भाषा

ENहिગુ
ग्रंथ पाठ

Prasannapada · अध्याय 38

38.1

तत्र द्रष्टव्यं रूपम्,दर्शनं चक्षुः, द्रष्टा विज्ञानम् । एषां त्रयाणां द्विशो द्विशः संसर्गो नास्ति । चक्षुषो रूपस्य च, चक्षुषो विज्ञानस्य च, विज्ञानस्य रूपस्य च संसर्गो नास्ति । इत्येवं द्विशो द्विशः संसर्गो न भवति । सर्वशो ऽपि त्रयाणामप्येषां युगपच्च संसर्गो नास्ति

38.2

यथा च द्रष्टव्यदर्शनद्रष्टणां द्विशो द्विशः सर्वशश्च संसर्गाभावः,
एवं रागश्च रक्तश्च रञ्जनीयं च दृश्यताम् ।
रागस्य रक्तस्य च संसर्गो नास्ति, रागस्य रञ्जनीयस्य च, त्रयाणामपि युगपत्संसर्गो नास्ति । यथा चैषाम्, एवम्-
त्रैधेन शेषाः क्लेशाश्च शेषाण्यायतनानि च

मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc