवस् तस्य पुद्गलस्य तस्या आपत्तेर् उभयसंततेः परिवासं पूर्विकायाः पश्चिमकाया इति । यो वा पुनर् अन्यो ऽप्य् एवंजातीयः ।
म्स्व् इइइ 65 )
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः प्रतिच्छन्नां देशयिष्यामीति न स्मरति । स ताम् स्मृत्वा अप्रतिच्छाद्य भिक्षूणाम् आरोचयति । भिक्षवो भगवत आरोचयति । भगवान् आह । ददत यूयं भिक्षवस् तस्य पुद्गलस्य तस्या आपत्तेः पूर्विकायाः संततेः परिवासम् इति । यो वा पुनर् अन्यो ऽप्य् एवंजातीयः ।
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्न स् ताम् अ प्रतिच्छन्नां देशयिष्यामीति न स्मरति । स ताम् स्मृत्वा प्रतिच्छाद्य भिक्षूणाम् आरोचयति । भिक्षवो भगवतः । भगवान् आह । ददत यूयं भिक्षवस् तस्य पुद्गलस्य तस्या आ पत्तेः पूर्विकायाः परिवासम् इति । यो वा पुनर् अन्यो ऽप्य् एवंजातीयः ।
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नस् ताम् अप्रतिच्छन्नां देशयिष्यामीति न स्मरति । स ताम् स्मृत्वा अप्रतिच्छाद्यैव भिक्षूणाम् आरोचयति । भिक्षवो भगवतः । भगवान् आह । ददत यूयं भिक्षवस् तस्य पुद्गलस्य तस्या आपत्तेः षड् रात्रं मानाप्यम् इति । यो वा पुनर् अन्यो ऽप्य् एवंजातीयः ।
उद्दानम्* ।
समुच्छ्रयेण षोडश द्वे पञ्च अष्टविंशके ।
त्रिभिस् त्रिभिर् अष्टकाभिस् तिसृभिश् चतुश्चतुर अष्टकाः ।
उत्क्षिप्ता अष्टकास् तिस्रो मुखाः पञ्च समुद्दिताः ॥
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः प्रतिच्छन्नां विभ्रान्तः । स आगत्य पुनर् उपसंपन्नः । स ताम् ( 304र्1 = ग्ब्म् 6.920 ) आपत्तिं प्रतिच्छाद्यैव भिक्षूणाम् आरोचयति । भिक्षवो भगवतः । भगवान् आह । ददत यूयं भिक्षवस् तस्य पुद्गलस्य तस्या आपत्तेः उभय संततेः परिवासम् इति । यो वा पुनर् अन्यो ऽप्य् एवंजातीयः ।
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः प्रतिच्छन्नां विभ्रान्तः । स आगत्य पुनर् उपसंपन्नः । स ताम् आपत्तिम् अप्रतिच्छाद्य भिक्षूणाम् आरोचयति । भिक्षवो भगवतः । भगवान् आह । ददत यूयं भिक्षवस् तस्य पुद्गलस्य तस्या आपत्तेः पूर्विकायाः संततेः परिवासम् इति । यो वा पुनर् अन्यो ऽप्य् एवंजातीयः ।
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः अप्रतिच्छन्नां विभ्रान्तः । स आगत्य पुनर् उपसंपन्नः । स ताम् आपत्तिं प्रतिच्छाद्य भिक्षूणाम् आरोचयति । भिक्षवो भगवतः । भगवान् आह । ददत यूयं भिक्षवस् तस्य पुद्गलस्य तस्या आपत्तेः पश्चिमिकायाः संततेः परिवासम् इति । यो वा पुनर् अन्यो ऽप्य् एवंजातीयः ।
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः अप्रतिच्छन्नां विभ्रान्तः । स आगत्य पुनर् उपसंपन्नः । स ताम् आपत्तिम् अप्रतिच्छाद्यैव भिक्षूणाम् आरोचयति । भिक्षवो भगवतः । भगवान् आह । ददत यूयं भिक्षवस् तस्य पुद्गलस्य तस्या आपत्तेः षड् रात्रं मानाप्यम् इति । यो वा पुनर् अन्यो ऽप्य् एवंजातीयः ।
यथा शुद्धकेन चत्वारि एवं जानतश् चत्वारि । स्मरतश् चत्वारि । वैमतिकेन चत्वारि । अनेनाकारेण अपरापि चतुष्किका । किं तु पेयालविशेषः ।
अथापरः पुद्गलः एवं पारिवासिक एव वक्तव्यः । यथा पारिवासिकः एवं पर्युषितपरिवासो मानाप्यचारिकश् चरितमानाप्यः शिक्षादत्तकश् चतुष्किकायां योजयितव्याः । यथा विभ्रान्तः एवं श्रमणोद्देशकत्वं प्रतिजानाति । उन्मत्तकत्वं विक्षिप्तचित्तकत्वं वेदनाभिन्नकत्वम् अदर्शनायोत्क्षेपकत्वम् अप्रतिकर्मायोत्क्षेपकत्वम् अप्रतिनिसृष्टे च पापके दृष्टिगते उत्क्षेपकत्वम् इति विस्तरेण योजयितव्यम्* ।
अथापरः पुद्गलो द्वे संघावशेषे आपत्ती आपन्नः प्रतिच्छन्नां चाप्रतिच्छन्नां च विभ्रान्तः । स आगत्य पुनर् उपसंपन्नः । स यां प्रतिच्छाद्य विभ्रान्तस् तां प्रतिच्छाद्यैव भिक्षूणाम् आरोचयति । याम् अप्रतिच्छाद्य तां प्रतिच्छाद्य भिक्षूणाम् आरोचयति । भिक्षवो भगवतः । भगवान् आह । ददत यूयं भिक्षवस् तस्य पुद्गलस्योभयसंततेः परिवासम्* । एकस्याः पूर्विकाया द्वितीयस्याः पश्चिमिकाया इति । यो वा पुनर् अन्यो ऽप्य् एवंजातीयः ।
अथापरः पुद्गलः संघावशेषे द्वे आपत्ती आपन्नः प्रतिच्छन्नां चाप्रतिच्छन्नां च विभ्रान्तः । स आगत्य पुनर् उपसंपन्नः । स यां प्रतिच्छाद्य विभ्रान्तस् ताम् अप्रतिच्छाद्यैव भिक्षूणाम् आरोचयति । याम् अप्रतिच्छाद्य ताम् अप्रतिच्छाद्यैव भिक्षूणाम् आरोचयति । भिक्षवो भगवतः । भगवान् आह । ददत यूयं भिक्षवस् तस्य पुद्गलस्यैकस्या आपत्तेः पूर्विकायाः संततेः परिवासम्* । एकस्याः पश्चिमिकायाः षड् रात्रं मानाप्यम् इति । यो वा पुनर् अन्यो ऽप्य् एवंजातीयः ।
अथापरः पुद्गलः संघावशेषे द्वे आपत्ती आपन्नः प्रतिच्छन्नां चाप्रतिच्छन्नां च विभ्रान्तः । स आगत्य पुनर् उपसंपन्नः । स यां प्रतिच्छाद्य विभ्रान्तस् ताम् अप्रतिच्छाद्य भिक्षूणाम् आरोचयति । यां त्व् अप्रतिच्छाद्य तां प्रतिच्छाद्य भिक्षूणाम् आरोचयति । भिक्षवो भगवतः । भगवान् आह । ददत यूयं भिक्षवस् तस्य पुद्गलस्यैकस्या आपत्तेः पूर्विकायाः संततेः परिवासम्* । एकस्याः पश्चिमिकायाः परिवास म् इति । ( 304व्1 = ग्ब्म् 6.921 ) यो वा पुनर् अन्यो ऽप्य् एवंजातीयः ।
अथापरः पुद्गलः संघावशेषे द्वे आपत्ती आपन्नः प्रतिच्छन्नां चाप्रतिच्छन्नां च विभ्रान्तः । स आगत्य पुनर् उपसंपन्नः । स यां प्रतिच्छाद्य विभ्रान्तस् ताम् अप्रतिच्छाद्य भिक्षूणाम् आरोचयति । यां त्व् अप्रतिच्छाद्य ताम् अप्रतिच्छाद्यैव भिक्षूणाम् आरोचयति । भिक्षवो भगवतः । भगवान् आह । ददत यूयं भिक्षवस् तस्य पुद्गलस्यैकस्या ( म्स्व् इइइ 69 ) आपत्तेः पूर्विकायाः संततेः परिवासम्* । एकस्याः पश्चिमिकायाः षड् रात्रं मानाप्यम् इति । यो वा पुनर् अन्यो ऽप्य् एवंजातीयः ।
अथापरः पुद्गलः एवं पारिवासिकः पर्युषितपरिवासो मानाप्यचारिकश् चरितमानाप्यः शिक्षादत्तकश् च वक्तव्यः । यथा विभ्रान्तः एवं श्रमणोद्देशकत्वं प्रतिजानाति । उन्मत्तकत्वं प्रतिजानाति । विक्षिप्तचित्तकत्वं वेदनाभिन्नकत्वम् अदर्शनायोत्क्षिप्तकत्वम् अप्रतिनिसृष्टे पापके दृष्टिगते उत्क्षिप्तकत्वम् इति विस्तरेण वाच्यम्* ।
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः । परिमाणवतीः प्रतिच्छन्नाः । स संघेनादर्शनायोत्क्षिप्तः । ओसारितः स ता आपत्तीः प्रतिच्छाद्य भिक्षूणाम् आरोचयति । भिक्षवो भगवतः । भगवान् आह । ददत यूयं भिक्षवस् तस्य पुद्गलस्य तासाम् आपत्तीनां परिमाणवत्य इति कृत्वा उभयसंततेः परिवासं पूर्विकायाः पश्चिमिकायाश् चेति । यो वा पुनर् अन्यो ऽप्य् एवंजातीयः ।
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः । परिमाणवतीः प्रतिच्छन्नाः । स संघेनादर्शनायोत्क्षिप्तः । ओसारितः स ता आपत्तीर् अप्रतिच्छाद्य भिक्षूणाम् आरोचयति । भिक्षवो भगवतः । भगवान् आह । ददत यूयं भिक्षवस् तस्य पुद्गलस्य तासाम् आपत्तीनां परिमाणवत्य इति कृत्वा पूर्विकायाः संततेः परिवासम् इति । यो वा पुनर् अन्यो ऽप्य् एवंजातीयः ।
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः । परिमाणवतीर् अप्रतिच्छन्नाः । स संघेनादर्शनायोत्क्षिप्तः । ओसारितः स ता आपत्तीः ( म्स्व् इइइ 70 ) प्रतिच्छाद्य भिक्षूणाम् आरोचयति । भिक्षवो भगवतः । भगवान् आह । ददत यूयं भिक्षवस् तस्य पुद्गलस्य तासाम् आपत्तीनां परिमाणवत्य इति कृत्वा पश्चिमिकायाः संततेः परिवासम् इति । यो वा पुनर् अन्यो ऽप्य् एवंजातीयः ।
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः । परिमाणवतीर् अप्रतिच्छन्नाः । स संघेनादर्शनायोत्क्षिप्तः । ओसारितः स ता आपत्तीर् अप्रतिच्छाद्य भिक्षूणाम् आरोचयति । भिक्षवो भगवतः । भगवान् आह । ददत यूयं भिक्षवस् तस्य पुद्गलस्य तासाम् आपत्तीनां परिमाणवत्य इति कृत्वा षड् रात्रं मानाप्यम् इति । यो वा पुनर् अन्यो ऽप्य् एवंजातीयः ।
यथा परिमाणवतीर् एवम् अपरिमाणवतीः । यथा ( 305र्1 = ग्ब्म् 6.922 ) अदर्शनायोत्क्षिप्तकेनाष्टाव् एवम् अप्रतिकर्मायोत्क्षिप्तकेनाष्टाव् एवम् अप्रतिनिसृष्टे पापके दृष्टिगते उत्क्षिप्तकेनाष्टौ ।
पारिवासिकः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नो विभ्रान्तः । स आगत्य पुनर् उपसंपन्नः । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । अपर्युषितपरिवासं परिवस तु । पर्युषितपरिवासो भविष्यतीति ।
यथा विभ्रान्त एवं श्रमणोद्देशकत्वं प्रतिजानाति । उन्मत्तकत्वं वि क्षिप्तचित्तकत्वं वेदनाभिन्नकत्वम् अदर्शनायोत्क्षिप्तकत्वम् अप्रतिकर्मायोत्क्षिप्तकत्वम्* ।
पर्युषितपरिवासः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नो विभ्रान्तः । स आगत्य पुनर् उपसंपन्नः । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । ( म्स्व् इइइ 71 ) भगवान् आह । पर्युषितपरिवास एवासौ भिक्षवः पुद्गलः । ददतास्य मानाप्यम् इति ।
यथा विभ्रान्तः एवं श्रमणोद्देश कत्वं प्रतिजानाति । पूर्ववद् एव पेयालो यावद् अप्रतिनिसृष्टे पापके दृष्टिगते उत्क्षिप्तकत्वम्* ।
मानाप्यचारिकः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नो विभ्रान्तः । स आगत्य पुनर् उपसंपन्नः । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । अचरितं चरतु । चरितमानाप्यो भविष्यतीति । यथा विभ्रान्तः पूर्ववत्* । एष एव पेयालः ।
चरितमानाप्यः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नो विभ्रान्तः । स आगत्य पुनर् उपसंपन्नः । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । चरितमानाप्य एवासौ भिक्षवः । आवर्हतैनम् इति । यथा विभ्रान्तः पूर्ववत्* । एष एव पेयालः ।
अदर्शनायोत्क्षिप्तकः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः अप्रतिच्छन्नाम्* । स संघेनादर्शनायोत्क्षिप्तः । ओसारितः स ताम् आपत्तिं प्रतिच्छाद्य भिक्षूणाम् आरोचयति । भिक्षवो भगवतः । भगवान् आह । ददत यूयं भिक्षवस् तस्य पुद्गलस्य तास्या आपत्तेः पश्चिमिकायाः संततेः परिवासम् इति । यो वा पुनर् अन्यो ऽप्य् एवंजातीयः ।
अदर्शनायोत्क्षिप्तकः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः अप्रतिच्छन्नाम्* । स संघेनादर्शनायोत्क्षिप्तः । ओसारितः स ताम् आपत्तिम् अप्रतिच्छाद्य भिक्षूणाम् आरोचयति । भिक्षवो भगवतः । भगवान् आह । ददत यूयं भिक्षवस् तस्य पुद्गलस्य षड् रात्रं मानाप्यम् इति । यो वा पुनर् अन्यो ऽप्य् एवंजातीयः ।
यथा शुद्धकेन द्वे एवं जानतो द्वे स्मरतो द्वे वैमतिकेन द्वे । यथादर्शनायोत्क्षिप्तकेनाष्टौ एवम् अप्रतिकर्मायोत्क्षिप्तकेनाष्टौ अप्रतिनिसृष्टे पापके दृष्टिगते उत्क्षिप्तकेनाष्टौ ।
उद्दानम्* ।
पर्यन्तेन द्वादशिका नविकाः सार्वकालिकाः ।
यामिकां नविकां कृत्वा पदानि दश पंच च ॥
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः । अपरिमाणवतीः प्रतिच्छन्नाः । स तासाम् आपत्तीनाम् आपत्तिपर्यन्तं जानाति नो तु रात्रिपर्यन्तम्* । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । ददत यूयं भिक्षवस् तस्य पुद्गलस्य तासाम् आपत्तीनाम् अपरिमाणवत्य ( 305व्1 = ग्ब्म् 6.923 ) इति कृत्वा शुद्धान्तिकं परिवासम् इति । यो वा पुनर् अन्यो ऽप्य् एवंजातीयः ।
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः । अपरिमाणवतीः प्रतिच्छन्नाः । स तासाम् आपत्तीनाम् रात्रिपर्यन्तं जानाति नो त्व् आपत्तिपर्यन्तम्* । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । ददत यूयं भिक्षवस् तस्य पुद्गलस्य तासाम् आपत्तीनाम् अपरिमाणवत्य ( म्स्व् इइइ 73 ) इति कृत्वा यथा प्रतिच्छन्नानां परिवासम् इति । यो वा पुनर् अन्यो ऽप्य् एवंजातीयः ।
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः । अ परिमाणवतीः प्रतिच्छन्नाः । स तासां नैवापत्तिपर्यन्तं जानाति नो रात्रिपर्यन्तम् इति । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । ददत यूयं भिक्षवस् तस्य पुद्गलस्य तासाम् आपत्तीनाम् अपरिमाणवत्य इति कृत्वा शुद्धान्तिकं परिवासम् इति । यो वा पुनर् अन्यो ऽप्य् एवंजातीयः ।
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः । अपरिमाणवतीः प्रतिच्छन्नाः । स तासाम् आपत्तिपर्यन्तं जानाति रात्रिपर्यन्तम् इति । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । ददत यूयं भिक्षवस् तस्य पुद्गलस्य तासाम् आपत्तीनाम् अपरिमाणवत्य इति कृत्वा यथा प्रतिच्छन्ना नां परिवासम् इति । यो वा पुनर् अन्यो ऽप्य् एवंजातीयः । यथा जानतश् चत्वारि एवं स्मरतश् चत्वारि वैमतिकश् चत्वारि ।
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः प्रतिच्छन्नाम्* । तस्य संघेन परिवासो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । स ( म्स्व् इइइ 74 ) पारिवासिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नाम्* । तस्य संघेन मूलपरिवासो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । स मूलपारिवासिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नाम्* । तस्य संघेन मूलापकर्षो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । मानाप्यम् अप्य् अधर्मेण । आव्रीढो ऽप्य् अधर्मेण । अयम् उच्यते सार्वकालिकः पुद्गलः अशुद्धः अव्युत्थितस् तस्या आपत्तेर् न परिमुच्यते ।
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः प्रतिच्छन्नाम्* । तस्य संघेन परिवासो दत्तः धर्मेण कर्मणाकोप्येनास्थापनार्हेण । स पारिवासिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नाम्* । तस्य संघेन मूलपरिवासो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । स मूलपारिवासिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नाम्* । तस्य संघेन मूलापकर्षो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । मानाप्यम् अप्य् अधर्मेण । आव्रीढो ऽप्य् अधर्मेण । ( म्स्व् इइइ 75 ) अयम् उच्यते यद्भूयस्कालकः पुद्गलः अशुद्धः अव्युत्थितस् तस्या आपत्तेर् न परिमुच्यते ।
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः प्रतिच्छन्नाम्* । तस्य संघेन परिवासो दत्तः धर्मेण कर्मणाकोप्येनास्थापनार्हेण ( 306र्1 = ग्ब्म् 6.924 ) । स पारिवासिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नाम्* । तस्य संघेन मूलपरिवासो दत्तः धर्मेण कर्मणाकोप्येनास्थापनार्हेण । स मूलपारिवासिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नाम्* । तस्य संघेन मूलापकर्षो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । मानाप्यम् अप्य् अधर्मेण । आव्रीढो ऽप्य् अधर्मेण । अयम् उच्यते उपार्धकालकः पुद्गलः अशुद्धः अव्युत्थित स् त स्या आपत्तेर् न परि मुच्यते ।
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः प्रतिच्छन्नाम्* । तस्य संघेन परिवासो दत्तः धर्मेण कर्मणाकोप्येनास्थापनार्हेण । स पारिवासिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नाम्* । तस्य संघेन मूलपरिवासो दत्तः धर्मेण कर्मणाकोप्येनास्थापनार्हेण । स मूलपारिवासिक एव सन् संघावशेषा म् आपत्ति म् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नाम्* । तस्य संघेन मूलापकर्षो दत्तः धर्मेण कर्मणाकोप्येनास्थापनार्हेण । मानाप्य म् अप्य् अ धर्मेण । आव्रीढो ऽप्य् अधर्मेण । अयम् उच्यते एकदेशकालकः पुद्गलः अशुद्धो ऽव्युत्थितस् तस्या आ पत्तेर् न परिमुच्यते ।
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः प्रतिच्छन्नाम्* । तस्य संघेन परिवासो दत्तः धर्मेण कर्मणाकोप्येनास्थापनार्हेण । स पारिवासिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नाम्* । तस्य संघेन मूलापकर्षो दत्तः धर्मेण कर्मणा कोप्येनास्थापनार्हेण । स मूलपारिवासिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नाम्* । तस्य संघेन मूलापकर्षो दत्तः धर्मेण कर्मणाकोप्येनास्थापनार्हेण । मानाप्यम् अपि धर्मेण । आव्रीढस् त्व् अधर्मेण । अयम् उच्यते प्रदेशकालकः पुद्गलः अशुद्धो ऽव्युत्थितस् तस्या आ पत्तेर् न परिमुच्यते ।
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः प्रतिच्छन्नाम्* । तस्य संघेन परिवासो दत्तः धर्मेण कर्मणाकोप्येनास्थापनार्हेण । स पारिवासिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नाम्* । तस्य संघेन मूलपरिवासो दत्तः धर्मेण कर्मणाकोप्येनास्थापनार्हेण । स मूलपारिवासिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नाम्* । तस्य संघेन मूलापकर्षो दत्तः धर्मेण कर्मणाकोप्येनास्थापनार्हेण । मानाप्यम् अपि धर्मेण । आव्रीढो ऽपि धर्मेण । अयम् उच्यते अपगतकाल क ः पुद्गलः शुद्धो व्युत्थितस् तस्या आ पत्तेः परिमुच्यते ।
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः अप्रतिच्छन्नाम्* । तस्य संघेन मानाप्यं दत्तम् अधर्मेण कर्मणा कोप्येन ( 306व्1 = ग्ब्म् 6.925 ) स्थापनार्हेण । ( म्स्व् इइइ 77 ) स मानाप्यचारिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नाम्* । तस्य संघेन मूलमानाप्यं दत्तम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । स मूलमानाप्यचारिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नाम्* । तस्य संघेन मूलापकर्षमानाप्यं दत्तम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । आव्रीढो ऽप्य् अधर्मेण । अयम् उच्यते सार्वकालिकः पुद्गलः अशुद्धः अव्युत्थितस् तस्या आ पत्तेर् न परिमुच्यते ।
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः अप्रतिच्छन्नाम्* । तस्य संघेन मानाप्यं दत्तं धर्मेण कर्मणाकोप्येनास्थापनार्हेण । स मानाप्यचारिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नाम्* । तस्य संघेन मूलमानाप्यं दत्तम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । स मूलमानाप्यचारिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नाम्* । तस्य संघेन मूलापकर्षमानाप्यं दत्तम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । आव्रीढो ऽप्य् अधर्मेण । अयम् उच्यते यद्भूयस्कालकः पुद्गलः अशुद्धः अव्युत्थितस् तस्या आ पत्तेर् न परिमुच्यते ।
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः अप्रतिच्छन्नाम्* । तस्य संघेन मानाप्यं दत्तं धर्मेण कर्मणाकोप्येनास्थापनार्हेण । स मानाप्यचारिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नाम्* । तस्य संघेन मूलमानाप्यं ( म्स्व् इइइ 78 ) दत्तं धर्मेण कर्मणाकोप्येनास्थापनार्हेण । स मूलमानाप्यचारिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरा पत्तिम् अन्तरा पत्तिप्रतिरूपां प्रतिच्छन्नाम्* । तस्य संघेन मूलापकर्षमानाप्यं दत्तम् अधर्मेण कर्मणा कोप्येन स्थाप नार्हेण । आव्रीढो ऽप्य् अधर्मेण । अयम् उच्यते उपार्धकालकः पुद्गलः अशुद्धः अव्युत्थितस् तस्या आ पत्तेर् न परिमुच्यते ।
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः अप्रतिच्छन्नाम्* । तस्य संघेन मानाप्यं दत्तं धर्मेण कर्मणाकोप्येनास्थापनार्हेण । स मानाप्यचारिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नाम्* । तस्य संघेन मूलमानाप्यं दत्तं धर्मेण कर्मणाकोप्येनास्थापनार्हेण । स मूलमानाप्यचारिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नाम्* । तस्य संघेन मूलापकर्षमानाप्यं दत्तं धर्मेण कर्मणाकोप्येनास्थापनार्हेण । आव्रीढस् त्व् अधर्मेण । अयम् उच्यते एकदेशकालकः पुद्गलः अशुद्धः अव्युत्थितस् तस्या आ पत्तेर् न परिमुच्यते ।
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः अ प्रतिच्छन्नाम्* । तस्य संघेन मानाप्यं दत्तं धर्मेण कर्मणाकोप्येनास्थापनार्हेण । स मानाप्यचारिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नाम्* । तस्य संघेन मूलमानाप्यं दत्तं धर्मेण कर्मणाकोप्येनास्थापनार्हेण । स ( 307र्1 = ग्ब्म् 6.926 ) मूलमानाप्यचारिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नाम्* । तस्य संघेन मूलापकर्षमानाप्यं दत्तं धर्मेण कर्मणाकोप्येनास्थापनार्हेण । ( म्स्व् इइइ 79 ) आव्रीढो ऽपि धर्मेण । अयम् उच्यते अपगतकालकः पुद्गलः शुद्धो व्युत्थितस् तस्या आ पत्तेः परिमुच्यते ।
द्वौ पुद्गलौ संघावशेषाम् आपत्तिम् आपन्नौ देशयिष्यावो देशयिष्याव इति । तत्रैको देशयति द्वितीयो न देशयति । तत्र यो ऽसौ न देशयति तं संबहुला विनयातिसारिणीर् दुष्ठुला आपत्तिर् देशयित्वा पश्चात् परिवासो देयः मूलपरिवासो मानाप्यम्* । आवर्हितव्यश् च ।
द्वौ पुद्गलौ संघावशेषाम् आपत्तिम् आपन्नौ । ताव् अस्मिन्न् एवावासे पुद्गलस्यान्तिके देशयिष्यावो देशयिष्याव इति । तत्रैको देशयति द्वितीयो न देशयति । तत्र यो ऽसौ न देशयति तं संबहुला विनयातिसारिणीर् दुष्ठुला आपत्तिर् देशयित्वा पश्चात् परिवासो देयः मूलपरिवासो मानाप्यम्* । आवर्हितव्यश् च । यथा पुद्गलस्यान्तिके एवं द्वाभ्यां संबहुलानां संघस्य । यथास्मिन्न् आवासे एवम् अन्यस्मिन्न् आवासे ।
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः प्रतिच्छन्नाम्* । तस्य संघेन परिवासो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । स पारिवासिक एव सन्न् अन्यापत्तिं जानाति यानेन संघमध्ये नारोचिता । स ताम् आपत्तिं जानाति । ताम् अप्य् आपत्तिं जानाति यानेन संघमध्ये नारोचिता । स भिक्षूणाम् आरोचयति । अहम् अस्म्य् आयुष्मन्तः संघावशेषाम् आपत्तिम् आपन्नः प्रतिच्छन्नाम्* । तस्य मम संघेन परिवासो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । सो ऽहं पारिवासिक एव सन्न् अन्यापत्तिं ( म्स्व् इइइ 80 ) जानामि या मे संघमध्ये नारोचिता । सो ऽहं ताम् आपत्तिं न जानामि यस्या मम संघेन परिवासो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । साधु मे आयुष्मन्तस् तस्याः पूर्विकाया आपत्तेर् अपि परिवासं ददतु धर्मेण कर्मणाकोप्येनास्थापनार्हेण । अस्याश् च पश्चिमिकायाः । तस्यास् ते भिक्षवः पूर्विकाया आपत्तेः परिवासं ददति धर्मेण कर्मणाकोप्येनास्थापनार्हेण । तस्यास् तु पश्चिमिकायाः परिवासं ददति अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । स पारिवासिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नाम्* । स ताम् अन्तरापत्तिं जानाति । ताम् अप्य् आपत्तिं जानाति यस्या अस्य संघेन परिवासो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । स भिक्षूणाम् आरोचयति । अहम् अस्म्य् आयुष्मन्तः संघावशेषाम् आपत्तिम् आपन्नः प्रतिच्छन्नाम्* । तस्य मम संघेन परिवासो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । सो ऽहं पारिवासिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नाम्* । सो ऽहं ताम् अन्तरापत्तिं जानामि यस्या मम संघेन परिवासो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । साधु मे आयुष्मन्तस् तस्याः पूर्विकाया आपत्तेर् मूलपरिवासं ददतु धर्मेण ( 307व्1 = ग्ब्म् 6.927 ) कर्मणाकोप्येनास्थापनार्हेण । तस्याश् चान्तरापत्तेर् मूलपरिवासम् इति । तस्यास् ते भिक्षवः पूर्विकाया आपत्तेः परिवासं ददति धर्मेण कर्मणाकोप्येनास्थापनार्हेण । तस्यास् त्व् अन्तरापत्तेर् मूलपरिवासम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । स मूलपारिवासिक एव सन् संघावशेषाम् आपत्तिम् ( म्स्व् इइइ 81 ) आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नाम्* । स तां प्रत्यन्तरापत्तिं जानाति । ताम् अप्य् आपत्तिं जानाति यस्या अस्य संघेन मूलपरिवासो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । स भिक्षूणाम् आरोचयति । अहम् अस्म्य् आयुष्मन्तः संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिरूपां प्रतिच्छन्नाम्* । तस्य मम संघेन मूलपरिवासो दत्तः धर्मेण कर्मणाकोप्येनास्थापनार्हेण । सो ऽहं मूलपारिवासिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नाम्* । सो ऽहं तां प्रत्यन्तरापत्तिं जानामि । ताम् अप्य् अ न्तरा पत्तिं जानामि यस्या मम संघेन मूलपरिवासो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । साधु मे आयुष्मन्तस् तस्या अन्तरापत्तेर् मूलपरिवासं ददतु धर्मेण कर्मणाकोप्येनास्थापनार्हेण । अस्याश् च प्रत्यन्तरापत्तेर् मूलापकर्षम् इति । तस्यास् ते भिक्षवः पूर्विकाया आपत्तेर् मूलपरिवासं ददति । तस्यास् तु प्रत्यन्तरापत्तेर् मूलापकर्षं धर्मेण कर्मणा कोप्येनास्थापनार्हेण ।
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः अप्रतिच्छन्नाम्* । तस्य संघेन मानाप्यं दत्तम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । स मानाप्यचारिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपाम् अप्रतिच्छन्नाम्* । स ताम् अन्तरापत्तिं जानाति यस्या अस्य संघेन मानाप्यं दत्तम् अधर्मेण कर्मणा ( म्स्व् इइइ 82 ) कोप्येन स्थापनार्हेण । स भिक्षूणाम् आरोचयति । अहम् अस्म्य् आयुष्मन्तः संघावशेषाम् आपत्तिम् आपन्नः अप्रतिच्छन्नाम्* । तस्य मम संघेन मानाप्यं दत्तम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । सो ऽहं मानाप्यचारिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिम् पूर्वापत्तिप्रतिरूपाम् अप्रतिच्छन्नाम्* । सो ऽहं ताम् अन्तरापत्तिं जानामि यस्या मम संघेन मानाप्यं दत्तम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । साधु मे आयुष्मन्तस् तस्याः पूर्विकाया आपत्तेर् मानाप्यं ददतु धर्मेण कर्मणाकोप्येनास्थापनार्हेण । अस्याश् चान्तरापत्तेर् मूलमानाप्यम् इति । तस्यास् ते भिक्षवः पूर्विकाया आपत्तेर् मानाप्यं ददति धर्मेण कर्मणाकोप्येनास्थापनार्हेण । अस्यास् त्व् अन्तरापत्तेर् मूलमानाप्यम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । स मूलमानाप्यचारिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपाम् अप्रतिच्छन्नाम्* । स ताम् प्रत्यन्तरापत्तिं जानाति । ताम् अप्य् अन्तरापत्तिं जानाति यस्या अस्य संघेन मूलमानाप्यं दत्तम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । स भिक्षूणाम् आरोचयति । अहम् अस्म्य् आयुष्मन्तः संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपाम् अप्रतिच्छन्नाम्* । तस्य मम संघेन मूलमानाप्यं ( 308र्1 = ग्ब्म् 6.928 ) दत्तम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । सो ऽहं मूलमानाप्यचारिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपाम् अप्रतिच्छन्नाम्* । सो ऽहं तां प्रत्यन्तरापत्तिं जानामि । ताम् अप्य् अन्तरापत्तिं जानामि यस्या मम संघेन मूलमानाप्यं दत्तम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । साधु साधु मे ( म्स्व् इइइ 83 ) आयुष्मन्तस् तस्याः पूर्विकाया अन्तरापत्तेर् मूलमानाप्यं ददतु धर्मेण कर्मणाकोप्येनास्थापनार्हेण । अस्याश् च प्रत्यन्तरापत्तेर् मूलापकर्षमानाप्यम् इति । तस्यास् ते भिक्षवः पूर्विकाया अन्तरापत्तेर् मूलमानाप्यं ददति धर्मेण कर्मणाकोप्येनास्थापनार्हेण । अस्याश् च प्रत्यन्तरापत्तेर् मूलापकर्षमानाप्यम्* । यथा जानता पञ्च एवं स्मरता पञ्च वैमतिकेन पञ्च ।
उद्दानम्* ।
यथापरेण द्वादशिका वस्तु शोधयित्वा च षट्किकाः ।
महाभूमिं शोधयित्वा पुद्गलवस्तु समुद्दितम्* ॥
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः प्रतिच्छन्नाम्* । तस्य संघेन परिवासो दत्तम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । स पारिवासिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नाम्* । स ताम् अन्तरापत्तिं जानाति । ताम् अप्य् आपत्तिं जानाति यस्या अस्य संघेन परिवासो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । स भिक्षूणाम् आरोचयति । अहम् अस्म्य् आयुष्मन्तः संघावशेषाम् आपत्तिम् आपन्नः प्रतिच्छन्नाम्* । तस्य मम संघेन परिवासो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । सो ऽहं पारिवासिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नाम्* । सो ऽहं ताम् अन्तरापत्तिं जानामि । ताम् अप्य् आपत्तिं जानामि यस्या मम संघेन परिवासो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । साधु मे आयुष्मन्तस् तस्याः पूर्विकाया आपत्तेः परिवासं ददतु धर्मेण कर्मणाकोप्येनास्थापनार्हेण । ( म्स्व् इइइ 84 ) तस्याश् चान्तरापत्तेर् मूलपरिवासम् इति । तस्यास् ते भिक्षवस् तस्याः पूर्विकाया आपत्तेः परिवासं ददति धर्मेण कर्मणाकोप्येनास्थापनार्हेण । अस्यास् त्व् अन्तरापत्तेर् मूलपरिवासम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । स मूलपारिवासिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नाम्* । स तां प्रत्यन्तरापत्तिं जानाति । ताम् अप्य् अन्तरापत्तिं जानाति यस्या अस्य संघेन मूलपरिवासो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । स भिक्षूणाम् आरोचयति । अहम् अस्म्य् आयुष्मन्तः संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिरूपां प्रतिच्छन्नाम्* । तस्य मम संघेन मूलपरिवासो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । सो ऽहं मूलपारिवासिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नाम्* । सो ऽहं तां प्रत्यन्तरापत्तिं जानामि । ताम् अप्य् अन्तरापत्तिं जानामि ( 308व्1 = ग्ब्म् 6.929 ) यस्या मम संघेन मूलपरिवासो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । साधु मे आयुष्मन्तस् तस्याः पूर्विकाया अन्तरापत्तेर् मूलपरिवासं ददतु धर्मेण कर्मणाकोप्येनास्थापनार्हेण । अस्याश् च प्रत्यन्तरापत्तेर् मूलापकर्षम् इति । तस्यास् ते भिक्षवः पूर्विकाया अन्तरापत्तेर् मूलपरिवासं ददति धर्मेण कर्मणाकोप्येनास्थापनार्हेण । तस्यास् तु प्रत्यन्तरापत्तेर् मूलापकर्षं धर्मे ण कर्म णाकोप्येनास्थापनार्हेण ।
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः अप्रतिच्छन्नाम्* । तस्य संघेन मानाप्यं दत्तम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । स मानाप्यचारिक एव सन् संघावशेषाम् आपत्तिम् ( म्स्व् इइइ 85 ) आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपाम् अप्रतिच्छन्नाम्* । स ताम् अन्तरापत्तिं जानाति । ताम् अप्य् आपत्तिं जानाति यस्या अस्य संघेन मानाप्यं दत्तम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । स भिक्षूणाम् आरोचयति । अहम् अस्म्य् आयुष्मन्तः संघावशेषाम् आपत्तिम् आपन्नः अप्रतिच्छन्नाम्* । तस्य मम संघेन षड् रात्रं मानाप्यं दत्तम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । सो ऽहं मानाप्यचारिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिम् पूर्वापत्तिप्रतिरूपाम् अप्रतिच्छन्नाम्* । सो ऽहं ताम् अन्तरापत्तिं जानामि । ताम् अप्य् आपत्तिं जानामि यस्या मम संघेन मानाप्यं दत्तम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । साधु मे आयुष्मन्तस् तस्याः पूर्विकाया आपत्तेर् मानाप्यं ददतु धर्मेण कर्मणाकोप्येनास्थापनार्हेण । अस्याश् चान्तरापत्तेर् मूलमानाप्यम् इति । तस्यास् ते भिक्षवः पूर्विकाया आपत्तेर् मानाप्यं ददति धर्मेण कर्मणाकोप्येनास्थापनार्हेण । अस्यास् त्व् अन्तरापत्तेर् मूलमानाप्यम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । स मूलमानाप्यचारिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपाम् अप्रतिच्छन्नाम्* । स ताम् प्रत्यन्तरापत्तिं जानाति । ताम् अप्य् अन्तरापत्तिं जानाति यस्या अस्य संघेन मूलमानाप्यं दत्तम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । स भिक्षूणाम् आरोचयति । अहम् अस्म्य् आयुष्मन्तः संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपाम् अप्रतिच्छन्नाम्* । तस्य मम संघेन मूलमानाप्यं दत्तम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । सो ऽहं मूलमानाप्यचारिक एव सन् संघावशेषाम् आपत्तिम् ( म्स्व् इइइ 86 ) आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपाम् अप्रतिच्छन्नाम्* । सो ऽहं तां प्रत्यन्तरापत्तिं जानामि । ताम् अप्य् अन्तरापत्तिं जानामि यस्या मम संघेन मूलमानाप्यं दत्तम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण । साधु मे आयुष्मन्तस् तस्याः पूर्विकाया अन्तरापत्तेर् मूलमानाप्यं ददतु धर्मेण कर्मणाकोप्येनास्थापनार्हेण । अस्याश् च प्रत्यन्तरापत्तेर् मूलापकर्षमानाप्यम् इति । तस्यास् ते भिक्षवः पूर्विकाया अन्तरापत्तेर् मूलमानाप्यं ददति धर्मेण कर्मणाकोप्येनास्थापनार्हेण । अस्यास् ( 309र्1 = ग्ब्म् 6.930 ) तु प्रत्यन्तरापत्तेर् मूलापकर्षमानाप्यम् इति । यथा जानता चत्वारि एवं स्मरता चत्वारि वैमतिकेन चत्वारि ।
पारिवासिकः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । वस्तु शोधयित्वा विनयातिसारिणीं च दुष्ठुलाम् आपत्तिं देशयित्वा पारिवासिक एव सन्* ।
उपार्धपारिवासिकः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । वस्तु शोधयित्वा विनयातिसारिणीं च दुष्ठुलाम् आपत्तिं देशयित्वा उपार्धपारिवासिक एव सन्* ।
यद्भूयःपारिवासिक एव पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । वस्तु ( म्स्व् इइइ 87 ) शोधयित्वा विनयातिसारिणीं च दुष्ठुलाम् आपत्तिं देशयित्वा यद्भूयःपारिवासिक एव सन्* ।
मानाप्यचारिकः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । वस्तु शोधयित्वा विनयातिसारिणीं च दुष्ठुलाम् आपत्तिं देशयित्वा मानाप्यचारिक एव सन्* ।
उपार्धमानाप्यचारिकः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । वस्तु शोधयित्वा विनयातिसारिणीं च दुष्ठुलाम् आपत्तिं देशयित्वा उपार्धमानाप्यचारिक एव सन्* ।
यद्भूयोमानाप्यचारिकः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । वस्तु शोधयित्वा विनयातिसारिणीं च दुष्ठुलाम् आपत्तिं देशयित्वा यद्भूयोमानाप्यचारिक एव सन्* ।
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थिताम् एकरात्रिप्रतिच्छन्नाम्* । उद्ग्रहसमुत्थितां द्विरात्रिप्रतिच्छन्नाम्* । मैथुन संलाप समुत्थितां त्रिरात्रिप्रतिच्छन्नाम्* । परिचर्यासमुत्थितां चतूरात्रिप्रतिच्छन्नाम्* । सांचरित्रसमुत्थितां पंचरात्रिप्रतिच्छन्नाम्* । कुटिकासमुत्थितां षड्रात्रिप्रतिच्छन्नाम्* । ( म्स्व् इइइ 88 ) महल्लकसमुत्थितां सप्तरात्रिप्रतिच्छन्नाम्* । अमूलकसमुत्थिताम् अष्टरात्रिप्रतिच्छन्नाम्* । लेशिसमुत्थितां नवरात्रिप्रतिच्छन्नाम्* । संघभेदसमुत्थितां दशरात्रिप्रतिच्छन्नाम्* । तस्यानुवर्तितसमुत्थिताम् एकादशरात्रिप्रतिच्छन्नाम्* । कुलदूषिकसमुत्थितां द्वादशरात्रिप्रतिच्छन्नाम्* । दौर्वचस्यसमुत्थितां त्रयोदशरात्रिप्रतिच्छन्नाम्* । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । या आसाम् आपत्तीनां खरता च गुरुतरा च तीव्रेण चातिनिवेशेन कृता तस्या वशेन परिवासो दातव्यो मूलपरिवासो मूलापकर्षो मानाप्यं चावर्हितव्यश् चेति ।
पुद्गलवस्तु समाप्तम्* ॥
मूल पाठ: Pudgalavastu · Edition: N. Dutt: Gilgit Manuscript, vol. III: Mūlasarvāstivādavinayavastu, part 3 (Srinagar 1943), pp. 59-88: Pudgalavastu (second edition: Delhi 1984). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0