भाषा

ENहिગુ
ग्रंथ पाठ

Prasannapada · अध्याय 4

4.1

तत्र उपरतगमिक्रियमध्वजातं गतमित्युच्यते । आविश्यमानं गमिक्रियया वर्तमानं गम्यत इत्युच्यते । यद्गतमुपरतगमिक्रियं तद्वर्तमानगमिक्रियायोगवाचिना गम्यते इत्यनेन शब्देनोच्यमानमसंबद्धमिति कृत्वा गतं तावद् गम्यत इति न युज्यते । तावच्छब्देन च प्रतिषेधक्रमं दर्शयति ॥
अगतमपि न गम्यते । अगतं हि अनुपजातगमिक्रियमनागतमुच्यते, गम्यत इति च वर्तमानम् । अतो ऽनागतवर्तमानयोरत्यन्तभेदादगतमपि गम्यत इति न युज्यते । यदि अगतं कथं गम्यते, अथ गम्यते न तदगतमिति ॥
गम्यमाने ऽपि नास्ति गमनम्, यस्मात्-
गतागतविनिर्मुक्तं गम्यमानं न गम्यते ।
इह हि गन्ता यं देशमतिक्रान्तः स तस्य देशो गतः, यं च नातिक्रान्तः सो ऽस्यानागतः । न च गतागतव्यतिरेकेण तृतीयमपरमध्वजातं पश्यामो गम्यमानं नाम । यतश्चैवं गम्यमानं न गम्यते, गम्यत इति न प्रज्ञायते, तस्मान्नास्ति गम्यमानम् । अतो न तद् गमिक्रियया आविश्यते न गम्यत इति नास्ति गम्यमाने ऽपि गमनम् ॥
अथ स्यात्- गन्तुर्गच्छतो यश्चरणाक्रान्तो देशः, स गम्यमानः स्यादिति । नैवम्, चरणयोरपि परमाणुसांघातत्वात् । अङ्गुल्यग्रावस्थितस्य परमाणोर्यः पूर्वो देशः, स तस्य गते ऽन्तर्गतः । पार्ष्ण्यवस्थितस्य चरमपरमाणोर्य उत्तरो देशः, स तस्य अगते ऽन्तर्गतः । न च परमाणुव्यतिरेकेण चरणमस्ति । तस्मान्नास्ति गतागतव्यतिरेकेण गम्यमानम् । यथा चैवं चरणे विचारः, एवं परमाणूनामपि पूर्वापरदिग्भागसंबन्धेन विचारः कार्य इति । अथार्धगतं गम्यमानम्, उक्तमुत्तरं जायमानविचारेण । तस्माद्गम्यमानं न गम्यते इति सिद्धम्

4.2

तत्राह- गम्यत एव गम्यमानम् । इह हि-
चेष्टा यत्र गतिस्तत्र गम्यमाने च सा यतः ।
न गते नागते चेष्टा गम्यमाने गतिस्ततः

मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc