भाषा

ENहिગુ
ग्रंथ पाठ

प्रमाणविनिश्चय · भाग 11

र्1: द् अन्वयम् आपादयति । प्रतिषेधनिषेधस्य विधानरूपत्वात्* । असतः सपक्षान् न निवृत्तिर् इत्य् असपक्ष एव नास्तीति चेत्* । नेति सैव निवृत्तेर् निर्वृत्तिः असतः कथम् इष्टा । अभावप्रतिषेधो हि भावो
2: ऽसत्य् अप्य् अस्ति । भावप्रतिषेधस् तु न संभवतीत्य् अस्खलितप्रज्ञो देवानांप्रियो यस् तद्विषयं प्रतिषेधं नेच्छति । असद् अभाव इति च व्यवहरति । निर्लोठितश् चायम् अर्थो ऽसति नास्तितेत्य्
3: अर्थान्तरे । तेन नेह प्रतन्यते । न चासन्न् आत्मा सत्तासाधनवृत्तेः सन्दिग्धः स्यात्* । न च परेण तथोपगत इति ॥ अप्रमाणाद् अभ्युपगमात् तथैव भवति । अतिप्रसङ्गात्* ।
4: न चोपगमबलेन सपक्षासपक्षौ व्यवस्थाप्य प्रमाणप्रवर्तनं युक्तम्* । एवं ह्य् आगमसिद्ध आत्मा स्यात्* । नानुमानसिद्धः । तस्माद् अव्यतिरेके ऽप्य् असतः । सपक्षाद् व्यतिरेकः सन्दिग्धः
5: स्यात्* प्राणादीनां । आत्मनः सन्देहात्* । अत एव विपक्षाद् अपि । एकत्र हि नियमे सिद्धे ऽन्यनिवर्तनं
व्1: सिध्येत्* । अन्यथा क्वचिद् दृष्टे ऽभावसिधाव् अपि स्याद् एवादृष्टे संशयः । तथा ह्य् असकलव्यक्तिभेदव्यापिनो ऽप्य् अर्थाः केचित् तज्जातिसंभविनो दृष्टाः पार्थिवालोहलेख्यवत्* । विरोधस्य चादृष्टेः संदेह
2: एव । नैरात्म्येन प्राणादीनां उक्तलक्षणस्य विरोधस्यासिद्धेः । सन्दिग्धो नैरात्म्याद् व्यतिरेकः । आत्मप्रतिनियमे हि तत्कार्यात्मतया प्राणादीनां नैरात्म्येन सह विरोधः
3: स्यात्* । स च न सिध्यतीत्य् उक्तम्* । अस्तु नाम निरात्मकेभ्यो व्यतिरेकः प्राणादीनां तद्भावे च नैरात्म्यव्यावृत्तिः । तथापि नानैरात्म्याद् आत्मा जीवच्छरीरे सिध्यति । येनायं न व्यतिरेकस्याभावं
4: भावम् इच्छति । यथा व्यतिरेकाभवे ऽपि सपक्षे प्राणादिर् नेष्टः । सपक्षाव्यतिरेकी चेद् धेतुर् हेतुर् अतो ऽन्वयी । नान्वयव्यतिरेकी चेद् अनैरात्म्यं न सात्मकं । इति संग्रहश्लोकः ।
5: न प्राणादिसंभवेन नैरात्म्यव्यावर्तनाद् आत्मगति । किं तर्हि विधिमुखेनैव प्राणादयः

मूल पाठ: Pramāṇaviniścaya-fragment · Edition: K. Matsuda und E. Steinkellner: "The Sanskrit Manuscripts of Dharmakīrti's Pramāṇaviniścaya: Report on a Single Folio Fragment from the National Archives Collection, Kathmandu", WZKS 35 (1991), pp. 139-149. · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc