भाषा

ENहिગુ
ग्रंथ पाठ

प्रतीत्यसमुत्पादहृदयकारिका · भाग 11

प्रतीत्यसमुत्पादहृदयकारिका (प्स्ह्क्)
नागार्जुनकृता
द्वादश ये ऽङ्गविशेषा मुनिनोद्दिष्टाः प्रतीत्यसम्भूताः ।
ते क्लेशकर्मदुःखेषु सङ्गृहीतास्त्रिषु यथावत्
आद्याष्टमनवमाः स्युः क्लेशाः कर्म द्वितीयदशमौ च ।
शेषाः सप्त च दुःखं त्रिसङ्ग्रहा द्वादश तु धर्माः
त्रिभ्यो भवति द्वन्द्वं द्वन्द्वात्प्रभवन्ति सप्त सप्तभ्यः ।
त्रय उद्भवन्ति भूयस्तदेव[तु] भ्रमति भवचक्रम्
हेतुफलञ्च[हि]सर्वं जगदन्यो नास्ति कश्चिदिह सत्त्वः ।
शून्येभ्य एव शून्या धर्माः प्रभवन्ति धर्मेभ्यः
स्वाध्यायदीपमुद्रादर्पणघोष ऽर्ककान्तबीजाम्लैः ।
स्कन्धप्रतिसन्धिरसङ्क्रमश्च विद्वद्भिरवधार्यौ
य उच्छेदं प्रकल्पयत्यतिसूक्ष्मे ऽपि वस्तुनि ।
प्रतीत्यसम्भवस्यार्थमविज्ञः स न पश्यति
नापनेयमतः किञ्चित् प्रक्षेप्यं नापि किञ्चन ।
द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते
प्रतीत्यसमुत्पादहृदयकारिका आचार्य नागार्जुनकृता समाप्ता ।

मूल पाठ: Pratītyasamutpādahṛdayakārikā · Edition: Gyaltsen Namdrol: Pratityasamutpadahrdaya and Aryadharmadhatugarbhavivarana. Sarnath : CIHTS 1997, p. 29 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc