भाषा

ENहिગુ
ग्रंथ पाठ

प्रतीत्यसमुत्पादविभङ्गसूत्र · भाग 12

प्रतीत्यसमुत्पादविभङ्गसूत्र
0अ एवं मया श्रुतम् एकस्मिन् समये भगवाञ् च्छ्रावस्त्यां विहरति स्म । ज् ए तवने अनाथपिण्डदस्यारामे महता भिक्षुसंघेन सार्धम् अर्धत्रयोदशभिर् भिक्षुशतैः
म्स् अर्द्धत्रयोदशभिर्
0ब् तत्र भगवान्* भिक्षून् आमंत्रय् अ ते स्म ।
म्स् भिक्षूण्.
1अ प्रतीत्यसमुत्पादस्य वो भिक्षवः आदिञ् च देशयिष्यामि विभङ्गं च
1ब् तच् छृ णु त साधु च सुष्ठु च मनसिकुरुत भाषिष्ये ।
2अ प्रतीत्यसमुत्पादस्यादिः कतमः
2ब् यद् उतास्मिन् सतीदं भवत्य् अस्योत्पादाद् इदम् उत्पद्यते । यद् उताविद्याप्रत्ययाः संस्काराः संस्कारप्रत्ययं विज्ञानं विज्ञानप्रत्ययं नामरूपं नामरूपप्रत्ययं षडायतनं । षडायतनप्रत्ययः स्पर्शः स्पर्शप्रत्यया वेदना वेदनाप्रत्यया तृष्णा तृष्णाप्रत्ययम् उपादानं उपादानप्रत्ययो भवः भवप्रत्यया जातिः जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवंत्य् एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति ।
म्स् संम्भवंत्य्
2च् अयम् उच्यते प्रतीत्यसमुत्पादस्यादिः
3 विभङ्गः कतमः
4अ अविद्याप्रत्ययाः संस्कारा इत्य् अविद्या कतमा ।
4ब्α य त् त त् पूर्वान्ते अज्ञानं अपरान्ते अज्ञानं पूर्वान्तापरांते अज्ञानं
म्स् पूर्व्वान्ते; पूर्व्वान्तापरांते
4ब्β अध्यात्मम् अज्ञानं । बहिर्धा अज्ञानं । अध्यात्मबहिर्धा अज्ञानं
म्स् बहिर्द्धा; अद्ध्यात्मबहिर्द्धा
4ब्γ कर्मण्य् अज्ञानं । विपाके अज्ञानं कर्मविपाके अज्ञानं ।
4ब्δ बुद्धे अज्ञानं । धर्मे अज्ञानं सङ्घे अज्ञानं
4ब्ε दुःखे अज्ञानं समुदये अज्ञानं । निरोधे अज्ञानं । मार्गे अज्ञानं ।
4ब्ζ हेताव् अज्ञानं । हेतुसमुत्पन्नेषु धर्मेष्व् अज्ञानं ।
4ब्η कुशलाकुशलेषु सावद्यानवद्येषु । सेवितव्यासेवित् अ व्येषु । हीनप्रणीतकृष्णशुक्लसप्रतिभागप्रतीत्यसमुत्पन्नेषु धर्मेष्व् अज्ञानं । षट्सु वा पुनः स्पर्शायतनेषु यथाभूतसंप्रतिवेधे इति ।
4ब्θ यत् तत्र तत्र यथाभूतस्याज्ञानम् अदर्शनम् अनभिसमयः तमः संमोहः अविद्यान्धकारम्
4च् इयम् उच्यते अविद्या ।
5अ अविद्याप्रत्ययाः संस्कारा इति संस्काराः कतमे
5ब् त्रयः संस्काराः कायसंस्काराः वाक्संस्काराः मनःसंस्कारा इति ।
6अ संस्कारप्रत्ययं विज्ञानम् इति । विज्ञानं कतमत्*
6ब् षड् विज्ञानकायाः च् अक् षुर् व् इज्ञानं श्रोत्रघ्राणजिह्वाकायमनोविज्ञानं
7अα विज्ञानप्रत्ययं नामरूपम् इति । नाम कतमत्*
7अβ चत्वारः अरूपिणः स्कन्धाः कतमे चत्वारः वेदनास्कन्धः संज्ञास्कन्धः संस्कारस्कन्धः विज्ञानस्कन्धः
7ब्α रूपं कतमत्*
7ब्β यत् किञ् चिद् रूपं सर्व्वं तच् चत्वारि महाभूतानि । चत्वारि च महाभूतान्य् उपादाय
म्स् सर्व्वं
7च् इतीदं च रूपं पूर्वकं च नाम तद् ऐकध्यम् अभि सं क्षिप्य नामरूपम् इत्य् उच्यते
म्स् पूर्व्वकं
8अ नामरूपप्रत्ययं षडायतनम् इति । षडायतनं कतमत्*
8ब् षड् आध्यात्मिकान्य् आयतनानि । चक्षुर् आध्यात्मिकम् आयतनं । श्रोत्रं घ्राणं जिह्वा कायो मन अध्यात्मिकम् आयतनं ।
9अ षडायतनप्रत्ययः स्पर्श इति स्पर्शः कतमः
9ब् षट् स्पर्शकायाः चक्षुःसंस्पर्शः श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शः
म्स् श्रोत्त्र°

10अ स्पर्शप्रत्यया वेदनेति । वेदना कतमा ।
10ब् तिस्रो वेदनाः सुखा दुःखा अदुःखासुखा च ॥
11अ वेदनाप्रत्यया तृष्णेति । तृष्णा कतमा ।
11ब् तिस्र ः तृष्णाः कामतृष्णा । रूपतृष्णा । आरूप्यतृष्णा चा ।
12अ तृष्णाप्रत्ययम् उपादानम् इति । उपादानं कतमत्*
12ब् चत्वार्य् उपादानानि । कामोपादानं । दृष्ट्युपादानं । शीलव्रतोपादानं आत्मवादोपादानं ।
13अ उपादानप्रत्ययो भव इति भवः कतमः
13ब् त्रयो भवाः कामभवः रूपभवः आरूप्यभवः
14अ भव प् रत्यया जातिर् इति । जातिः कतमा ।
14ब् या तेषां तेषां सत्वानां तस्मिंस् तस्मिन् सत्वनिकाये जातिः संजातिर् अवक्रांतिर् अभिनिर्वृत्तिः प्रादुर्भावः स्कन्धप्रतिलम्भो धातुप्रतिलम्भः आय् अ तनप्रतिलम्भः स्कन्धानाम् अभिनिर्वृत्तिः जीवितेन्द्रियस्य प्रादुर्भावः
म्स् तस्मिंस् तस्मिंन्
15अ जातिप्रत्ययं जरामरणं इति जरा कतमा ।
15ब् यत् तत् खालित्यं पालित्यं वलीप्रचुरता जीर्णता । भुग्नता कुब्जगोपानसीवङ्कता । तिलकालकाचितगात्रता । खुरुखुरुप्रश्व् आ स् अ कायता पुरतःप्राग्भारकायता । दण्डविष्कंभणता । धन्धत्वं मन्दत्वं हानिः परिहाणि ः इन्द्रियाणां परिपाकः परिभेदः संस्काराणां पुराणीभावः जर्जरीभावः
15च् इयम् उच्यते जरा ॥
16अ मरणं कतमत्*
16ब् या तेषां तेषां सत्वानां तस्मात् तस्मात् सत्वनिकायात्* च्युतिश् च्यवनता भेदो ऽन्तरहाणिः आयुषो हानिः ऊष्मणो हानिः जीवितेन्द्रियस्य निरोधः स्कन्धानां निक्षेपो मरणं कालक्रिया
16च् इदम् उच्यते मरणम्
16द् इति इदं च मरणं पूर्विका च जरा तद् उभयम् ऐकध्यम् अभिसंक्षिप्य जरामरणम् इत्य् उच्यते ।
म्स् पूर्व्विका
17 अयम् उच्यते प्रतीत्यसमुत्पादस्य विभङ्गः
18 प्रतीत्यसमुत्पादस्य वो भिक्षवः आदिञ् च देशयिष्यामि विभङ्गञ् च इति मे यद् उक्तम् इदं मे तत् प्रत्य् उक्तं
19 इदम् अवोचद् भगवान् आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्द न्न् इ ति ॥

मूल पाठ: Pratītyasamutpādavibhaṅgasūtra · Edition: Jin-il Chung: "Pratītyasamutpādavibhaṅga-sūtra from Nālandā: A New Edition of the Brick Inscription B". In: International Journal of Buddhist Thought & Culture 27.1 (2017), pp. 107-136. · Data entry Jin-il Chung · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc