भाषा

ENहिગુ
ग्रंथ पाठ

Prasannapada · अध्याय 67

67.1

इह हि भगवता उषितब्रह्मचर्याणां तथागतशासनप्रतिपन्नान्नां धर्मानुधर्मप्रतिपत्तियुक्तानां पुद्गलानां द्विविधं निर्वाणमुपवर्णितं सोपधिशेषं निरुपधिशेषं च । तत्र निरवशेषस्य अविद्यारागादिकस्य क्लेशगणस्य प्रहाणात् सोपधिशेषं निर्वाणमिष्यते । तत्र उपधीयते ऽस्मिन्नात्मस्नेहः इति उपधिः । उपधिशब्देन आत्मप्रज्ञप्तिनिमित्ताः पञ्चोपादानस्कन्धा उच्यन्ते । शिष्यत इति शेषः, उपधिरेव शेषः उपधिशेषः, सह उपधिशेषेण वर्तते इति सोपधिशेषम् । किं तत्? निर्वाणम् । तच्च स्कन्धमात्रकमेव केवलं सत्कायदृष्टयादिक्लेशतस्कररहितमवशिष्यते निहताशेषचौरगणग्राममात्रावस्थानसाधर्म्येण । तत् सोपधिशेषं निर्वाणम् । यत्र तु निर्वाणे स्कन्धपञ्चकमपि नास्ति, तन्निरुपधिशेषं निर्वाणम् । निर्गतः उपधिशेषो ऽस्मिन्निति कृत्वा । निहताशेषचौरगणस्य ग्राममात्रस्यापि विनाशसाधर्म्येण । तदेव च अधिकृत्य उच्यते-
अभेदि कायो निरोधि सञ्ञा वेदना पि ति दहंसु सब्बा ।
वूपसमिंसु संखारा विञ्ञाणमत्थमगमा ति ॥
तथा-
असंलीनेन कायेन वेदनामध्यवासयत् ।
प्रद्योतस्येव निर्वाणं विमोक्षस्तस्य चेतसः ॥ इति ।
तदेवं निरुपधिशेषं निर्वाणं स्कन्धानां निरोधाल्लभ्यते । एतच्च द्विविधं निर्वाणं कथं युज्यते यदि क्लेशानां स्कन्धानां च निरोधो भवति? यदा तु सर्वमिदं शून्यम्, नैव किंचिदुत्पद्यते नापि किंचिन्निरुध्यते, तदा कुतः क्लेशाः, कुतो वा स्कन्धाः, येषां निरोधे निर्वाणं स्यादिति? तस्माद्विद्यत एव भावानां स्वभाव इति

67.2

अत्रोच्यते । ननु एवमपि सस्वभावाभ्युपगमे-
यद्यशून्यमिदं सर्वमुदयो नास्ति न व्ययः ।
प्रहाणाद्वा निरोधाद्वा कस्य निर्वाणमिष्यते

मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc