भाषा

ENहिગુ
ग्रंथ पाठ

Prasannapada · अध्याय 21

21.1

तत्र करोतीति कारकः कर्ता । कुर्वाणस्यैव किंचित् कारकव्यपदेशो नाकुर्वाणस्य । तच्च करणं सद्भूतस्य वा कर्तुः परिकल्प्येत, असद्भूतस्य वा, सदसद्भूतस्य वा? क्रियते इति कर्म कर्तुरीप्सिततमम् । तदपि त्रिविधम्, सद्भूतमसद्भूतं सदसद्भूतं च । तत्र सद्भूतः कारकः क्रियायुक्तः सद्भूतं क्रियायुक्तं कर्म न करोतीत्येका प्रतिज्ञा । इदानीमसद्भूतो ऽपि क्रियाकारकरहितो ऽसद्भुतं क्रियारहितं कर्म न करोतीत्यपरा प्रतिज्ञा

21.2

तत्राद्यां प्रसाधयितुमाह-
सद्भूतस्य क्रिया नास्ति कर्म च स्यादकर्तृकम् ।
क्रियानिबन्धनत्वात्कारकव्यपदेशस्य, करोति क्रियायुक्त एव कश्चित्सद्भूतः कारकव्यपदेशं लभते, ततश्च तस्यैवंविधस्य क्रियाहेतुकलब्धकारकव्यपदेशस्य अपरा क्रिया नास्ति यया कर्म कुर्यात् । क्रियाभावाच्च यदा कारकः कर्म न करोति, तदा कारकनिरपेक्षमकर्तृकं कर्म स्यात् । न चाकर्तृकं कर्म संभवति बन्ध्यासूनोरिव घटकरणमिति । एवं तावत्
सद्भूतस्य क्रिया नास्ति कर्म च स्यादकर्तृकम् ।
इति दोषप्रसङ्गात् सद्भूतः कारकः कर्म न करोति ।
इदानीं सद्भूतमपि कर्म कारको न करोतीति प्रतिपादयन्नाह-
सद्भूतस्य क्रिया नास्ति कर्ता च स्यादकर्मकः

मूल पाठ: Prasannapada · Edition: P.L. Vaidya: Madhyamakaśāstra of Nāgārjuna, with the Commentary: Prasannapadā by Candrakīrti. Darbhaga 1960 (Buddhist Sanskrit Texts, 10). · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc