भाषा

ENहिગુ
ग्रंथ पाठ

प्रमाणवार्त्तिस्ववृत्ति · अध्याय 1

1.1

एxप्लनतोर्य् रेमर्क्स्
अ नुम्बेर् ओf fइवे fइगुरेस् अत् थे लेfत् सिदे इन्दिचतेस् थे लोचतिओन् ओf थे केय् wओर्द्
इन् थे बसिच् तेxत्स्. इन् थे चसे ओf थे स्व्, थे ह्ब् अन्द् थे व्न्, थे fइर्स्त् थ्रेए fइगुरेस्
इन्दिचते थे पगे नुम्बेर्, अन्द् थे लस्त् त्wओ इन्दिचते थे लिने नुम्बेर् (fओर् एxअम्प्ले,
स्व्16026=स्व् 160,26; ह्ब्02314=ह्ब् 23,14; व्न्06110=व्न् 61,10). इन् थे चसे ओf थे
प्व् अन्द् थे न्ब्, थे सेचोन्द् fइगुरे इन्दिचतेस् थे छप्तेर् नुम्बेर् अन्द् थे लस्त् थ्रेए
fइगुरेस् इन्दिचते थे करिक ओर् सुत्र नुम्बेर् (fओर् एxअम्प्ले, प्व्02232=प्व्, थे
प्रमनसिद्धि-छप्तेर् व्.232; न्ब्03015=न्ब्, थे परर्थनुमन-छप्तेर् सुत्र 15.
इन् थे चसे ओf थे स्प्, थे लस्त् त्wओ fइगुरेस् इन्दिचते थे करिक नुम्बेर् (fओर् एxअम्प्ले,
स्प्00015=स्प्, व्.15).
3. इन् थिस् दतबसे, सेन्तेन्चेस् अरे अर्तिfइचिअल्ल्य् दिविदेद् इन्तो wओर्द्-उनित्स्, अल्थोउघ् थेय्
इन्वोल्वे अ फोनेतिच् fउसिओन् ओर् उनिओन् इन् थे बसिच् तेxत्स्. fउर्थेर्, चोम्पोउन्द् wओर्द्स् अरे
दिविदेद् इन्तो थेइर् स्होर्तेस्त् चोन्स्तितुतिवे एलेमेन्त्स् (wए उसे अ ह्य्फेन् तो इन्दिचते थत्
ह्य्फेनतेद् एलेमेन्त्स् ओरिगिनल्ल्य् fओर्म् अ चोम्पोउन्द् wओर्द्) wइथ् थे fओल्लोwइन्ग्
एxचेप्तिओन्स्:
3.1. थे प्रेfइxएस् अ-, दुर्-, निह्- रेमैन् उन्दिविदेद्, इर्रेस्पेच्तिवे ओf अत्तछ्मेन्त् तो
wओर्द्स् ओर् चोम्पोउन्द् wओर्द्स्.
3.2. सुffइxएस् मकिन्ग् अन् अद्वेर्ब्, fओर् एxअम्प्ले -वत्, -वस, अरे दिविदेद्. बुत् सुffइxएस्
मकिन्ग् अ पोस्सेस्सिवे अद्जेच्तिवे, fओर् एxअम्प्ले -वत्, -मत्, रेमैन् उन्दिविदेद्, अन्द् तेर्म्स्
सुछ् अस् अ नुमेरल्+ -ध।-विध।-प्रकर रेमैन् अल्सो उन्दिविदेद्.
3.3. चोम्पोउन्द् wओर्द्स् wइथ् थे सुffइxएस् -त।-त्व ओर् -भव।-भुत fउन्दमेन्तल्ल्य्
रेमैन् उन्दिविदेद्. fओर् एxअम्प्ले: कर्यकरनभव।-भुत।-त.
3.4. चोम्पोउन्द् wओर्द्स् wइथ् एवम्-, तत्-, तथ-, पर-, यथ-, सु-, स्व- इन् थे
wओर्धेअद् fउन्दमेन्तल्ल्य् रेमैन् उन्दिविदेद्. fओर् एxअम्प्ले: एवम्जतिय, तदुत्पत्ति,
तथक्र्त, परतन्त्र, यथर्थ, यथस्वम्, सुज्ननत्व, स्वभव.
3.5. सोमे चोम्पोउन्द् wओर्द्स् wहिछ् अरे रेगर्देद् अस् तेर्मिनोलोग्य् रेमैन् अल्सो
उन्दिविदेद्. fओर् एxअम्प्ले: अग्निहोत्र, अयोगव्यवच्छेद, अर्थपत्ति, पदर्थ,
परमर्थ, प्रसज्यप्रतिसेध, विरुद्धव्यभिचरिन्, समनन्तरप्रत्यय,
सम्तनपरिनम, समन्यलक्सन, स्वभवप्रतिबन्ध.
4. थोसे तेर्म्स् wहोसे wओर्धेअद् इस् सुब्जेच्त् तो थे सन्धि रुलेस् (fओर् एxअम्प्ले, -द्
धेतु-) अरे चितेद् इन् थेइर् ओरिगिनल् fओर्म् (fओर् एxअम्प्ले, -द् *हेतु-) fओर् थे सके ओf
उसिन्ग् थिस् दतबसे तो मके अन् क्wइच् इन्देx.
1. औगुस्त्. 1997 । त्सुकुब
मोतोइ ओनो
नोते:
थिस् दतबसे इस् qउइते अ तेन्ततिवे ओने, अन्द् इ मुस्त् अद्मित् थत् थेरे अरे अ लोत् ओf
एर्रोर्स् अन्द् देfएच्त्स् इन् थिस् वेर्सिओन्. इ wओउल्द् अप्प्रेचिअते इत् वेर्य् मुछ् इf थे उसेर् wओउल्द्
पोइन्त् ओउत् अन्य् एर्रोर्स् इन् थिस् वेर्सिओन् सो थत् wए चन् मके अ बेत्तेर् नेw वेर्सिओन् इन् थे
fउतुरे.
ए-मैल्: ओनो@लोगोस्.त्सुकुब.अच्.ज्प्
00101 ओं नमो बुद्धाय ।
00102 विधूत-कल्पना-जाल-गम्भीर-उदार-मूर्तये ।
00103 नमः समन्तभद्राय समन्त-स्फरण-त्विषे ॥
00104 प्रायः प्राकृत-सक्तिर् अप्रतिबल-प्रज्ञो जनः केवलं ।
00105 न अनर्थ्य् एव सुभाषितैः परिगतो विद्वेष्ट्य् अपि ईर्ष्या-मलैः ॥
00106 तेन अयं न पर-उपकार इति नश् चिन्ता अपि चेतश् चिरं ।
00107 सूक्त-अभ्यास-विवर्धित-व्यसनम् इत्य् अत्र अनुबद्ध-स्पृहम् ॥
00108 अर्थ-अनर्थ-विवेचनस्य अनुमान-आश्रयत्वात् तद्-विप्रतिपत्तेस् तद्-व्यवस्थापनाय
00109 आह ।
00110 पक्ष-धर्मस् तद्-अंशेन व्याप्तो हेतुस् त्रिधा एव सः ।
00111 अविनाभाव-नियमाद् हेत्व्-आभासास् ततो अपरे

1.2

00112 पक्षो धर्मी । अवयवे समुदाय-उपचारात् । प्रयोजन-अभावाद् अनुपचार
00113 इति चेत् । न । सर्व-धर्मि-धर्म-प्रतिषेध-अर्थत्वात् । तद्-एकदेशत्वात्
00114 तद्-उपचार-योग्य-धर्मि-धर्म-प्रतिपत्त्य्-अर्थम् । तथा
00115 च चाक्षुषत्व-आदि-परिहारः । धर्म-वचनेन अपि धर्म्य्-आश्रय-
00201 सिद्धौ धर्मि-ग्रहण-सामर्थ्यात् प्रत्यासत्त्या साध्य-धर्मि-सिद्धिर्
00202 इति चेत् । न । दृष्टान्त-धर्मिणो अपि प्रत्यासत्तेः । तद्-अंश-
00203 व्याप्त्या दृष्टान्त-धर्मिणि सत्त्व-सिद्धेर् धर्मि-वचनात् साध्य-धर्मि-
00204 परिग्रहः । सिद्धे पुनर् वचनं नियम-अर्थम् आशङ्क्येत ।
00205 सजातीय एव सत्त्वम् इति सिद्धे अपि विजातीय-व्यतिरेके साध्य-
00206 अभावे असत्त्व-वचन-वत् । सामर्थ्याद् अर्थ-गतौ प्रतिपत्ति -
00207 गौरव-परिहार-अर्थं च पक्ष-वचनम् । पक्षस्य धर्मत्वे तद्-
00208 विशेषण-अपेक्षस्य अन्यत्र अननुवृत्तेर् असाधारणता इति चेत् । न । अयोगव्यवच्छेदेन
00209 विशेषणात् । यथा चैत्रो धनुर्धरः । न अन्ययोगव्यवच्छेदेन ।
00210 यथा पार्थो धनुर्धर इत्य् आक्षेप्स्यामः ।
00211 तद्-अंशस् तद्-धर्मः । वक्तुर् अभिप्राय-वशात् । न तद्-एक-देशः ।
00212 पक्ष-शब्देन समुदाय-अवचनात् । व्याप्तिर् व्यापकस्य तत्र भाव
00213 एव । व्याप्यस्य वा तत्र एव भावः एतेन अवयव-व्यतिरेकौ यथास्वं
00214 प्रमाणेन निश्चिताव् उक्तौ पक्ष-धर्मश् च । त एते कार्य-
00215 स्वभाव-अनुपलब्धि-लक्षणास् त्रयो हेतवः । यथा अग्निर् अत्र धूमात् ।
00216 वृक्षो अयं शिंशपात्वात् । प्रदेश-विशेषे क्वचिन् न घट उपलब्धि-
00217 लक्षण-प्राप्तस्य अनुपलब्धेः । यदि स्याद् उपलब्ध्य्-असत्त्व
00218 एव स्यान् न अन्यथा । तेन उपलब्धि-लक्षण-प्राप्त-सत्त्वस्य इत्य् उक्तं
00219 भवति । तत्र द्वौ वस्तु-साधनौ एकः प्रतिषेध-हेतुः । स्वभावप्रतिबन्धे
00220 हि सत्य् अर्थो अर्थं न व्यभिचरति । स च
00221 तदात्मत्वात् । तदात्मत्वे साध्य-साधन-भेद-अभाव इति चेत् ।
00222 न । धर्म-भेद-परिकल्पनाद् इति वक्ष्यामः । तथा च आह । सर्व
00223 एव अयम् अनुमान-अनुमेय-व्यवहारो बुद्ध्य्-आरूढेन धर्म-धर्मि-
00301 भेदेन इति । भेदो धर्म-धर्मितया बुद्ध्य्-आकार-कृतो न अर्थो
00302 अपि । विकल्प-भेदानां स्वतन्त्राणाम् अनर्थ-आश्रयत्वात् । तत्-
00303 कल्पित-विषयाद् अर्थ-प्रतीताव् अनर्थ-प्रतिलम्भ एव स्यात् । कार्यस्य
00304 अपि स्वभावप्रतिबन्धः । तत्-स्वभावस्य तदुत्पत्तेर् इति ।
00305 एतौ द्वाव् अनुमेय-प्रत्ययौ साक्षाद् अनुत्पत्तेर् अतत्-प्रतिभासित्वे
00306 अपि तदुत्पत्तेस् तद्-व्यभिचारिणाव् इति प्रमाणं प्रत्यक्ष-वत् ।
00307 प्रत्यक्षस्य अपि ह्य् अर्थ-अव्यभिचार एव प्रामाण्यम् । तद् -अभावे
00308 भाविनस् तद्-विप्रलम्भात् । अव्यभिचारश् च अन्यस्य को अन्यस् तदुत्पत्तेः ।
00309 अनायत्त-रूपाणाम् सहभाव-नियम-अभावात् । यदि तदुत्पत्तेः
00310 कार्यं गमकम् सर्वथा गम्यगमकभावः सर्वथा
00311 जन्यजनकभावात् । न । तद्-अभावे भवतस् तदुत्पत्ति-
00312 नियम-अभावात् । तस्मात् ।
00313 कार्यं स्वभावैर् यावद्भिर् अविनाभावि कारणे ।
00314 तेषां
00315 हेतुः ।
00316 तत्-कार्यत्व-नियमात् तैर् एव धर्मैर् ये तैर् विना न भवति ।
00317 अंशेन जन्यजनकत्व-प्रसङ्ग इति चेत् । न । तज्-जन्य-विशेष-ग्रहणे
00318 अभिमतत्वाल् लिङ्ग-विशेष-उपाधीनां च सामान्यानाम् । अविशिष्ट-
00319 सामान्य-विवक्षायां व्यभिचारान् न इष्यते ।
00401 स्वभावे भावो अपि भाव-मात्र-अनुरोधिनि

1.3

00402 हेतुर् इति वर्तते । तादात्म्यं हि अर्थस्य तन्-मात्र-अनुरोधिनि एव
00403 न अन्या आयत्ते । तद्-भावे अभूतस्य पश्चाद् भाव-नियम-अभावात् । कारणानां
00404 कार्य-व्यभिचारात् ।
00405 अप्रवृत्तिः प्रमाणानाम् ।
00406 अनुपलब्धिः
00407 अप्रवृत्ति-फला असति ।
00408 सज्-ज्ञान-शब्द-व्यवहार प्रतिषेध-फला । उपलब्धि-पूर्वकत्वात् तेषाम्
00409 इति इदं सद्-असत्-प्रतिषेध-विधि-हेत्वोस् तुल्यं रूपम् । तथा
00410 हि सत्त्वम् उपलब्धिर् एव वस्तु-योग्यता-लक्षणा तद्-आश्रया वा
00411 ज्ञान-प्रवृत्तिः । ततः सज्-ज्ञान-शब्द-व्यवहार-वृत्तेः । असतां
00412 च असत्त्वम् अनुपलब्धिः
00413 असज्-ज्ञान-फला काचिद् हेतु-भेद-व्यपेक्षया

1.4

00414 हेतुर् अनुपलब्धिः । भेदो अस्या विशेषणम् उपलब्धि-लक्षण-
00415 प्राप्त-सत्त्वम् । अत्र अनुपलब्धेर् लिङ्गाद् असत्तायाम् उपलब्धेर्
00416 अभावो अपि अन्यया अनुपलब्ध्या साध्य इति अनवस्थानाद् अप्रतिपत्तिः
00417 स्यात् । अथ उपलब्ध्य्-अभावो विना अनुपलब्ध्या स्यात् । तथा
00418 सत्ता अभावो अपि स्यात् । अपार्थिक-अनुपलब्धिः । अथ अन्य-उपलब्ध्या
00419 अनुपलब्धि-सिद्धिर् इति प्रत्यक्ष-सिद्धा अनुपलब्धिः । तथा अन्य-सत्तया
00420 असत्ता किं न सिध्यति इति । यदा पुनर् एवंविधा अनुपलब्धिर्
00421 एव असताम् असत्ता तदा सिद्धे अपि विषये मोहाद् विषयिणो
00422 असज्-ज्ञान-शब्द-व्यवहारान् अप्रतिपद्यमानो विषय-प्रदर्शनेन
00423 समये प्रवर्त्यते । यथा गौर् अयम् सास्ना-आदि-समुदाय-आत्मकत्वाद्
00424 इति । तथा च दृष्टान्त-असिद्धि-चोदना अपि प्रतिव्यूढा
00501 विषय-प्रतिपत्ताव् अप्य् अप्रतिपन्न-विषयीणां दर्शनात् ।
00502 एवम् अनयोर् अनुपलब्ध्योः स्व-विपर्यय-हेत्व्-अभाव-भावाभ्यां
00503 सद्-व्यवहार-प्रतिषेध-फलत्वं तुल्यम् । एकत्र संशयाद् अन्यत्र
00504 विपर्ययात् । तत्र आद्या सद्-व्यवहार-निषेध-उपयोगात् प्रमाणम्
00505 उक्ता । न तु व्यतिरेक-दर्शन-आदाव् उपयुज्यते । संशयात् । द्वितीया
00506 त्व् अत्र प्रमाणं निश्चय-फलत्वात् । सा च प्रयोग-भेदात्
00507 विरुद्ध-कार्ययोः सिद्धिर् असिद्धिर् हेतु-भावयोः ।
00508 दृश्य-आत्मनोर् अभाव-अर्थ-अनुपलब्धिश् चतुर्विधा

1.5

00509 यावान् कश्चित् प्रतिषेधः स सर्वो अनुपलब्धेः । तथा हि स द्विधा
00510 क्रियेत कस्यचिद् विधिना निषेधेन वा । विधौ विरुद्धो वा विधीयेत
00511 अविरुद्धो वा । अविरुद्धस्य विधौ सहभाव-विरोध-अभावाद्
00512 अप्रतिषेधः । विरुद्धस्य अप्य् अनुपलब्ध्य्-अभावेन विरोध-अप्रतिपत्तिः
00513 । तथा ह्य् अपर्यन्त-कारणस्य भवतो अन्य-भावे
00514 अभावाद् विरोध-गतिः । स च अनुपलब्धेः । अन्योन्य-उपलब्धि-परिहार-
00515 स्थित-लक्षणता वा विरोधो नित्य-अनित्यत्व-वत् । तत्र अप्य् एक-उपलब्ध्या
00516 अन्य-अनुपलब्धिर् एव उच्यते । अन्यथा अनिषिद्ध-उपलब्धेर् अभाव-
00517 असिद्धेः । एकस्य निषेधेन अन्य-अभाव-साधने सिद्धा एव अनुपलब्धिः ।
00518 निषेधस्य अनुपलब्धि-रूपत्वात् । तत्र अप्य् अर्थ-अन्तर-निषेधे
00519 कार्य-कारणयोर् अनुभवस्य वा । तत्र अनुभवस्य अप्रतिबन्धात् तद्-
00520 अभावे अन्येन न भवितव्यम् इति कुत एतत् । कार्य-अनुपलब्धाव्
00521 अपि न अवश्यं कारणा अपि तद्वन्ति भवन्ति इति तद्-अभावः कुतः ।
00522 तस्मात् कारण-अनुपलब्धिर् एव अभावं गमयति इति । स्वभाव-अनुपलब्धिस्
00523 तु स्वयम् असत्ता एव । तत्र केवलं विषयी साध्यते ।
00524 अस्याम् अपि यदा व्यापक-धर्म-अनुपलब्ध्या व्याप्य-अभावम् आह
00525 तदा अभावो अपि इति । इयं प्रतिषेध-विषय-अनुपलब्धिः प्रयोग-
00601 भेदेन चतुर्धा भवति । विरुद्ध-सिद्ध्या यथा न शीत-स्पर्शो
00602 अत्र अग्नेः । एतेन व्यापक-विरुद्ध-सिद्धिर् उक्ता वेदितव्या यथा
00603 न तुषार-स्पर्शो अत्र अग्नेः । विरुद्ध-कार्य-सिद्ध्या यथा न शीत-
00604 स्पर्शो अत्र धूमात् । हेत्व्-असिद्ध्या यथा न अत्र धूमो अनग्नेः ।
00605 स्वभाव-असिद्ध्या यथा न अत्र धूमो अनुपलब्धेः । एतेन व्यापक-
00606 स्वभाव-असिद्धेर् उक्ता यथा न अत्र शिंशपा वृक्षा-अभावात् ।
00607 सर्वत्र च अस्याम् अभाव-साधन्याम् अनुपलब्धौ दृश्य-आत्मनाम् एव
00608 तेषां तद्-विरुद्धानां च सिद्धिर् असिद्धिश् च वेदितव्या । अन्येषाम्
00609 अभाव-विरोध-असिद्धेः । यदि विरुद्ध-कार्य-उपलब्ध्या अप्य् अभाव-
00610 सिद्धिः तत्-कारण-उपलब्ध्या किं न सिध्यति ।
00611 तद्-विरुद्ध-निमित्तस्य या उपलब्धिः प्रयुज्यते ।
00612 निमित्तयोर् विरुद्धत्व-अभावे सा व्यभिचारिणी

1.6

00613 यथा न शीत-स्पर्शो अत्र काष्ठाद् इति । निमित्तयोः पुनर् विरोधे
00614 गमिका एव यथा न अस्य रोम-हर्ष-आदि-विशेषाः सन्ति संनिहित-दहन-
00615 विशेषत्वात् एतेन तत् कार्याद् अपि तद्-विरुद्ध-कार्य-अभाव-गतिर्
00616 उक्ता वेदितव्या यथा न रोम-हर्ष-आदि-विशेष-युक्त-पुरुषवान् अयं
00617 प्रदेशो धूमात् । इयं च हेत्व्-असिद्ध्या एव तद्-विरुद्ध-सिद्धिः
00618 प्राग् एव निर्दिष्टा इति इयं प्रयोग-भेदाद् अष्टधा-अनुपलब्धिः । तत्र
00619 या इयं विरुद्ध-कार्य-उपलब्धिर् उक्ता तत्र
00620 इष्टं विरुद्ध-कार्ये अपि देश-काल-आद्य्-अपेक्षणम् ।
00621 अन्यथा व्यभिचारि स्याद् भस्मा इव अशीत-साधने

1.7

00622 यस् तर्हि समग्रेण हेतुना कार्य-उत्पादो अनुमीयते स कथं
00623 त्रिविधे हेताव् अन्तर्भवति ।
00624 हेतुना यः समग्रेण कार्य-उत्पादो अनुमीयते ।
00625 अर्थ-अन्तर-अनपेक्षत्वात् स स्वभावो अनुवर्णितः

1.8

00626 असाव् अपि यथा असंनिहितान् न अन्यम् अपेक्षत इति तन्-मात्र-अनुबन्धी
00627 स्वभावो भावस्य । तत्र हि केवलं समग्रात् कारणात् कार्य-उत्पत्ति-
00628 सम्भवो अनुमीयते समग्राणां कार्य-उत्पादन-योग्यता-अनुमानात् ।
00629 योग्यता च सामग्री-मात्र-अनुबन्धिनी इति स्वभाव-भूता एव अनुमीयते ।
00701 किं पुनः कारणं सामग्र्याः कार्यम् एव न अनुमीयते ।
00703 सामग्री-फल-शक्तीनां परिणाम-अनुबन्धिनि ।
00704 अनैकान्तिकता कार्ये प्रतिबन्धस्य सम्भवात्

1.9

00705 न हि समग्राणि इत्य् एव कारण-द्रव्याणि स्व-कार्यं जनयन्ति सामग्री-
00706 जन्मनां शक्तीनां परिणाम-अपेक्षत्वात् कार्य-उत्पादस्य । अत्र
00707 अन्तरे च प्रतिबन्ध-सम्भवान् न कार्य-अनुमानम् । योग्यतायास्
00708 तु द्रव्य-अन्तर-अनपेक्षत्वान् न विरुध्यते अनुमानम् । उत्तरोत्तर-
00709 शक्ति-परिणामेन कार्य-उत्पादन-समर्था इयं कारण-सामग्री
00710 शक्ति-परिणाम-प्रत्ययस्य अन्यस्य अपेक्षणीयस्य अभावाद् इति । पूर्व-
00711 सजाति-मात्र-हेतुत्वात् शक्ति-प्रसूतेः सामग्र्या योग्यता अनन्य-अपेक्षिणी
00712 इत्य् उच्यते । या तर्ह्य् अकार्यकारणभूतेन अन्येन रस-आदिना रूप-
00713 आदि-गतिः सा कथम् । सा अपि
00714 एक-सामग्र्य्-अधीनस्य रूप-आदेर् असतो गतिः ।
00715 हेतु-धर्म-अनुमानेन धूम-इन्धन-विकार-वत्

1.10

00716 तत्र हेतुर् एव तथाभूतो अनुमीयते । प्रवृत्त-शक्ति-रूप-उपादान-
00717 कारण-सहकारि-प्रत्ययो हि रस-हेतू रसं जनयति । इन्धन-विकार-
00718 विशेष-उपादान-हेतु-सहकारि-प्रत्यय-अग्नि-धूम-जनन-वत् । तथा
00719 हि ।
00720 शक्ति-प्रवृत्त्या ।
00721 स्व-कारणस्य फल-उत्पादनं प्रत्य् आभिमुख्येन
00801 न विना रसः स एव अन्य-कारणम् ।
00802 रूप-उपादान-हेतूनां प्रवृत्ति-कारणम् । सा अपि रस-उपादान-कारण-प्रवृत्ती
00803 रूप-उपादान-कारण-प्रवृत्ति-सहकारिणी । तस्माद् यथाभूताद् हेतो
00804 रस उत्पन्नस् तथाभूतम् अनुमापयन् रूपम् अनुमापयति
00805 इत्य् ।
00806 तत्र अपि
00807 अतीत-एकैकालानां गतिस् ।
00808 न अनागतानां व्यभिचारात्
00809 तत् ।
00810 तस्माद् इयम्
00811 कार्य-लिङ्गजा

1.11

00812 तेन न अन्यो हेतुर् गमको अस्ति । अप्रतिबद्ध-स्वभावस्य अविनाभाव-
00813 नियम-अभावात् । एतेन पिपीलिक-उत्सरण-मत्स्य-विकार-आदेर्
00814 वर्ष-आद्य्-अनुमानम् उक्तम् । तत्र अपि भूत-परिणाम एव वर्ष-हेतुः
00815 पिपीलिक-आदि संक्षोभ-आदि-हेतुर् इति ।
00816 हेतुना त्व् असमग्रेण यत् कार्यम् अनुमीयते ।
00817 शेषवत् तद् असामर्थ्याद् देहाद् राग-अनुमान-वत्

1.12

00818 समग्राण्य् एव हि कारणानि योग्यताम् अप्य् अनुमापयन्त्य् असमग्रस्य
00819 एकान्त-असामर्थ्यात् । यथा देह-इन्द्रिय-बुद्धिभ्यो राग-आद्य्-अनुमानम् ।
00820 आत्म-आत्मीय-अभिनिवेश-पूर्वका हि राग-आदयो अयोनिशो-मनस्कार-
00821 पूर्वकत्वात् सर्व-दोष-उत्पत्तेः । देह-आदीनां हेतुत्वे अपि
00822 न केवलानां सामर्थ्यम् अस्ति इति । विपक्ष-वृत्तेर् अदृष्टाव् अपि
00823 शेषवद्-अनुमानात् संशयः । तथा
00901 विपक्षे अदृष्टि-मात्रेण कार्य-सामान्य-दर्शनात् ।
00902 हेतु-ज्ञानं प्रमाण-आभं वचनाद् रागित-आदि-वत्

1.13

00903 न हि राग-आदीनाम् एव कार्यं स्पन्दन-वचन-आदयः वक्तुकामता-
00904 सामान्य-हेतुत्वात् । स एव राग इति चेत् इष्टत्वान् न किंचिद् बाधितं
00905 स्यात् । नित्य-सुख-आत्म-आत्मीय-दर्शन-आक्षिप्तं सास्रव-धर्म-विषयं
00906 चेतसो अभिष्वङ्गं रागम् आहुः । न एवं करुणा-आदयो अन्यथा
00907 अपि सम्भवाद् इति निवेदयिष्यामः । अत्र यथा रक्तो ब्रवीति
00908 तथा विरक्तो अपि इति वचन-मात्राद् अप्रतिपत्तिः । न अपि विशेषात् ।
00909 अभिप्रायस्य दुर्बोधत्वात् । व्यवहार-संकरेण सर्वेषां व्यभिचारात् ।
00910 प्रयोजन-अभावाद् अव्याहार इति चेत् न परार्थत्वात् ।
00911 न युक्तो वीत-रागत्वाद् इति चेत् न करुणा अपि वृत्तेः । स एव
00912 राग इति चेत् । इष्टम् । अविपर्यास-समुद्भवान् न दोषः । असत्य्
00913 अप्य् आत्म-ग्रहे दुःख-विशेष-दर्शन-मात्रेण अभ्यास-बल-उत्पादिनी
00914 भवत्य् एव करुणा । तथा हि । सत्त्व-धर्म-आद्य्-आलम्बना मैत्र्य्-आदय
00915 इष्यन्ते । एताश् च सजातीय-अभ्यास-वृत्तयो न राग-अपेक्षिण्यः ।
00916 न एवं राग-आदयो विपर्यास-अभावे अभावात् । कारुणिकस्य अपि
00917 निष्फल आरम्भो अविपर्यासाद् इति चेत् । न । परार्थस्य एव
00918 फलत्वेन इष्टत्वात् । इच्छा-लक्षणत्वात् फलस्य । सर्वथा अभूत-
00919 असमारोपान् निर्दोषः । तद्-अन्येन दोषवत्त्व-साधने न किंचिद्
00920 अनिष्टम् । वक्तर्य् आत्मनि राग-आदि-दर्शनेन अन्यत्र तद्-अनुमाने
00921 अतिप्रसङ्गः । व्यभिचारात् । अनन्य-अनुमाने इह अव्यभिचार इति
01001 को निश्चयः । करण-गुण-वक्तुकामते हि वचनम् अनुमापयेत् ।
01002 राग-उत्पादन-योग्यता-रहिते वचन-अदर्शनात् तद्-अनुमाने
01003 अतिप्रसङ्गः उक्तः । रागस्य अनुपयोगे कथं तच्-शक्तिर् उपयुज्यते ।
01004 शक्त्य्-उपयोगे हि स एव उपयुक्तः स्यात् तच् च न अस्ति इत्य् उक्तम् ।
01005 तस्मान् नान्तरीयकम् एव कार्यं कारणम् अनुमापयति तत्-
01006 प्रतिबन्धात् न अन्यद् विपक्षे अदर्शने अपि । सर्व-दर्शिनो हि दर्शन-
01007 व्यावृत्तिः सर्वत्र अभावं गमयेत् । क्वचित् तथा दृष्टानाम्
01008 अपि देश-काल-संस्कार-भेदेन अन्यथा अदर्शनाद् । यथा आमलक्यः
01009 क्षीर-अवसेकेन मधुर-फला भवन्ति । न च एवं बहुलं दृश्यन्ते ।
01010 तेन एवं स्याद् युक्तं वक्तुम् मादृशो वक्ता रागी इति
01011 राग-उत्पत्ति-प्रत्यय-विशेषेण आत्म-दर्शन-अयोनिशो-मनस्कारेण योगात् ।
01012 तदा अप्य् अपार्थको वचन-उदाहारः । तस्माद् विपक्षे अदृष्टिर् अहेतुः ।
01013 न च अदर्शन-मात्रेण विपक्षे अव्यभिचारिता ।
01014 सम्भाव्य-व्यभिचारत्वात् स्थाली-तण्डुल-पाक-वत्

1.14

01015 न हि बहुलं पक्व-दर्शने अपि स्थाल्य्-अन्तर्गमन-मात्रेण पाकः
01016 सिध्यति । व्यभिचार-दर्शनात् । एवं तु स्याद् एवं स्वभावा
01017 एतत्-समान-पाक-हेतवः पक्वा इति । अन्यथा तु शेषवद् एतद् अनुमानं
01018 व्यभिचारि । किं पुनर् एतच् शेषवत् ।
01019 यस्य अदर्शन-मात्रेण व्यतिरेकः प्रदर्श्यते ।
01020 तस्य संशय-हेतुत्वाच् शेषवत् तद् उदाहृतम्

1.15

01021 स तस्य व्यतिरेको न निश्चित इति विपक्षे वृत्तिर् आशङ्क्येत । व्यतिरेक-
01022 साधनस्य अदर्शन-मात्रस्य संशय-हेतुत्वात् । न सर्व-अनुपलब्धिर्
01023 गमिका । तस्माद् एक-निवृत्त्या अन्य-निवृत्तिम् इच्छता तयोः
01024 कश्चित् स्वभावप्रतिबन्धो अप्य् एष्टव्यः । अन्यथा अगमको
01025 हेतुः स्यात् ।
01026 हेतोस् त्रिषु अपि रूपेषु निश्चयस् तेन वर्णितः ।
01027 असिद्ध-विपरीत-अर्थ-व्यभिचारि-विपक्षतः

1.16

01028 न ह्य् असति प्रतिबन्धे अन्वय-व्यतिरेक-निश्चयो अस्ति । तेन तम्
01101 एव दर्शयन् निश्चयम् आह । तत्र अन्वयस्य निश्चयेन विरुद्ध-
01102 तत् पक्ष्याणां निरासः । व्यतिरेकस्य अनैकान्तिकस्य तत्-पक्षस्य च
01103 शेषवद्-आदेः । द्वयोर् इत्य् एक-सिद्ध-प्रतिषेधः । प्रसिद्ध-वचनेन
01104 सन्दिग्धयोः शेषवद्-असाधारणयोः सपक्ष-विपक्षयोर्
01105 अपि । अन्यथा ह्य् असति प्रतिबन्धे अदर्शन-मात्रेण व्यतिरेके ।
01106 व्यभिचारि-विपक्षेण वैधर्म्य-वचनं च यत् ।
01107 यद् आह । एष तावन् न्यायो यद् उभयं वक्तव्यम् विरुद्ध- अनैकान्तिक-
01108 प्रतिपक्षेण इति । वैधर्म्य-वचनम् अनैकान्तिक-प्रतिपक्षेण ।
01110 यद्य् अदृष्टि-फलं तच् च ।
01111 यदि तेन विपक्षे अदर्शनं ख्याप्यते ।
01112 तद् अनुक्ते अपि गम्यते

1.17

01113 न हि तस्य प्राग् दर्शन-भ्रान्तिर् या वचनेन निवर्त्येत । स्मृतिर्
01201 वाच-अदर्शने क्रियत इति चेत् । दर्शनं खल्व् अप्रतीयमानम्
01202 अनङ्गम् इति युक्तं तत्र स्मरण-आधानम् । अदर्शनं तु दर्शन-
01203 अभावः । स दर्शनेन बाध्यते । तद्-अभावे तु सिद्ध एव इत्य् अपार्थकं
01204 तत्-सिद्धये वचनं । न वै अनुपलम्भमानस्य
01205 तावता न अस्ति इति भवति तद्-अर्थं वचनम् इति चेत् ।
01206 न च न अस्ति इति वचनात् तन् न अस्त्य् एव यथा यदि ।
01207 न अस्ति स ख्याप्यते न्यायस् तदा न अस्ति इति गम्यते

1.18

01208 यद्य् अनुपलभमानो न अस्ति इति न प्रत्येति वचनाद् अपि न एव प्रत्येष्यति ।
01209 तद् अपि ह्य् अनुपलम्भम् एव ख्यापयति । न च एक-अनुपलम्भो
01210 अन्य-अभावं साधयत्य् अतिप्रसङ्गात् । न च तेन
01211 न अस्ति इति वचनात् तथा भवत्य् अतिप्रसङ्गात् । तत् कथं वैधर्म्य-वचनेन
01212 अनैकान्तिक-परिहारः । तस्माद् व्यावृत्तिम् इच्छता
01213 तत्र न्यायो वक्तव्यः यतो अस्य व्यावृत्तम् इति भवति ।
01214 ननु तद्-अभावे अनुपलम्भात् सिद्धा व्यावृत्तिः ।
01215 यद्य् अदृष्ट्या निवृत्तिः स्याच् शेषवद् व्यभिचारि किम् ।
01216 यथा पक्वान्य् एतानि फलान्य् एवं-रसानि वा रूप-अविशेषाद् एक-शाखा-
01217 प्रभवत्वाद् वा उपयुक्त-वद् इति । अत्र अपि विवक्षित-अशेष-पक्षीकरणे
01218 हेतोः साध्य-अभावे अनुपलम्भो अस्ति इति कथं व्यभिचारः ।
01219 प्रत्यक्ष-बाधा-आशङ्का व्यभिचार इत्य् एके । न । पक्षीकृत-
01220 विषये अभावात् । कदाचिद् भवेद् इति चेत् । तथा शङ्कायाम् अतिप्रसङ्गः ।
01221 अन्यत्र अप्य् अभाव-नियम-अभावात् । वृत्तं प्रमाणं बाधकम् ।
01222 अवृत्त-बाधने सर्वत्र अनाश्वासः । व्यतिरेकस् तु सिद्ध
01223 एव साधनम् इति तथा अभाव-निश्चयम् अपेक्षते । अनुपलम्भात् तु
01224 क्वचिद् अभाव-सिद्धाव् अप्य् अप्रतिबद्धस्य तद्-अभावे सर्वत्र
01225 अभाव-असिद्धेः संशयाद् अव्यतिरेको व्यभिचारः शेषवतः ।
01226 किं च ।
01301 व्यतिरेक्य् अपि हेतुः स्यान् ।
01302 न इदं निरात्मकं जीवच्छरीरम् अप्राण-आदिमत्त्व-प्रसङ्गाद् इति ।
01303 निरात्मकेषु घट-आदिषु दृष्टेषु प्राण-आद्य्-अदर्शनात् तन्-निवृत्त्य्-
01304 आत्म-गतिः स्यात् । अदृश्य-अनुपलम्भाद् अभाव-असिद्धौ घट-आदीनां
01305 नैरात्म्य-असिद्धेः प्राण-आदेर् अनिवृत्तिः । अभ्युपगमात् सिद्धम्
01306 इति चेत् । कथम् इदानीम् आत्म-सिद्धिः । परस्य अप्य् अप्रमाणिका
01307 कथं नैरात्म्य-सिद्धिः । अभ्युपगमेन च सात्मक-अनात्मकौ
01308 विभज्य तत्र अभावेन गमकत्वं कथयता आगमिकत्वम्
01309 आत्मनि प्रतिपन्नं स्यात् । न अनुमेयत्वम् । तस्माद् अदर्शने अप्य्
01310 आत्मनो-निवृत्त्य्-असिद्धेः । तन्-निवृत्तौ क्वचिन् निवृत्ताव् अपि प्राण-आदीनाम्
01311 अप्रतिबन्धात् । सर्वत्र निवृत्त्य्-असिद्धेर् अगमकत्वम् ।
01312 या अप्य् असिद्धि-योजना तथा सपक्षे सन्न् असन्न् इत्य् एवम्-आदिष्व् अपि
01313 यथायोगम् उदाहर्यम् इत्य् एवम्-आदिका । सा अपि
01314 न वाच्या असिद्धि-योजना

1.19

01315 अनुपलम्भ एव संशयात् । उपलम्भे तद्-अभावात् । अनुपलम्भाच्
01316 च व्यतिरेक इति संशयितो अनिवार्यः स्यात् । यथायोग-वचनात्
01317 अनिवारित एव इति चेत् । न । य एव तु उभय-निश्चित-वाची इत्य् आदि-वचनात् ।
01318 तेन अनुपलम्भे अपि संशयाद् अनिवृत्तिं मन्यमानः तत्-प्रतिषेधम्
01319 आह । किं च ।
01401 विशेषस्य व्यवच्छेद-हेतुता स्याद् अदर्शनात् ।
01402 श्रावणत्वस्य अपि नित्य-अनित्ययोर् अदर्शनाद् व्यावृत्तिर् इति तद्-व्यवच्छेद-
01403 हेतुता स्यात् । न हि तद्-व्यावृत्तेर् अन्यद् व्यवच्छेदनम् ।
01404 अव्यवच्छेदस् तु कुतश्चिद् व्यावृत्तेर् एव अनिश्चयात् । यो हि यत्र
01405 न अस्ति इति निश्चितः स भवंस् तद्-अभावं कथं न गमयेत् ।
01406 प्रमाण-अन्तर-बाधा चेन् ।
01407 अथ अपि स्याद् उभय-व्यवच्छेदे प्रमाण-अन्तरं बाधकम् अस्ति ।
01408 अन्योन्य-व्यवच्छेद-रूपाणाम् एक-व्यवच्छेदेन अन्य-विधानाद्
01409 अप्रतिषेधः । विधि-प्रतिषेधयोर् विरोधात् ।
01410 न इदानीं नास्तिता अदृशः

1.20

01411 न एवम् अदर्शनं प्रमाणं बाधा-असम्भवात् ।
01412 तथा अन्यत्र अपि सम्भाव्यं प्रमाण-अन्तर-बाधनम् ।
01413 लक्षण-युक्ते बाधा-असम्भवे तल्-लक्षणम् एव दूषितं स्याद् इति
01414 सर्वत्र अनाश्वासः । अनुमान-विषये अपि प्रत्यक्ष-अनुमान-विरोध-
01415 दर्शनाद् अनाश्वास-प्रसङ्ग इति चेत् । न । यथोक्ते असम्भवात् ।
01416 सम्भविनश् च अतल्-लक्षणत्वात् । विरुद्धाव्यभिचार्य्-अवचनम् इति
01417 चेत् । अनुमान-विषये अवचनाद् इष्टम् । विषयं च अस्य निवेदयिष्यामः ।
01418 किं च ।
01419 दृष्टा अयुक्तिर् अदृष्टेश् च स्यात् स्पर्शस्य अविरोधिनी

1.21

01420 यदि ह्य् अनुपलम्भेन अभावः सिध्येत् । यद् आह । यद्य् अदर्शन-
01421 मात्रेण दृष्टेभ्यः प्रतिषेधः क्रियते । न च सो अपि युक्त
01501 इति । कथम् अयुक्तः । अनुपलम्भाद् अभाव-सिद्धेः । ननु उपलब्धि-
01502 लक्षण-प्राप्तेः स्पर्शस्य युक्त एव प्रतिषेधः । न युक्तः ।
01503 दृश्य-तत्-स्वभाव-विषय-मात्र-अप्रतिषेधात् । पृथिव्य्-आदि सामान्येन
01504 गृहीत्वा अयं प्रतिषेधम् आह । तत्र च तूल-उपल-पल्लव-
01505 आदिषु तद्-भावे अपि स्पर्श-भेद-दर्शनात् अस्य अपि क्वचिद् विशेषे
01506 सम्भव-आशङ्कया भवितव्यम् इति सर्वत्र अदर्शन-मात्रेण अयुक्तः
01507 प्रतिषेध इति । एवम् आचार्यीयः कश्चिद् अनुपलम्भाद् अभावं
01508 ब्रुवाण उपालब्धः । अपि च ।
01509 देश-आदि-भेदाद् दृश्यन्ते भिन्ना द्रव्येषु शक्तयः ।
01510 तत्र एक-दृष्ट्या न अन्यत्र युक्तस् तद्-भाव-निश्चयः

1.22

01511 यदि कथंचिद् विपक्षे अदर्शन-मात्रेण अप्रतिबद्धस्य अपि तद्-
01512 अव्यभिचारः । क्वचिद् देशे कानिचिद् द्रव्याणि कथंचिद् दृष्टानि
01513 पुनर् अन्यथा अन्यत्र दृश्यन्ते । यथा काश्चिद् ओषधयः क्षेत्र-
01514 विशेषे विशिष्ट-रस-वीर्य-विपाका भवन्ति । न अन्यत्र । तथा काल-
01515 संस्कार-भेदात् । न च तद्-देशैस् तथा दृष्टा इति सर्वास् तत्त्वेन
01516 तथाभूताः सिध्यन्ति । गुण-अन्तराणां कारण-अन्तर-अपेक्षत्वात् ।
01517 विशेष-हेत्व्-अभावे तु स्याद् अनुमानम् । यथा अदृष्ट-कर्तृकम् अपि
01518 वाक्यं पुरुष-संस्कार-पूर्वकम् इति । वाक्येषु विशेष-अभावात् ।
01519 सर्व-प्रकाराणां पुरुषैः करणस्य दर्शनात् । न एवम् असम्भवद्-
01520 विशेष-हेतवः पुरुषा येन वचन-आदेः किंचिन्-मात्र-साधर्म्यात्
01521 सर्व-आकार-साम्यम् अनुमीयेत । सर्व-गुणेषु विशेष-दर्शनात् ।
01522 संस्कार-भेदेन विशेष-प्रतिपत्तेः । तद्वद् अन्यस्य अपि सम्भवाद् ।
01523 असम्भव-अनुमाने च बाधक-हेत्व्-अभावात् वैराग्य-अदृष्टेः
01524 अदृष्टेन च बाध्यबाधकभाव-असिद्धेः । राग-आद्य्-अव्यभिचारि-
01525 कार्य-अभावात् । सम्भवे अपि विशेषाणां द्रष्टुम् अशक्यत्वात् ।
01601 तादृशां च अप्रतिक्षेप-अर्थत्वात् । न एवं वाक्यानि दृश्य-विशेषत्वात् ।
01602 अदृश्यत्वे अप्य् अदृष्ट-विशेषाणां विजातीयत्व-उपगम-विरोधात् । तद्-
01603 विशेषाणाम् अन्यत्र अपि शक्य-क्रियत्वात् । प्रत्यक्षाणां शब्दानाम्
01604 अप्रत्यक्ष-स्वभाव-अभावात् । भ्रान्ति-निमित्त-अभावात् । बाधक-अभावाद्
01605 भ्रान्त्य्-असिद्धेः । पुरुषेषु विशेष-दर्शनस्य बाधकत्वाद्
01606 असमानम् । परभाव-भूतस्य च वाक्य-विशेषस्य अतद्-विशेषत्वात् ।
01607 तद् अभिन्न-स्वभावानां सर्वेषां पुरुष-क्रिया न वा कस्यचित् ।
01608 किं च ।
01609 आत्म-मृच्-चेतना-आदीनां यो अभावस्य अप्रसाधकः ।
01610 स एव अनुपलम्भः किं हेत्व्-अभावस्य साधकः

1.23

01611 अनुपलम्भं च अस्य प्रमाणयत आत्म-वादो निरालम्बः स्यात् ।
01612 अप्रत्यक्षत्वाद् आत्मनस् तत्-कार्य-असिद्धेः । इन्द्रिय-आदीनां तु
01613 विज्ञान-कार्यस्य कादाचित्कत्वात् सापेक्ष्य-सिद्ध्या प्रसिद्धिर् उच्यते ।
01614 किम् अप्य् अस्य कारणम् अस्ति इति । च त्व् एवंभूतम् इति ।
01615 न एवं सुख-आदि-कार्यं प्रसाधितं कंचिद् अर्थं पुष्णाति ।
01616 येन केनचित् कारणवत्त्व-अभ्युपगमात् । तथा च अनुपलम्भ
01617 एव आत्मनः स्यात् । तं तेन प्रत्याचक्षाणः किम् इति प्रतिव्यूढो
01618 अनुपलम्भस्य असाधनत्वाद् इति । कथम् असाधनं व्यतिरेकं
01619 साधयेत् । मृदः खल्व् अपि कश्चिच् चैतन्यम् अनुपलभ्यमानम्
01620 अपि इच्छन्न् अदर्शनाद् वचन-आदेर् व्यावृत्तिम् आह । दध्य्-आदिकं
01621 च अपरः क्षीर-आदिष्व् अपर-अर्थेषु संघातत्व-अदर्शनाद् व्यतिरेकम् ।
01622 को ह्य् अत्र नियमः संहतैर् अवश्यं परार्थैर् भवितव्यम् इति ।
01623 अस्त्य् एव उपलम्भो दध्य्-आदीनां क्षीर-आदिष्व् अनुमानम् ।
01624 अशक्ताद् अनुत्पत्तेः । अथ का इयं शक्तिः स एव भावः
01625 उत अन्यद् एव किंचित् । स एव चेत् तथा एव उपलभ्येत विशेष-अभावात् ।
01626 अन्यच् चेत् कथम् अन्य-भावे तद् अस्ति । उपचार-मात्रं तु स्याद्
01627 इत्य् अयम् एषां परस्पर-व्याघातः ।
01628 तस्मात् तन्-मात्र-सम्बन्धः स्वभावो भावम् एव वा ।
01629 निवर्तयेत् ।
01630 यथा वृक्षः शिंशपां । शाखा-आदिमद्-विशेषस्य एव कस्यचित् तथा-
01701 प्रसिद्धेः स तस्य स्वभावः । स्वं च स्वभावं परित्यज्य
01702 कथं भावो भवेत् । स्वभावस्य एव भावत्वाद् इति तस्य स्वभावप्रतिबन्धाद्
01703 अव्यभिचारः ।
01704 कारणं वा कार्यम् अव्यभिचारतः

1.24

01705 कारणं निवर्तमानं कार्यं निवर्तयति । अन्यथा तत् तस्य
01706 कार्यम् एव न स्यात् । सिद्धस् तु कार्यकारणभावः स्वभावं
01707 नियमयति इत्य् उभयथा स्वभावप्रतिबन्धाद् एव निवृत्तिः ।
01708 अन्यथा एक-निवृत्त्या अन्य-विनिवृत्तिः कथं भवेत् ।
01709 न अश्ववान् इति मर्त्येन न भाव्यं गमता अपि किम्

1.25

01710 संनिधानात् तथा एकस्य कथम् अन्यस्य संनिधिः ।
01711 गोमान् इत्य् एव मर्त्येन भाव्यम् अश्ववता अपि किम्

1.26

01712 तस्मात् स्वभावप्रतिबन्धाद् एव हेतुः साध्यं गमयति ।
01713 स च तद्-भाव-लक्षणस् तदुत्पत्ति-लक्षणो वा । स एव अविनाभावो
01714 दृष्टान्ताभ्यां प्रदर्श्यते ।
01715 तस्माद् वैधर्म्य-दृष्टान्ते न इष्टो अवश्यम् इह आश्रयः ।
01716 तद्-अभावे च तन् न इति वचनाद् अपि तद्-गतेः

1.27

01717 यतः ।
01718 तद्-भाव-हेतु-भावौ हि दृष्टान्ते तद्-अवेदिनः ।
01719 ख्याप्येते ।
01720 दृष्टान्ते हि साध्य-धर्मस्य तद्-भावस् तन्-मात्र-अनुबन्धेन
01721 तत्-स्वभावतया ख्याप्यते । यः कृतकं स्वभावं जनयति
01722 सो अनित्य-स्वभावं सन्तं जनयति इति प्रमाणं दृष्टान्तेन उपदर्श्यते ।
01723 अन्यथा एक-धर्म-सद्-भावात् तद्-अन्येन अपि भवितव्यम्
01724 इति नियम-अभावात् साधनस्य साध्य-व्यभिचार-आशङ्का स्यात् ।
01801 तेन च प्रमाणेन साध्य-धर्मस्य तन्-मात्र-अनुबन्धः ख्याप्यते ।
01802 स्व-कारणाद् एव कृतकस् तथाभूतो जातो यो नश्वरः
01803 क्षण-स्थितो-धर्मा । अन्यतस् तस्य तद्-भाव-निषेधात् । हेतु-भावो
01804 वा तस्मिन् सत्य् एव भावाद् इति दृष्टान्तेन प्रदर्श्यते अर्थ-अन्तरस्य
01805 तथा प्रसिद्धे तद्-भावे हेतु-भावे वा अनित्यत्व-अभावे कृतकत्वं
01806 न भवति दहन-अभावे च धूमः । तथा हि स तस्य
01807 स्वभावो हेतुर् वा । कथं स्वं स्वभावं हेतुं वा अन्तरेण भवेद्
01808 इत्य् आश्रयम् अन्तरेण अपि वैधर्म्य-दृष्टान्ते प्रसिध्यति व्यतिरेकः ।
01809 येषां पुनः प्रसिद्धाव् एव तद्-भाव-हेतु-भावौ तेषाम्
01811 विदुषां वाच्यो हेतुर् एव हि केवलः

1.28

01812 यद्-अर्थे दृष्टान्त उच्यते सो अर्थः सिद्ध इति किं तद्-वचनेन
01813 तदा । तत्-प्रदर्शने अपि किं वैधर्म्य-दृष्टान्त-आश्रयेण इति मन्यमान
01814 आश्रयं प्रतिक्षिप्ति स्म ।
01815 तेन एव ज्ञात-सम्बन्धे द्वयोर् अन्यतर-उक्तितः ।
01816 अर्थापत्त्या द्वितीये अपि स्मृतिः समुपजायते

1.29

01817 यद् आह अर्थापत्त्या वा अन्यतरेण उभय-प्रदर्शनाद् इति । तत्र अपि
01818 दृष्टान्तेन तद्-भाव-हेतु-भाव-प्रदर्शनं मन्यमानो अर्थापत्त्या
01819 एक-वचनेन द्वितीय-सिद्धिम् आह । तथा हि यत् कृतकं तद्
01820 अनित्यम् इत्य् उक्ते अनर्थ-अन्तर-भावे व्यक्तम् अयम् अस्य स्वभावस्
01821 तन्-मात्र-अनुबन्धी प्रमाण-दृष्टस् तद्-भाव-नियमाद् इति । ज्ञात-
01822 तद्-भावस्य अर्थापत्त्या अनित्यत्व-अभावे कृतकत्वं न भवति इति
01823 भवति । न हि स्वभावस्य अभावे भावो भवत्य् अभेदात् । अन्यथा
01824 तद्-भावे भवति इत्य् एव न स्यात् । तथा तद्-अभावे न भवति
01825 इत्य् उक्ते । तत एव तद्-भावता-वेदिनः । तथा ह्य् अयम् अस्य
01826 स्वभावो येन तद्-अभावे न भवति । अन्यथा अयोगाद् इति तत्-
01901 तत्-स्वभावता-प्रतिपत्त्या अन्वय-स्मृतिर् भवति । तथा यत्र
01902 धूमस् तत्र अग्निर् इत्य् उक्ते कार्यं धूमो दहनस्य । येन
01903 धूमे अवश्यम् अग्निर् भवति । अन्यथा अर्थ-अन्तरस्य तद्-अनुबन्ध-
01904 नियम-अभावात् स्वातन्त्र्यं भावस्य स्यात् । अतस् तद्-अभावे
01905 अपि स्वभाव-अवैकल्यान् न अभावः । कार्ये त्व् अवश्यं कारणं
01906 भवति । इदम् एव हि कारणस्य कारणत्वं यद् अर्थ-अन्तर-भावे
01907 स्वभाव-उपधानं । कार्यस्य अपि तद्-भाव एव भावः
01908 तच् च अस्ति धूमे । तस्मात् कार्यं धूम इत्य् अन्वयेन विधित-
01909 तत्-कार्यत्वस्य दहन-अभावे धूमो न भवति इत्य् अर्थाद् व्यतिरेक-प्रतिपत्तिर्
01910 भवति । तथा असत्य् अग्नौ धूमो न अस्ति इत्य्
01911 उक्ते अग्निर् धूमे भवत्य् अवश्यम् इत्य् अर्थाद् अन्वय-प्रतिपत्तिः ।
01912 अन्यथा हि तद्-अभावे किं न भवेद् इति । ननु च नित्य-अनित्य-
01913 अर्थ-कार्यत्व-अभावे अपि श्रवण-ज्ञानं न भवति तद्-अभावे ।
01914 न वै न भवति । तयोर् एव ततः संशयात् । अन्यथा
01915 अभावेन निश्चितात् कथं तद्-भाव-परामर्शेन संशयः स्यात् ।
01916 केवलं तु भाव-निश्चय-अभावान् न अस्ति इत्य् उच्यते । यदा पुनर्
01917 दृष्टान्तेन न अग्नि-धूमयोः कार्यकारणभावः प्रदर्श्यते । तदा
01918 यत्र धूमस् तत्र अग्निर् इत्य् एव न स्यात् । प्रतिबन्ध-अभावात् ।
01919 कुतो अग्न्य्-अभावे धूमो न अस्ति इत्य् अर्थाद् व्यतिरेक-सिद्धिः । तथा
01920 वैधर्म्येण अभाव-असिद्धेर् अन्वय-स्मृतिः तस्माद् दृष्टान्तेन अयम्
01921 एव यथोक्त-स्वभावप्रतिबन्धः प्रदर्श्यते । एक-सद्-भावे
01922 अन्यस्य प्रसिद्ध्य्-अर्थम् । तद्-अभावे असम्भवात् ।
01923 हेतु-स्वभाव-अभावो अतः प्रतिषेधे च कस्यचित् ।
01924 हेतुर् ।
01925 ताव् एव हि निवर्तमानौ स्व-प्रतिबद्धं निवर्तयत इति कस्यचिद्
01926 अर्थस्य प्रतिषेधम् अपि साधयितुकामेन हेतोर् व्यापकस्य
02001 वा स्वभावस्य निवृत्तिर् हेतुत्वेन आख्येया । अप्रतिबन्धे हि कथम्
02002 एकस्य निवृत्तिर् अन्यस्य निवृत्तिं साधयेत् ।
02003 युक्त-उपलभस्य तस्य च अनुपलम्भनम्

1.30

02004 प्रतिषेध-हेतुः । प्रतिषेध-विषय-व्यवहार-हेतुस् तद्-हेतुर् इत्य्
02005 उक्तः । स्वयं तथाभूत-अनुपलम्भस्य प्रतिषेध-रूपत्वात् ।
02006 हेतु-व्यापक-अनुपलब्धिर् उभयस्य अपि हेतुः ।
02007 इति इयं त्रिविधा अप्य् उक्त-अनुपलब्धिर् अनेकधा ।
02008 तत् तद्-विरुद्ध-आद्य्-अगति-गति-भेद-प्रयोगतः

1.31

02009 त्रिविध एव हि प्रतिषेध-हेतुः । उपलभ्य-सत्त्वस्य हेतोस् तथाभाव-
02010 निश्चये व्यापकस्य स्वात्मनश् च अनुपलब्धिर् इति । स
02011 प्रयोग-वशेन तत्-तद्-विरुद्ध-आद्य्-अगति-गति-भेद-प्रयोगतो अनेक-
02012 प्रकार उक्तः । तस्य अगत्या तद्-विरुद्ध-गत्या विरुद्ध-कार्य-गत्या
02013 इत्य् आदि-भेद-प्रयोगैर् यथोक्तं प्राक् ।
02014 कार्यकारणभावाद् वा स्वभावाद् वा नियामकात् ।
02015 अविनाभाव-नियमो अदर्शनान् न न दर्शनात्

1.32

02016 अवश्यंभाव-नियमः कः परस्य अन्यथा परैः ।
02017 अर्थ-अन्तर-निमित्ते वा धर्मे वाससि राग-वत्

1.33

02018 इत्य् अन्तरश्लोकौ । अपि च ।
02019 अर्थ-अन्तर-निमित्तो हि धर्मः स्याद् अन्य एव सः ।
02020 न हि तस्मिन् निष्पन्ने अनिष्पन्नो भिन्न-हेतुको वा तत्-स्वभावो
02021 युक्तः । अयम् एव खलु भेदो भेद-हेतुर् वा भावानां विरुद्ध-धर्म-
02022 अध्यासः कारण-भेदश् च । तौ चेन् न भेदकौ तदा
02023 न कस्यचित् कुतश्चिद् भेद इत्य् एकं द्रव्यं विश्वं स्यात् ।
02024 ततश् च सह उत्पत्ति-विनाशौ सर्वस्य च सर्वत्र उपयोगः स्यात् ।
02101 अन्यथा एकम् इत्य् एव न स्यात् । नाम-अन्तरं वा । अर्थ-भेदम् अभ्युपगम्य
02102 तथा अभिधानात् । नन्व् अनर्थ-अन्तर-हेतुत्वे अपि भाव-
02103 काले अनित्यता अनिष्पत्तेस् तुल्या अतत्-स्वभावता । न वै काचिद् अन्या
02104 अनित्यता नाम या पश्चान् निष्पद्येत । स एव हि भावः क्षण-
02105 स्थिति-धर्मा अनित्यता । वचन-भेदे अपि धर्मि-धर्मतया निमित्तं
02106 वक्ष्यामः । तां पुनर् अस्य क्षण-स्थितो-धर्मतां स्वभावं
02107 स्व-हेतोर् एव तथा-उत्पत्तेः पश्यन्न् अपि मन्द-बुद्धिः सत्ता-
02108 उपलम्भेन सर्वदा तद्भाव-शङ्का-विप्रलब्धो न व्यवस्यति
02109 सदृशा-पर-उत्पत्ति-विप्रलब्धो वा । अन्त्यक्षण-दर्शिनां निश्चयात् ।
02110 पश्चाद् अस्य अनुपलब्ध्या अस्थितो-प्रतिपत्तेर् निश्चय-काल इति
02111 तदा अनित्यता व्यवस्थाप्यते । कार्य-उत्पादन-शक्तेः कारण-स्वभावत्वे
02112 अपि अदृष्ट-तत्-कार्यस्य कारण-दर्शने अपि अप्रतिपन्न-
02113 तद्-भावस्य कार्य-दर्शनात् तत्-प्रतिपत्ति-वत् । अन्यथा अर्थ-अन्तरम्
02114 एव अनित्यता स्यात् । अन्य-निमित्तत्वे अनिमित्तत्वे वा । तथा च भावस्
02115 तद्वान् न स्यात् । तद्-अनुपयोगात् । उपयोगे वा स एव अस्य
02116 स्वात्मभूतो अनित्यता इति किम् अन्यया । स्वभावेन वा अचलस्य अर्थ-अन्तर-
02117 योगे अपि तद्-भाव-अनुत्पत्तेः । स च अर्थ-अन्तराद् भवन्न् अनित्यता
02118 अन्यो वा धर्मो हेतुः फलं वा स्यात् । अहेतु-फलस्य असम्बन्धात् ।
02119 तत्र भाव-अनुमानस्य असम्भवात् । तत्र ।
02120 पश्चाद् भावान् न हेतुत्वं फले अप्य् एकान्तता कुतः

1.34

02121 स हि निष्पन्ने भावे अर्थ-अन्तरतः पश्चाद् भवन् कथं
02122 तस्य हेतुः स्यात् । फलस्य अपि न अवश्यं हेतौ भाव इति तद्-
02123 भाव-हेतोर् अनैकान्तिकत्वम् । तन् न अर्थ-अन्तर-निमित्तो धर्मो
02124 भावे अवश्यं भावि इत्य् अननुमानम् । यदि तर्हि दर्शन -अदर्शने
02125 न अन्वय-व्यतिरेक-गतेर् आश्रयः कथं धूमो अग्निं न व्यभिचरति
02126 इति गम्यते । यस्मात् ।
02201 कार्यं धूमो हुतभुजः कार्य-धर्म-अनुवृत्तितः ।
02202 येषाम् उपलम्भे तल्-लक्षणम् अनुपलब्धं यद् उपलभ्यते ।
02203 तत्र एक-अभावे अपि न उपलभ्यते । तत् तस्य कार्यं । तच् च धूमे
02204 अस्ति ।
02205 स भवंस् तद्-अभावे तु हेतुमत्तां विलङ्घयेत्

1.35

02206 सकृद् अपि तथा अदर्शनात् कार्यं सिद्धः । अकार्यत्वे अकारणात्
02207 सकृद् अप्य् अभावात् । कार्यस्य च स्व-कारणम् अन्तरेण भावे
02208 अहेतुमत्ता एव स्यात् । न हि यस्य यम् अन्तरेण भावः स तस्य
02209 हेतुर् भवति । भवति च धूमो अग्निम् अन्तरेण तन् न तद्-हेतुः
02210 अन्य-हेतुकत्वान् न अहेतुकत्वम् इति चेत् । न । तत्र अपि
02211 तुल्यत्वात् । तद्-अभावे अप्य् अग्नौ भवति इति । कथं वा ततो
02212 अन्यतो वा अतज्-जनन-स्वभावाद् भवेत् । स्वयम् अतत्-स्वभावस्य
02213 अजननात् तस्य अहेतुता स्यात् । न वै स एव भवति तादृशस्य
02214 भावात् । अन्य-अदृशाद् भवन् कथं तादृशः स्यात् । तादृशाद् हि
02215 भवन् तादृशः स्यात् । अन्य-अदृशाद् अपि तादृशो भावे तच्-शक्ति-नियम-
02216 अभावान् न हेतु-भेदो भेदक इति अकारणं विश्वस्य वैश्वरूप्यं
02217 स्यात् । सर्वं वा सर्वस्माज् जायेत । तस्मात् कारण-
02218 भेद-अभेदाभ्यां कार्य-भेद-अभेदौ । तन् न धूमो अर्थाद् दृष्ट-
02219 आकार-विजातीयाद् भवत्य् अहेतुकत्व-प्रसङ्गात् । तथा च ।
02220 नित्यं सत्त्वम् असत्त्वं वा अहेतोर् अन्य-अनपेक्षणात् ।
02221 अपेक्षातो हि भावानां कादाचित्कत्व-सम्भवः

1.36

02222 स हि धूमो अहेतुर् भवन् निरपेक्षत्वान् न कदाचिन् न भवेत् ।
02223 तद्-भावे वैकल्य-अभावाद् इष्ट-काल-वत् । तदा अपि वा न भवेत् ।
02224 अभाव-काल-अविशेषात् । अपेक्षया हि भावाः कादाचित्का भवन्ति ।
02301 भाव-अभाव-कालयोस् तद्-भाव-योग्यता अयोग्यता-योगात् तुल्य-योग्यता
02302 योग्यतयोर् देश-कालयोस् तद्वत्ता इतरयोर् नियम-अयोगात् । सा च
02303 योग्यता हेतु-भावात् किम् अन्यत् । तस्माद् एक-देश-काल-परिहारेण अन्य-
02304 देश-कालयोर् वर्तमानो भावस् तत्-सापेक्षो नाम भवति ।
02305 तथा हि । तथा वृत्तिर् एव अपेक्षा तत्-कृत-उपकार-अनपेक्षस्य तन्-नियम-
02306 अयोगात् । तन् नियत-देश-कालत्वाद् धूमो अत्र दृष्टः सकृद्
02307 वैकल्ये च पुनर् न दृष्टः तज्-जन्यो अस्य स्वभावः । अन्यथा
02308 सकृद् अप्य् अभावात् । स तत्-प्रतिनियतो अन्यत्र कथं भवेत् ।
02309 भवन् वा न धूमः स्यात् । तज्-जनितो हि स्वभाव-विशेषो धूम
02310 इति । तथा हेतुर् अपि तथाभूत-कार्य-जनन-स्वभावः । तस्य अन्यतो
02311 अपि भावे न स तस्य स्वभाव इति सकृद् अपि न जनयेत् ।
02312 न वा स धूमो अधूम-जनन-स्वभावाद् भावात् । तत्-स्वभावत्वे
02313 च स एव अग्निर् इत्य् अव्यभिचारः ।
02314 अग्नि-स्वभावः शक्रस्य मूर्द्धा यद्य् अग्निर् एव सः ।
02315 अथ अनग्नि-स्वभावो असौ धूमस् तत्र कथं भवेत्

1.37

02316 धूम-हेतु-स्वभावो हि वह्निस् तच्-शक्ति-भेदवान् ।
02317 अधूम-हेतोर् धूमस्य भावे स स्याद् अहेतुकः

1.38

02318 इति संग्रहश्लोकौ । कथं तर्हि इदानीं भिन्नात् सहकारिणः कार्य-
02319 उत्पत्तेर् यथा चक्षू-रूप-आदेर् विज्ञानस्य । न वै किंचिद् एकं
02320 जनकं तत्-स्वभावम् । किं तु सामग्री जनिका तत्-स्वभावा । स एव
02321 अनुमीयते । स एव च सामग्री स्वभाव-स्थित्य्-आश्रयः कार्यस्य ।
02322 अत एव सहकारिणाम् अप्य् अपर्यायेण जननम् । यद् अपि किंचिद्
02323 विजातीयाद् भवद् दृष्टं गोमय-आदेः शालुक-आदि । तत्र अपि तथा अभिधाने
02324 अप्य् अस्त्य् एव स्व-बीज-प्रभवात् स्वभाव-भेदः । हेतु-स्वभाव-भेदात् ।
02325 यथा कदली बीज-कन्द-उद्भवा । स्फुटम् एव
02326 तादृशं लोको विवेचयत्य् आकार-भेदात् । तस्मान् न सुविवेचित-आकारं
02327 कार्यं कारणं व्यभिचरति ।
02401 अन्वय-व्यतिरेकाद् यो यस्य दृष्टो अनुवर्तकः ।
02402 स्वभावस् तस्य तद्-हेतुर् अतो भिन्नान् न सम्भवः

1.39

02403 इति संग्रहश्लोकः । तस्मात् सकृद् अपि दर्शन-अदर्शनाभ्यां
02404 कार्यकारणभाव-सिद्धेर् भवति ततस् तत्-प्रतिपत्तिः । न अन्यथा ।
02405 अन्वय-व्यतिरेकयोर् निःशेष-दर्शन-अदर्शन-आयत्तत्वात् । क्वचिद्
02406 अमूर्तत्वे नित्यत्व-दर्शने अप्य् अन्यत्र अन्यथा अदृष्टेः । क्वचिन्
02407 नित्यत्व-अभावे अप्य् अदृष्टस्य पुनर् दृष्टेर् इति भवतु कार्यस्य
02408 कारणेन अविनाभावस् तदुत्पत्तेः । स्वभाव इदानीं कथम् अविनाभावः ।
02410 स्वभावे अप्य् अविनाभावो भाव-मात्र-अनुरोधिनि ।
02411 यो हि भाव-मात्र-अनुरोधी स्वभावस् तत्र अविनाभावो भावस्य इष्यते ।
02413 तद्-अभावे स्वयं भावस्य अभावः स्याद् अभेदतः

1.40

02414 य एव भावो भाव-मात्र-अनुरोधी स्वभाव इत्य् उच्यते । स एव
02415 स्वयं वस्तुतो भावः । स च आत्मानं परित्यज्य कथं भवेत् ।
02416 य एव तर्हि कृतकः स एव अनित्यो भेद-अभावात् । प्रतिज्ञार्थैकदेशो
02417 हेतुः स्यात् । न एष दोषः । यस्मात् ।
02418 सर्वे भावाः स्वभावेन स्व-स्वभाव-व्यवस्थितेः ।
02419 स्वभाव-परभावाभ्यां यस्माद् व्यावृत्ति-भागिनः

1.41

02420 तस्माद् यतो यतो अर्थानां व्यावृत्तिस् तन्-निबन्धनाः ।
02421 जाति-भेदाः प्रकल्प्यन्ते तद्-विशेष-अवगाहिनः

1.42

02422 तस्माद् यो येन धर्मेण विशेषः सम्प्रतीयते ।
02423 न स शक्यस् ततो अन्येन तेन भिन्ना व्यवस्थितिः

1.43

02424 सर्व एव हि भावाः स्वरूप-स्थितयः । ते न आत्मानं परेण
02425 मिश्रयन्ति । तस्य अपरत्व-प्रसङ्गात् । यद् अप्य् एषाम् अभिन्नम्
02426 आत्मभूतं रूपं न तत् तेषाम् । तदानीं तेषाम् अभावात् ।
02501 तद् एव हि स्याद् अभिन्नस्य भावात् । तद्-व्यतिरिक्तस्य भिन्नस्य
02502 च अभावात् । तस्य एव च पुनर् भेद-विरोधात् । तच् च आत्मनि व्यवस्थितम्
02503 अमिश्रम् एव । अर्थ-अन्तरम् अप्य् अनेक-सम्बन्धे अपि
02504 न तत् तेषां सामान्यम् अतद्-रूपत्वात् । द्वित्व-आदि-संयोग-कार्य-
02505 द्रव्येष्व् अपि प्रसङ्गात् । न हि सम्बन्धिना अप्य् अन्येन अन्ये समाना
02506 नाम । तद्वन्तो नाम स्युः । भूत-वत् । कण्ठे-गुणेन ।
02507 न अभिन्न-प्रत्यय-विषयाः । भूत-वत् । तदात्मानम् एव हि बुद्धिः
02508 संसृजन्ती सामान्य-विषया प्रतिभासते । न एक-सम्बन्धिनाव् इति
02509 भूत-वत् । तद्-दर्शिन्याः सा भ्रान्तिर् इति चेत् । तद्-दर्शिनी इति कुतः ।
02510 निर्बीज-भ्रान्त्य्-अयोगाद् इति चेत् । त एव तद्-एक-कार्या बीजम् । संख्या-
02511 संयोग-कार्य-द्रव्य-आदिमत्सु भूत-आदिष्व् अभावाच् च । तन् न तथा
02512 सामान्य-बुद्धौ निवेष-अभावात् सामान्यम् अन्यत् । सति वा तस्य अपि
02513 स्वात्मनि व्यवस्थानाद् अमिश्रणम् अन्येन । तस्माद् इमे भावाः
02514 सजातीय-अभिमताद् अन्यस्माच् च व्यतिरिक्ताः स्वभावेन एक-रूपत्वात् ।
02515 यतो यतो भिन्नास् तद्-भेद-प्रत्यायनाय कृत-संनिवेशैः
02516 शब्दैस् ततस् ततो भेदम् उपादाय स्वभाव-अभेदे अप्य् अनेक-
02517 धर्माणः प्रतीयन्ते । ते अपि शब्दाः सर्व-भेद-अनाक्षेपे अप्य् एक-
02518 भेद-चोदनात् तत्-स्वलक्षण-निष्ठा एव भवन्ति । तद् एकस्माद्
02519 अपि तस्य भेदो अस्ति इति । तस्माद् एकस्य भावस्य यावन्ति पररूपाणि
02520 तावत् यस् तद्-अपेक्षया व्यावृत्तयः । तद्-असम्भवि-कार्य-कारणस्य
02521 तद्-भेदात् । यावत् यश् च व्यावृत्तयस् तावत् यः श्रुतयो
02522 अतत्-कार्य-कारण-परिहारेण व्यवहार-अर्थाः । यथा प्रयत्नानन्तरीयकः
02523 शब्दः श्रावण इत्य् अतत्-कार्य-कारण-परिहार-अर्थः ।
02524 तस्मात् स्वभाव-अभेदे अपि येन येन धर्मेण नाम्ना यो विशेषो
02525 भेदः प्रतीयते न स शक्यो अन्येन प्रत्याययितुम् इति न एक-अर्थाः
02526 सर्व-शब्दाः । तन् न प्रतिज्ञार्थैकदेशो हेतुर् इति । कथं
02527 पुनर् एतद् गम्यते व्यवच्छेदः शब्द-लिङ्गाभ्यां प्रतिपाद्यते
02528 विधिना न वस्तु-रूपम् एव इति । प्रमाण-अन्तरस्य शब्द- अन्तरस्य
02601 च प्रवृत्तेः । तथा हि ।
02602 एकस्य अर्थ-स्वभावस्य प्रत्यक्षस्य सतः स्वयम् ।
02603 को अन्यो न दृष्टो भागः स्याद् यः प्रमाणैः परीक्ष्यते

1.44

02604 एको ह्य् अर्थ-आत्मा । स प्रत्यक्षः असिद्धे धर्मिणि साधन-असम्भवात् ।
02605 यथा अनित्यत्वे साध्ये शब्दः । तस्य प्रत्यक्षेण एव सिद्धेः
02606 सर्व-आकार-सिद्धिः । तद्-अन्यस्य असिद्धस्य अभावात् । भावे वा
02607 अतत्-स्वभावत्वम् । न हि यो यद् एकयोगक्षेमो न भवति स
02608 तत्-स्वभावो युक्तः । तन्-मात्र-निबन्धनत्वात् । भेद-व्यवहारस्य ।
02609 अन्यथा अभाव-प्रसङ्गाद् इत्य् उक्तम् । तस्मात् प्रत्यक्षे धर्मिणि
02610 तत्-स्वभाव-साकल्य-परिच्छेदात् तत्र अनवकाशा प्रमाण-अन्तर-
02611 वृत्तिः स्यात् ।
02612 नो चेद् भ्रान्ति-निमित्तेन संयोज्येत गुण-अन्तरम् ।
02613 शुक्तौ वा रजत-आकारो रूप-साधर्म्य-दर्शनात्

1.45

02614 यदि दृष्ट-सर्व-तत्त्वस्य अपि भावस्य तथा निश्चय-प्रतिरोधिना
02615 भ्रान्ति-निमित्तेन गुण-अन्तरं न संयोज्यते । यथा शुक्तौ रजत-
02616 आकारः । न हि शुक्तौ द्वे रूपे समानं विशिष्टं च तथा
02617 प्रतिपत्ति-प्रसङ्गात् । अप्रतिपत्तौ वा विवेकेन द्वित्व-विकल्प-अयोगात् ।
02618 अतिप्रसङ्गाच् च । तस्मात् पश्यन् शुक्ति-रूपं विशिष्टम् एव
02619 पश्यति । निश्चय-प्रत्यय-वैकल्यात् त्व् अनिश्चिन्वन् तत्-सामान्यं
02620 पश्यामि इति मन्यते । ततो अस्य रजत-समारोपः । तथा । सदृशा-पर-अपर-
02621 उत्पत्त्या अलक्षित-नानात्वस्य तद्-भाव-समारोपात् स्थितो-भ्रान्तिः ।
02622 यावन्तो अस्य परभावास् तावन्त एव यथास्वं निमित्त-
02623 भाविनः समारोपा इति तद्-व्यवच्छेदकानि भवन्ति प्रमाणानि
02624 सफलानि स्युः । तेषां तु व्यवच्छेद-फलानां न अप्रतीत-वस्त्व्-अंश-
02701 प्रत्यायने प्रवृत्तिस् तस्य दृष्टत्वात् । अनंशस्य च एक-देशेन
02702 दर्शन-अयोगात् ।
02703 तस्माद् दृष्टस्य भावस्य दृष्ट एव अखिलो गुणः ।
02704 भ्रान्तेर् निश्चीयते न इति साधनं सम्प्रवर्तते

1.46

02705 इति संग्रहश्लोकः । तस्मान् न अदृष्ट-ग्रहणाय दृष्टे प्रमाण-अन्तर-वृत्तिः ।
02707 वस्तु-ग्रहे अनुमानाच् च धर्मस्य एकस्य निश्चये ।
02708 सर्व-धर्म-ग्रहो अपोहे न अयम् दोषः प्रसज्यते

1.47

02709 न केवलं प्रत्यक्ष-दृष्टे प्रमाण-अन्तर-अवृत्तिः क्वचित् । यदा अनुमानम्
02710 अपि वस्तु विधिना प्रत्याययति न व्यवच्छेद-कृत् तदा एक-
02711 धर्म-निश्चये तद्-अव्यतिरेकात् सर्व-धर्म-निश्चय इति प्रमाण-
02712 अन्तर-अवृत्तिः न हि तस्मिन् निश्चिते तदात्मा अनिश्चितो युक्तः ।
02713 यदा पुनर् अनुमानेन समारोप-व्यवच्छेदः क्रियते तदा न एक-
02714 समारोप-व्यवच्छेदाद् अन्य-व्यवच्छेदः कृतो भवति इति तद्-अर्थम्
02715 अन्यत् प्रवर्तते । ननु न अवश्यं विपर्यास-पूर्वक एव अप्रतीत-
02716 निश्चयो भवति । यथा अकस्माद् धूमाद् अग्नि-प्रतिपत्तिः । न हि
02717 तत्र अनग्नि-समारोपः सम्भाव्यते । तन् न सर्वत्र व्यवच्छेदः
02718 क्रियते । उक्तम् अत्र । धर्मि-प्रतिपत्ताव् अभेदात् सर्व-प्रतिपत्तिः ।
02719 भेदे वा असम्बद्धस्य तत्र अप्रतिपत्तिर् इति । तस्मात्
02720 तत्र अपि तद्-दर्शिनस् तत्-स्वभाव-अनिश्चयः कुतः विपर्यासात् । स
02721 च तं प्रदेशं तद्-विविक्तेन रूपेण निश्चिन्वन्न् अग्नि-सत्ता-भावना-
02722 विमुक्तया बुद्ध्या कथम् अविपर्यस्तो नाम । तद्-आकार-
02801 समारोप-संशय-रहितश् च तत्-प्रतिपत्तौ न लिङ्गम् अनुसरेत् ।
02802 न च तस्य अन्वय-व्यतिरेकयोर् आद्रियेत ।
02803 तस्माद् अपोह-विषयम् इति लिङ्गं प्रकीर्तितम् ।
02804 अन्यथा धर्मिणः सिद्धाव् असिद्धं किम् अतः परम्

1.48

02805 इति संग्रहश्लोकः ।
02806 क्वचिद् दृष्टे अपि यज् ज्ञानं सामान्य-अर्थं विकल्पकम् ।
02807 असमारोपित-अन्य-अंशे तन्-मात्र-अपोह-गोचरम्

1.49

02808 यद् रूप-आदि-दर्शन-अनन्तरम् अलिङ्गं निश्चय-ज्ञानं भवति ।
02809 तत् कथम् असति समारोपे भवद् व्यवच्छेद-विषयं भवति ।
02810 समारोप-विषये तस्य अभावात् । यत्र ह्य् अस्य समारोपो यथा
02811 स्थिरः सात्मक इति वा न तत्र भेदे निश्चयो भवति ।
02812 निश्चय-आरोप-मनसोर् बाध्यबाधकभावतः ।
02813 न हि सर्वतो भिन्नो दृष्टो अपि भावस् तथा एव प्रत्यभिज्ञायते ।
02814 क्वचिद् भेदे व्यवधान-सम्भवात् । यथा शुक्तेः शुक्तित्वे ।
02815 यत्र तु प्रतिपत्तुर् भ्रान्ति-निमित्तं न अस्ति तत्र एव अस्य तद्-दर्शन-
02816 अविशेषे अपि स्मार्तो निश्चयो भवति । समारोप-निश्चययोर् बाध्यबाधकभावात्
02817 निश्चयस्य
02818 समारोप-विवेके अस्य प्रवृत्तिर् इति गम्यते

1.50

02819 तद्-विवेक एव च अन्यापोहः । तस्मात् तद् अपि तन्-मात्र-अपोह-गोचरम् ।
02820 न वस्तु-स्वभाव-निश्चय-आत्मकम् । तथा हि कस्यचिन् निश्चये
02821 अप्य् अन्यस्य अप्रतिपत्ति-दर्शनात् । तत्-स्वभाव-निश्चये च तस्य अयोगात् ।
02901 यावन्तो अंश-समारोपास् तन्-निरासे विनिश्चयाः ।
02902 तावन्ता एव शब्दाश् च तेन ते भिन्न-गोचराः

1.51

02903 अन्यथा एकेन शब्देन व्याप्त एकत्र वस्तुनि ।
02904 बुद्ध्या वा न अन्य-विषय इति पर्यायता भवेत्

1.52

02905 इत्य् अन्तरश्लोकः ।
02906 यस्य अपि नाना-उपाधेर् धीर् ग्राहिक-अर्थस्य भेदिनः ।
02907 यो अपि मन्यते भिन्ना एव उपाधयः परस्परम् आश्रयाच् च ।
02908 तन्-निबन्धनाः श्रुतयस् तद्-आधारेषु वर्तन्ते । तत्र एव वा
02909 तद् अयम् अप्रसङ्ग इति । तस्य अपि ।
02910 नाना-उपाध्य्-उपकार-अङ्ग-शक्त्य्-अभिन्न-आत्मनो ग्रहे

1.53

02911 सर्वात्मना उपकारस्य को भेदकः स्याद् अनिश्चितः ।
02912 यद्य् अप्य् उपाधयो भिन्ना एव शब्द-ज्ञान-अन्तराणां निमित्तम्
02913 अर्थे । स तु तैस् तद्वान् एक एव उपलीयते । तस्य नाना-उपाधीनाम्
02914 उपकार-आश्रय-शक्ति-स्वभावस्य स्वात्मन्य् अभेदात् सर्वात्मना
02915 ग्रहणे क एव उपाधि-भेदो अनिश्चितः स्यात् । सर्व-उपाध्य्-उपकारकत्वेन
02916 ग्रहणात् । न ह्य् उपकारकत्वं अन्यद् एव तस्य स्वरूपेण
02917 गृह्यमाणस्य अगृहीतं नाम । अतो यद् एव अस्य स्वभावेन
02918 ग्रहणं तद् एव उपकारत्वेन अपि इति ।
02919 तयोर् आत्मनि सम्बन्धाद् एक-ज्ञाने द्वय-ग्रहः

1.54

02920 आत्मभूतस्य उपाधि-तद्वतोर् उपकार्योपकारकभावस्य ग्रहणात्
02921 एक-ज्ञाने द्वयोर् अपि ग्रहणम् इति एक-उपाधि-विशिष्टे अपि तस्मिन्
02922 गृह्यमाणे सर्व-उपाधीनां ग्रहणम् । तद्-ग्रहण- नान्तरीयकत्वाद्
02923 उपाधिमद्-ग्रहणस्य । अन्यथा तथा अपि न गृह्येत ।
02924 न ह्य् अन्य एव अन्य-उपकारको यो न गृहीतः स्यात् । न च अप्य् उपकारके
02925 तथा गृहीते उपकार्य-अग्रहणं तस्य अप्य् अग्रहण-प्रसङ्गात् ।
02926 स्वस्वामित्व-वत् । तस्माद् अर्थ-अन्तर-उपाधि-वादे अपि समानः प्रसङ्गः ।
02927 अथ अपि स्याद् भिन्ना एव शक्तयः शक्तिमतो याभिर् उपाधीन्
02928 उपकरोति । ततो न अयं प्रसङ्ग इति ।
03001 धर्म-उपकार-शक्तीनां भेदे तास् तस्य किं यदि ।
03002 न उपकारस् ततस् तासां तथा स्याद् अनवस्थितिः

1.55

03003 यदि प्रत्युपाध्य् उपकारकत्वानि तस्य न स्वात्मभूतान्य् एव
03004 न अपि तत उपकारम् अनुभवन्ति । किं तस्य इति ता उच्यन्ते । उपकारे
03005 वा स्वात्मभूताभिर् अयम् एकः शक्तिभिः शक्तीर् उपकुर्वन्
03006 एक उपाधिना अपि गृह्यमाणः सर्वात्मना गृह्यत एव । तथा
03007 हि । एक-उपाधि-ग्रहणे तद्-उपकारिण्याः शक्तेर् ग्रहणम् । तद्-ग्रहणे
03008 तद्-उपकारी भावः स्वात्मभूत-सकल-शक्त्य्-उपकारो गृहीतः
03009 सर्वाः शक्तीर् ग्राहयति ताश् च स्व-उपाधीन् इति तद्-अवस्थः
03010 प्रसङ्गः । अथ ता अपि शक्त्य्-उपकारिण्यः शक्तयो भिन्ना एव
03011 भावात् । एवम् उपाधीनां तच्-शक्तीनां च अपरा परास्व् एव शक्तिष्व्
03012 अपर्यवसानेन घटनात् स एकस् ताभिः कदाचिद् अप्य् अगृहीतस्
03013 तद्-उपकार-आत्मा तद्वत्त्वेन न गृह्यते । यदि पुनः केवलान्
03014 एव उपाधीन् शब्द-ज्ञानान्य् उपलीयेरन् । तदा तस्य असमावेषान् न
03015 भवति तत्-प्रतिपत्ति-मुखेन सर्व-प्रतिपत्तिः । तदा अपि तस्य
03016 शब्दैर् अनाक्षेपान् न स्यात् तत्र प्रवृत्तिर् इति व्यर्थः शब्द-प्रयोगः
03017 स्यात् । अर्थक्रिया-आश्रयो हि सर्वो विधि-प्रतिषेधाभ्यां व्यवहारः
03018 उपाधयश् च तत्र असमर्थाः समर्थश् च न एव उच्यत
03019 इति किं शब्द-प्रयोगैः । ततश् च उपाधयो न उपाधयः स्युः ।
03020 क्वचित् प्रवृत्तौ हि कस्यचित् प्रधानस्य अङ्ग-भावात् तद्-अपेक्षया
03021 तथा उच्यते । तस्य शब्दैर् अनाक्षेपान् न ते कस्यचिद् अङ्ग-
03022 भूता इति किम् उपाधयः । लक्षित-लक्षणाद् अदोष इति चेत् समानः
03023 प्रसङ्गः । स तावत् तैर् उपाधिभिर् नान्तरीयकतया उपलक्ष्यमाण
03024 एकेन अप्य् उपलक्षणे सर्वात्मना उपलक्षित इति तद्-अवस्थः
03025 प्रसङ्गः । को ह्य् अत्र विशेषः शब्दा वा एनम् उपलक्षयेयुस् तल्-लक्षिता
03101 वा उपाधयः । स तावत् तदानीं निश्चीयते सर्व-उपकारकः
03102 इति न किंचिद् एतत् । तस्माद् ।
03103 एक-उपकारके ग्राह्ये न उपकारस् ततो अपरे ।
03104 दृष्टे तस्मिन्न् अदृष्टा ये तद्-ग्रहे सकल-ग्रहः

1.56

03105 इति संग्रहश्लोकः ।
03106 यदि भ्रान्ति-निवृत्त्य्-अर्थं गृहीते अप्य् अन्यद् इष्यते ।
03107 स्याद् एतत् निर्भागस्य वस्तुनो ग्रहणे को अन्यस् तदा न गृहीतो
03108 नाम । स तु भ्रान्त्या न अवधार्यत इति प्रमाण-अन्तरं प्रवर्तते ।
03109 यद्य् एवम् ।
03110 तद् व्यवच्छेद-विषयं सिद्धं तद्वत् ततो अपरम्

1.57

03111 असमारोप-विषये वृत्तेर् ।
03112 तत् तर्हि भ्रान्ति-निवृत्त्य्-अर्थं प्रवृत्तं प्रमाणम् । अन्य-समारोप-
03113 व्यवच्छेद-फलम् इति सिद्धम् अन्यापोह-विषयम् । तद्वत्
03114 अन्यद् अपि । असमारोप-विषये वृत्तेः । यत्र अस्य समारोपो न तत्र
03115 निश्चय इति समारोप-अभावे वर्तमानो अन्यापोह-विषयः सिद्धः ।
03116 अपि च निश्चयैः ।
03117 यन् न निश्चीयते रूपं तत् तेषां विषयः कथम्

1.58

03118 इयम् एव खलु निश्चयानां स्वार्थ-प्रतिपत्तिर् यत् तन्-निश्चयनम् ।
03119 तच् चेद् आकार-अन्तर-वद् अनिश्चितं कथं तैर् गृहीतं ।
03120 कथम् इदानीम् अनिश्चीयमानं प्रत्यक्षेण अपि गृहीतं नाम ।
03121 न प्रत्यक्षं कस्यचिन् निश्चायकम् । तद् अयम् अपि गृह्णाति तन्
03122 न निश्चयेन । किं तर्हि । तत्-प्रतिभासेन । तन् न निश्चय-अनिश्चय-
03123 वशात् प्रत्यक्षस्य ग्रहण-अग्रहणे । न एवं निश्चयानां किंचिन्
03124 निश्चिन्वतो अप्य् अन्यत्र अनिश्चयेन प्रवृत्ति-भेदाद् ग्रहण -अग्रहणम् ।
03125 तस्मात् तद् एव अस्य ग्रहणं यो निश्चयः । अन्यथा एक-आकारे
03126 अपि तन् न स्यात् । किं पुनः कारणं सर्वतो भिन्ने वस्तु-रूपे
03127 अनुभव-उत्पत्ताव् अपि तथा एव न स्मार्तो निश्चयो भवति । सहकारि-
03128 वैकल्यात् ततश् च ।
03201 प्रत्यक्षेण गृहीते अपि विशेषे अंश-विवर्जिते ।
03202 यद् विशेष-अवसाये अस्ति प्रत्यक्षः स प्रतीयते

1.59

03203 यद्य् अप्य् अंश-रहितः सर्वतो भिन्न-स्वभावो भावो अनुभूतस्
03204 तथा अपि न सर्व-भेदेषु तावता निश्चयो भवति । कारण-अन्तर-
03205 अपेक्ष्यत्वात् । अनुभवो हि यथा अविकल्प-अभ्यासं निश्चय-प्रत्ययान्
03206 जनयति । यथा रूप-दर्शन-अविशेषे अपि कुणप-कामिनी-भक्ष्य-
03207 विकल्पाः । तत्र बुद्धि-पाटवं तद्-वासना-अभ्यासः प्रकरणम्
03208 इत्य् आदयो अनुभवाद् भेद-निश्चय-उत्पत्ति-सहकारिणः । तेषाम्
03209 एव च प्रत्यासत्ति-तारतम्य-आदि-भेदात् पौर्वापर्यम् । यथा
03210 जनकत्व-अध्यापकत्व-अविशेषे अपि पितरम् आयान्तं दृष्ट्वा पिता मे
03211 आगच्छति न उपाध्याय इति । सो अपि भवन् निश्चयो असति भ्रान्ति-
03212 कारणे भवति । तस्मान् न अभूत इत्य् एव सर्व-आकार-निश्चयः ।
03213 तत्र अपि च अन्यव्यावृत्तिर् अन्यव्यावृत्त इत्य् अपि ।
03214 शब्दाश् च निश्चयाश् च एव संकेतम् अनुरुन्धते

1.60

03215 तत्र अप्य् अन्यापोहे न व्यावृत्तिर् अन्या अन्य एव व्यावृत्तस् तद्-व्यावृत्तेर्
03216 निवर्तमानस्य तद्-भाव-प्रसङ्गात् । तथा च व्यावृत्तेर्
03217 अभावः । तस्माद् या एव व्यावृत्तिः स एव व्यावृत्तः । शब्द-
03218 प्रतिपत्ति-भेदस् तु संकेत-भेदात् । न वाच्य-भेदो अस्ति ।
03219 ननु च वाच्य-विशेष-अभावात् संकेत-भेदो अप्य् अयुक्तो द्वयोर्
03220 एक-अभिधानात् । तथा च व्यतिरेकिण्या विभक्तेर् अयोगस् तस्या
03221 भेद-आश्रयत्वात् ।
03222 द्वयोर् एक-अभिधाने अपि विभक्तिर् व्यतिरेकिणी ।
03223 भिन्नम् अर्थम् इव अन्वेति वाच्ये लेश-विशेषतः

1.61

03224 न वै शब्दानां काचिद् विषय-स्वभाव-आयत्ता वृत्तिर् इच्छातो वृत्त्य्-
03225 अभाव-प्रसङ्गात् । ते यथा व्यतिरिक्ते अव्यतिरिक्ते वा प्रयोक्तुम्
03226 इष्यन्ते तथा नियुक्तास् तम् अर्थम् प्रतिबन्धेन प्रकाशयन्ति ।
03227 तेन गौर् गोत्वम् इत्य् एक-अर्थ-अभिधाने अपि कस्यचिद्
03228 विशेषस्य प्रत्यायन-अर्थं कृते संकेत-भेदे व्यतिरिक्त-अर्था
03301 विभक्तिर् अर्थ-अन्तरम् इव अदर्शयन्ती प्रतिभात्य् अनर्थ-अन्तरे
03302 अपि तथा प्रयोग-दर्शन-अभ्यासात् । न तावता सर्वत्र भेदः ।
03303 अन्यत्र अपि पुरुष-इच्छा-वशात् प्रवृत्तस्य प्रतिबन्ध-अभावात् । यथा
03304 एकं क्वचिद् एक-वचनेन ख्याप्यते तद्-अविशेषे अपि गौरव-
03305 आदि-ख्यापन-अर्थं बहु-वचनेन । प्रयोजन-अभावात् तु संकेत-
03306 भेदो न स्यात् । तद् अप्य् अस्त्य् एव । तथा हि ।
03307 भेद-अन्तर-प्रतिक्षेप-अप्रतिक्षेपौ तयोर् द्वयोः ।
03308 संकेत-भेदस्य पदं ज्ञातृ-वाञ्चा-अनुरोधिनः

1.62

03309 यदा अयं प्रतिपत्ता तद्-अन्य-व्यवच्छेद-भाव-अनपेक्षः पिण्ड-
03310 विशेषे अश्व-व्यवच्छेद-मात्रं जिज्ञासते तथा अभूत-ज्ञापन-अर्थं
03311 तथा आकृत-संकेतेन शब्देन प्रबोध्यत अनश्वत्वम् अस्य अस्ति
03312 इति । यदा पुनर् व्यवच्छेद-अन्तर-अनिराकाङ्क्षस् तं ज्ञातुम् इच्छति
03313 तदा अपरित्यक्त-व्यवच्छेद-अन्तरे तत्र एव अश्व-व्यवच्छेदे
03314 तथा अप्रकाशनाय प्रयुञ्जते अनश्वो अयम् इति । अत एव पूर्वत्र
03315 प्रतिक्षिप्त-भेद-अन्तरत्वाच् शब्द-वृत्तेर् न सामानाधिकरण्यं
03316 विशेषणविशेष्यभावो वा । गोत्वम् अस्य शुक्लम् इति ।
03317 तन्-मात्र-विशेषेण बुद्धेस् तद्-आश्रय-भूताया एकत्वेन अप्रतिभासनात् ।
03318 निराकाङ्क्षत्वाच् च । द्वितीये तु भवति । तथा संकेत-
03319 अनुसारेण संहृत-सकल-व्यवच्छेद-धर्मैर् विभागवत एकस्य
03320 इव सन्दर्शनेन प्रतिभासनात् । व्यवच्छेद-अन्तर-साकाङ्क्षत्वाच्
03321 च ।
03322 भेदो अयम् एव सर्वत्र द्रव्य-भाव-अभिधायिनोः ।
03323 शब्दयोर् न तयोर् वाच्ये विशेषस् तेन कश्चन

1.64

03401 तस्मान् न सर्वत्र धर्म-धर्मि-वाचिनोः शब्दयोर् वाच्ये अर्थे
03402 निश्चय-प्रत्यय-विषयत्वेन कश्चिद् विशेषः । एकस् तम् एव प्रत्याययन्
03403 प्रतिक्षिप्त-भेद-अन्तरः प्रत्याययति । अन्यो प्रतिक्षेपेण
03404 इत्य् अयं विशेषः ।
03405 जिज्ञापयिषुर् अर्थं तं तद्धितेन कृता अपि वा ।
03406 अन्येन वा यदि ब्रूयाद् भेदो न अस्ति ततो अपरः ॥63 ।
03407 एतावन्तम् एव च भेदं दर्शयंस् तद्धितेन वा दर्शयेत्
03408 पाचकत्वम् इति कृता अपि वा पाक इत्य् अन्येन वा तथाभूत-ज्ञापनाय
03409 स्वयं कृतेन समयेन । न पुनस् तथा अभिधान-मात्रेण
03410 अर्थ-अन्तरम् एव तद् भवति । तथाभूतस्य एव ज्ञापनाय
03411 शब्दस्य कृत-संकेतत्वात् । ननु च पाचकत्वम् इति सम्बन्ध
03412 उच्यते न पाक एव । न वै पाकेन अन्य एव कश्चित् पाचको नाम अभिधीयते
03413 यादृशो वर्ण्यते । यत् पुनर् अस्य अभिधेयं तत् कथितं
03414 तद् एव पाचकत्वेन अपि इत्य् अलम् अप्रतिष्ठैर् मिथ्या-विकल्पैः ।
03415 यथा च न अर्थ-अन्तर-भूता क्रिया अस्ति तत्-समवायो वा तत्
03416 प्रत्याययिष्यामः ।
03417 तेन अन्यापोह-विषये तद्वत् पक्ष-उपवर्णनम् ।
03418 प्रत्याख्यातं पृथक्त्वे हि स्याद् दोषो जाति-तद्वतोः

1.65

03419 यद् आहुः । अन्यापोहे अपि शब्द-अर्थे तद्-विशिष्टस्य अभिधानात् तद्वत्-
03420 पक्ष-उदितः सर्वः प्रसङ्गः समान इति तद् अप्य् अनेन प्रतिव्यूढम् ।
03421 तत्र ह्य् अर्थ-अन्तरम् उपादाय अन्यत्र वर्तमानो ध्वनिर्
03422 अस्वातन्त्र्य-आदि-दोषैर् उपद्रूयते । न च अर्थ-अन्तरम् अन्यस्माद्
03423 व्यावृत्तिर् व्यावृत्ताद् द्वयोर् एक-अभिधानाद् इत्य् उक्तम् । कथम्
03424 इदानीम् एकस्य व्यावृत्तस्य अन्य-अननुगमाद् अन्यव्यावृत्तिः
03425 सामान्यम् । तद्-बुद्धौ तथा प्रतिभासनात् । न वै किंचित्
03426 सामान्यं नाम अस्ति । शब्द-आश्रया बुद्धिर् अनादि-वासना-सामर्थ्याद्
03427 असंसृष्टान् अपि धर्मान् संसृजन्ती जायते । तस्याः प्रतिभास-
03501 वशेन सामान्यं सामानाधिकरण्यं च व्यवस्थाप्यते
03502 असद्-अर्थो अपि । अर्थानां संसर्ग-भेद-अभावात् । तस्य सर्वस्य
03503 तत्-कार्यकारणतया अन्येभ्यो भिद्यमाना अर्थाः समाश्रयो
03504 ध्वनिश् च अनिष्ट-परिहारेण प्रवर्तयति इत्य् अन्यापोह-विषय उक्तः ।
03505 तत्र अनपेक्षित-बाह्य-तत्त्वो बुद्धि-प्रतिभास-वशाद् एको अनेक-
03506 व्यावृत्तः शब्दैर् विषयीक्रियते तद्-अनुभव-आहित-वासना-प्रबोध-
03507 जन्मभिर् विकल्पैर् अध्यवसित-तद्-भाव-अर्थैः । तत्र एव
03508 च अयं धर्म-धर्मि-व्यवहारः परस्परं तत्त्वान्यत्वाभ्याम्
03509 अवाच्यः प्रतन्यते । न ह्य् अन्यो धर्मो धर्मिणो अनर्थ-
03510 अन्तर-अभिधानात् न अपि स एव । तद्-वाचिनाम् इव धर्म-वाचिनाम्
03511 अपि व्यवच्छेद-अन्तर-आक्षेप-प्रसङ्गात् । तथा च इष्ट-प्रत्यायनात्
03512 संकेत-भेद-अकरणम् इति । एतच् शब्द-अर्थे अवाच्यत्वं
03513 धर्म-धर्मिणोः । वस्तुनि तु स्वलक्षणे सामान्यलक्षणम् अवाच्यम्
03514 अभावात् । ननु च धर्म-धर्मिणोर् अभेदे भेदे वा
03515 दृष्टाः षष्ठ्य्-आदि-विभक्तयो धर्म-बहुत्वात् तत्र दृष्टो वचन-
03516 भेदश् च धर्मिणि न स्यात् । उक्तम् अत्र शब्दानां स्वातन्त्र्य-
03517 अभावाद् इति । अपि च ।
03518 येषां वस्तु-वशा वाचो न विवक्षा-पराश्रयाः ।
03519 षष्ठी-वचन-भेद-आदि-चोद्यं तान् प्रति युक्तिमत्

1.66

03520 यदि नाम एते शब्दाः पुरुषैः क्वचित् प्रणिनीषिता अपि न शक्यन्ते
03601 प्रणेतुं वस्तु-प्रतिबन्धाद् धूम-आदि-वत् । तदा अयम् उपालम्भः
03602 स्यात् कथं षष्ठ्य्-आदय इति । यदा पुनः ।
03603 यद् यथा वाचकत्वेन वक्तृभिर् विनियम्यते ।
03604 अनपेक्षित-बाह्य-अर्थं तत् तथा वाचकं वचः

1.67

03605 न हि व्यतिरेके षष्ठी बाहुल्ये जस्-आदय इत्य् एतद् अपि पुरुष-अभिप्राय-
03606 निरपेक्षं वस्तु-संनिधि-मात्रेण स्वयं प्रवृत्तम् । ते
03607 तु तत्र तथा प्रयुञ्जत इति ततस् तथा प्रतिपत्तिर् भवति ।
03608 एवम् अन्यत्र अपि कथंचित् तैः प्रयुक्तास् तथा एव प्रतीति-हेतवो
03609 भवन्ति । तत्र वाच्येषु पुरुष-आयत्त-वृत्तीनां शब्दानाम् अवस्तु-
03610 सन्दर्शिनां यथा अभ्यासं विकल्प-प्रबोध-हेतूनां प्रवृत्ति-चिन्ता
03611 तद्-वशाद् वस्तु-व्यवस्थापनं च केवलं जाड्य-
03612 ख्यापनम् । तथाकृत-व्यवस्थाः शब्दा धर्म-धर्म्य्-आदिषु न
03613 पुनर् व्यतिरेक-वस्तु-भेदाद् इति कुत एतत् । तथा व्यवहार- अयोगात् ।
03614 न हि धर्म-धर्मिणोर् भेदे तत्त्व-रूपत्वे वा सामान्य-
03615 तत्-सम्बन्ध-सामानाधिकरण्य-विशेषणविशेष्यभावा युज्यन्ते
03616 शब्दानां वा यथा-अवस्तु-वृत्ताव् इति वक्ष्यामः । यश् च अयं सर्वत्र
03617 वस्तु-कृतम् एव शब्द-प्रवृत्ति-भेदम् इच्छति तस्य
03618 दाराः षण्णगरी इत्य् आदौ भेद-अभेद-व्यवस्थितेः ।
03619 खस्य स्वभावः खत्वं च इत्य् अत्र वा किं निबन्धनम्

1.68

03621 यदा एका अपि स्त्री दारा एकम् अपि सिकता-द्रव्यं सिकता इति व्यवहारस्
03622 तत्र किं बाहुल्यं येन एवं भवति । शक्ति-भेद इति चेत् ।
03623 सर्वत्र उत्सन्नम् इदानीं एक-वचनम् एक-शक्तेर् अभावात् । यत्नश्
03624 च व्यर्थः । वस्त्व्-अभेदाद् अन्यत्र एक-वचनम् इति चेत् ।
03625 इह अप्य् अस्तु । तद् अयं निर्वस्तुको नियमः क्रियमाणः स्वातन्त्र्यम्
03626 इच्छायाः शब्द-प्रयोगे ख्यापयति । षण्णगरी इति च
03627 कथं बहुष्व् एक-वचनम् । न हि नगराण्य् एव किंचित् ।
03701 कुतस् तेषाम् समाहारः । प्रासाद-पुरुष-आदीनां विजातीयानाम्
03702 अनारम्भात् कुतस् तत्-समुदायो द्रव्यम् । असंयोगाश् च ।
03703 न संयोगः । प्रासादस्य स्वयं संयोग-आत्मकस्य परेण असंयोगाच्
03704 च । तत एव संख्या-अभावः । तत्-संयोग-पुरुष-विशिष्टा
03705 सत्ता नगरम् इति चेत् । किम् अस्या निरतिशयाया विशेषणम् ।
03706 सत्तायाश् च एकत्वात् । नगर-बहुत्वे अपि नगराणि इति बहु-वचनं
03707 न स्यात् । द्वयस्य परस्पर-सहितता इति चेत् । अनुपकार्य-उपकारकः
03708 कः सहायीभावः । पुरुष-संयोग-सत्तानां च बहुत्वान्
03709 नगरम् इति कथम् एक-वचनम् । तथाभूतानां क्वचिद्
03710 अर्थे अभिन्ना शक्तिर् अस्ति सा निमित्तम् इति चेत् । न । शक्तेर् वस्तु-
03711 रूप-अव्यतिरेकात् । व्यतिरेके वा अनुपकार्यस्य पारतन्त्र्य-अयोगात् ।
03712 उपकारे वा शक्त्य्-उपकारिण्या अपि शक्तेर् व्यतिरेक इत्य् अनवस्थितेर्
03713 अप्रतिपत्तिः । तद्-अव्यतिरेके वा आद्यायाम् अपि प्रसङ्ग इति यत्
03714 किंचिद् एतत् । खस्य स्वभावः खत्वम् इति व्यतिरेक-आश्रया
03715 षष्ठी न स्यात् । न हि तत्र सामान्यम् अस्ति न अपि विभुत्व-आदयो
03716 गुणास् तथा उच्यन्ते । अर्थ-अन्तरस्य तत्-स्वभावत्व-अयोगात् । तेषां
03717 च निःस्वभावत्व-प्रसङ्गात् । तस्य अप्य् अर्थ-अन्तर-स्वभावत्वे
03718 अतिप्रसङ्गः । तथा च अप्रतिपत्तिः । एवं षट्-पदार्थ-वर्ग-आदयो
03719 अपि वाच्याः । न हि तत्र सामान्यं संख्या संयोगो वा सम्भवति ।
03720 कथम् इदानीम् असत्य् अतिशये खस्य स्वभाव इति न तु
03721 खम् इत्य् एव । खस्य अर्थ-अन्तर-साधारण-रूप-अपरामर्शेन ख-
03722 शब्द-प्रवृत्ति-निबन्धनं रूपं तथा जिज्ञासायाम् एवम् उच्यते ।
03723 ननु सर्वतो व्यावृत्तस्य रूपस्य अभिधानं न सम्भवति ।
03724 न वै तद् एव रूपं बुद्धौ समर्प्यते । अनतीन्द्रियत्व-
03725 प्रसङ्गात् । केवलम् अयं तथाभूतं प्रत्याययिष्यामि इति शब्देन
03726 श्रोतर्य् असंसृष्ट-तत्-स्वभावं विकल्प-प्रतिबिम्बम् अर्पयति ।
03727 यद् आह । अदृष्ट-अर्थे अर्थ-विकल्प-मात्रम् इति । न एवं
03801 प्रतिपाद्य-प्रतिपादकाभ्यां स्वलक्षणं प्रतिपन्नं प्रतिपादितं
03802 वा भवति । स्वर्ग-आदि-श्रवणे अपि तद्-अनुभाविनाम् इव
03803 प्रतिभास-अभेद-प्रसङ्गात् । तस्माद् अयम् अप्रतिपद्यमानो अपि
03804 भाव-स्वभावं तथाभूत एव विकल्प-प्रतिबिम्बे तद्-अध्यवसायी
03805 संतुष्यति । तथाभूतत्वाद् एव शब्द-अर्थ-प्रतिपत्तेस्
03806 तेन एतद् एवम् उच्यते शब्दः स्वरूपम् आह इति । न पुनः स्वरूप-
03807 प्रतिभासस्य एव विज्ञानस्य जननात् । कथं तर्हि इदानीम् एकान्त-
03808 व्यावृत्त-रूपेषु भावेषु सामान्यं नाम । तेषाम् असंसर्गाद्
03809 अन्यस्य च अभावात् । उक्तं यादृशं सामान्यम् असंसृष्टानाम्
03810 एक-असंसर्गस् तद्-व्यतिरेकिणां समानता इति । अपि च ।
03811 पररूपं स्वरूपेण यया संव्रियते धिया॥
03812 एक-अर्थ-प्रतिभासिन्या भावान् आश्रित्य भेदिनः

1.69

03813 तया संवृत-नाना-अर्थाः संवृत्या भेदिनः स्वयम् ।
03814 अभेदिन इव आभान्ति भावा रूपेण केनचित्

1.70

03815 तस्या अभिप्राय-वशात् सामान्यं सत् प्रकीर्तितम् ।
03816 तद् असत् परमार्थेन यथा संकल्पितं तया

1.72

03817 बुद्धिः खलु तद्-अन्य-व्यतिरेकिणः पदार्थान् आश्रित्य उत्पद्यमाना
03818 विकल्पिका स्व-वासना-प्रकृतिं अनुविदधती भिन्नम् एषां
03819 रूपं तिरोधाय प्रतिभासम् अभिन्नम् आत्मीयम् अध्यस्य
03820 तान् संसृजन्ती सन्दर्शयति । सा च एक-साध्यसाधनतया अन्य-
03821 विवेकिनां भावानां तद्-विकल्प-वासनायाश् च प्रकृतिर् यद् एवम्
03822 एषा प्रतिभाति तद्-उद्भवा । सा च संवृतिः संव्रियते अनया
03823 स्वरूपेण पररूपम् इति । ते च तया संवृत-भेदाः स्वयं
03824 भेदिनो अप्य् अभेदिन इव केनचिद् रूपेण प्रतिभान्ति । तद् एषां
03825 बुद्धि-प्रतिभासम् अनुरुन्धानैः बुद्धि-परिवर्तिनाम् एव भावानाम्
03826 आकार-विशेष-परिग्रहाद् बहिर् इव परिस्फुरतां सामान्यम्
03901 इत्य् उच्यते । कथम् इदानीम् अन्यापोहः सामान्यं । स एव खल्व्
03902 अन्यापोहस् । तम् एव गृह्णती सा प्रकृति-विभ्रमाद् विकल्पानां
03903 वस्तु-ग्राहिणी इव प्रतिभाति । सा हि तद्-अन्य-विवेकिष्व् एव भावेषु
03904 भवन्ती विवेक-विषया इति गम्यते । ननु बाह्या विवेकिनो न च
03905 तेषु विकल्प-प्रवृत्तिर् इति कथं तेषु भवति । व्याख्यातारः
03906 खल्व् एवं विवेचयन्ति न व्यवहर्तारः । ते तु स्व-आलम्बनम्
03907 एव अर्थक्रिया-योग्यं मन्यमाना दृश्य-विकल्प्याव् अर्थाव् एकीकृत्य
03908 प्रवर्तन्ते । तद्-अभिप्राय-वशाद् एवम् उच्यते । तत्-कारितया
03909 अतत्-कारिभ्यो भिन्नांस् तथा शब्देन प्रतिपादयन्ति इति । प्रतिभास-भेद-आदिभ्यस्
03910 तु तत्त्व-चिन्तका न अभेदम् अनुमन्यन्ते ।
03911 यदि प्रतिपत्तृ-अभिप्रायो अनुविधीयते अन्यापोहो अपि सामान्यं
03912 मा भूत् न ह्य् एवं प्रतिपत्तिर् इति । न वै केवलम्
03913 एवम् अप्रतिपत्तिः । व्यक्ति-व्यतिरिक्त-अव्यतिरिक्त-एक-नित्य-व्यापित-आद्य्-
03914 आकारैर् अपि न एव प्रतिपत्तिः । केवलम् अभिन्न-आकारा बुद्धिर्
03915 उत्पद्यते । तस्याः क आश्रय इत्य् अन्यापोह उच्यते । तस्य वस्तुषु
03916 भावात् । अविरोधात् । व्यवहारस्य च शब्द-आश्रयस्य तथा-
03917 दर्शनात् । न पुनर् वस्तु-भूतं किंचित् सामान्यं नाम अस्ति
03918 यथा इयं बुद्धिः प्रतिभाति । यस्मात् ।
03919 व्यक्तयो न अनुयन्त्य् अन्यद् अनुयायि न भासते ॥
03920 न हि इमा व्यक्तयः परस्परम् अन्वाविशन्ति । भेद-अभावे न सामान्यस्य
03921 एव अभाव-प्रसङ्गात् । अन्यच् च न ताभ्यो व्यतिरिक्तं
03922 किंचित् तथा बुद्धौ प्रतिभात्य् अप्रतिभासमानं च कथम्
03923 आत्मना अन्यं ग्राहयेद् व्यपदेशयेद् वा । न च तैः सम्बद्धम्
03924 एकम् इत्य् एव सामान्यं भवत्य् अतिप्रसङ्गाद् इत्य् उक्तम् ।
03925 अभिन्न-अभिधान-प्रत्यय-निमित्तम् एकं सामान्यं न सर्वम्
03926 इति चेत् । कथम् अन्यतो अन्यत्र प्रत्यय-वृत्तिः । तत्-सम्बन्धात् ।
03927 संख्या-कार्य-द्रव्य-आदिष्व् अपि प्रसङ्गः असामान्य -आत्मकत्वान्
03928 न इति चेत् । ननु स एव अयं विचार्यते । को अयं सामान्य-आत्मा
03929 इति । तत्र सति सम्बन्धे प्रत्यय-वृत्तिस् ततः सामान्यम् इत्य्
03930 अत्र उच्यते । अनेक-सम्बन्धेभ्यः कार्य-द्रव्य-आदिभ्यो निमित्त-
04001 सम्भवात् प्रत्यय-वृत्तिस् ततश् च सामान्य-आत्मता । अन्यथा अन्यत्र
04002 अपि मा भूत् । विशेष-अभावात् । तथा च द्रव्य-गुण-सामान्यानां
04003 रूप-संकर इति । एवं तर्हि बुद्धेर् एव प्रतिभासो ज्ञान-रूपत्वात्
04004 सन् एव सामान्यम् । तन् न । यस्मात्
04005 ज्ञानाद् अव्यतिरिक्तं च कथम् अर्थ-अन्तरं व्रजेत् । 71॥
04006 ज्ञानस्य रूपं कथम् अर्थानां सामान्यम् । तस्य तेष्व् अभावात् ।
04007 तद्-भाव-अध्यवसायात् तथा-भ्रान्त्या व्यवहार इति चेत् । तत्र
04008 तथा-ज्ञान-उत्पत्तेः किं निबन्धनम् अनाश्रयस्य च उत्पत्तौ सर्वत्र
04009 स्यात् । अथवा ज्ञानाद् अव्यतिरिक्तम् एकस्मात् कथम् अन्यस्य
04010 पुनर् ज्ञानस्य रूपं स्यात् व्यक्त्य्-अन्तर-भाविनः । त तश् च
04011 ज्ञान-अन्तरं व्यक्त्य्-अन्तरं वा अव्याप्नुवत् कथं सामान्यं
04012 स्यात् ।
04013 तस्मान् मिथ्या-विकल्पो अयं अर्थेष्व् एकात्मता-ग्रहः ।
04014 न ह्य् अर्था व्यतिरिक्तेन अव्यतिरिक्तेन वा केनचिद् आत्मना समानाः
04015 तथा एषां ग्रहणं मिथ्या-विकल्प एव ।
04016 इतरेतर-भेदो अस्य बीजं संज्ञा यद्-अर्थिका

1.73

04017 यस्य प्रत्यायन-अर्थं संकेतः क्रियते अभिन्न-साध्यान् भावान्
04018 अतत्-साध्येभ्यो भेदेन ज्ञात्वा तत्-परिहारेण प्रवर्तेत इति सो
04019 अयम् इतरेतर-भेदस् तस्य एकात्मता-प्रतिभासिनो मिथ्या-विकल्पस्य
04020 बीजं । तम् एव गृह्णन् एष विकल्पः स्व-वासना-प्रकृतेर् एवं
04021 प्रतिभाति । कथं पुनर् भिन्नानाम् अभिन्नं कार्यं येन
04022 तद्-अन्येभ्यो भेदाद् अभेद इत्य् उच्यते । प्रकृतिर् एषा भवानां
04023 यद्
04024 एक-प्रत्यवमर्श-अर्थ-ज्ञान-आद्य्-एक-अर्थ-साधने ।
04025 भेदे अपि नियताः केचित् स्वभावेन इन्द्रिय-आदि-वत्

1.74

04101 यथा इन्द्रिय-विषय-आलोक-मनस्कारा आत्मा इन्द्रिय-मनो अर्थ-तत्-संनिकर्षा
04102 वा असत्य् अपि तद्-भाव-नियते सामान्ये रूप-विज्ञानम् एकं
04103 जनयन्ति एवं शिंशपा-आदयो अपि भेदाः परस्पर-अनन्वये अपि
04104 प्रकृत्या एव एकं एक-आकारं प्रत्यभिज्ञानं जनयन्ति अन्यां वा
04105 यथा-प्रत्ययं दहन-गृह-आदिकां काष्ठ-साध्याम् अर्थक्रियाम्
04106 न तु भेद-अविशेषे अपि जल-आदयः श्रोतृ-आदि-वद् रूप-आदि-ज्ञाने ।
04107 ज्वर-आदि-शमने काश्चित् सह प्रत्येकम् एव वा ।
04108 दृष्टा यथा वा ओषधयो नानात्वे अपि न च अपराः

1.75

04109 यथा वा गुडूची-व्यक्त्य्-आदयः सह प्रत्येकं वा ज्वर-आदि-शमन-
04110 लक्षणम् एकं कार्यं कुर्वन्ति । न च तत्र सामान्यम् अपेक्षन्ते ।
04111 भेदे अपि तत्-प्रकृतित्वात् । न तद्-अविशेषे अपि दधि-त्रपुसा-आदयः ।
04112 स्याद् एतत् सामान्यम् एव किंचित् तासु तथाभूतासु
04113 विद्यते तत एव तद् एकं कार्यम् इति । तद् अयुक्तम् ।
04114 अविशेषान् ।
04115 सामान्यस्य
04116 न सामान्यम् ।
04117 तत्-कार्य-कृत् । तस्य अपि
04118 अविशेष-प्रसङ्गतः ।
04119 तासां क्षेत्र-आदि-भेदे अपि ।
04120 यदि हि सामान्याज् ज्वर-आदि-शमनं कार्यं स्यात् । तस्य अविशेषाद्
04121 व्यक्तीनां क्षेत्र-आदि-भेदे अपि चिर-शीघ्र-प्रशमन-आदयो विशेषा
04122 गुण-तारतम्यं च न स्यात् । विशेषे वा सामान्यस्य स्वभाव-
04123 भेदात् स्वरूप-हानम् ।
04124 ध्रौव्याच् च ।
04125 सामान्यस्य
04201 अनुपकारतः

1.76

04202 यदि ह्य् उपकुर्याद् अनाधेयविशेषस्य अनन्य-अपेक्षणात् सकृत् सर्वं
04203 स्व-कार्यं जनयेत् । न वा तज्-जनन-स्वभावम् । व्यक्तयस्
04204 तु काल-देश-संस्कार-वशेन विशिष्ट-उत्पत्तयो विशेष-वत् कार्यं
04205 कुर्युर् इत्य् अविरोधः । तद्वद् अर्था अपि केचित् स्वभाव-भेदे अपि
04206 एक-प्रत्यभिज्ञान-आदिकाम् अर्थक्रियां कुर्वन्तस् तद्-अकारिभ्यो
04207 भेदाद् अभिन्ना इत्य् उच्यन्ते एकेन वा अनेको जनितो अतज्-जन्येभ्यो
04208 भेदात् । किं पुनर् अनेन भेद-लक्षणेन सामान्येन स्वलक्षणं
04209 समानम् इति प्रत्येयम् अथ अन्यद् एव । किं च अतः । यदि
04210 स्वलक्षणं कथं विकल्पस्य विषयः । अन्यतो वा कथम्
04211 अर्थक्रिया । स्वलक्षणे च अनित्यत्व-आदि-प्रतीतेर् अताद्रूप्यम् तेषां
04212 च अवस्तु-धर्मता । न एष दोषः । ज्ञान-प्रतिभासिन्य्-अर्थे सामान्य-
04213 सामानाधिकरण्य-धर्म-धर्मि-व्यवहाराः । यद् एतज् ज्ञानं
04214 वस्तु-स्वभाव-ग्राहिण-अनुभवेन आहितां वासनाम् आश्रित्य
04215 विकल्पकम् उत्पद्यते अतद्-विषयम् अपि तद्-विषयम् इव तद्-अनुभव-
04216 आहित-वासना-प्रभव-प्रकृतेर् अध्यवसित-तद्-भाव-स्वरूपम्
04217 अभिन्न-कार्य-पदार्थ-प्रसूतेर् अभिन्न-अर्थ-ग्राही इव तद्-अन्य-भेद-
04218 परमार्थ-समान-आकारम् तत्र यो अर्थ-आकारः प्रतिभाति बाह्य
04219 इव एक इव अनर्थक्रियाकार्य् अपि तत्-कारी इव व्यवहारिणां तथा अध्यवसाय
04220 प्रवृत्तेः अन्यथा प्रवृत्त्य्-अयोगात् तद् अर्थक्रियाकारितया
04221 प्रतिभासनात् तद्-अकारिभ्यो भिन्नम् इव न च तत्
04222 तत्त्वं परीक्षा-अनङ्गत्वाद् इति प्रतिपादयिष्यामः । ते अर्था बुद्धि-
04223 निवेशिनस् तेन समाना इति गृह्यन्ते कुतश्चिद् व्यावृत्त्या प्रतिभासनात्
04224 न स्वलक्षणम् तत्र अप्रतिभासनात् । त एव च कुतश्चिद्
04225 व्यावृत्ताः पुनर् अन्यतो अपि व्यावृत्तिमन्तो अभिन्नाश् च प्रतिभान्ति
04226 इति । स्वयं असताम् अपि तथा बुद्ध्या उपदर्शनान्
04301 मिथ्या-अर्थ एव सामान्य-सामानाधिकरण्य-व्यवहारः क्रियते ।
04302 सर्वश् च अयं स्वलक्षणानाम् एव दर्शन-आहित-वासनाकृतो विप्लव
04303 इति तत्-प्रतिबद्ध-जन्मनां विकल्पानाम् अतत्-प्रतिभासित्वे अपि
04304 वस्तुन्य् अविसंवादो मणि-प्रभायाम् इव मणि-भ्रान्तेः न अन्येषाम्
04305 तद्-भेद-प्रभवे सत्य् अपि यथा अदृष्ट-विशेष-अनुसरणं परित्यज्य
04306 किंचित् सामान्य-ग्रहणेन विशेष-अन्तर-समारोपाद् दीप-
04307 प्रभायाम् इव मणि-बुद्धेः । तेन न विकल्प-विषयेष्व् अर्थेष्व्
04308 अर्थक्रियाकारित्वम् । न अपि स्वलक्षणस्य अनित्यत्व-आद्य्-अभावः । यस्मान्
04309 न अनित्यत्वं नाम किंचिद् अन्यच् चलाद् वस्तुनः । क्षण-
04310 प्रत्युपस्थान-धर्मतया तस्य तथाभूतस्य ग्रहणाद् एतद्
04311 एवं भवत्य् अनित्यो अयम् अनित्यत्वम् अस्य इति वा । तद्-धर्मताम्
04312 एव अवतरन्तो विकल्पा नाना-एक-धर्म-व्यतिरेकान् सन्दर्शयन्ति ।
04313 न च ते निराश्रयास् तद्-भेद-दर्शन-आश्रयत्वात् । न अवस्तु-
04314 धर्मता तत्-स्वभावस्य एव तथा ख्यातेः । वस्तुनस् तु
04315 नाना-एक-व्यतिरेक-ग्रहो विभ्रमः स्यात् । तस्य एक-अनेक-कार्य-कारिणस्
04316 तथाभाव-जिज्ञासासु तथाभाव-ख्यापनाय तथाकृत-स्थितित्वात् ।
04317 न वस्तु-भेदात् । तस्य एकस्य अनेकत्व-अयोगात् । अनेकस्य च
04318 एकत्व-अयोगात् । व्यतिरिक्तस्य च निषेधात् । तेषां प्रकृति-भेदाद्
04319 यथा-वस्तु शब्द-अर्थ-अभ्युपगमे सामानाधिकरण्य-अयोगात् । तद्-
04320 उपाधेर् एकस्य द्वाभ्याम् अभिधानाद् अदोष इति चेत् । अनुपकारिणि
04321 पारतन्त्र्य-अयोगाद् अनुपाधिः । पारतन्त्र्ये च जन्यजनक भावात्
04322 सह अनवस्थितेर् द्वयोर् अनभिधानम् । एकस्य बुद्ध्या
04323 अध्याहारे न वस्तु-विषयः शब्दः स्यात् । बुद्धि-प्रतिभास-
04324 विषयत्वे च सर्वं तथा एव अस्तु । तथा भिन्न-उपाधिम् अत एकस्य
04325 ग्रहणे अप्रतिभासनात् । उपकार्य-उपकारिणोर् अप्य् उपाधि-तद्वतोः
04326 सह अवस्थानाद् अदोष इति चेत् । न । निष्पन्नस्य पारतन्त्र्य-अभावाद्
04327 अनुपाधित्वम् । न अनिष्पन्नस्य स्वरूप-असिद्धेः । सर्वथा असत्
04328 पारतन्त्र्यम् इति कल्पना-आरोपितं कृत्वा व्यवहारे सर्वथा
04329 स एव किं न बुद्धिर् अनुविधीयते । एक-शब्द-प्रमाणेन विषयीकरणे
04330 वस्तु-बलाद् अशेष-आक्षेपात् तद्-अन्य-वैयर्थ्यं च न स्यात् ।
04401 बुद्धि-प्रतिभासस्य निर्वस्तुकत्वात् वस्तु-सामर्थ्य-अभाविनाम्
04402 दोषाणाम् अप्रसङ्गः । तद् अभिन्नम् एक-आकार-विषयीकरणे अप्य् अनिश्चित-
04403 अन्य-आकारम् आकार-अन्तर-साकाङ्क्ष-बुद्धि-ग्राह्यं भिन्न-शब्द-अर्थ-
04404 उपसंहारे अप्य् अभिन्नं बुद्धौ प्रतिभाति इति सामान्य- विशेषणविशेष्यभाव-
04405 सामानाधिकरण्यानि यथा-प्रतीति न विरुध्यन्ते
04406 धर्म-धर्मि-भेदो अप्य् अस्य । अनेक-अर्थ-भेद-सम्भवे
04407 तद्-एक-अर्थ-भेद-विधि-प्रतिषेध-जिज्ञासायां तद् एव वस्तु
04408 प्रतिक्षिप्त-भेद-अन्तरेण धर्म-शब्देन संचोद्य बुद्धेस् तथा-
04409 प्रतिभासनाद् व्यतिरिक्तं धर्मम् इव अविशेषेण अपरम् अस्य स्वभावं
04410 धर्मितया व्यवस्थाप्य प्रदर्श्यते । तावता च अंशेन
04411 धर्म-धर्मिणोर् भेदाद् भेदवती इव बुद्धिः प्रतिभाति । न
04412 वस्तु-भेदात् । यथोक्त-दोषात् । तथाभूत-भेद-बाहुल्य-चोदनया
04413 वचन-भेदः साध्य-साधन-भेदश् च तत्-स्वभाव-समाश्रयैर्
04414 धर्म-प्रतिभास-भेदैस् तत्-स्वभाव-प्रतिपत्तये क्रियत इति ।
04415 तत्-स्वभाव-ग्रहणात् या धीस् तद्-अर्था इव अप्य् अनर्थिका ॥
04416 विकल्पिका अतत्-कार्य-अर्थ-भेद-निष्ठा प्रजायते

1.77

04417 तस्यां यद् रूपम् आभाति बाह्यम् एकम् इव अन्यतः ।
04418 व्यावृत्तम् इव निस्तत्त्वं परीक्षा-अनङ्ग-भावतः

1.78

04419 अर्था ज्ञान-निविष्टास् ते यतो व्यावृत्ति-रूपिणः ।
04420 तेन अभिन्ना इव आभान्ति व्यावृत्ताः पुनर् अन्यतः

1.79

04421 त एव तेषां सामान्य-समान-आधार-गोचरैः ।
04422 ज्ञान-अभिधानैर् मिथ्या-अर्थो व्यवहारः प्रतन्यते

1.80

04423 स च सर्वः पदार्थानाम् अन्योन्य-अभाव-संश्रयः ।
04424 तेन अन्यापोह-विषयो वस्तु-लाभस्य च आश्रयः

1.81

04425 यत्र अस्ति वस्तु-सम्बन्धो यथोक्त-अनुमितौ यथा ।
04426 न अन्यत्र भ्रान्ति-साम्ये अपि दीप-तेजो मणौ यथा

1.82

04427 तत्र एक-कार्यो अनेको अपि तद्-अकार्य-अन्यता-आश्रयैः ।
04501 एकत्वेन अभिधा-ज्ञानैर् व्यवहारं प्रतार्यते

1.83

04502 तथा अनेक-कृद् एको अपि तद्-भाव-परिदीपने ।
04503 अतत्-कार्य-अर्थ-भेदेन नाना-धर्म-प्रतीयते

1.84

04504 यथा-प्रतीति-कथितः शब्द-अर्थो असाव् असन्न् अपि ।
04505 सामानाधिकरण्यं च वस्तुन्य् अस्य न सम्भवः

1.85

04506 धर्म-धर्मि-व्यवस्थानं भेदो अभेदश् च यादृशः ।
04507 असमीक्षित-तत्त्व-अर्थो यथा लोके प्रतीयते

1.86

04508 तं तथा एव समाश्रित्य साध्य-साधन-संस्थितिः ।
04509 परमार्थ-अवताराय विद्वद्भिर् अवकल्प्यते

1.87

04510 संसृज्यन्ते न भिद्यते स्वतो अर्थाः पारमार्थिकाः ।
04511 रूपम् एकम् अनेकं च तेषु बुद्धेर् उपप्लवः

1.88

04512 भेदस् ततो अयं बौद्धे अर्थे सामान्यं भेद इत्य् अपि ।
04513 तस्य एव च अन्यव्यावृत्त्या धर्म-भेदः प्रकल्प्यते

1.89

04514 साध्य-साधन-संकल्पे वस्तु-दर्शन-हानितः ।
04515 भेदः सामान्य-संसृष्टो ग्राह्यो न अत्र स्वलक्षणम्

1.90

04516 समान-भिन्न-आद्य्-आकारैर् न तद् ग्राह्यं कथंचन ।
04517 भेदानां बहु-भेदानां तत्र एकस्मिन्न् अयोगतः

1.91

04518 तद्-रूपं सर्वतो भिन्नं तथा तत्-प्रतिपादिका ।
04519 न श्रुतिः कल्पना वा अस्ति सामान्येन एव वृत्तितः

1.92

04520 इति संग्रहश्लोकाः । किं पुनः कारणं स्वलक्षणे शब्दा न
04521 प्रयुज्यन्ते । यस्मात् ।
04522 शब्दाः संकेतितं प्राहुर् व्यवहाराय स स्मृतः ।
04523 तदा स्वलक्षणं न अस्ति संकेतस् तेन तत्र न

1.93

04524 न हि शब्दा असंकेतितम् अर्थं प्रकाशयन्ति । संकेतश् च
04525 व्यवहार-अर्थं क्रियते अपि नाम इतः शब्दात् कृत-संकेताद्
04526 उत्तर-कालं इमम् अर्थं प्रतिपद्येत इति । न च प्राक्कृत-सम्बन्धस्य
04527 एकत्र स्वलक्षणे शब्दस्य पश्चाद् प्रयोगो युक्तः ।
04528 तस्य देश-काल-व्यक्ति-भेद-अनास्कन्धनात् । तस्मान् न स्वलक्षणे
04529 समयः । सामान्यं तर्हि व्यतिरिक्तम् अव्यतिरिक्तं वा व्यापि
04530 शब्दैर् अभिधीयते । तन् न व्यवहार-काल-अभाव-दोषः । न एतद्
04531 अस्ति । यस्मात्
04532 अपि प्रवर्तेत पुमान् विज्ञाय-अर्थक्रिया-क्षमान्॥
04601 तत् साधनाय इत्य् अर्थेषु संयोज्यन्ते अभिधायकाः

1.94

04602 न खलु वै व्यसनम् एव एतल् लोकस्य यद् अयम् असंकेतयन्न्
04603 अप्रयुञ्जानो वा शब्दान् दुःखम् आसीत । किं तर्हि सर्व एव अस्य अवधेय
04604 आरम्भः फल-अर्थः । निष्फल-आरम्भस्य उपेक्षनीयत्वात् ।
04605 तद् अयं शब्दान् अपि क्वचिन् नियुञ्जानः फलम् एव किंचिद्
04606 ईहितुं युक्तः । तच् च सर्वं त्याग-आप्ति-लक्षणम् इष्ट-अनिष्टयोः ।
04607 तेन अयम् इष्ट-अनिष्टयोः साधनम् असाधनं च ज्ञात्वा तत्र
04608 प्रवृत्ति-निवृत्ती कुर्यां कारयेयं वा इति शब्दान् नियुञ्जीत नियोगे
04609 वा आद्रियेत । अन्यथा अपेक्षणीयत्वात् ।
04610 तत्र अनर्थक्रिया-योग्या जातिः ।
04611 न हि जातिः क्वचिद् वाह-दोह-उपतिष्ठते । न च तादृशं प्रकरणम्
04612 अन्तरेण लोके शब्द-प्रयोगो व्यवहारेषु । व्यक्तेर् अशक्य-
04613 चोदनत्वाल् लक्षित-लक्षण-अर्थं जाति-चोदना इति चेत् । अशब्द-चोदिते
04614 सत्य् अपि सम्बन्धे कथं प्रवर्तेत । न हि कश्चिद् दण्डं
04615 छिन्धि इत्य् उक्ते दण्डिनं छिनत्ति । न अप्य् असम्भवाद् व्यक्तौ प्रवृत्तिः ।
04616 एवं ह्य् असम्बद्ध-प्रलापी स्यात् । न ततो अन्यत्र प्रवृत्तिर्
04617 बलीवर्द-दोह-चोदना-वत् । न च अर्थ-अन्तर-चोदनेन अर्थ-अन्तरस्य लक्षणम् ।
04618 न हि सम्बन्धे सत्य् अपि दण्ड-शब्दाद् दण्डिनि प्रतिपत्तिः ।
04619 अनियत-सम्बन्धत्वात् तत्र न इति चेत् । तत् तुल्यं जाताव्
04620 अपि । व्यक्तीनाम् अपाये केवलाया जातेर् अवस्थानात् । भ्रातृ-आदि-
04621 शब्दास् तु सम्बन्धि-शब्दत्वाद् आक्षिपेयुः परम् । न तथा
04622 गोत्व-आदि-श्रुतयः सम्बन्धि-वाचिन्यः । अपेत-व्यक्तीनाम् अपि जातीनां
04623 तच्-श्रुतिभ्यो नित्यम् अनुगमन-प्रसङ्गात् । सर्वदा तत्-सम्बन्ध-
04624 योग्यता-प्रतीतेर् इष्टम् एव इति चेत् । सर्वदा तर्हि गो-शब्दाद्
04625 अप्रवृत्तिः । सहित-असहित-अवस्थयोर् विशेषेण अनाक्षेपात् । व्यक्ति-
04626 सम्बन्धिन्या जातेश् चोदनाद् अदोष इति चेत् । सर्वदा तर्हि तद्-विशेषणत्वेन
04627 अवस्थिता व्यक्तिर् आक्षिप्ता एव इति तद्वान् अभिधेयः स्यात् ।
04628 न च जाति-व्यक्त्योः कश्चित् सम्बन्धो अन्योन्यम् अजन्यजनकत्वेन
04629 अनुपकारात् । ततो लक्षणम् अप्य् अयुक्तम् । तस्मान् न जातौ
04630 शब्द-निवेशनं फल-अभावात् । एवं तर्हि ।
04631 तद्वान् अलं
04701 अर्थक्रियास्व् इति तत्र शब्दो नियोज्यते ।
04702 स च ।
04703 साक्षान् न योज्यते कस्माद् ।
04704 यदि व्यक्तौ शब्द-निवेशनं फल-वत् । स च शब्दः कस्मात् साक्षाद्
04705 व्यक्तिष्व् एव न नियुज्यते । किं तत्र अन्येन व्यवधिना ।
04706 आनन्त्याच् चेद् इदं समम्

1.95

04707 स्याद् एतद् आनन्त्याद् व्यक्तीनाम् अशक्यः शब्देन सम्बन्धः
04708 कर्तुम् । एवं सति इदम् आनन्त्यं तद्वत्य् अपि समानम् । जात्या अपि
04709 हि व्यक्तस्य एव वक्तव्या इत्य् अकृत-सम्बन्धस्य अनभिधानाद्
04710 अवश्यं तत्र सम्बन्धः करणीयः । स च न शक्यते ।
04711 तत्-सम्बन्धिनि करणात् तत्र अपि कृत एव इति चेत् । उक्तम्
04712 अत्र सम्बन्धे अप्य् एकत्र कृताद् अन्यत्र अप्रतीतिः न च सम्बन्धो
04713 अस्ति इति । अपि च ।
04714 तत्-कारिणाम् अतत्-कारि-भेद-साम्ये न किं कृतः ।
04715 याम् अर्थक्रियाम् अधिकृत्य अयम् अर्थेषु शब्दान् नियुङ्क्ते तत्-
04716 कारिणाम् अर्थानाम् अन्येभ्यो भेदात् तत्र एव च एषाम् अभेदे किं
04717 न शब्दः प्रयुज्यते ।
04718 तद्वद्-दोषस्य साम्याच् चेद् अस्तु जातिर् अलं परा

1.96

04719 स्याद् एतत् अन्यव्यावृत्ते अपि शब्द-अर्थे व्यावृत्ति-विशिष्टस्य तद्वतो
04720 अभिधानान् न तद्वत्-पक्षाद् विशेषः । को ह्य् अत्र विशेषो व्यावृत्तिर्
04801 जातिर् व्यावृत्तिमान् जातिमान् इति । अस्तु नाम तद्वद्-दोषः । जातिर्
04802 अन्या मा भूत् । जातिम् अपि ह्य् अभ्युपगच्छता अवश्यं भावानां
04803 भेदो अभ्युपगन्तव्यः । तद्-अभावे तस्या अप्य् अभाव-
04804 प्रसङ्गात् स च एकस्माद् भेदस् तद्-अन्येषाम् अभेदस् तद्-विशिष्टेष्व्
04805 अर्थेषु प्रतिपत्तिर् अस्तु । सर्वथा दोष-परिहारस्य कर्तुम्
04806 अशक्यत्वात् । अर्थ-अन्तर-अभ्युपगमे प्रयोजन-अभावात् । तद्-
04807 अर्थस्य अन्येन साधनात् । तद्-अभ्युपगमस्य च अवश्यं भावित्वात् ।
04808 अपि च ।
04809 तद्-अन्य-परिहारेण प्रवर्तेत इति च ध्वनिः ।
04810 उच्यते तेन तेभ्यो अस्य अव्यवच्छेदे कथं च सः

1.97

04811 शब्दं ह्य् एष प्रयुञ्जानो अर्थेष्व् अनिष्ट-परिहारेण प्रवर्तेत इति
04812 च प्रयुङ्क्ते । तत्र अन्यत्र च प्रवृत्त्य्-अनुज्ञायां तन्- नाम-ग्रहण-
04813 वैयर्थ्यात् प्रवृत्ति-निवृत्त्य्-अनुज्ञायां च एक-चोदना अनादराद्
04814 अवचनम् एव स्याद् अन्यव्यावृत्त्य्-अनभिधाने । तस्माद् अवश्यं
04815 शब्देन व्यवच्छेदश् चोदनीयः । स च अभिन्नस् तद्-अन्येष्व्
04816 इति जाति-धर्मो अप्य् अस्ति । तन् नियत-अभ्युपगमं नियत-चोदनं
04817 जात्य्-अर्थ-प्रसाधनं च परित्यज्य-अर्थ-अन्तर-कल्पनं केवलम्
04818 अनर्थ-निर्बन्ध एव । यथा-कल्पनम् अस्य अयोगात् । न वै व्यवच्छेदो
04819 न क्रियते । प्रवृत्ति-विषयं तु कथयद्भिर् जातिर् उक्ता ।
04820 व्यवच्छेदो अस्ति चेद् अस्य नन्व् एतावत् प्रयोजनम् ।
04821 शब्दानाम् इति किं तत्र सामान्येन अपरेण वः

1.98

04822 ननु उक्तं प्रवृत्ति-विषयः प्रदर्श्यते इति । उक्तम् इदम् । अयुक्तं
04823 तु उक्तम् । तथा हि न सा प्रवृत्ति-योग्या इति निवेदितम् एतत् ।
04824 तद्-द्वारेण अचोदिते प्रवृत्तिर् अपि प्रत्युक्ता । तद्वच्-चोदने च
04825 व्यवधानं । जाति-तद्वतोः प्रवृत्ति-विषयत्वे व्यावृत्ति-तद्वन्तौ
04826 किं न इष्येते । व्यावृत्तेर् अवस्तुत्वेन असाधनत्वाच् चेत् । तत्
04827 तुल्यं जातेः । तद्वतः साधनाद् अदोष इति चेत् । तुल्यं तद् व्यावृत्तिमतः ।
04828 अवस्तु-ग्राही च व्यावृत्ति-वादिनां शाब्दः प्रत्ययः ।
04901 स विभ्रम-वशाद् अकारके अपि कारक-अध्यवसायी प्रवर्तयति ।
04902 वस्तु-संवादस् तु वस्तु-उत्पत्त्या तत्-प्रतिबन्धे सति भवति ।
04903 अन्यथा न एव अस्ति । वस्तु-उत्पत्तेर् अभ्रान्तिर् इति चेत् । न । अतत्-प्रतिभासिनस्
04904 तद्-अध्यवसायात् । मणि-प्रभायां मणि-भ्रान्ति-दर्शनेन
04905 व्यभिचाराच् च । भ्रान्तेर् अवस्तु-संवाद इति चेत् । न ।
04906 यथोक्तेन एव व्यभिचारात् । वितथ-प्रतिभासो हि भ्रान्ति- लक्षणम् ।
04907 तन्-नान्तरीयकतया तु संवादो न प्रतिभास-अपेक्षी । वस्तुनि
04908 तु यथाभावम् अर्पित-चेतसः प्रवृत्तौ ग्राह्यस्य सामान्यस्य
04909 अनर्थक्रिया-योग्यत्वाद् अप्रवृत्तिः । अन्यत्र च प्रवृत्ताव्
04910 अतिप्रसङ्गः । तद्वद्-ग्रहणे च सामान्य-वैयर्थ्य-आदयः प्रोक्ताः ।
04911 जाति-ग्रहणे अपि सम्बन्धाच् श्लिष्ट-आभासा बुद्धिः प्रवर्तयति
04912 इति चेत् । तदा न जातिर् न तद्वान् एकस्य अपि स्वभाव-स्थितेर्
04913 अग्रहणाद् इति पर-वाद एव आश्रितः स्यात् । एवं तर्ह्य् अन्वयिनः
04914 कस्यचिद् अर्थस्य अभावात् प्रकृति-भिन्नेष्व् अर्थेषु तद् एव इदम् इति
04915 प्रत्यभिज्ञानं न स्यात् । न एष दोषः । यस्मात् ।
04916 ज्ञान-आद्य्-अर्थक्रियां तां तां दृष्ट्वा भेदे अपि कुर्वतः ।
04917 अर्थांस् तद्-अन्य-विश्लेष-विषयैर् ध्वनिभिः सह

1.99

04918 संयोज्य प्रत्यभिज्ञानं कुर्याद् अप्य् अन्य-दर्शने ।
04919 उक्तम् एतत् भेदे अपि भावास् तुल्य-अर्थक्रियाकारिणश् चक्षुर्-आदि-वद्
04920 इति । ताम् एकाम् ज्ञान-आदिकाम् अर्थक्रियां तेषु पश्यतो वस्तु-धर्मतया
04921 एव अन्येभ्यो भिद्यमाना भावास् तद्-व्यावृत्ति-विषय-ध्वनि-
04922 संसृष्टं तद् एव इदम् इति स्व-अनुभव-वासना-प्रबोधेन संसृष्ट-
04923 भेदं मिथ्या-प्रत्ययं जनयन्ति । अन्यथा न भेद-
04924 संसर्गवती बुद्धिः स्यात् । यथा दण्डिषु । न हि तत्र एक-दण्ड-
04925 योगे अप्य् अन्यत्र स एव अयम् इति भवति । किं तर्हि । तद् इह इति ।
04926 न च एवं प्रत्यभिज्ञानम् । किं तर्हि । तद् एव इदम् इति । तन् न
04927 तद् एकं अनेकत्र पश्यतो अपि भेद-संसर्ग-वद् युक्तम् । विभ्रम-
05001 बलात् तु तथा ज्ञाने न विरोधः । निमित्त-अभावाद् विभ्रमो
05002 अयुक्त इति चेत् । त एव भावस् तद्-एक-अर्थ-कारिणो अनुभव- द्वारेण
05003 प्रकृत्या विभ्रम-फलाया विकल्प-वासनाया हेतुत्वान् निमित्तम् ।
05004 मरीचिक-आदिष्व् अपि हि जल-आदि-भ्रान्तेस् ताव् एक-अभिन्न -आकार-परामर्श-
05005 प्रत्यय-निमित्त-अनुभव-जननौ भावौ कारणं भिन्नाव्
05006 अपि । न हि तत्र अन्यद् एव किंचित् सामान्यम् अस्ति यत् तथा
05007 प्रतीयेत । सत्त्वे वा सद्-अर्थ-ग्राहिणी बुद्धिर् भ्रान्तिर् न स्यात् ।
05008 अभूत-आकार-समारोपाद् भ्रान्तिर् इति चेत् । न तर्हि सा तत्-सामान्य-
05009 ग्राहिणी । यम् एव खल्व् आकारम् इयम् आरोपयति स एव अस्या
05010 विषय इति । अविषयीकृतस्य अशक्य-समारोपात् । आकार-अन्तर-वत् । स
05011 च तत्र न अस्ति इत्य् असामान्यं । सति सामान्य-ग्रहणे तद्-आरोपो
05012 न अन्यथा अतिप्रसङ्गाद् इति चेत् । सत्य् एक-कार्य-कारि-ग्रहण इति
05013 किं न इष्यते । अवश्यं च इच्छता अपि सामान्यं व्यक्तीनाम् एक-
05014 कार्य-जनन-शक्तिर् एष्टव्या । ततस् त एव अन्येभ्यो भिद्यमानास्
05015 तादृशं प्रत्ययं जनयन्ति इति किम् अत्र सामान्येन । यथाभावम्
05016 एव असंसृष्ट-भेदं किं न प्रत्येति इति चेत् । अशक्तिर् एषा
05017 विकल्पानाम् अविद्या-प्रभवाद् । न वै बाह्य-अपेक्षा एव भ्रान्तयो
05018 भवन्ति । किं तु विप्लवाद् आन्तराद् अपि केश-आदि-विभ्रम-वत् । अविद्या-
05019 उद्भवाद् विप्लवत्वे चक्षुर्विज्ञान-आदिष्व् अपि प्रसङ्गः । न ।
05020 तस्या विकल्प-लक्षणत्वात् । विकल्प एव ह्य् अविद्या । सा स्वभावेन
05101 एव विपर्यस्यति । न एवम् इन्द्रिय-ज्ञानानि विकल्पकानि । न
05102 वा तेष्व् अप्य् एष दोषो अद्वयानां द्वय-निर्भासाद् इति वक्ष्यामः ।
05103 सर्वेषां विप्लवे अपि प्रमाण-तद्-आभास-व्यवस्था आ आश्रयपरावृत्तेर्
05104 अर्थक्रिया-योग्य-अभिमत-संवादनात् । मिथ्यात्वे अपि
05105 प्रशम-अनुकूलत्वान् मातृ-संज्ञा-आदि-वत् । मरीचिकायां जल-ज्ञानस्य अन्यस्य
05106 च भिन्न-भाव-उत्पत्तेर् विभ्रमस्य च अविशेषे अप्य् अभिमत-
05107 अर्थक्रिया-योग्य-अयोग्य-उत्पत्तेर् अर्थ-संवादा इतरौ । अयोग्यात् ।
05108 कथम् उत्पत्तिर् इति चेत् । विकल्पानाम् अर्थ-प्रतिबन्ध-नियम-अभावात् ।
05109 न हि विकल्पा यथार्थम् एव जायन्ते । सति मरीचिक-अदर्शने
05110 जल-भ्रान्तिर् इति तद्-उद्भवा इत्य् उच्यते न तु यथा-स्वभावम्
05111 अजल-विवेकिन-अर्थेन स्वभाव-अनुकार-प्रत्यर्पणेन जननात् ।
05112 सा तु विशेष-लक्षण-अपाटवात् प्रत्यय-अपेक्षिणा स्व-वासना-
05113 प्रबोधेन जन्यते । तस्माद् भिन्न-भाव-जन्मनो । विकल्प-विभ्रमात्
05114 तद् एव इदम् इति प्रत्यभिज्ञानं न व्यतिरिक्तस्य सामान्यस्य
05115 दर्शनात् न अव्यतिरिक्तस्य व्यक्ति-वद् अनन्वयात् । अपि
05116 च ।
05117 परस्य अपि न सा बुद्धिः सामान्याद् एव केवलात्

1.100

05118 न हि परो अपि एनां बुद्धिं केवल-सामान्य-भाविनीं वक्तुम्
05119 अर्हति ।
05120 नित्यं तन्-मात्र-विज्ञाने व्यक्त्य्-अज्ञान-प्रसङ्गतः ।
05121 यदि हि नित्यम् अनया बुद्ध्या सामान्यम् एव गृह्येत अप्रतीता
05122 एव व्यक्तिः स्याद् अनेन ज्ञानेन ।
05123 तदा कदाचित् सम्बद्धस्य अगृहीतस्य तद्वतः

1.101

05124 तद्वत्ता अनिश्चयो न स्याद् व्यवहारस् ततः कथम् ।
05125 यदा सामान्य-ग्राहिणो विज्ञानस्य न भेद आलम्बन-भावेन उपयुज्यते
05201 तदा न तौ कदाचिद् अपि श्लिष्टौ गृहीताव् इति इदम् अस्य
05202 सामान्यम् अयं वा तद्वान् इति न स्यात् । तथा च तत्-प्रतिपत्त्या
05203 तद्वति प्रतिपत्तिर् न स्याद् अर्थ-अन्तर-वत् ।
05204 एक-वस्तु-सहायाश् चेद् व्यक्तयो ज्ञान-कारणम्

1.102

05205 स्याद् एतद् भवन्ति व्यक्तयस् तस्य आलम्बन-भावेन कारणं न
05206 तु केवलाः । यदा पुनर् आसाम् एकं सहकार्य् अस्ति तदा तत्-सहिता
05207 गृह्यन्त इति ।
05208 तद् एकं वस्तु किं तासां नानात्वं समपोहति ।
05209 नानात्वाच् च एक-विज्ञान-हेतुता तासु न इष्यते

1.103

05210 किं वै तेषां भेदानां तेन एकेन नानात्वं निराक्रियते ।
05211 नानात्वं हि तेष्व् एक-विज्ञान-अकारणत्वे कारणम् उच्यते ।
05212 अनेकम् अपि यद्य् एकम् अपेक्ष्य-अभिन्न-बुद्धि-कृत् ।
05213 न ब्रूमो अनेकम् एकं प्रत्ययं न जनयति भेदाद् इति ।
05214 न भेदो जनन-विरोधी । किं तर्हि । कैवल्यम् । तेन एकेन
05215 सहिता जनयन्त्य् एव । एवं तर्हि ।
05216 ताभिर् विना अपि प्रत्येकं क्रियमाणां धियं प्रति

1.104

05217 तेन एकेन अपि सामर्थ्यं तासां न इत्य् अग्रहो धिया ।
05218 कथम् इदानीं व्यक्तीनां तत्र ज्ञाने सामर्थ्य-गतिः । प्रत्येकं
05219 तासाम् अभावे अपि तद्-भावात् । असति सामान्ये अभावाद् इतरथा
05220 च भावात् । न एष दोषः । यथा नील-आदिष्व् एक-अपाये अपि चक्षुर्विज्ञानं
05221 भवति इति । न समूहे अपि तेषाम् असामर्थ्यम् ।
05222 तथा इह अपि प्रत्येकम् एक-अपाये अपि भवति इति न सर्वदा सामर्थ्यं ।
05223 विषम उपन्यासः । तथा हि ।
05301 नील-आदेर् नेत्र-विज्ञाने पृथक् सामर्थ्य-दर्शनात्

1.105

05302 शक्ति-सिद्धिः समूहे अपि न एवं व्यक्तेः कथंचन ।
05303 नील-आदीनां हि चक्षुर्विज्ञाने प्रत्येकम् अपि सामर्थ्यं दृष्टम्
05304 इति समूहे अपि शक्तिर् अविरुद्धा । तथा न कदाचिद् व्यक्तयः
05305 सामान्य-निरपेक्षा अन्वयि विज्ञानं जनयन्ति । तस्माद् असमर्था
05306 एव व्यक्तयस् तत्र इति न तेन गृह्येरन् ।
05307 तासाम् अन्यतम-अपेक्षं तच् चेच् शक्तं न केवलम्

1.106

05308 अथ अपि स्यात् न वेम-रहितः कुविन्दः पटं करोति प्रत्य् एकम् ।
05309 वेम-अभावे अपि कुविन्दः करोति इति न तत एव पट-उत्पत्तिः । तथा
05310 न केवलम् एकैक-व्यक्त्य्-अपाये विज्ञान-उत्पत्ताव् अपि सामान्यं
05311 तद्-हेतुः । किं तर्हि । व्यक्तीनाम् एकां कांचिद् अपेक्ष्य विज्ञानम्
05312 उत्पादयति । एवं सति ।
05313 तद् एकम् उपकुर्युस् ताः कथं एकां धियं च न ।
05314 भिन्नानां ह्य् अर्थानाम् एक-अर्थ-उपक्रिया विरोधिनी इति सर्वो अयम्
05315 आरम्भः । ताश् चेद् व्यक्तयो भिन्ना अप्य् एकं सामान्यम् उपकुर्वन्ति
05316 कः पुनर् आसां विज्ञानेन अपराधः कृतो यत् तन् न उपकुर्वन्ति ।
05317 किम् अन्तर्गडुना सामान्येन । यथा असम्भिन्नानाम्
05318 अप्य् एक-सामान्य-उपकरण-शक्तिः एवं तद् एव एकं विज्ञानं कुर्वन्तु ।
05319 किं च ।
05320 कार्यश् च तासां प्राप्तो असौ जननं यद् उपक्रिया

1.107

05321 न ह्य् अनतिशयम् आत्मानम् अस्य पूर्ववद् बिभ्रतः कश्चिद्
05322 उपकारको नाम । अतिप्रसङ्गात् । अर्थ-अन्तर-जनने अपि तस्य
05323 किं तेन । तस्य तद्-आश्रयत्वे अनुपकारिणः को अयम् आश्रयाश्रयिभावः ।
05324 अतिप्रसङ्गो वा । उपकारे अपि तत्र एव तत्-प्रतिबन्ध
05325 इति किम् अन्यस् तत्-करणात् तद्-उपकारी । तद्-अपेक्षस्य आश्रयस्य
05326 तद्-उपयोगे अनुपकार्यत्वे का इयम् अपेक्षा नाम । तदुत्पत्ति-धर्मा
05327 धर्मा भावः स्वभावप्रतिबन्धाद् अपेक्षते नाम अनाधेयातिशय-
05401 आत्मा परैर् अपेक्षते च इति व्याहतम् एतत् । तस्माद् यः
05402 कश्चित् कस्यचित् क्वचित् प्रतिबन्धः स सर्वो जन्यतायाम् एव अन्तर्भवति ।
05403 परभाव-उत्पादने तद्-अनुपकारात् । अकिंचित्करस्य
05404 च अनुपकारात् । तस्माद् व्यक्त्य्-उपकृतस्य सामान्यस्य विज्ञान-जनने
05405 जनने व्यक्तम् अस्य तत्-कार्यता-अनुयुज्यते । केवलस्य सामर्थ्ये
05406 अपि व्यक्तीनां क्वचिद् अप्य् अत्र सामर्थ्य-असिद्धेः अग्राह्यत्वं ।
05407 समर्था व्यक्तयो विज्ञाने प्रतिभासनाद् इति चेत् ।
05408 कथम् असिद्ध-उपकाराणां प्रतिभास इति स एव सामान्य-अभ्युपगमे
05409 चिन्त्यते । यस्मान् न अनुपकारको विषयो अतिप्रसङ्गात् ।
05410 न अविषयस्य विज्ञाने प्रतिभासः । अनुपकारकस्य अविषयत्वे
05411 अतीत-अनागत-आदीनाम् अविषयत्वम् असताम् उपकार-असामर्थ्याद्
05412 इति चेत् । भवन्तु नाम तद्-विषयाणि निर्विषयाणि । निर्विषयत्वे
05413 अपि तद्-अनुकारी प्रतिभासस् तद्-रूप-अनुभव-आहित-वासना-उत्पत्तेर्
05414 आत्मभूत एव विज्ञानस्य । भाव-अभाव-अनुविधानाच् च सामर्थ्यं
05415 न प्रतिभासनात् । अप्रतिभासिनो अपि व्यक्ति-व्यतिरेकेण सामान्यस्य
05416 भावात् । प्रतिभासिनाम् अपि केश-आदि-विप्लवानाम् अभावात् ।
05417 अभिन्न-प्रतिभासा धीर् न भिन्नेष्व् इति चेन् मतम् ।
05418 न ब्रूमो अनेकम् एक-कार्य-कृन् न भवति इति । किं तर्हि । न
05419 भिन्नेष्व् अर्थेष्व् अर्पित-तद्-आकारा बुद्धिर् अभिन्न-प्रतिभासिनी
05420 स्यात् । न वै सामान्य-ग्राहिणीषु स्वलक्षण-प्रतिभासः तद्-अभावे
05421 अपि तासां भावात् आकार-अन्तरेण च स्व-ज्ञाने प्रतिभासनात्
05501 अनेक-आकार-अयोगाद् एकस्य अतिप्रसङ्गाच् च । तस्मान् न इयं भिन्न-अर्थ-
05502 ग्राहिण्य् अभिन्ना प्रतिभाति तद्-उद्भवा । अतत्-प्रतिभासिन्य्
05503 अप्य् अध्यवसाय-विभ्रमाद् व्यवहारयति लोकम् । स तु
05504 तस्यां प्रतिभासमान आकारो न अर्थेष्व् अस्ति । अन्यत्र भेदाद् अभेदिनः ।
05505 स च अरूपः । तम् एव एषा गृह्णती तथा विप्लवत इत्य्
05506 उक्तं प्राक् । अपि च । वस्तु-सामान्य-वादिनो अपि हि भिन्ना एव व्यक्तयः ।
05507 कथं तास्व् अभिन्न-आकारा बुद्धिर् इति तुल्यं चोद्यम् ।
05508 न तुल्यं तत्र अभिन्नस्य सामान्यस्य सद्भावात् । ननु तत्र
05509 तस्य आभासः सतो अपि न लक्ष्यते । सा हि वर्ण-संस्थान-प्रतिभासवती
05510 विभाव्यते । न च ईदृशं सामान्यम् । न च ततो व्यतिरिक्तः
05511 कश्चिद् अभिन्न आकारो अस्ति । आकृति-सामान्य-वादिनो अपि विशेष-वत्
05512 तस्य अव्यतिरेकाद् अर्थ-अन्तरे अवृत्तिर् इति भेदान् न अभिन्न-प्रतिभासो
05513 युज्यते । अथवा अस्तु
05514 प्रतिभासो धियं भिन्नः समाना इति तद्-ग्रहात्

1.108

05515 न एव तास्व् अभिन्नः प्रतिभासो अस्ति समाना इति ग्रहात् । न ह्य्
05516 एकस्मिन् प्रतिभासे समाना इति युक्तं । किं तर्हि । तद् एव इति ।
05517 द्वयस्य ग्रहणाद् अदोष इति चेत् । तथा अपि तद् इह इति स्यात् । न समान
05518 इति । तद् एव तासां साम्यम् इति चेत् । कथम् अन्योन्यस्य
05519 साम्यम् । तत्-सम्बन्धाद् इति चेत् । न । प्रतिबद्धस्य सम्बन्ध-
05520 अयोगात् । अतिप्रसङ्गाच् च ।
05521 कथं ता भिन्न-धी-ग्राह्याः समाश् चेद् ।
05601 ननु समाना इति ग्रहणाद् एव आस्व् अभिन्न-प्रतिभासः । न वै
05602 तद्-दर्शने भिन्न-अभिन्नयोः प्रतिभासनात् समाना इति प्रतीतिः ।
05603 किं तर्हि ।
05604 एक-कार्यता ।
05605 सादृश्यं ।
05606 न हि वयम् अर्थ-ज्ञाने द्वाव् आकारौ पश्यामः । अपश्यन्तश् च
05607 कथम् अर्थ-द्वय-कल्पनेन आत्मानम् एव विप्रलभामहे । एक-
05608 कार्यास् तु व्यक्तयः कल्पना-विषयताम् उपयान्त्यस् तथा अनया
05609 विभ्रमान् मिश्रीक्रियन्त इत्य् अनवद्यम् एतत् ।
05610 ननु धीः कार्यं तासां सा च विभिद्यते

1.109

05611 प्रतिभावं । तद्वत् तत्-प्रतिभासिनो विज्ञानस्य अपि भेदात् । कथम्
05612 एक-कार्याः । तद् हि तासां कार्यं तच् च भिद्यते । यद्
05613 अप्य् उदक-आहरण-आदिकम् एकं घट-आदि-कार्यं तद् अपि प्रतिद्रव्यं
05614 भेदाद् भिद्यत एव इति न एकं भेदानां कार्यम् अस्ति ।
05615 न एष दोषः । यस्मात् ।
05616 एक-प्रत्यवमर्शस्य हेतुत्वाद् धीर् अभेदिनी ।
05617 एक-धी-हेतु-भावेन व्यक्तीनाम् अप्य् अभिन्नता

1.110

05618 निवेदितम् एतद् यथा न भावानां स्वभाव-संसर्गो अस्ति इति ।
05619 तत्र संसृष्ट-आकारा बुद्धिर् भ्रान्तिर् एव । तां तु भेदिनः
05620 पदार्थाः क्रमेण विकल्प-हेतवो भवन्तो जनयन्ति स्वभावत
05621 इति च । स त्व् एषाम् अभिन्नो भेद इत्य् उच्यते ज्ञान-आदेः
05701 कस्यचिद् एकस्य करणात् अतत्-कारि-स्वभाव-विवेकः । तद् अपि
05702 प्रतिद्रव्यं भिद्यमानम् अपि प्रकृत्या एक-प्रत्यवमर्शस्य अभेद-
05703 अवस्कन्दिनो हेतुर् भवद् अभिन्नं ख्याति । तथाभूत-प्रत्यवमर्श-हेतोर्
05704 अभेद-अवभासिनो ज्ञान-आदेर् अर्थस्य हेतुत्वाद्
05705 व्यक्तयो अपि संसृष्ट-आकारं स्वभाव-भेद-परमार्थं स्वभावत
05706 एकं प्रत्ययं जनयन्ति इत्य् असकृद् उक्तम् एतत् । तस्माद्
05707 एक-कार्यता एव भावानाम् अभेदः ।
05708 सा च अतत्-कार्य-विश्लेषस् ।
05709 एव
05710 तद्-अन्यस्य अनुवर्तिनः ।
05711 वस्तुनः
05712 अदृष्टेः प्रतिषेधाच् च ।
05713 न हि दृश्यं विभागेन अप्रतिभासमानम् अस्ति इत्य् उक्तम् एतत्
05714 सति वा क्वचिद् अनाश्रितं कथं ज्ञान-हेतुर् इति । प्रतिषेधस्य
05715 च विधानात् तत्-कल्पना अयुक्ता इति । तस्मात्
05716 संकेतस् ।
05717 अपि
05718 तद्-विद्-अर्थिकः

1.111

05719 एव युक्तः । यो अयम् अन्योन्यं विवेको भावानां तत्-प्रतीतय
05720 एव संकेतो अपि क्रियमाणः शोभेत अतत्-कारि-विवेकेन प्रवृत्त्य्-अर्थतया ।
05721 यदि हि न तत्-प्रतीत्य्-अर्थः संकेतस् तस्य व्यवहार-
05722 काले अप्य् असंस्पर्शान् न अन्य-परिहारेण प्रवर्तेत । न हि स
05723 तेषां तेभ्यो विवेकः शब्देन चोदित इति । सा च श्रुतिः ।
05801 अकार्य-कृति-तत्-कारि-तुल्य-रूप-अवभासिनीम् ।
05802 धियं वस्तु-पृथग्भाव-मात्र-बीजाम् अनर्थिकाम्

1.112

05803 जनयन्त्य् अप्य् अतत्-कारि-परिहार-अङ्ग-भावतः ।
05804 वस्तु-भेद-आश्रयाच् च अर्थे न विसंवादिका मता

1.113

05805 ततो अन्यापोह-विषया तत्-कर्तृ-आश्रित-भावतः ।
05806 एक-स्वभाव-रहितेष्व् अर्थेषु तम् अध्यारोप्य-उत्पद्यमानां मिथ्या-
05807 प्रतिभासित्वाद् अकार्य-कारिणम् अपि तत्-कार्य-कारिणम् इव अध्यवस्यन्तीं
05808 वस्तु-पृथग्भाव-मात्र-बीजां समान-अध्यवसायां
05809 मिथ्या-बुद्धिं श्रुतिर् जनयन्त्य् अपि तद्-अन्य-परिहार-अङ्ग-अभावात्
05810 परमार्थतस् तद्-व्यतिरेकिषु पदार्थेषु न विसंवादिका इत्य् उच्यते ।
05811 तथा हि स तेषु व्यतिरेको भूतः । सर्वथा अव्यतिक्रमणीयत्वात् ।
05812 न एको व्यतिरिक्तो अव्यतिरिक्तो वा सर्वथा अयोगात् । तस्य
05813 समावेशने वस्तुनि दूर-उत्सृष्टम् एव वस्तु स्याच् शब्द-ज्ञानाभ्याम् ।
05814 तद्-विषय-अभिमतस्य तस्य अभावात् । अन्यस्य च वस्तु-
05815 धर्मस्य कस्यचिद् असंस्पर्शात् । तत एव च सा श्रुतिर् अन्यापोह-
05816 विषयया इत्य् उच्यते । अन्यव्यावृत्तेष्व् अर्थेषु व्यावृत्ति-भेदम्
05817 उपादाय अविशेषेण निवेशनात् । व्यवहारे अप्य् अन्य-परिहारेण
05818 प्रवर्तनात् ।
05819 अवृक्ष-व्यतिरेकेण वृक्ष-अर्थ-ग्रहणे द्वयम्

1.114

05820 अन्योन्य-आश्रयम् इत्य् एक-ग्रह-अभावे द्वय-अग्रहः ।
05821 संकेत-असम्भवस् तस्माद् इति केचित् प्रचक्षते

1.115

05822 यद्य् अवृक्षेभ्यो भेदो वृक्षस् तस्य अवृक्ष-ग्रहणम् अन्तरेण
05823 तथा ग्रहीतुम् अशक्यत्वात् अविज्ञात-वृक्षेण अवृक्षस्य अपि तद्-व्यवच्छेद-
05824 रूपस्य अपरिज्ञानात् बुद्धाव् अनारूढे अर्थे न संकेतः
05825 शक्यत इत्य् एके ।
05901 तेषाम् अवृक्षाः संकेते व्यवच्छिन्ना न वा ।
05902 य एवम् एकं वस्तु-सामान्यम् अभ्युपगम्य इतरेतर-आश्रयम्
05903 अन्य-व्यवच्छेदेन संकेते चोदयन्ति । तेषां तत्र अपि संकेत-
05904 करणे अवृक्षा व्यवच्छिन्ना न वा
05905 यदि ।
05906 व्यवच्छिन्नाः कथं ज्ञाताः प्राग् वृक्ष-ग्रहणाद् ऋते

1.116

05907 न हि तदा प्रतिपत्ता वृक्षं वेत्ति न अवृक्षं तज्-ज्ञानाय एव
05908 तद्-अर्थितया उपगमात् । सो अजानानः कथम् अवृक्ष-व्यवच्छेदं
05909 प्रतिपद्येत संकेते । अप्रतिपत्तौ च अपरिहृत-तद्-अन्य-
05910 निवेशिनः शब्दाद्
05911 अनिराकरणे तेषां संकेते व्यवहारिणाम् ।
05912 न स्यात् तत्-परिहारेण प्रवृत्तिर् वृक्ष-भेद-वत्

1.117

05913 न हि संकेते पर-अव्यवच्छेदेन निवेशिताच् शब्दाद् व्यवहारे
05914 तत्-परिहारेण प्रवृत्तिर् युक्ता । शिंशपा-आदि-भेद-वत् । अथ अपि स्यात् ।
05915 अविधाय निषिध्य-अन्यत् प्रदर्श्य एकं पुरः स्थितम् ।
05916 वृक्षो अयम् इति संकेतः क्रियते तत् प्रपद्यते

1.118

05917 व्यवहारे अपि तेन अयम् अदोष इति चेत् ।
05918 न वै वस्तु-सत् सामान्य-वादिना कस्यचिद् व्यवच्छेदेन किंचिद्
05919 विधीयते । किं तर्हि । एकम् अग्रतो व्यवस्थितं वस्तु सन्दर्श्य
05920 वृक्षो अयम् इति संकेतः क्रियते । संकेत-काले तथा-दृष्टम्
05921 एव अयम् अर्थं तत्-सम्बन्धिनं वा व्यवहारे अपि प्रतिपद्यत
06001 इति न समानः प्रसङ्गः । न समानः । यस्मात् तत्र अपि ।
06002 तरुः ।
06003 अयम् अप्य् अयम् एव इति प्रसङ्गो न निवर्तते

1.119

06004 एकं प्रदर्श्य अयं वृक्ष इत्य् अपि ब्रुवाणो अयम् अप्य् अयम् एव इत्य्
06005 उभयीं गतिं न अतिवर्तते । तयोश् च स एव दोषः । न दोषः
06006 दृष्ट-विपरीतस्य सुज्ञानत्वात् । एकं हि किंचित् पश्यतो अन्यत्र
06007 तद्-आकार-विवेकिनीं बुद्धिम् अनुभवतस् ततो अन्यद् इति यथा-अनुभवं
06008 तद्-विवेचनो वैधर्म्य-निश्चय उत्पद्यते । स ह्य्
06009 अयम् एव वृक्ष इति प्रदर्श्य व्युत्पादितः । यत्र एव तं न
06010 पश्यति तम् एव अवृक्षं स्वयम् एव प्रतिपद्यते । न इदं व्यवच्छेद-
06011 वादिनः सम्भवति । एकत्र दृष्टस्य रूपस्य क्वचिद्
06012 अनन्वयाद् दर्शनेन प्रतिपत्तौ व्यक्त्य्-अन्तरे अपि न स्यात् तथा
06013 प्रतीतिः । एवं तर्हि तत्र अपि तुल्यम् एतत् । यस्मात् ।
06014 एक-प्रत्यवमर्श-आख्ये ज्ञान एकत्र हि स्थितः ।
06015 प्रपत्ता तद्-अतद्-हेतून् अर्थान् विभजते स्वयम्

1.120

06016 निवेदितम् एतत् प्राग् यथा एते भावाः प्रकृति-भेदिनो अपि ज्ञान-आदिकम्
06017 एकं कार्यं केचित् कुर्वन्ति न अन्य इति । तान् अयं तत्र स्वयम्
06018 एव तद्-हेतून् अतद्-हेतूंश् च विभज्य प्रत्येति । तस्य ।
06019 तद्-बुद्धि-वर्तिनो भावान् भातो हेतुतया धियः ।
06020 अहेतु-रूप-विकलान् एक-रूपान् इव स्वयम्

1.121

06021 भेदेन प्रतिपद्येत इत्य् उक्तिर् भेदे नियुज्यते ।
06022 तं तस्याः प्रतियती धीर् भ्रान्त्या एकं वस्त्व् इव ईक्ष्यते

1.122

06023 तेषां प्रकृत्या एव प्रत्यय-वशात् तथाभूत-विकल्प-कारणानाम्
06024 अन्वयात् तद्-द्रष्टुर् बुद्धौ विपरिवर्तमानान् तज्-ज्ञान-
06025 हेतुतया तद्-अन्यव्यावृत्त्या च अतथाभूतान् अपि तथा-अध्यवसितान्
06026 अविभक्त-बाह्य-अध्यात्मिक-भेदान् प्रतिपत्ता प्रतिपत्तिम् अनुसृत्य
06027 एते वृक्षा इति स्व-पर-विकल्पेष्व् एक-प्रतिभासान् आदर्श्य विकल्प-
06028 विज्ञाने व्यवस्थितस् तद्-विज्ञान-हेतून् भेदेन प्रतिपद्येत
06101 इत्य् उक्तिम् अतद्-हेतुभ्यो भेदे नियुङ्क्ते । तं तस्याः प्रतिपद्यमाना
06102 बुद्धिर् विकल्पिका भ्रान्ति-वशाद् एव एक-वस्तु-ग्रहिणी इव
06103 प्रतिभाति । न पुनर् एकं वस्तु तत्र दृश्यम् अस्ति यस्य दर्शन-
06104 अदर्शनाभ्यां भिन्न-दर्शने अप्य् एष वृक्ष-अवृक्ष-विभागं
06105 कुर्वीत । तस्य शाखा-आदि-प्रतिभास-विभागेन दण्ड-वद् दण्डिन्य्
06106 अग्रहणात् । अगृहीतस्य च अपर-प्रविभागेन अनुपलक्षणात् । आकृतेर्
06107 अप्य् एकत्र दृष्टाया अन्यत्र द्रष्टुम् अशक्यत्वात् । तद्-अतद्वतोर्
06108 वृक्ष-अवृक्षत्वे व्यक्तिर् एक एव वृक्षः स्यात् । भवतु नाम घट-आदि-
06109 शब्देष्व् अर्थ-अन्तर-व्यवच्छेदः । अथ ज्ञेय-आदि-पदेषु कथम् ।
06110 न ह्य् अज्ञेयं किंचिद् अस्ति यतो भेदः स्यात् । ततो भेदेन
06111 विषयीकरण एव तस्य ज्ञेयत्वात् । न एष दोषः । यस्मात् ।
06112 क्वचिन् निवेशनाय अर्थे विनिवर्त्य कुतश्चन ।
06113 बुद्धेः प्रयुज्यते शब्दस् तद्-अर्थस्य अवधारणात्

1.123

06114 व्यर्थो अन्यथा प्रयोगः स्यात् तज् ज्ञेय-आदि-पदेष्व् अपि ।
06115 व्यवहार-उपनीतेषु व्यवच्छेद्यो अस्ति कश्चन

1.124

06116 शब्दं हि प्रयुञ्जानः सर्वो अन्वय-व्यतिरेकौ न अतिवर्तते ।
06117 तस्य प्रवृत्ति-निवृत्त्य्-अर्थत्वात् । यदि ह्य् अयं न कस्यचित् कुतश्चिन्
06118 निवर्तयेत् प्रवर्तयेद् वा बुद्धिं यथाभूत-अनुज्ञानात्
06119 सर्व-व्यवहारेषु न किंचिद् व्याहरेत् । व्याहारस्य अवधारण-
06120 नान्तरीयकत्वात् । यथा घटेन उदकम् आनयेति । यदि घटेन अञ्जलिना
06121 वा उदक-आनयनं यथाकथंचिद् अभिमतं स्यात् उदकम्
06122 आनयेत्य् एव वक्तव्यं स्यात् । न घटेन इति । तथा पंशुना
06123 वा अनेन वा येन केनचिद् आनीतेन अर्थ आनयेत्य् एव स्याद् अनाक्षिप्त-
06124 करण-कर्मकम् । एवम् आनयनम् अन्यद् वा यत् किंचिद्
06125 अनुष्ठानं वा अभिमतं तदा आनयेत्य् अपि न
06126 ब्रूयात् । व्यर्थत्वाद् वचनस्य । तथा व्यवहार-उपनीतानां ज्ञेय-आदि-
06201 पदानाम् अपि केनचिद् व्यवच्छेद्येन भवितव्यम् । अनन्य-आशङ्कायां
06202 प्रयोग-अयोगात् तत्र हि यद् एव मूढ-मतेर् आशङ्का-स्थानं
06203 तद् एव निवर्त्यम् । अनाशङ्कमानो वा किं परस्माद्
06204 उपदेशम् अपेक्षते । अश्रोतृ-संस्कारं च ब्रुवाणः कथं
06205 न उन्मत्तः । तत्-संस्काराय एव शब्दानां कृत-संकेतत्वात् । अव्यवहार-
06206 उपनीतश् च न एव कश्चित् ज्ञेय-आदि-शब्दो अस्ति । वाक्य-गतस्य
06207 पदस्य अर्थ-चिन्तनात् । क्व पुनर् एते शब्दाः प्रयुज्यन्त इति
06208 प्रयोग-विषय-चिन्तायाम् अन्यापोह उच्यते । अनिर्दिष्ट-प्रयोगं तु
06209 ज्ञेय-शब्दस्य को अर्थ इति प्रश्ने न कश्चिद् अर्थः । ततः क्वचिद्
06210 अप्रतिपत्तेः । तथा घट-आदि-शब्दानाम् अपि । या अपि क्वचित् प्रकरणे
06211 केवल-शब्द-श्रवणात् प्रतिपत्तिर् दृष्ट-प्रयोग-अनुसारेण साकाङ्क्षत्वात्
06212 सा अपरिसमाप्त-तद्-विप्लव एव घट-आदि-शब्देषु ।
06213 तादृशो ज्ञेय-आदि-शब्देष्व् अपि यथा-दर्शनम् अस्त्य् एव । तस्मात्
06214 सर्व एव शब्द-प्रयोगः कुतश्चिद् बुद्धिं निवर्त्य क्वचिन् निवेशन-
06215 अर्थः । तत्-साफल्यात् ।
06216 निवेशनं च यो यस्माद् भिद्यते विनिवर्त्य तम् ।
06217 तद्-भेदे भिद्यमानानां समान-आकार-भासिनि

1.125

06218 स च अयम् अन्यव्यावृत्त्या गम्यते तस्य वस्तुनः ।
06219 कश्चिद् भाग इति प्रोक्तो रूपं न अस्य अपि किंचन

1.126

06220 तद्-गताव् एव शब्देभ्यो गम्यते अन्य-निवर्तनम् ।
06221 न तत्र गम्यते कश्चिद् विशिष्टः केनचित् परः

1.127

06222 न च अपि शब्दो द्वय-कृद् अन्योन्य-अभाव इत्य् असन् ।
06223 अरूपो रूपवत्त्वेन दर्शनं बुद्धि-विप्लवः

1.128

06224 निवेश्यमानो अप्य् एष शब्दो यस्माद् भिद्यते तं विनिवर्त्य
06225 भिद्यमानानां भेदे समान-रूप-प्रतिभासिन्य् आक्षिप्त-तद्-अन्यव्यावृत्तिर्
06226 निवेश्यत इति । स एव अयम् अर्थ-अन्तर-व्यावृत्त्या
06227 तस्य वस्तुनः कश्चिद् भागो गम्यते शब्दो अर्थ-अन्तर-निवृत्ति-
06301 विशिष्टान् एव भावान् आह इत्य् आदिना निर्दिष्टः । स हि तं भेदं
06302 कथयन्न् अर्थ-अन्तर-व्यवच्छेदम् आक्षिपन् एव वर्तते ।
06303 एक-गत-भेद-चोदनायास् तद्-अन्यव्यावृत्त्य्-आक्षेप-नान्तरीयकत्वात् ।
06304 स एव भेदस् तद्-व्यावृत्त्या गतो भागस् तद्-गतेस् तद्-उपाधित्वात्
06305 तद्-विशिष्टो गत इत्य् उच्यते । न पुनर् अर्थ-अन्तर-निवृत्तिर् विशेषण-
06306 भूता केषांचिद् अर्थानां यया विशिष्टाः शब्दैश् चोद्यन्ते । दण्डि-वत् ।
06307 द्वयोर् हि भिद्यमानयोर् भेदस्य उभय-गतत्वाद्
06308 एक-भेद-अभिधाने अपि नान्तरीयकस् तद्-अन्य-आक्षेपो भवति इति तयोर्
06309 न विशेषणविशेष्यभावः । एक-भेद-अभिधाने अप्य् अन्यव्यावृत्ति-
06310 गतेर् अन्वय-व्यतिरेक-चोदनया व्यवहार-अङ्गतां शब्दानां
06311 दर्शयंस् तद्-व्यावृत्त्या गम्यते तद्-विशिष्टो वा इत्य् आह । अत
06312 एव च शब्दस्य न द्वौ व्यापारौ तद्-अन्यव्यावर्तनं स्वार्थ-
06313 अभिधानं च । स्वार्थ-अभिधानाद् एव तद्-अन्यव्यावृत्ति-गतेः ।
06314 स्वार्थस्य भेद-रूपत्वात् । न ह्य् अन्वयो अव्यतिरेको अनन्वयो
06315 वा व्यतिरेकः । एक-अन्वयस्य परिहार्य-अभावे निष्फल-चोदनत्वात्
06316 तथा एक-परिहारस्य क्वचित् स्थित्य्-अभावे । स च अयं भेदो अरूपः ।
06317 रूपवत्त्वेन त्व् अस्य दर्शनं केवलं बुद्धि-विप्लव
06318 एव ।
06401 तेन एव अपरमार्थो असाव् अन्यथा न हि वस्तुनः ।
06402 व्यावृत्तिर् वस्तु भवति भेदो अस्य अस्माद् इति ईरणात्

1.129

06403 रूपं हि परमार्थः । भेदश् चेद् रूपं स्यात् । तद्-रूपं वा
06404 स्याद् अतद्-रूपं वा । ताद्रूप्ये तद् एव इति न अन्यस् ततो भिद्येत ।
06405 न हि तस्य रूपम् अन्यस्य स्यात् । न तद् एव भेदस्य रूपं ।
06406 रूपं च अन्यद् एव स्यात् । ततश् च भावस् तस्माद् व्यावर्तेत ।
06407 ततो अस्मात् तस्य भेद इति न स्यात् । यत् खलु यद्-भेदाद् व्यावर्तते
06408 तद् एव तद् भवति इति सो अस्य भेद इति च न स्यात् । न
06409 ह्य् अन्योन्यस्य भेदो भवति । सम्बन्ध-अभावात् । सति वा स
06410 कार्यकारणभाव इति रूपं तज्-जनितं भेद इत्य् अविशेषात् ।
06411 सर्व-कार्याणि स्व-कारणानां व्यावृत्तयः स्युः । रूप-अन्तरत्वे
06412 च भेदस्य ततो अप्य् अस्य भेद इति भेद-उपाधित्वात् द्रव्य-अन्तर-वन्
06413 न भेदः स्यात् । न हि भेद-उपाधिर् एव भेदो अयम् अत
06414 इति विशेष-निर्देशात् । ततश् च उपाध्य्-अभावे भेदस्य एव अभावः स्यात् ।
06415 तस्मान् न व्यतिरिक्तः । तद्-अन्य-गत्य्-अभावाच् च वस्तुनो न परमार्थः ।
06416 कथं तर्ह्य् अभिन्नस्य वस्तुनः शब्देन चोदने
06417 तस्य एव अन्यतो अपि भेदाद् अनंशय-एक-भेद-चोदने सर्व-भेद-
06418 गतेस् तत्र शब्द-प्रमाण-अन्तराणि व्यर्थानि न स्युः । यस्मात् ।
06419 एक-अर्थ-श्लेष-विच्छेद एको व्याप्रियते ध्वनिः ।
06420 लिङ्गं वा तत्र विच्छिन्नं वाच्यं वस्तु न किंचन

1.130

06421 यस्य अभिधानतो वस्तु-सामर्थ्याद् अखिले गतिः ।
06422 भवेन् नाना-फलः शब्द एक-आधारो भवत्य् अतः

1.131

06423 उक्तं प्राग् यथा संसृष्ट-बाह्य-अध्यात्मिक-भेदा बुद्धिः स्वम्
06424 एव आभासं व्यवहार-विषयम् अर्थक्रिया-योग्यम् अध्यवसाय
06425 शब्द-अर्थम् उपनयति इति । तत्र एव च ते शब्दास् तैस् तैर् भ्रान्ति-
06426 कारणैः संसृष्ट-रूप इव आभाति यथा-संकेतं विच्छेदाय व्याप्रियन्ते।
06427 न च एक-साध्यं व्यवच्छेदम् अन्यः करोति । संकेत-
06501 प्रतिनियमात् न च विच्छिन्नं किंचिद् वस्त्व् आक्षिप्यते
06502 यस्य अभिधानाद् वस्तु-बलेन अखिले गतिः स्यात् । शब्दानां बुद्धि-
06503 विप्लव-विषयत्वात् । तत्र च अवस्तुनि वस्तु-सामर्थ्य-अभावात् । तथाभूत-
06504 अर्थ-दर्शन-द्वारेण अयं नाना-एक-धर्म-भेद-अभेद-प्रतिभास-
06505 विप्लव-अनुसारी व्यवहार इति तस्य तत्-प्रतिबन्धे सति
06506 तद्-अव्यभिचारः । ततो वितथाद् अप्य् अन्ते तथाभूत एव वस्तुनि
06507 ज्ञान-संवादात् । न पुनर् भिन्न-आकार-ग्राहिणां ज्ञान-शब्दानां
06508 एक-वस्तु-विषयत्वात् नाना-फलः शब्द एक-आधारो व्याघातात् । यथा वर्णिते
06509 तु बुद्धि-प्रतिभास-आश्रये न दोष इति ।
06510 विच्छेदं सूचयन् एकम् अप्रतिक्षिप्य वर्तते ।
06511 यदा अन्यं तेन स व्याप्त एकत्वेन च भासते

1.132

06512 सामानाधिकरण्यं स्यात् तदा बुद्ध्य्-अनुरोधतः ।
06513 वस्तु-धर्मस्य संस्पर्शो विच्छेद-करणे ध्वनेः

1.133

06514 स्यात् सत्यं स हि तत्र इति न एक-वस्त्व्-अभिधायिनि ।
06515 बुद्धाव् अभासमानस्य दृश्यस्य अभाव-निश्चयात्

1.134

06516 इत्य् अन्तरश्लोकाः ।
06517 तेन अन्यापोह-विषयाः प्रोक्ताः सामान्य-गोचराः ।
06518 शब्दाश् च बुद्धयश् च एव वस्तुन्य् एषाम् असम्भवात्

1.135

06519 यदि हि विधि-रूपेण वस्त्व् एव शब्दैर् विकल्पैर् वा अपि विषयीक्रियेत
06520 सो अयं सर्व-अर्थ-सर्व-आकार-प्रतीति-प्रसङ्गो असामानाधिकरण्य-
06521 आदयश् च इति मन्यमानः प्रणेता न्याय-शास्त्रस्य अन्यापोह-
06522 विषयाव् एतौ प्राह । तथा हि ।
06523 एकत्वाद् वस्तु-रूपस्य भिन्न-रूपा मतिः कुतः ।
06524 अन्वय-व्यतिरेकौ वा न एकस्य एक-अर्थ-गोचरौ

1.136

06525 तद् एकम् अनंशं वस्तु कथं भिन्न-आकाराभिर् बुद्धिभिर्
06526 विषयीक्रियते । आकार-भेद-आश्रयत्वाद् भेदस्य । तस्य च अभेदात् ।
06527 तदात्मनो अपि सामान्यस्य तद्-एकयोगक्षेमत्वात् । तद् अयम्
06528 अन्योन्य-अर्थ-परिहारेण एक-विषययोर् वृत्त्य्-अभावात् सामानाधिकरण्य-
06601 आदिर् न च वस्त्व्-आत्मन एकस्य तत्र एव वृत्तिर्
06602 अवृत्तिश् च युक्ता व्याघातात् । न च अन्यत्र अवर्तमानं सामान्यं
06603 स्यात् । सामान्यस्य वृत्तिर् न विशेषस्य इति चेत् । न । भेद-अभावात् । तद्
06604 हि एक-रूपं सामान्यं वा भवेत् विशेषो वा । न ह्य् असति रूप-भेदे
06605 अयं प्रविभागो युक्तः सति वा अव्यतिरेको न स्याद् इत्य् उक्तम् ।
06606 तद् अयम् अविभागो अन्वियाद् वा न वा । न पुनर् अनन्वयो अन्वयी
06607 च । यो अपि भिन्नम् एव सामान्यम् आह । तस्य अपि ।
06608 अभेद-व्यवहाराश् च भेदे स्युर् अनिबन्धनाः ।
06609 यथास्वं शब्दा भिन्नम् अर्थम् अभिदधानाः कथम् एक-अर्थ-
06610 बुद्ध्य्-आश्रयाः स्युः । अर्थ-अन्तर-अभिधायिनश् च अनाक्षेपकाः
06611 निराकाङ्क्षत्वात् कथं विशेषणविशेष्यभाव-आश्रयाः ।
06612 सर्वत्र भावाद् व्यावृत्तेर् न एते दोषाः प्रसङ्गिनः

1.137

06613 यथा ह्य् एकस् तस्माद् भिन्नस् तथा अन्यो अपि इति भेदस्य असामान्य-
06614 दोषो अपि न अस्ति । परिशिष्ट-अभावस् तु प्राग् एव उक्तः । अपि च ।
06615 एक-कार्येषु भेदेषु तत्-कार्य-परिचोदने ।
06616 गौरव-अशक्ति-वैफल्याद् भेद-आख्यायाः समा श्रुतिः

1.138

06617 कृता वृद्धैर् अतत्-कार्य-व्यावृत्ति-विनिबन्धना ।
06618 न भावे सर्व-भावानां स्वभावस्य व्यवस्थितेः

1.139

06619 यद् रूपं शाबलेयस्य बाहुलेयस्य न अस्ति तत् ।
06620 अतत्-कार्य-परावृत्तिर् द्वयोर् अपि च विद्यते

1.140

06621 अर्थ-अभेदेन च विना शब्द-अभेदो न युज्यते ।
06622 तस्मात् तत्-कार्यता अपि इष्टा अतत्-कार्याद् एव भिन्नता

1.141

06623 चक्षुर्-आदौ यथा रूप-विज्ञान-एक-फले क्वचित्॥
06624 अविशेषेण तत्-कार्य-चोदना-सम्भवे सति

1.142

06625 सकृत् सर्व-प्रतीत्य्-अर्थं कश्चित् सांकेतिकीं श्रुतिम् ।
06626 कुर्याद् ऋते अपि तद्-रूप-सामान्याद् व्यतिरेकिणः

1.143

06701 यो अपि मन्यते कथम् अभिन्नम् अर्थम् अन्तरेण बहुष्व् एका
06702 श्रुतिः तेषाम् असाम्यात् एक-वृत्तेर् अन्यत्र प्रत्यय-अजननात्
06703 अप्रत्यासत्तिके च प्रत्यय-उत्पादे अतिप्रसङ्गात् तेषु च एक-
06704 शब्द-निवेशन-वैफल्याद् एक-अर्थ-नियोग-अभावात् भिन्न -स्वभावानां
06705 पृथङ् नियोगे च तथा-चोदितानां विभाग-अपरिज्ञानाद्
06706 इति । तस्य अप्य् एकम् अस्ति इत्य् एव लोकेन शब्दो निवेशनीयः तद्
06707 वा एकम् एनां श्रुतिं वस्तु-शक्त्या एव ध्वनयति इति । न अस्त्य् एतत् ।
06708 किं तर्हि केनचित् प्रयोजनेन केचिच् शब्दाः क्वचिन् निवेश्यन्ते ।
06709 तत्र यद्य् अनेकम् एकत्र उपयुज्येत तद् अवश्यं तत्र चोदनीयं ।
06710 तस्य पृथक् पृथक् चोदने अतिगौरवं स्यात् । न च अस्य अनन्य-
06711 साधारणं रूपं शक्यं चोदयितुम् । न अप्य् अस्य आयास अस्य
06712 किंचित् साफल्यं । केवलम् अनेन तत्र योग्यास् ते अर्थाश् चोदनीयाः ।
06713 त एकेन वा शब्देन चोद्येरन् बहुभिर् वा इति स्वातन्त्र्यम्
06714 अत्र वक्तुः । तद् इयम् एका श्रुतिर् बहुषु वक्तृ-अभिप्राय-
06715 वशात् प्रवर्तमाना न उपालम्भम् अर्हति । न च इयम् अशक्य-
06716 प्रवर्तना । इच्छा-अधीनत्वात् । यदि हि न प्रयोक्तुर् इच्छा कथम्
06717 इयम् एकत्र अपि प्रवर्तेत । इच्छायां वा क एनां बहुष्व् अपि
06718 प्रतिबन्धुं समर्थः । प्रयोजन-अभावाद् । एव अप्रवर्तनम् इति
06719 चेत् । उक्तं प्रयोजनम् । भिन्नेष्व् एकस्मात् प्रतीतिर् अतत्-प्रयोजन-
06720 भेदेन इत्य् उक्तम् । न पुनः स्वभावस्य एकत्वात् । यथास्वं
06721 व्यवस्थित-स्वभावानाम् अन्योन्य-रूप-अश्लेषात् कथम् एक-स्वभाव-निमित्तः
06722 शब्दो भिन्नेषु भवेद् इत्य् उक्तं प्राक् । अतत्-प्रयोजन-व्यावृत्तिस्
06723 तु भिन्नानाम् अविरुद्धा इति स एव अर्थ-अभेदः शब्द-अभेदस्य
06724 कारणं भवतु । तेन इमे तत्-प्रयोजना इत्य् अतत्-प्रयोजनेभ्यो
06725 भिन्ना एव उक्ताः । न पुनर् एषाम् अन्या तत्-कार्यता अन्यत्र अन्यतो
06726 भेदात् । यथा चक्षू-रूप-आलोक-मनस्कारेस्व् आत्म-इन्द्रिय-मनो अर्थ-
06801 तत्-संनिकर्षेषु वा रूप-विज्ञान-एक-कार्येषु तत्- कार्य-सामान्य-चोदना-
06802 सम्भवे कुतो रूप-विज्ञानम् इति व्यवहार-लाघव-अर्थं कश्चित्
06803 सांकेतिकीं श्रुतिं निवेशयेत् यरो रूप-विज्ञान-हेतुः शसो
06804 वा इति । अपि नाम सर्वेषां तद्-हेतूनां सकृत् प्रतीतिर् यथा स्याद्
06805 इति । न च अत्र अनुगामि किंचिद् रूपम् अस्ति । केवलं तद्-अर्थतया
06806 ते भावा अतद्-अर्थेभ्यो भिन्ना इति भेद एव एषाम् अभेदः । एवंजातीयाश्
06807 च सर्वे समूह-सन्तान-अवस्था-विशेष-शब्दा ये समस्ताः
06808 किंचिद् एकं कार्यं कुर्वन्ति तेषां तत्र विशेष-अभावाद् अपार्थिका
06809 विशेष-चोदना इति सकृत् सर्वेषां नियोजन-अर्थम् एकम् अयं
06810 लोकः शब्दं तेषु नियुङ्क्ते घट इति । ते अपि सजातीयाद् अन्यतश् च
06811 भेद-अविशेषे अपि तत्-प्रयोजन-अङ्गतया तद्-अन्येभ्यो भिद्यन्त
06812 इत्य् अभेदात् ततो अविशेषेण प्रतीयन्ते । तत्र घटस्य रूप-आदयो
06813 इत्य् अपि घट-स्वभावा रूप-आदय उदक-धारण-विशेष-आदि-कार्य-समर्था
06814 इति यावत् । सामान्य-कार्य-साधन-प्रसिद्धेन आत्मना रूप-
06815 आदि-शब्दैः प्रसिद्धा विशिष्ट-कार्य-साधन-आख्येन विशेषेण विशिष्टास्
06816 त एवम् उच्यन्ते । न पुनर् अत्र अन्यत् किंचिद् यथा-वर्णित-लक्षणं
06817 द्रव्यम् अस्ति तस्य तादृशस्य अनुपलम्भात् । एक-वचनम्
06818 अपि तद्-एक-शक्ति-सूचन-अर्थं संकेत-परतन्त्रं वा । तथा
06819 ये हेतु-फल-विशेष-भूताः किंचिद् एकं साधयन्ति साध्यन्ते
06820 वा ते अपि सकृत् प्रत्यय-अर्थं व्रीह्य्-आदि-शब्दैः कृत-संकेताः
06821 कथ्यन्त इति पूर्ववद् वाच्यम् । ये अपि पृथक् समस्ता वा क्वचिद्
06822 उपयुज्यन्ते त अवस्था-विशेष-वाचिभिः सकृद् एव शब्दैः प्रत्यय-
06823 अर्थं ख्याप्यन्ते सनिदर्शनाः सप्रतिघा वा इति तद्-अन्येभ्यो
06824 भेद-सामान्येन । यथा एक-कार्यास् तत्-कार्य-चोदनायां
06825 तद्-अन्य-भेदेन घट-आदि-शब्दैः कृत-समयाः । तथा कारण-अपेक्षया
06901 अप्य् अनेक एकेन व्यवहार-अर्थम् एव । यथा शाबलेयो
06902 बाहुलेयः प्रयत्नानन्तरीयकः शब्दः कृतको वा इति । तथा
06903 तत्-कार्य-प्रतिषेधेन अप्य् अचाक्षुषः शब्दो अनित्यो अनात्म इति ।
06904 तत्-कारण-प्रतिषेधेन अप्य् अस्वामिकः शून्य इति । एवं यथायोगम्
06905 अन्यद् अपि वाच्यम् । शून्य-अनित्य-आदि-शब्देषु यथा-कल्पनं समीहित-
06906 आकारं बुद्धाव् आरोप्य तद्-व्यवच्छेदेन व्यपदेशः क्रियते ।
06907 बुद्धि-समीहा सन्दर्शित-विभागत्वात् सर्वस्य शब्द-अर्थस्य ।
06908 अप्रतिपक्ष-दोष-उपक्षेप-आदयो दुर्मति-विस्पन्दितानि इत्य् उपेक्षनीयाः ।
06909 अथ
06910 एक-वृत्तेर् अनेको अपि यद्य् एक-श्रुतिमान् भवेत् ।
06911 न केवलम् एक-कार्यास् तद्-अन्य-भेद-अविशेषाद् एक-शब्देन उच्यन्ते
06912 अपि त्व् एक-वृत्त्या अप्य् अनेक एक-शब्देन उच्येत । को विरोधः स्यात् ।
06913 उक्तम् अत्र । तस्य उपलभ्य-अभिमतस्य अनुपलब्धेर् अभावात्
06914 अनुपलभ्यतायां वा तद्-दर्शन-आश्रया व्यपदेश- प्रत्यभिज्ञान-
06915 आदयो न भवेयुर् इत्य् आदि । अपि च ।
06916 वृत्तिर् आधेयता व्यक्तिर् इति तस्मिन् न युज्यते

1.144

06917 यद् एतद् एकम् अनेकत्र वर्तमानम् एकां श्रुतिं वर्तयति
06918 तस्य का इयं वृत्तिः । आधेयता वा स्यात् । यथा कुण्डे बदराणि
06919 वर्तन्त इति । व्यक्तिर् वा तैर् अभिव्यक्तेर् । यद्य् आधेयता ।
06920 नित्यस्य अनुपकार्यत्वान् न आधारः ।
06921 नित्यं हि सामान्यम् इष्यते । अनित्यत्वे अपरापर-उत्पत्तेर् अनेकत्वाद्
06922 भेद-वद् एक-प्रत्यय-अयोगात् । नित्यस्य च किं कुर्वाण
06923 आधारः स्यात् । तस्य तत्र समवायाद् आधार इति चेत् को
07001 अयं समवायो नाम । अपृथक्-सिद्धानाम् आश्रयाश्रयिभावः ।
07002 तद् एव इदम् अनुपकारकस्य आश्रयत्वं न सम्भावयामः ।
07003 अतिप्रसङ्ग-भयात् । तस्मात् समवाय-संयोगाव् एक-अर्थ-समवाय-
07004 आदयो अपि वस्तु-सम्बन्धाः कार्यकारणभावान् न व्यतिरिच्यन्ते ।
07005 परस्परम् अन्यतो वा अनुपकारिणाम् अप्रतिबन्धात् । अप्रतिबद्धस्य
07006 च असम्बन्धात् । यद्य् अप्य् एक-अर्थ-समवायिनां परस्परम्
07007 अनुपकारः । तत एकस्माद् उपकारेण भाव्यम् । अभावे
07008 यथोक्त-दोष-प्रसङ्गात् । अतः स्व-उपकार-द्वारेण एव परम् अपि
07009 बुद्ध्या संघटय्य ख्याप्यते । तस्मात् तत्र अपि कार्यकारणभाव-
07010 कृत एव प्रतिबन्धः । तद् अयम् आश्रयः सामान्यस्य
07011 स्वात्मन्य् अनुपकुर्वाणो अनपेक्षस्य आधार इति याचितक-मण्डनम्
07012 एतत् । कथं तर्हि इदानीम् अजनकं कुण्डं बदराणाम्
07013 आधारः ।
07014 प्रविसर्पतः ।
07015 शक्तिस् तद्-देश-जननं कुण्ड-आदेर् बदर-आदिषु

1.145

07016 प्रकृत्या एव गुरुणो द्रव्यस्य असमान-देश-कार्य-उत्पादन धर्मणः
07017 समान-देश-कार्य-उत्पादन-भाव आधार-कृतः । तस्मात् तत्-पूर्व-
07018 क्षण-सहकारि कुण्डं तत्र एव बदर-कार्यं जनयद् आधार
07019 इत्य् उच्यते । अन्यथा इह कुण्डे बदराणि इत्य् अपि न स्यात् । न वै
07020 तद्-उपकार-कृतो अयं व्यपदेशः । किं तर्हि । संयोग-कृतः ।
07021 किं पुनः स तयोर् एव संयोगः । ताभ्यां जननात् समवायाद्
07022 वा । स किम् एकत्र एव न समवैति जन्यते वा । तस्य असामर्थ्यात् ।
07023 तद् असमर्थं पृथक् तत् सहितम् अपि तादृशम् एव इत्य् अनुपकारकत्वान्
07024 न संयोगेन तद्वत् स्यात् । सहितस्य तद्-अन्य-उपकाराद्
07025 विशेष-उत्पत्तेः सामर्थ्यम् । को अयम् अजन्यजनकभूतानाम्
07026 उपकारः । स्वरूपस्य सिद्धेर् अकार्यत्वात् पररूप-क्रियायाम्
07101 अपि तत्र अनुपकारात् । उभयथा कारकस्य अकिंचित्करत्वेन
07102 अनुपकारकत्वाद् इत्य् उक्त-प्रायम् । तस्मात् सर्व एव वस्तु-
07103 सम्बन्धा जनकस्य एव उपयोग-विशेष-वशात् प्रविभागेन कार्यकारणभावाद्
07104 व्यवस्थाप्यन्ते । तद् अयं कुण्ड-आदीनाम् अप्य्
07105 आधार-भावो बदर-आदिषु जनन-शक्तिर् एव
07106 न सम्भवति सा अप्य् अत्र ।
07107 न ह्य् अयं जनन-विशेष-लक्षण आधार-भावः सामान्ये सामान्य-
07108 आश्रयस्य सम्भवति । तस्य अजन्यत्वात्
07109 तद्-अभावे अप्य् अवस्थितेः ।
07110 न स्थितिः ।
07111 अथ अपि स्यात् स्थापक आश्रयः सामान्यस्य ततः स्थिति-हेतुत्वाद्
07112 आधारो न जननाद् इति । तद् अयुक्तम् । तस्य तद्-अभावे अपि स्थानात् ।
07113 पतन-धर्माणां हि भावानां पात-प्रतिबन्धाद् अजनको अपि
07114 स्थापको भवेत् । अत्र अपि यदि कश्चित् प्रतिबन्धं न पर्यनुयुञ्जीत ।
07115 स हि पात-प्रतिबन्धो न अर्थ-अन्तरम् एव यः स्थापयित्रा
07116 क्रियेत । अर्थ-अन्तरत्वे तत्र एव अस्य उपयोग इति कः पततः प्रतिबन्धः ।
07117 प्रतिबन्धाद् अपाते अपि तुल्यः पर्यनुयोगो अनवस्था
07118 वा । तस्मात् पात-अभावः पात-प्रतिबन्धः स कथं केनचित्
07119 क्रियते । अभावं करोति इति हि न अभावो नाम कश्चित् कार्यः । तस्य
07120 कथंचित् कार्य-रूपत्वे अभाव-अयोगात् । तस्माद् भाव- क्रिया-प्रतिषेध-
07121 निर्देश एष भावं न करोति इति यावत् । तथा च अयं न
07122 किंचित् करोति इत्य् अकिंचित्करश् च कः कस्य स्थापको नाम । तेन
07123 अयं केनचिद् अप्रतिबद्ध इति न कदाचित् तिष्ठेत् । तस्मात् पात-
07124 प्रतिबन्ध इत्य् अपि क्षणिकानां भावानाम् उपादान-समान-
07125 देश-उत्पादनम् उच्यते । अस्तु नाम अजननं पातिनां तत्-प्रतिबद्धः ।
07126 तत्-करणाद् गतिमतो द्रव्यस्य कश्चित् स्थापको अप्य् अस्तु ।
07127 सामान्यस्य अक्रियस्य किं-लक्षणां स्थितिं कुर्वाणः स्थापकः
07128 स्यात् । स्थितिर् हि तस्य स्वरूप-अप्रच्युतिर् एव । सा च न आश्रय-आयत्ता
07129 नित्यत्वात् ।
07130 सा अप्य् अयुक्ता एव भेद-अभेद-विवेचने

1.146

07201 अस्तु नाम आश्रय-हेतुका स्थितिः सामान्यस्य । सा सामान्याद् अन्या
07202 वा स्याद् अनन्या वा । सा अन्या चेत् ताम् एव स आश्रयः करोति । सा
07203 च अप्रतिबद्धा सामान्य इति किम् सामान्यस्य आश्रयेण । प्रतिबद्धे
07204 वा कः प्रतिबन्ध इति वाच्यम् । स्थिति-करणं चेत् तत्र अपि तुल्यः
07205 प्रसङ्गो अनवस्था च । तत उपकार-अनवधारणाद् अस्य इयं
07206 स्थितिर् इत्य् अप्रतीतिः । जननं चेत् किम् आश्रयेण अपेक्षितेन अनुपकारिणा ।
07207 अपेक्षा इति हि तत्-प्रतिबन्धः स च अनाधेयविशेषस्य सामान्यस्य
07208 अयुक्त इति । केवलं जनयेद् इति । न अस्त्य् अन्यः स्थिति-हेतुः ।
07209 अभेदे वा स्थितेः सामान्यात् स्वरूपम् एव तत् तस्य । तच् च
07210 नित्यम् अस्ति इति । न स्थितिर् अस्य केनचित् क्रियते । तस्मान् न सामान्यस्य
07211 आधारो अस्ति । तन् न आधेयता अस्य वृत्तिः । अथ पुनः सतो अपि
07212 सामान्यस्य अव्यक्तस्य व्यक्त्या ज्ञान-कारणत्वात् तद्-व्यक्तिस् तत्र
07213 वृत्तिः स्यात् । न युक्तम् एवं भवितुम् । यस्मात् ।
07214 विज्ञान-उत्पत्ति-योग्यत्वाय आत्मन्य् अन्य-अनुरोधि यत् ।
07215 तद् व्यङ्ग्यं योग्यतायाश् च कारणम् कारकं मतम्

1.147

07217 प्राग् एव अस्य च योग्यत्वे तद्-अपेक्षा न युज्यते ।
07218 सामान्यस्य अविकार्यस्य तत् सामान्यवतः कुतः

1.148

07219 न खलु वै कारकाद् व्यञ्जकस्य कश्चिद् भेदः । स्व-विषय-विज्ञान-
07220 उत्पादन-समर्थम् अपरं सजातीय-उपादान-अपेक्षम् अनपेक्षं
07221 वा जनयन् भावम् एव व्यञ्जक उच्यते । परत्र तु ज्ञान-
07222 जनन-शक्तिर् अनाक्षिप्ता जन्यस्य इति जनन-मात्रेण कारकत्वम् ।
07223 यो हि यतो विज्ञान-उत्पादन-योग्यतां प्रतिलभते स चेन्
07224 न तस्य जन्यः स्यात् । सा अस्य स्वभाव-भूता योग्यता प्राग् एव अस्ति
07225 इति न विज्ञान-जनने तम् अपेक्षेत । पर-भूतायां च अस्यां
07226 स एव ततो भवति इति स्थिति-वत् प्रसङ्गः । तस्माद् व्यञ्जको न
07227 तं करोति न अप्य् अन्यम् इत्य् अकिंचित्करश् च अपेक्ष्यत इति व्याहतम्
07301 एतत् । नन्व् अजनका अपि कार्यत्वाद् धूम-आदयो व्यञ्जकाः ।
07302 सत्यं व्यञ्जका न तु धूमम् अपेक्ष्य अग्निर् आत्मनि ज्ञानं
07303 जनयति । तथाभूतस्य अग्नेः साक्षाद् अजनकत्वात् । केवलम्
07304 उपादान-बलेन एव तत्र ज्ञानम् उत्पद्यते न विषय-बलेन असत्य्
07305 अपि तस्मिन् भावात् परंपरया लिङ्ग-अनुसारेण । न अपि सामान्यलक्षण-
07306 अवभासिनां प्रत्ययानां संनिहित-विषयता विषय-
07307 बलेन उत्पत्तिर् वा इति निवेदितम् एतत् । निवेदयिष्यते च । तस्माद् ये
07308 विषयाः साक्षाद् उपयोगेन विज्ञानं जनयन्तस् तत्र परम्
07309 अपेक्षन्ते ते अवश्यं तत आत्मानं प्रतिलभन्ते । न च अयम्
07310 आत्म-प्रतिलम्भः सामान्यस्य नित्यस्य कुतश्चित् सम्भवति ।
07311 तस्मान् न तत् केनचित् व्यङ्ग्यम् । न वै योग्यता-प्रतिलम्भं
07312 सामान्यस्य व्यक्तिं ब्रूमः । किं तर्हि । स्वाश्रय-समवायम् ।
07313 स्वाश्रय-समवेतं हि तद् आत्मन्य् अन्यत्र वा विज्ञान-हेतुर् इति ।
07314 उक्तम् अत्र अजन्य-जनकयोः को अयम् आश्रयाश्रयिभाव-लक्षणः
07315 समवाय इति । स्वाश्रय-समवाय-अपेक्षो विज्ञान-हेतुस् तेन जन्य
07316 एव स्यात् । तद्-हेतोः स्वभावस्य प्राग्-अभावात् पश्चाच् च ततो
07317 भावात् । नित्यं तत्-स्वभाव-सद्भावे प्राग् अपि समवायाद् विज्ञान-
07318 उदय-प्रसङ्गात् । न वै व्यक्तिः सामान्यस्य संस्काराद्
07319 व्यञ्जिका । किं तर्हि । तद्-ग्राहिण इन्द्रियस्य । सो अपि ।
07320 अञ्जन-आदेर् इव व्यक्तेः संस्कारो न इन्द्रियस्य च ।
07321 प्रतिपत्तेर् अभिन्नत्वात् तद्-भाव-अभाव-कालयोः

1.149

07322 संस्कृतम् अञ्जन-आदिभिर् इन्द्रियं प्रतिपत्तौ किंचिद् अतिशयम्
07323 आसादयति । स्पष्ट-अस्पष्ट-भेदात् । अतत्-कारिणश् च अतत्-संस्कारकत्वात् ।
07324 न एवं व्यक्तेर् इन्द्रियस्य कश्चित् संस्कारस् तद्-भाव-अभाव-
07401 कालयोः प्रतिपत्तिं प्रत्य् अविशेषात् । विषय-संस्कारस् त्व् इन्द्रिय-
07402 अविशेषे अपि तद्-विशेष-आधानाद् उपकारी स्यात् । न इन्द्रिय-संस्कारः ।
07403 प्राग् अदृश्ये दर्शन-शक्त्य्-आधानाद् उपकारक इति चेत् । सो अतीन्द्रियम्
07404 अर्थं दर्शयन् कथं न प्रतिपत्तेर् भेदकः । एक-प्रतिनियमे
07405 च सामान्य-अन्तरस्य दर्शको न स्यात् । व्यक्त्या च इन्द्रिय-
07406 संस्कारात् तद्-दर्शने तद्-व्यङ्ग्येषु सामान्येषु कदाचित् अनिश्चयो
07407 न स्याद् एक-निश्चयो वा । तस्या अविभागायास् तेषु विशेष-अभावात् ।
07408 व्यक्तेर् यदि इन्द्रिय-संस्कारो यदि न इन्द्रिय-संस्कारः सामान्यस्य
07409 विज्ञान-जनन-स्वभाव इति स्वभावाद् अप्रच्युतेर् अनपेक्ष्य एव
07410 इन्द्रिय-संस्कारं विज्ञानं जनयेत् । संस्कृत-इन्द्रिय-सहकारित्वात्
07411 केवलम् असमर्थम् इति चेत् । को अयम् अनाधेयातिशयस्य
07412 सहकार-अर्थः । अनित्या हि भावाः सहकारिणो विशिष्ट-आत्म-लाभात्
07413 तम् अपेक्षेरन् । यो ह्य् एषां जनक आत्मा स तदा एव ततो भवति
07414 इति जन्यता एव एषां परस्परतो अपेक्षा । सामान्यं पुनर् अनासाद्य
07415 परं नित्यं तत्-स्वभावं किम् इति इन्द्रियम् अपेक्षते ।
07416 हि तस्य केवलस्य यो न तत्-स्वभावः स पुनः कथंचिद्
07417 भावी व्यक्तेर् इन्द्रिय-संस्कारः । तत्-सहकारि सामान्यं विज्ञान-
07418 हेतुर् इत्य् अपि पारंपर्येण व्यक्तेः कार्यम् एव सामान्यम्
07419 उक्तं स्यात् । अपि च ।
07420 व्यञ्जकस्य च जातीनां जातिमत्ता यदि इष्यते ।
07421 प्राप्तो गोत्व-आदिना तद्वान् प्रदीप-आदिः प्रकाशकः

1.150

07422 यो हि यद्-विषय-विज्ञान-हेतुः स तस्य व्यञ्जकः । विज्ञान-हेतुत्वं
07423 गोत्व-आदिषु प्रदीप-आदेर् अप्य् अस्ति । तेजः-संस्कार-अपेक्षिणः
07424 चक्षुषो अर्थ-प्रतिपत्तेः । ततः प्रदीप-आदयो गोत्व-आदिना तद्वन्तः
07501 स्युः । न हि व्यक्तेर् अपि ज्ञान-हेतुतां मुक्त्वा अन्या काचिद् अस्त्य्
07502 अभिव्यक्तिः सामान्यस्य स्वभाव-अतिशयस्य आधातुम् अशक्यत्वात् ।
07503 समवायो अभिव्यक्तिर् इति चेत् । उक्ता उत्तरम् एतत् । तस्य समवाय-अयोगाद्
07504 इति । समवाय-मात्रं हि व्यक्त्या सह अस्य जातं न अन्यः
07505 कश्चिद् विशेष इति । पूर्ववत् पश्चाद् अपि न ज्ञान-हेतुः स्यात् ।
07506 समवायाद् एव ज्ञान-हेतुत्वे स्वाश्रय-समवायिनाम् अन्येषाम् अपि
07507 दृश्यता-आपत्तिः । तस्माज् ज्ञान-हेतुता एव व्यञ्जकत्वं । तच् च
07508 तुल्यं प्रदीप-आदाव् इति स एव प्रसङ्गः । तन् न आधेयता न व्यक्तिर्
07509 वृत्तिः सामान्यस्य इति । अवृत्तेर् न अनेकत्र ज्ञान-हेतुः । अत एव ।
07510 व्यक्तेर् अन्या अथवा अनन्या येषां जातिस् तु विद्यते ।
07511 तेषां व्यक्तिष्व् अपूर्वासु कथं सामान्य-बुद्धयः

1.151

07512 विद्यत एव इत्य् अवधारण-अर्थस् तु-शब्दः । विद्यमानो हि पदार्थः
07513 स्व-सामर्थ्येन अन्यत्र बुद्धिं जनयन् स्वरूप-अनुकारिणीं
07514 तत्-सम्बन्धम् अपेक्षते । अन्यथा अतिप्रसङ्गात् । स च सामान्यस्य
07515 सतस् तत्त्वान्यत्त्व-पक्षयोर् न सम्भवति ।
07516 एकत्र दृष्टस्य अन्यत्र दर्शन-असम्भवात् ।
07517 सा हि बुद्धिर् एक-भाविनी व्यक्त्य्-अन्तरम् एवम् आस्कन्देद् भूत-
07518 ग्राहिणी यदि तत्र दृष्टं किंचिद् अन्यत्र पश्येत् । तच् च
07519 सतः ।
07520 अनन्यत्वे अन्वय-अभावाद् अन्यत्वे अप्य् अनपाश्रयात्

1.152

07521 न सम्भवति । स्वभावो हि स्वभावान् न तत्त्वम् अन्यत्वं
07522 वा लङ्घयति । रूपस्य अतद्भूतस्य अन्यत्व-अव्यतिक्रमात् । इदम्
07523 एव खलु रूपस्य अन्यत्वं यन् न तद् आकार-अन्तर-वद् अविशेषात् ।
07524 तच् चेत् सामान्यस्य रूपम् अनन्यत् तद् एव तद् भवति । अतत्त्वे
07525 वस्त्व्-अन्तर-वद् अन्यत्व-प्रसङ्गात् । न च एक-व्यक्त्य्-आत्मनो व्यक्त्य्-
07526 अन्तर-अन्वावेशो अव्यक्त्य्-अन्तरत्व-प्रसङ्गात् । ततो न अव्यतिरेकिणः
07527 सामान्याद् अन्वयिनी बुद्धिः स्यात् । न अपि व्यतिरेकिणस् तस्य
07601 क्वचिद् अनाश्रयाद् अन्यस्य अपि व्यङ्ग्यव्यञ्जकभाव-आदेः सम्बन्धस्य
07602 केनचिद् अनुपकार्यस्य अप्रतिबन्धेन अभावात् । असम्बन्धाच्
07603 च ज्ञान-उत्पत्ताव् अपि प्रसङ्गात् । तद् अयम् एक-वस्तु-
07604 दर्शनेन एक-वृत्तेः प्रत्ययस्य अन्यत्र वृत्तिम् इच्छंस् तत्त्वान्यत्त्वे
07605 न अतिक्रामति इत्य् अयुक्तम् एतत् । तस्माद् इयम् अर्थेष्व् एक-रूपा
07606 प्रतीतिर् विकल्प-वासना-समुत्थिता भ्रान्तिर् एव । भाव-भेदो वासना-
07607 प्रकृतिश् च तस्य आश्रय इति निर्लोठितम् एतत् । कथं तर्हि इदानीं
07608 प्रधान-ईश्वर-आदि-कार्य-शब्दा भावेष्व् अतद्-भूत-भेदेष्व्
07609 अभेदेन वर्तन्ते । ते अपि यथा-संकेत-आहित-वासना-उपस्कृतत्वाद्
07610 विज्ञान-सन्ततेः सर्व-अर्थ-दर्शनेष्व् अनपेक्ष्य अपि तद्-भेदं तथा
07611 अध्यवसायाद् अतथाभूत-कल्पित-व्यवच्छेदेन विकल्प-विज्ञान-
07612 प्रतिभासिन्य् अर्थ उपादान-बल-प्रभव-विकल्प-समुत्थिताः
07613 प्रवर्तन्ते । न हि तेष्व् अतथाभूतेषु किंचिद् व्यतिरिक्तम् अव्यतिरिक्तं
07614 वा सामान्यम् अस्ति । तथाभाव-कल्पनया तु तद्-अन्य-
07615 भेदः प्रतिपत्तृ-अभिप्राय-वशात् स्यात् । तद्-अभिप्रायाद् एव सामान्यं
07616 किं न इति चेत् । तेन अवश्यं हि तत्र भेदो नान्तरीयकत्वाद्
07617 एष्टव्यः । स एव सामान्य-कार्ये पर्याप्त इति निःप्रयोजना
07618 सामान्य-कल्पना । यदि सत्स्व् असत्सु वा भावेषु सामान्य-बुद्धिर्
07619 न इयम् अर्थवती केवलं विप्लव एव इति न अस्माकम् अस्या विषय-
07620 निरूपणं प्रति कश्चिद् आदरः क्वचिद् अविसंवादो अस्या वस्तुनि
07621 कार्यकारणभाव-प्रतिबन्धान् न तथाभूत-ग्राह्य-समावेशात्
07622 प्रत्यक्ष-वद् अतथाभावे अपि भावाद् इति निवेदयिष्यामो निवेदितं
07623 च । भेद-विषयत्वं पुनर् अस्या बहुलं भिन्न-पदार्थ-
07624 दर्शन-बलेन तेषु भाव-अध्यवसायात् । तथा भाव-कल्पनायाम्
07625 एव अपरत्र भावात् । अपि च अयं सामान्यम् अर्थ-अन्तरं कल्पयन्
07701 स्वाश्रय-मात्र-गतं वा कल्पयेत् सर्व-गतं वा आकाश-आदि-वत् ।
07702 तत्र यदि स्वाश्रय-मात्र-गतं घटत्व-आदि-शून्येषु प्रदेशेषु
07703 घट-आद्य्-उत्पत्तौ कथं तेषु भिन्न-देश-द्रव्य-वर्तिनः सामान्यस्य
07704 सम्भवः । यस्मात् तत् पूर्व-द्रव्याद् उत्पित्सु द्रव्यं
07705 न याति ।
07706 निष्क्रियत्व-उपगमात् । न ह्य् अन्य-द्रव्य-वृत्तेर् भावस्य ततो अविचलतो
07707 भिन्न-देशेन भावेन तद्-उभय-अन्तराल-अव्यापिनो योगो
07708 युक्तः । प्राक् स
07709 न च तत्र आसीत् अस्ति पश्चान् ।
07710 न च तत्र उत्पन्नो न कुतश्चिद् आयात इति क इमं व्याघात-भारम्
07711 उद्वोढुं समर्थो अन्यत्र जाड्यात् । अपि च
07712 न च अंश-वत् ।
07713 जहाति पूर्वं न आधारम् ।
07714 उत्पित्सु-देशाद् भिन्न-देशम् । तयोश् च वर्तत इति ।
07715 अहो व्यसन-सन्ततिः

1.153

07716 भिन्न-देशयोर् हि भावयोः सम्बन्धो द्विधा भवेत् । नाना-अवयव-
07717 आत्मतया अन्योन्याभ्याम् अवयवाभ्यां तत्-सम्बन्धाद् आलोक-
07718 रज्जु-वंश-दण्ड-आदि-वत् । न हि स अवयवत्वम् अन्तरेण भिन्न-
07719 देशाभ्यां युगपत् कस्यचिद् योगो युक्तः । तस्य द्वितीय- आत्म-अभावात् ।
07720 एकात्मनश् च तत्-प्रदेश-वर्ति-सम्बन्धि-रूपत्वात् । अन्यथा
07721 तत्-सम्बन्ध-अयोगात् । एकस्य आधेयस्य तत्र स्थानं तदा एव
07722 तत्र तेन एव आत्मना अस्थानम् इति तत्-स्थित-अस्थित-आत्मनोर् एकस्य
07801 विरोधाद् अयुक्तम् एतत् । सर्वत्र सर्वदा सर्व-आकार-स्थित-आत्मा इति
07802 चेत् । तत्-स्वभाव-दर्शन-आश्रयः प्रत्ययः सर्वत्र सर्व-आकारः
07803 स्यात् । तथा च गाम् अप्य् अश्व इति प्रतीयात् । अश्व-स्थित-आत्मना द्रव्यत्वेन
07804 सम्बन्धात् तत्-स्वभाव-प्रतिपत्त्या च तथा निश्चयात्
07805 तस्य च एकस्य अदृष्ट-आकार-अन्तर-अभावात् । तस्मान् न अनवयवम् अनेक-
07806 देशे युगपद् आधीयते । पूर्व-आधार-त्यागे तु भिन्न-देशे अपि
07807 वर्तेत । स च न अभिमतः ।
07808 अन्यत्र वर्तमानस्य ततो अन्य-स्थान-जन्मनि ।
07809 स्वस्माद् अचलतः स्थानाद् वृत्तिर् इत्य् अतियुक्तिमत्

1.154

07810 यत्र असौ वर्तते भावस् तेन सम्बध्यते अपि न ।
07811 तद्-देशिनं च व्याप्नोति किम् अप्य् एतन् महाद्भुतम्

1.155

07812 इत्य् अन्तरश्लोकौ । यस्य तु सर्व-गतं सामान्यं तस्य अपि
07813 व्यक्ता एव एकत्र सा व्यक्त्या अभेदात् सर्वत्रगा यदि ।
07814 जातिर् दृश्येत सर्वत्र ।
07815 न जातेर् नित्यायाः काचिद् व्यक्तिर् इति निषिद्धम् एतत् । तस्मान् नित्यम्
07816 अनपेक्षित-पर-उपस्कारा दृश्येत वा न वा कदाचित् तस्मिन् स्वभावे
07817 व्यवस्थानात् । स्वभाव-अन्तरस्य कुतश्चिद् अनुत्पत्तेः । अभ्युपगम्य
07818 अपि व्यक्तिं व्यापिन्य् एकत्र व्यक्त्या भेद-अभावाद् व्यक्ता
07819 एव सर्वत्र इति व्यक्ति-शून्येष्व् अपि प्रदेशेषु दृश्येत ।
07820 न च सा व्यक्त्य्-अपेक्षिणी

1.156

07821 यदि हि व्यक्त्य्-अपेक्षिणी स्यात् ।
07822 व्यञ्जक-अप्रतिपत्तौ हि न व्यङ्ग्यं सम्प्रतीयते ।
07823 विपर्ययः पुनः कस्माद् इष्टः सामान्य-तद्वतोः

1.157

07824 यो अपि हि स्वाश्रय-इन्द्रिय-संयोग-अपेक्ष-प्रतिपत्तिकं सामान्यम्
07825 आश्रय-शून्येषु प्रदेशेषु न दृश्यत इति प्रतिसमादधीत तस्य अप्य्
07826 अस्त्य् एव आश्रय-इन्द्रिय-संयोग उपकारक इति ततस् तद्-दर्शी यथा-
07827 स्थितां पश्येत् । न हि तस्यां दृश्यमानायाम् अदृष्टं तदीयं
07901 युक्तम् । व्यक्ति-व्यङ्ग्यत्वात् सामान्यस्य व्यञ्जक-रहितेषु
07902 प्रदेशेष्व् अदर्शनम् इत्य् अपि मिथ्या । तथाभूतस्य व्यङ्ग्यव्यञ्जकभावस्य
07903 तत्र अभावात् । स्व-प्रतिपत्त्या अपर-प्रतिपत्ति-हेतुर्
07904 हि व्यञ्जकः प्रदीप-आदिः स्वरूप-शून्ये देशे स्व-व्यङ्ग्यं न
07905 दर्शयत् । न एवं व्यक्तिर् विपर्ययात् । कथं हि सा व्यञ्जिका
07906 च स्यात् सामान्यस्य । तत्-प्रतिपत्ति-द्वारेण च दृश्या स्यात् । व्यङ्ग्या
07907 च सा एव प्रसज्यते प्रदीप-घट-वत् । कथंचित् तत्-प्रतिपत्तिम्
07908 अन्तरेण अदृश्य-रूपत्वात् । अपि च अनेन किम् असम्भवद् अभिसमीक्ष्य
07909 एवं बह्व्-आयासः सामान्य-वाद आश्रितः । परस्परतो भेदाद्
07910 व्यतिरेकिणीषु व्यक्तिष्व् अन्वयिनः प्रत्ययस्य अयोगात् । कथम्
07911 इदानीम्
07912 पाचक-आदिष्व् अभिन्नेन विना अप्य् अर्थेन वाचकः ।
07913 पाचक-पाठक-आदिष्व् अन्योन्यम् अनन्वयिष्व् अपि शब्द-प्रत्यय-अनुवृत्तिर्
07914 अस्ति । पाचकः पाठक इति । न हि तेष्व् अन्यद् एकम् अभिन्नम्
07915 अस्ति येन भिन्नास् तथा प्रतीयेरन् । कर्म अस्ति चेत् । व्यक्तिभ्य
07916 एव तर्हि स प्रत्ययो अस्तु । किम् इदानीं कर्मणा अन्येन वा । भिन्नम्
07917 अभिन्न-प्रत्यय-हेतुर् न भवति इत्य् एकं सामान्यम् इष्टम् ।
07918 तद् यदि भिन्नम् अपि कर्म-अभिन्नम् प्रत्ययं जनयेत् । व्यक्तिभिः
07919 को अपराधः कृतो येन तास् तथा न इष्यन्ते । तासाम् एक-रूपत्वात् ।
07920 अस्य इदम् इति व्यतिरेक-प्रतीतिर् अतद्-आकार-विशेषवती च न
07921 स्याद् इति चेत् । उक्तम् अत्र यथा व्यतिरेको विशेष-प्रत्ययाश् च
07922 यथास्वम् अर्थ-अन्तर-विवेकाद् इति । तस्माद् व्यक्ति-वत्
07923 भेदान् न हेतुः कर्म अस्य ।
07924 पाचक-आद्य्-अभेद-प्रत्ययस्य । तत्-कर्म जातिर् अभेदाद् हेतुर्
07925 इति चेत् ।
07926 न जातिः कर्म-संश्रयात्

1.158

08001 न ह्य् अर्थ-अन्तर-सम्बन्धिनी जातिर् अर्थ-अन्तरे प्रत्यय-हेतुर्
08002 गोत्वम् इव कर्क-आदिषु । पाचक-कर्मसु च कर्म-जातिर् न च तानि
08003 कर्माणि पाचक-शब्देन अभिधीयन्ते । किं तर्हि । तत्-कर्म-आश्रयो
08004 द्रव्यम् । तस्य कर्म-सामान्यस्य
08005 श्रुत्य्-अन्तर-निमित्तत्वात् ।
08006 च पाकः पाक इति हि ततः स्यान् न पुनः पाचक इति । तस्य कर्म-
08007 निमित्तत्वे प्रोक्तम् । किं च
08008 स्थित्य्-अभावाच् च कर्मणः ।
08009 न ह्य् अनित्यं कर्म सर्वदा अस्ति । तस्य च प्रत्ययस्य कर्म-निमित्तत्वे
08010 निरुद्धे कर्मणि न पाचक इत्य् उच्येत । पचत एव कर्म-
08011 सद्भावात् । तत एव
08012 असम्बन्धान् न सामान्यं न अयुक्तम् शब्द-कारणम्

1.159

08013 अतिप्रसङ्गात् ।
08014 विनष्टे हि कर्मणि तत् सामान्यं न कर्मणि न कर्तरि इति सम्बद्ध-
08015 सम्बन्धे अप्य् अस्य न अस्ति इत्य् असम्बन्धान् न शब्द-ज्ञान-
08016 हेतुः । अन्यथा ह्य् अतिप्रसङ्गः स्यात् । अतीतम् अनागतं वा
08017 निमित्तीकृत्य तयोः प्रवृत्तिर् इति चेत् ।
08018 कर्म अपि न असज्-ज्ञान-अभिधानयोः ।
08019 निमित्तम् । तयोः
08020 अनैमित्तिकता-आपत्तेः ।
08021 असद् हि निरुपाख्यं कथं निमित्तं स्यात् । कार्य-करण-
08101 लक्षणत्वाद् वस्तुत्वस्य । तत् प्रच्युत-असम्प्राप्त-रूपम् अतीत-अनागतं
08102 कर्म-निमित्तम् । अन्यच् च व्यक्त्य्-आदिकं न इष्टम् इत्य्
08103 अनिमित्ते ते स्याताम् । तथा च न जाति-सिद्धिस् तस्या ज्ञान-अभिधानयोः ।
08104 निमित्तत्वे न इष्टत्वात् । शक्तिः पाचक-आदि-शब्द-निमित्तं
08105 न कर्म न सामान्यम् इति चेत्
08106 न च शक्तिर् अनन्वयात्

1.160

08107 न हि शक्तिर् नाम किंचिद् अन्यद् एव पाचक-आदीनाम् । तस्या एव
08108 पाचक-आद्य्-अर्थक्रिया-उपयोगेन द्रव्यस्य अनुपयोगित्व-प्रसङ्गात् । तस्यां
08109 तस्य उपयोग इति चेत् किम् इदानीं शक्त्या । शक्त्य्-उपयोगाय
08110 शक्त्य्-अन्तरस्य व्यतिरेकिणो अभ्युपगमे अतिप्रसङ्गाद् द्रव्यम्
08111 एव उपयुज्यत इति वाच्यम् । तस्य उपयोगे शक्ताव् अर्थक्रियायाम्
08112 एव उपयुज्यत इति किं न इष्यत इति किम् अन्तराले अनर्थिकया शक्त्या ।
08113 तस्माच् शक्तिर् इति द्रव्यम् एव तत्-कार्यं तच् च न अन्वेति इति । ततो
08114 अन्वयी शब्दो न स्यात् ।
08115 सामान्यं पाचकत्व-आदि यदि प्राग् एव तद् भवेत् ।
08116 व्यक्तं सत्ता-आदि-वन् नो चेन् न पश्चाद् अविशेषतः

1.161

08117 अथ अपि पाचकत्वम् इति सामान्यम् एव किंचिद् भवेत् । सत्य् अर्थे
08118 तत्-समवायस्य अकादाचित्कत्वात् सत्ता-आदि-वत् । प्राग् एव व्यक्तं
08119 स्यात् । यावन्ति हि सामान्यान्य् अर्थे समवाय-धर्माणि तानि सह
08120 उत्पादेन अस्य समवयन्ति इति समयः । तद्-व्यतिक्रमे तस्य
08121 पश्चाद् अप्य् अविशेषान् न तत्-समवायः स्यात् । तत्-सम्बन्धि-स्वभाव-
08122 वैगुण्याद् हि स तस्य प्राङ् न आसीत् तत्र एव च अस्य स्वभावे
08123 स्थितस्य पश्चाद् भवति इति दुरन्वयम् एतत् ।
08124 क्रिया-उपकार-अपेक्षस्य व्यञ्जकत्वे अविकारिणः ।
08125 न अपेक्ष-अतिशये अप्य् अस्य क्षणिकत्वात् क्रिया कुतः

1.162

08126 कर्म-उपकारम् अपेक्ष्य पाचकत्वं द्रव्येण व्यज्यत इति चेत् ।
08201 स्थिर-स्वभावस्य अनतिशयाद् अविशेष-आधायिनि का अपेक्षा । अतिशये
08202 वा क्षणिकत्वात् कर्मणः प्रतिक्षणं स्वभाव-भूतस्य अन्यान्यस्य
08203 अतिशयस्य उत्पत्तेस् तद् अपि क्षणिकं स्यात् । ततः स्व-उत्पत्ति-स्थान-विनाशिनः
08204 क्रिया कुतः यद्-अपेक्षं व्यञ्जकं स्यात् । कथं
08205 तर्हि इदानीम् अस्त्य् अभिन्ने वस्तुनि ज्ञान-शब्दयोर् अन्वयिनोर् वृत्तिः ।
08206 यथा पाचक-आदिषु । ननु तद् एव इदं चिन्त्यते कथं तेष्व्
08207 अपि इति । चिन्तितम् एतद् यथा न तेषु सम्भवति । तत् किम् इदानीम्
08208 अनिमित्ते ते स्याताम् । न अनिमित्ते । किं तर्हि । न बाह्य-तत्त्व-निमित्ते ।
08209 यथास्वं वासना-प्रबोधाद् विकल्प-उत्पत्तिः । ततः शब्दाः ।
08210 न पुनर् विकल्प-अभिधानयोर् वस्तु-सत्ता समाश्रय इत्य् उक्त-प्रायम्
08211 एतत् । यथास्वं समय-वासना-वशाद् विरोधि-रूप-समावेशेन
08212 अपरापर-दर्शने अप्य् अन्वयिनोस् तयोर् दर्शनात् । न च तत्र
08213 तन्-निबन्धनः कश्चित् स्वभावो अस्ति परस्पर-विरोधिनोर् युगपद्
08214 एकत्र समावेश-अयोगात् । अनियमेन तर्हि स्यात् । न ह्य् अनिमित्तं
08215 भवत् क्वचिद् भवति क्वचिन् न भवति इति नियमम्
08216 अर्हति । न खलु वै तद् अनिमित्तं वासना-विशेष-निमित्तत्वात् ।
08217 बाह्यं तु तथाभूतं दृश्यं न अस्ति इति ब्रूमः । न च असति तस्मिन्
08218 न भवितव्यम् । सुप्त-तैमिरिक-उपलब्धेष्व् अर्थेष्व् अभावेषु
08219 समय-वासना-आरोपित-रूप-विशेषेषु च तथा विकल्प-उत्पत्तेः । न
08220 च ते असत्सु उत्पद्यन्त इति सर्वत्र सर्व-आकारः । विभागे न एव तथा-उपलब्धानां
08221 विकल्पनात् । उक्तं च अत्र किंचिद् अस्माभिः प्रकृत्या
08222 अपि केचिद् एक-ज्ञान-कार्याः स्वभाव-भेदाद् इति । अपि च ।
08223 तुल्ये भेदे यया जातिः प्रत्यासत्त्या प्रसर्पति ।
08224 क्वचिन् न अन्यत्र स एव अस्तु शब्द-ज्ञान-निबन्धनम्

1.163

08225 इत्य् अन्तरश्लोकः ।
08226 न निवृत्तिं विहाय अस्ति यदि भाव-अन्वयो अपरः ।
08227 एकस्य कार्यम् अन्यस्य न स्याद् अत्यन्त-भेदतः

1.164

08228 यद्य् एते भावा व्यावृत्तिं मुक्त्वा स्वभावेन केनचिद् अन्वयिना
08301 शून्याः । न एषां बहूनाम् एकं कार्यं स्यात् । यो हि तस्य स्वभावो
08302 जनकः । न हि सो अन्यस्य अस्ति । यो अस्ति स न जनको व्यतिरेकस् य
08303 निःस्वभावत्वात् । यज्-जनकं तद् एव वस्तु तज्-जनकं
08304 च अपरत्र न अस्ति इति न अपरं जनयेत् । स हि तस्य स्वभावो यो जनकः
08305 सो अन्यस्य अपि यदि स्यात् । स तेन स्वभावेन ततो अभिन्नः
08306 स्याद् इति अस्ति स्वभाव-अन्वयः ।
08307 यद्य् एकात्मतया अनेकः कार्यस्य एकस्य कारकः ।
08308 आत्मा एकत्र अपि सो अस्ति इति व्यर्थाः स्युः सहकारिणः

1.165

08309 यद्य् एक-स्वभावत्वाद् अनेक एकस्य कारकः स तेषाम् अभिन्नः
08310 स्वभावः । एक-संनिधाने अप्य् अस्ति इति । अवैकल्यात् कारणस्य एको
08311 अपि जनकः स्यात् । यस्मात् ।
08312 न अपैत्य् अभिन्नं तद्-रूपं विशेषाः खल्व् अपायिनः ।
08313 न हि तस्य अभिन्न-स्वभावस्य अर्थ-अन्तरे विशेषो अस्ति । विशेषो अभेद-
08314 हानेः । स च तत्र अप्य् अस्ति इति न एक-स्थिताव् अपि तस्य अपायो अस्ति । ये
08315 विशेषास् तेषां सह-स्थिति-नियम-अभावात् स्याद् अपायः । न च ते
08316 जनका इष्टाः । सहकारिणाम् एक-स्वभावतया जनकत्व-अभ्युपगमात् ।
08317 ततो जनकस्य स्थानात् । अस्थायिनश् च अजनकत्वाद्
08318 एक-स्थिताव् अपि कार्य-उत्पत्तिः स्यात् । न च भवति । अतः
08319 एक-अपाये फल-अभावाद् विशेषेभ्यस् तद्-उद्भवः

1.166

08320 तत्-कार्यम् अनेक-सहकारि-साधारणम् एक-विशेष-अपाये अपि न भवति ।
08321 पुनर् अप्य् अविकलेषु सर्वेषु विशेषेषु भवति । न त्व् अविकले
08322 अप्य् अभिन्ने रूपे । कार्यं हि कुतश्चिद् भाव-धर्मि यन् न भवति
08323 तत् तस्य एव वैकल्यात् । न च अभिन्नस्य रूपस्य एक-स्थिताव्
08324 अपि वैकल्यम् अस्ति । अविकले अपि तस्मिन्न् अभवत् तस्य अजनक-आत्मतां
08325 सूचयति । यत्-साकल्य-वैकल्याभ्यां च कार्यं भाव-अभाव-वत्
08401 तत एव उत्पत्तिः । तस्मिन् सति नियमेन भवतस् तद्-अन्यस्माद् उत्पत्ति-
08402 कल्पनायाम् अतिप्रसङ्गात् । तस्माद् विशेषा एव जनका न
08403 सामान्यं । ततस् त एव वस्तु । यस्मात् ।
08404 स पारमार्थिको भावो य एव अर्थक्रिया-क्षमः ।
08405 इदम् एव हि वस्त्व्-अवस्तुनोर् लक्षणं यद् अर्थक्रिया-योग्यता अयोग्यता
08406 च इति वक्ष्यामः ।
08407 स च ।
08408 अर्थक्रिया-योग्यो अर्थः
08409 न अन्वेति यो अन्वेति न तस्मात् कार्य-सम्भवः

1.167

08410 तस्मात् सर्वं सामान्यम् अनर्थक्रिया-योग्यत्वाद् अवस्तु । वस्तु
08411 तु विशेष एव तत एव तन्-निष्पत्तेः । स्वभाव-अनन्वयात् तर्ह्य्
08412 एकस्य जनकं रूपम् अन्यस्य न अस्ति इत्य् अजनकः स्यात् । जनकत्वे
08413 वा भेद-अविशेषात् सर्वो जनकः स्यात् । न एतद् अस्ति । यस्मात् ।
08414 तेन आत्मना हि भेदे अपि हेतुः कश्चिन् न च अपरः ।
08415 स्वभावो अयम् ।
08416 एकस्य जनकाद् आत्मनो भिद्यमानाः सर्वे समं जनका न वा
08417 अविशेषे कश्चिद् इति स्याद् एतद् यद्य् एषां न विशेषः सम्भवेत् । ततो भेद-
08418 अपि कुतश्चिद् आत्म-अतिशयात् कश्चिज् जनको न अपरः । स हि
08419 तस्य स्वभावो न अपरस्य । न हि स्वभावा भावानां पर्यनुयोगम्
08420 अर्हन्ति किम् अग्निर् दहत्य् उष्णो वा न उदकम् इति । एतावत् तु
08421 स्यात् कुतो अयं स्वभाव इति । निर्हेतुकत्वे अनपेक्षिणो नियम-अभावेन
08422 अतिप्रसङ्गात् । तस्मात् स्वभावो अस्य स्व-हेतोर् इत्य् उच्यते ।
08423 तस्य अपि तज्-जनन-आत्मता तद्-अन्यस्माद् इत्य् अनादिर् हेतु-परंपरा
08501 भिन्नानां हि कश्चिद् हेतुर् न अन्यः स्वभावाद् इत्य् अत्र न किंचिद्
08502 बाधकम् ।
08503 अभेदे तु स्यातां नाश-उद्भवौ सकृत्

1.168

08504 अभेदात् । स्वभावेन एव विश्वस्य स्वात्म-वद् विभाग-उत्पत्ति-स्थिति-
08505 निरोध-आदयो न स्युः तथा उपलक्षणाद् अभेदस्य । इदम् एव हि
08506 भेद-अभेद-लक्षणम् एक-आकारस्य अपि व्यतिरेको अव्यतिरेकश् च ।
08507 विरोधिनोर् एकात्मन्य् असम्भवात् ।
08508 भेदो अपि तेन न एवं चेद् ।
08509 न वै सर्व-आकार-अव्यतिरेकं ब्रूमो येन एवं स्यात् । कश्चिद् अस्य आत्मा
08510 भिन्नो न अन्य इति भेदान् न सहोत्पत्त्य्-आदयः । एवं तर्हि
08511 य एकस्मिन् विनश्यति ।
08512 तिष्ठत्य् आत्मा न तस्य ।
08513 भेदः । स्थान-अस्थानयोर् एकात्म-आश्रयत्वे को अन्यो धर्मो भेदक
08514 इति नानात्वम् एव क्वचिन् न स्यात् । सर्व-आकार-विवेक अविवेकिनोर् वा अर्थयोर्
08515 अभ्युपगमान् नाम केवलं न इष्टं स्यान् न वस्त्व्
08516 इत्य् उक्तम् । तद् इमे न एकयोगक्षेमा भावाः भिन्ना एव
08517 अतो न स्यात् सामान्य-भेद-धीः

1.169

08518 तद् इदम् अर्थ-अन्तरम् अनायत्तम् अजन्यत्वाद् अस्य इदं सामान्यं
08519 भेदो वा इति व्यपदेशं न अर्हति । अन्यापोहे अप्य् एष तुल्यः प्रसङ्ग
08520 इति चेत् । न तुल्यः । यतः ।
08521 निवृत्तेर् निःस्वभावत्वान् न स्थान-अस्थान-कल्पना ।
08522 न ह्य् अन्यापोहो नाम किंचित् तस्य च स्वभाव-अनुषङ्गिण्यः
08523 स्वभाव-स्थिति-प्रच्युति-कल्पना न कल्पन्ते ।
08524 उपप्लवश् च सामान्य-धियस् तेन अप्य् अदूषणा

1.170

08525 निर्विषयम् एव खल्व् इदं मिथ्या-ज्ञानं यद् अनेकत्र एक-आकारम्
08601 इति न तद्-विषयस्य अभावात् स्थितिर् अस्थितिर् वा । यत् पुनर् एतद् उक्तं
08602 तज्-जनको हि स तस्य स्वभावः
08603 यत् तस्य जनकं रूपं ततो अन्यो जनकः कथम् ।
08604 तत्र न ब्रूमो अन्यस्य तज्-जनकं रूपं न अस्ति इति । किं तर्हि ।
08605 यद् एकस्य तज्-जनकं तद् अन्यस्य न इत्य् अन्यो अपि स्वरूपेण एव
08606 जनको न पररूपेण अतत्त्वात् । ते यथास्वं भिन्नाश् च तज्-जनकाश्
08607 च स्वभावेन इति को अत्र विरोधः । एक-रूप-विकलस् तद्-रूपो
08608 न स्यात् न अतत्-कार्यः । तेन एव च तत्-कार्यं कर्तव्यम् इति को
08609 अत्र न्यायः । अपि च ।
08610 भिन्ना विशेषा जनका ।
08611 इत्य् उक्तम् । न च ते विशेषास् तेन आत्मना परस्परम् अनुयन्ति ।
08612 यद् एकस्य जनकं रूपम् अन्यस्य तन् न अस्ति । न च तावता
08613 अजनकाः ।
08614 अप्य् अभेदो अपि तेषु चेत्

1.170

08615 स्याद् एतत् सत्यं विशेषा जनकाः न पुनस् तेषां विशिष्टम् एव
08616 रूपं किं त्व् अभिन्नम् अपि तद्-एक-शक्ति-योगाज् जनकाः ।
08617 तेन ते अजनकाः प्रोक्ताः ।
08618 सत्य् अपि सामान्ये रूपे न तेन ते जनकास् तस्य अनपायाद् एक-स्थिताव्
08619 अपि कार्य-उत्पत्ति-प्रसङ्गाद् इत्य् उक्तं प्राक् । किं च ।
08620 प्रतिभासो अपि भेदकः ।
08621 अनन्य-भाक् ।
08622 उत्पत्ति-स्थिति-विनाश-आदि-भेदश् न इत्य् अपि-शब्दात् । यो अयम् अभिन्नान्
08623 सर्व-अर्थान् मन्यते तस्य अयम् अर्थेषु बुद्धि-प्रतिभास-भेदो
08624 विरुद्ध-धर्म-अध्यासश् च न स्यात् । सति वा तस्मिन्न् अभेदे अपि
08625 न कश्चिद् भेदः स्यात् । तथा च अयं प्रविभागो न स्याद् एकात्म-वत् ।
08626 तस्माद् अयं भिन्न-प्रतिभास-आदिर् विशेष एव । न च अत्र अपरम्
08627 अभिन्नं प्रतिभासं पश्यामो यद्-बलेन अभेद-प्रतीतिः
08628 स्यात् । अतो विशेष एव ।
08701 स एव अर्थस् तस्य व्यावृत्तयो अपरे

1.172

08702 तत्-कार्यं कारणं च उक्तं तत् स्वलक्षणम् इष्यते ।
08703 तत्-त्याग-आप्ति-फलाः सर्वाः पुरुषाणां प्रवृत्तयः

1.173

08704 यद् अर्थक्रियाकारि तद् एव वस्त्व् इत्य् उक्तम् । स च विशेष एव ।
08705 यत् पुनर् एतत् सामान्यं नाम तत् तस्य एव अपरस्माद् भेदः ।
08706 न हि तस्य अर्थत्वे दृश्यस्य रूप-अनुपलक्षणं युक्तम् । तद्-
08707 उपलक्षण-कृतत्वाद् भेदेष्व् अभिन्न-प्रत्ययस्य । अपि च ।
08708 यथा अभेद-अविशेषे अपि न सर्वं सर्व-साधनम् ।
08709 तथा भेद-अविशेषे अपि न सर्वं सर्व-साधनम्

1.174

08710 यद् उक्तम् । कथं तज्-जनक-स्वभावाद् भिन्नो अस्य जनकः
08711 स्यात् । जनकत्वे वा अविशेषात् सर्वो जनकः स्याद् इति । उक्तम्
08712 अत्र । यद्य् अविशेषः स्यात् स्याद् एतद् इति । यथा च अस्य स्वयम्
08713 अभेद-वादिनो अभेद-अविशेषे अपि न सर्वः सर्वस्य जनक इति तथा
08714 भेद-अविशेषे अपि भविष्यति । अथवा ।
08715 भेदे हि कारकं किंचिद् वस्तु-धर्मतया भवेत् ।
08716 अभेदे तु विरुध्येते तस्य एकस्य क्रिया-अक्रिये

1.175

08717 भेद-मात्र-अविशेषे अपि स्व-हेतु-प्रत्यय-नियमित-स्वभावत्वात् केचिद्
08718 एव कारकाः स्युः न अन्ये अतत्-स्वभावत्वाद् इत्य् अत्र न एव किंचिद्
08719 विरुद्धम् अस्ति । एकत्वे तु तस्य तत्र एव तथा कारकत्वम् अकारकत्वं
08720 च इति व्याहतम् एतत् ।
08721 भेदो अप्य् अस्त्य् अक्रियातश् चेन् न कुर्युः सहकारिणः ।
08722 न वै सर्व-आकार-अविवेकं ब्रूमो भेदस्य अपि भावात् । तस्मात्
08723 कश्चिद् अकारको अपि इति । तथा अपि कथंचिद् भेदात् सहकारिणो
08724 अकारकाः स्युः ।
08725 पर्यायेण अथ कर्तृत्वं स किं तस्य एव वस्तुनः

1.176

08726 अथ अपि स्यान् न एव कश्चिद् अकारको अस्ति । सर्वेषां सर्वत्र पर्यायेण
08727 उपयोगात् । शक्तेर् वा विपरिणतायास् तन्-निवेशिन्या रूप-अन्तरेण
08728 उपयोगात् । स एव खल्व् अयं पर्यायो भेद-आश्रय एकस्य कथम् ।
08801 परिणामो वा अव्यतिरेकिण्याः । विशेषे वा कथंचिद् एकत्व-
08802 हानिर् इति यत् किंचिद् एतत् । किं च ।
08803 अत्यन्त-भेद-अभेदौ च स्यातां तद्वति वस्तुनि ।
08804 अन्योन्यं वा तयोर् भेदः सदृश-असदृश-आत्मनोः

1.177

08805 भावाश् चेद् अभिन्नेन आत्मना स्वात्मभूतेन भेदिनस् तद्वन्तः
08806 स्युः तद्-अभिन्न-स्वभाव-आत्मत्वाद् भेदस्य अपि कुतः परस्परं
08807 भेदः । अथ न स तस्य समान आत्मा । तथा सति तदात्मना
08808 तेन अपि न युक्तं तथा भवितुम् । तथा अभावे ह्य् अतद्-
08809 धर्मा स्यात् । न ह्य् अयं प्रवृत्ति-निवृत्तिमान् स्वभाव एको युक्तः ।
08810 न सर्वात्मना अभेद एव ।
08811 तयोर् अपि भवेद् भेदो यदि ।
08812 न हि क्वचिद् अस्य एकान्तिको भेदो अभेदो वा विवेकेन व्यवस्थापनात् ।
08813 सामान्यं विशेष इति ।
08814 येन आत्मना तयोः ।
08815 भेदः सामान्यम् इत्य् एतद् यदि भेदस् तदात्मना

1.178

08816 भेद एव ।
08817 यदि सामान्य-विशेषयोर् यम् आत्मानम् आश्रित्य सामान्यं विशेष
08818 इति स्थितिस् तेन आत्मना भेदस् तदा भेद एव । यस्मात् तौ हि
08819 तयोः स्वात्मानौ तौ चेद् व्यतिरेकिणौ व्यतिरेक एव सामान्य-
08820 विशेषयोः स्वभाव-भेदात् । स्वभावो हि भाव इति ।
08821 तथा च स्यान् निःसामान्यविशेषता ।
08822 भेद-सामान्ययोर् यद्वद् घट-आदीनां परस्परम्

1.179

08823 व्यतिरेके च भेद-सामान्ययोर् न भेदः सामान्यान् न सामान्यं
08824 भेद-वत् सम्बन्ध-अभावात् परस्परं घट-आदि-वद्
08825 इत्य् उक्तम् । अपि च ।
08826 यम् आत्मानं पुरस्कृत्य पुरुषो अयं प्रवर्तते ।
08827 तत्-साध्य-फल-वाञ्छावान् भेद-अभेदौ तद्-आश्रयौ

1.181

08828 चिन्त्येते स्वात्मना भेदो व्यावृत्त्या च समानता ।
08901 अस्त्य् एव वस्तु न अन्वेति प्रवृत्त्य्-आदि-प्रसङ्गतः ॥180 ।
08902 सर्व एव गौर् अश्वाद् भिन्नो अभिन्नो वा इति भेदम् अभेदं वा
08903 पृच्छन् विशेषम् एव भावस्य स्वभाव-आख्यम् अधिकृत्य प्रवर्तते ।
08904 स एव हि तथा उच्यते । द्रव्यत्व-आदयस् तु न तत्र शब्द-चोदिताः
08905 यथास्वं पृथग्-अभिधानात् । अर्थस्य तद्-अव्यभिचारात्
08906 ततो गतिः स्यात् । निर्लोठितं च एतद् आचार्येण । तद् अयं गव-आदि-शब्द-
08907 प्रत्युपस्थापितम् अर्थं भिन्नम् अभिन्नं वा पृच्छन्न्
08908 अर्थ-अन्तर-उपक्षेपेण तत्र किम् इति द्वि-मुख-बुद्धिः क्रियते ।
08909 तस्माद् यो अस्य आत्मा अनन्य-साधारणो यं पुरस्कृत्य पुरुषो
08910 विशिष्ट-अर्थक्रिया-अर्थी प्रवर्तते यथा गोर् वाह-दोह-आदौ न अन्य-
08911 सम्भविनो अर्थस्य यथा युद्ध-प्रवेशे स एव स्वभावो
08912 यथास्वं शब्द-चोदितो न द्रव्यत्व-आदि सामान्यम् । तच्-चोदनया
08913 तदा प्राप्तुम् अनभिप्रेतत्वात् । गव-आदि-समावेशात् तद् आत्मभूतानां
08914 च अनन्वयेन तत्र अनुभय-रूपत्वात् । तम् एव च अयं भावं
08915 प्रकारैः पर्यनुयुङ्क्ते । तस्य भेदे द्रव्यत्व-आद्य्-अभेदो
08916 अस्य अबाधक एव । सर्वत्र स्वभावेन भेदस्य अभ्युपगमात्
08917 सामान्यस्य च व्यावृत्ति-लक्षणस्य स्वभाव-भूतस्य च सामान्यस्य
08918 अभेदे अप्य् उक्तम् । स्वात्मना एव अभेदे तु तत्-स्वभाव-निबन्धन-
08919 अर्थक्रिया-अर्थी समं द्वयोर् अपि प्रवर्तेत । एको अपि
08920 ताम् अर्थक्रियां तत्-स्वभावत्वाद् एव करोति । तद्-अन्यस्य अपि
08921 तत् तुल्यम् इति सो अपि किं न करोति ।
08922 एतेन एव यद् अह्रीकाः किं अप्य् अश्लीलम् आकुलम् ।
08923 प्रलपन्ति प्रतिक्षिप्तं तद् अप्य् एकान्त-सम्भवात्

1.182

08924 यद् अयम् अह्रीकः स्याद् उष्ट्रो दधि स्यान् न इति किम् अप्य् अश्लीलम्
08925 अयुक्तम् अहेय-उपादेयम् अपरिनिष्ठानाद् आकुलं प्रलपन्ति । तद्
08926 अप्य् अनेन निरस्तं स्वभावेन एकान्त-भेदात् । तद्-अन्वये वा ।
08927 सर्वस्य उभय-रूपत्वे तद्-विशेष-निराकृतेः ।
08928 चोदितो दधि खादेति किम् उष्ट्रं न अभिधावति

1.183

09001 तथा ह्य् उष्ट्रो अपि स्याद् दधि न अपि स एव उष्ट्रः ये न अन्यो अपि स्याद्
09002 उष्ट्रः । तथा दध्य् अपि स्याद् उष्ट्रः न अपि तद् एव दधि येन अन्यद्
09003 अपि स्याद् दधि । तद् अनयोर् एकस्य अपि कस्यचित् तद्-रूप-अभावस्य
09004 अभावात् स्वरूपस्य वा अतद्-भाविनः स्व-नियतस्य अभावात्
09005 न कश्चिद् विशेष इति । दधि खादेति चोदित उष्ट्रम् अपि खादेत् ।
09006 अथ अस्त्य् अतिशयः कश्चिद् येन भेदेन वर्तते ।
09007 स एव दधि सो अन्यत्र न अस्ति इत्य् अनुभयं परम्

1.184

09008 अथ अनयोः कश्चिद् अतिशयो अस्ति येन अयं तथा चोदितः क्षीर-विकार
09009 एव प्रवर्तते न अन्यत्र । स एव अतिशयो अर्थक्रिया-अर्थि-प्रवृत्ति-विषयो
09010 दधि । तत्-फल-उपादान-भाव-लक्षित-स्वभावं हि
09011 वस्तु दधि इति । स च तादृशः स्वभावो अन्यत्र न अस्ति इति । प्रवृत्त्य्-अभावाद्
09012 अर्थिनः । तस्मात् तन् न उभय-रूपम् इत्य् एकान्त-वादः ।
09013 अपि च ।
09014 सर्वात्मत्वे च सर्वेषां भिन्नौ स्यातां न धी-ध्वनी ।
09015 भेद-संहार-वादस्य तद्-अभावाद् असम्भवः

1.185

09016 सो अयम् अह्रीकः क्वचिद् अप्य् एकम् आकारं प्रतिनियतम् अपश्यन्
09017 विभाग-अभावाद् भावानां कथं असंसृष्ट-अन्य-आकारवत्या बुद्ध्य्-
09018 आधिमुच्येत अर्थान् अभिलपेद् वा । ततो भेद-अग्रहात् तत्-संहार-
09019 वादो न स्यात् स्याद् उष्ट्रो दधि स्यान् न इति । अथ पुनर् असंसृष्टाव्
09020 आकारौ प्रतिपद्य संहरेत् । एक-रूप-संसर्गिण्याः बुद्धेः
09021 क्वचित् प्रतिनियमात् तत्-प्रतिभास-भेद-कृत एव तयो रूपयोः
09022 स्वभाव-भेदो अपि स्यात् । एक-अनेक-व्यवस्थितेः प्रतिभास-विषयत्वात् ।
09023 तथा च न एकस् तद्-उभय-रूपः स्याद् इति मिथ्या-वाद
09024 एषः । स्थितम् एतत् न भावानां कश्चित् स्वभाव-अन्वयो अस्ति
09025 भेद-लक्षणम् एव तु सामान्यम् । अथ च प्रकृत्या केचिद् एक-ज्ञान-
09026 आदि-फलाः केचिन् न इति । भवतु नाम भावानां स्वभाव-
09101 भेदः सामान्यम् । येषां तु निरुपाख्यानां स्वभाव एव न अस्ति
09102 तत्र कथं स्वभाव-भेद-विषयाः शब्दाः । तेष्व् अवश्यं
09103 शब्द-प्रवृत्त्या भाव्यम् । कथंचिद् अव्यवस्थापितेषु विधि-प्रतिषेध-
09104 अयोगात् । तथा च सर्वत्र अयम् अन्वय-व्यतिरेक-आश्रयो व्यवहारो
09105 न स्यात् उष्ण-स्वभावो अग्निर् न अनुष्ण इत्य् अपि । स्वभाव-अन्तरस्य
09106 असतः कथंचिद् अव्यवस्थापनात् । सर्वथा अप्रतिपत्तेर्
09107 अग्नि-स्वभावस्य अप्रतिपत्तिर् इति व्यामूढं जगत् स्यात् । स्याद् एतत्
09108 न तत्र कस्यचिद् असतो निषेधः अनुष्णं सद् एव अर्थ-अन्तरं
09109 निषिध्यत इति । कथम् इदानीं सद् असन् नाम । न ब्रूमः सर्वत्र
09110 असत् तत्र न अस्ति इति देश-काल-धर्म-निषेध एव सर्व-भावेषु
09111 क्रियते न धर्मिणः तन्-निषेधे तद्-विषय-शब्द-प्रवृत्त्य्-अभावात्
09112 अनिर्दिष्ट-विषयस्य नञो अप्रयोगात् । सो अपि तर्हि देश-आदि-
09113 प्रतिषेधः कथम् । यस्मान् न तत्र अपि देश-आदीनां प्रतिषेधो
09114 न अप्य् अर्थस्य । सम्बन्धो निषेध्यत इति चेत् । ननु तन्-निषेधे
09115 अपि तुल्यो दोषो निषेधाद् असति शब्द-अप्रवृत्तिर् इत्य् आदि । असतो वा अस्य
09116 निषेधे तद्वद् धर्मिणो अपि निषेधः । न वै सम्बन्धस्य
09117 न अस्ति इति निषेधः । किं तर्हि । न इह घटो न इदानीं न एवम् इत्य् उक्तौ
09118 न अनेन सम्बन्धो अस्ति न एतद् धर्मा वा इति प्रतीतिः । तथा
09119 च सम्बन्धो निषिद्धो भवति इति । तथा अपि कथं निषिद्धो यावद्
09120 अस्य सम्बन्धो धर्मो वा न अस्ति इति मतिर् न भवति । न च अस्याः
09121 कथंचिद् भावे सम्भवो अभावेषु तथा अभावात् । तस्मात् सम्बन्ध-
09122 अभाव-प्रतीतेर् न अयम् इह इत्य् आद्या प्रतीतिः । स तद्-अभावे
09201 न स्यात् । प्रतीतौ वा तद्-अभावस्य । यथा प्रतीति-मतस् तत्-प्रभवाः
09202 शब्दाः केन निवार्यन्ते । स एव हि शब्दानां न विषयो
09203 यो न वितर्काणाम् । ते चेत् प्रवृत्ताः को वचनस्य निषेद्धा ।
09204 न ह्य् अवाच्यम् अर्थं बुद्धयः समीहन्ते । सम्बन्धस्य
09205 तु स्वरूपेण अनभिधानम् उक्तम् । अभिधाने सम्बन्धित्वेन
09206 बुद्धाव् उपस्थानात् । यथा-अभिप्रायम् अप्रतीतिः । तद् अयं प्रतीयमानो
09207 अपि सम्बन्धि-रूप एव इति स्वरूपेण न अभिधीयते । तस्मान्
09208 न अभाव-वत् सम्बन्धे अपि प्रसङ्गः । अपि च । अयम्
09209 अभावम् अभिधेयं ब्रुवाणं प्रति प्रतिविदधद् अब्रुवाणः
09210 कथं प्रतिविदध्यात् । वचने वा अस्य कथम् अभावो अनुक्तः ।
09211 अथ अभावम् एव न इच्छेत् । तेन अवचनम् । तद् एव इदानीं कथम्
09212 अभावो न अस्ति इति । यत् पुनर् एतद् अर्थ-निषेधे अनर्थक-शब्द-अप्रयोगान्
09213 निर्विषयस्य नञो अप्रयोग इत्य् अत्र उत्तरं वक्ष्यते । तस्मात्
09214 सन्त्य् अभावेषु शब्दाः । तेषु कथं स्वभाव-भेद इति ।
09215 तत्र अपि ।
09216 रूप-अभावाद् अभावस्य शब्दा रूप-अभिधायिनः ।
09217 न आशङ्क्या एव सिद्धास् ते व्यवच्छेदस्य वाचकाः

1.186

09218 वस्तु-वृत्तीनां शब्दानां किं रूपम् अभिधेयम् आहोस्विद् भेद
09219 इति शङ्का स्यात् । अभावस् तु विवेक-लक्षण एव निमित्तीकर्तव्यस्य
09220 कस्यचिद् रूपस्य अभावात् तद्-भावे अभाव-अयोगात् । तद्-भाव-लक्षणत्वाद्
09221 भावस्य । तस्माद् अयम् एव स मुख्यो विवेकः ।
09222 तस्य तथा अभाव-ख्यापिनः शब्दाः किं विवेक-विषया इत्य् अस्थानम्
09223 एव एतद् आशङ्कायाः । तस्मात् सिद्धम् एतत् सर्वे शब्दा विवेक-विषया
09301 विकल्पाश् च । त एते एक-वस्तु-प्रतिशरणा अपि यथास्वम्
09302 अवधि-भेद-उपकल्पितैर् भेदैर् भिन्नेष्व् इव प्रतिभात्सु बुद्धौ
09303 विवेकेषु उपलयनाद् भिन्न-विषया एव । तेन स्वभावस्य एव साध्यसाधनभावे
09304 अपि न साध्य-साधन-संसर्गः । तौ न प्रतिज्ञार्थैकदेशो
09305 हेतुर् इति । स च अयं हेतुत्वेन अपदिश्यमानः ।
09306 उपाधि-भेद-अपेक्षो वा स्वभावः केवलो अथवा ।
09307 उच्यते साध्य-सिद्ध्य्-अर्थं नाशे कार्यत्व-सत्त्व-वत्

1.187

09308 अपेक्षित-पर-व्यापारो हि स्वभाव-निष्पत्तौ भावः कृतकः ।
09309 तेन इयं कृतक-श्रुतिः स्वभाव-अभिधायिन्य् अपि पर-उपाधिम् एनम्
09310 आक्षिपति । एतेन प्रत्यय-भेद-भेदित्व-आदयो व्याख्याताः । एवम्
09311 उपाधि-भेद-अपेक्षः क्वचित् स्वभावो हेतुर् उच्यते क्वचिद् अनपेक्षः
09312 सामान्येन यथा अनित्यत्व एव सत्त्वम् क्वचित् स्वभाव-भूत-
09313 धर्म-विशेष-परिग्रहेण यथा तत्र एव उत्पत्तिः । अनया
09314 दिशा अन्ये अपि स्वभाव-हेतु-प्रविभागा द्रष्टव्याः ।
09315 सत्ता-स्वभावो हेतुश् चेन् न सत्ता साध्यते कथम् ।
09316 अनन्वयो हि भेदानां व्याहतो हेतु-साध्ययोः

1.188

09317 यदि सत्त्वम् अनित्यत्वे अन्यत्र वा हेतुः स्यात् साध्यम् अपि कस्मात्
09318 न इष्यते । तत् किल एवं प्रसाध्यमानं विशेषीभवति ।
09319 न च विशेषः साधायितुं शक्यते अनन्वयात् । यथा आह प्रमाण-
09320 विशेषया अज्ञानाद् इति । सो अयं विशेषो न साध्य एव व्याहन्यते ।
09321 किं तर्हि । हेताव् अपि तुल्य-दोषत्वात् । न हि हेतुर् अनन्वयः सिद्धेर्
09322 अङ्गं ततः संशयात् । न एष दोषः । यस्मात् ।
09401 भाव-उपादान-मात्रे तु साध्ये सामान्य-धर्मिणि ।
09402 न कश्चिद् अर्थः सिद्धः स्याद् अनिषिद्धं च तादृशम्

1.189

09403 न सर्वथा सत्ता-साधने विशेषः साधितो भवति । भाव-मात्र-
09404 विशेषणो अस्ति कश्चिद् धर्मी इति प्रसाधयतो अनिर्दिष्ट-स्वभाव-विशेषस्य
09405 कस्यचित् सत्ता-मात्रे विरोध-अभावात् न इह सत्ता-साधन-
09406 प्रतिषेधः किं तु स तथा अस्ति कश्चिद् इति कंचन अस्य भेदम्
09407 अपरामृशन् ब्रुवाणः कं स्वार्थं पुष्णाति । तस्माद् अनेन उपात्त-
09408 भेद एव साध्यः ।
09409 उपात्त-भेदे साध्ये अस्मिन् भवद् हेतुर् अनन्वयः ।
09410 सत्तायां तेन साध्यायां विशेषः साधितो भवेत्

1.190

09411 स हि धर्मी प्रधान-लक्षण एको नित्यः सुख-आद्य्-आत्मको अन्यो
09412 वा इति यथाकथंचिद् अपि विशेषितस् तत्-स्वभावः प्रसाधितो भवति ।
09413 स च तथा न अन्वेति । यद् अपि सत्ता-मात्रम् अन्वेति न तेन
09414 सिद्धेन किंचित् । नन्व् एवम् अग्न्य्-आदिष्व् अपि प्रसङ्गः । तत्र अपि
09415 न अग्नि-सत्ता-मात्रे कश्चिद् विवादः । विशिष्ट-आधार-विशेषस्य त्व् अभिमतस्य
09416 अनन्वयाद् असिद्धिः । न वै स आधारस् तं विशेषीकरोति ।
09417 तद्-अयोगव्यवच्छेदेन विशेषणाद् इत्य् उक्तं वक्ष्यते च । तस्मात्
09418 तत्र सामान्यम् एव साध्यते तद्-अयोगव्यवच्छेदेन ।
09419 न तथा इह अपि क्वचित् सत्तायाः साधनम् । प्रधान-आदि-शब्द-वाच्यस्य
09420 एव अर्थस्य क्वचिद् अभावान् निर्विशेषणा एव सा । कथम् अभावो
09421 ज्ञेय-अभिधेय-प्रमेयत्वैः सो अपि सिद्ध एव । तत् किम् इदानीं
09422 ज्ञेयम् अस्ति इति सिद्धिर् अस्तु । तथा अपि किं सिद्धं स्यात् । अन्यत्र
09423 तु तद् एव अग्नि-सामान्यं तत्र असिद्धम् इति साध्यते । ननु तत्र अपि
09424 तद्-अयोग-विरहिणा सामान्येन अन्वयो न सिद्ध एव । न वै कश्चित्
09425 तथा अभूतेन अन्वयं करोति । प्रतिपादयता हि परं धूमो
09426 अग्नि-नान्तरीयको दर्शनीयो यत्र धूमस् तत्र अग्निर् इति । स तथा अग्नि-
09427 मात्रेण व्याप्तः सिद्धो यत्र एव स्वयं दृश्यते तत्र एव अग्नि-
09501 बुद्धिं जनयति । तत्र च साध्य-निर्देशेन न किंचित् । तत्र
09502 दर्शन-सम्बन्ध-आख्यान-मात्राद् इष्टसिद्धेः । तद्-अनिर्देशे च
09503 कथं तद्-विशिष्टेन अन्वयः । तद् अयम् अग्निना अविनाभावी
09504 सिद्धः । अर्थाद् एव अग्नेस् तत्-प्रदेश-अयोगं व्यवच्छिनत्ति इति स
09505 तथा साध्य उच्यते । न पुनस् तथा अस्य उपन्यास-पूर्वको अन्वयः
09506 साध्य-उक्तेर् इह अनङ्गत्वात् । तत्-पूर्वकत्वे वा कः प्रतिज्ञां
09507 साधनाद् अपाकरोति । तथा च आह ।
09508 लिङ्गस्य अव्यभिचारस् तु धर्मेण अन्यत्र दर्श्यते ।
09509 तत्र प्रसिद्धं तद्-युक्तं धर्मिणं गमयिष्यति ।
09510 तस्मान् न अग्न्य्-आदि-साधन-वत् सत्ता-साधनम् अप्य् अनवद्यम् इति ।
09511 अपरामृष्ट-तद्-भेदे वस्तु-मात्रे तु साधने ।
09512 तन्-मात्र-व्यापिनः साध्यस्य अन्वयो न विहन्यते

1.191

09513 साधने पुनः सत्त्वे स्वभाव-विशेष-अपरिग्रहेण वस्तु-मात्र-
09514 व्यापिनि साध्य-धर्मे न अन्वय-व्याघातः । न हि तत्र अवश्यं
09515 विशेष-परिग्रहः कार्यः । सन्-मात्र-आश्रये अपि साधन-सामर्थ्यात् ।
09516 न साध्यत्वे । वैफल्यात् । अपि च ।
09517 न असिद्धे भाव-धर्मो अस्ति व्यभिचार्य्-उभय-आश्रयः ।
09518 धर्मो विरुद्धो अभावस्य सा सत्ता साध्यते कथम्

1.192

09519 सत्तायां हि साध्यायां । सर्वस् तद्-हेतुर् न त्रयीं दोष-जातिम्
09520 अतिपतति । असिद्धिं व्यभिचारं विरोधं च । तत्र यदि भाव-
09601 धर्मो हेतुर् उच्यते । स कथम् असिद्ध-सत्ताके स्यात् । यो हि
09602 भाव-धर्मं तत्र इच्छति । स कथं भावं न इच्छेत् । स्वभाव
09603 एव हि कयाचिद् अपेक्षया धर्म इति व्यतिरेकी इव धर्मिणो
09604 निर्दिश्यते । न हि धर्म-धर्मि-वाचिनोः शब्दयोर् वाच्ये कश्चिद्
09605 विशेषो अस्ति इत्य् उक्तम् एतत् । अथ पुनर् उभय-धर्मं ब्रूयात् ।
09606 अनाश्रित-वस्तुनो अपर्युदासेन व्यतिरेक-मात्रस्य अभावे अप्य् अविरोधात् ।
09607 यथा न भवति मूर्त इति अमूर्तत्वं निरुपाख्ये अपि
09608 स्यात् । निरुपाख्यस्य अभावाद् न प्रतिषेध-विषयता इति चेत् । तत् किम्
09609 इदानीं विधि-विषयो अस्तु । तद् अपि न इति चेत् । कथम् इदानीं न
09610 प्रतिषेध-विषयः । विधि-निवृत्ति-रूपत्वात् प्रतिषेधस्य । तद्
09611 एतद् व्यवच्छेद-मात्रं द्वयोर् अपि सम्भवद् विपक्ष-प्रचार-
09612 शङ्का-व्यवच्छेदेन लभ्यं गमकत्वं कथम् आत्मसात्
09613 कुर्यात् । स च स्वयं स्व-वाच-उभय-धर्मतां ब्रुवाणः सतो
09614 अन्यत्र अप्य् अस्य वृत्तिं भाषते सत्तायां च अव्यभिचारम् इति
09615 कथं न उन्मत्तः । अभाव-धर्मं तु भाव-मात्र-व्यापिनो
09616 अर्थस्य व्यवच्छेदं हेतुं सत्तायां वदतो अस्य विरुद्धो
09617 हेतुः स्यात् । तस्य भावे क्वचिद् असम्भवात् अभावे च भाव-
09618 व्यवच्छेदस्य भावात् । तद् अयं त्रिप्रकारो अपि धर्मः सत्ता-
09619 साधने न हेतु-लक्षण-भाक् न च अन्या गतिर् अस्ति । तस्मान् न
09620 सत्ता साध्यते । साधनत्वे पुनर् अस्याः सामान्येन तन्-मात्र-व्यापिनि
09621 वस्तु-धर्मे सिद्ध-सत्ताके धर्मिणि न असिद्धिः । तेन च
09622 साध्य-धर्मेण व्याप्तिर् यदि कथंचिन् निश्चीयते न विरोध-
09623 व्यभिचाराव् इति न अयं प्रसङ्गः । अनिश्चितायां तु व्याप्तौ धर्मि-
09624 समाश्रये वा तत्-स्वभावतया गमको न कश्चिद् गमकः ।
09625 अत एव स्व-धर्मेण व्याप्तः
09626 सिद्धः स्वभावो गमको ।
09701 वाच्यः । न हि प्रकाशतया प्रकाशयन् प्रदीपस् तद्-रूप-अप्रतिपत्तौ
09702 स्वाम् अर्थक्रियां करोति ।
09703 व्यापकस् तस्य निश्चितः ।
09704 गम्यः स्वभावस् ।
09705 तद्-धर्म-निश्चयाद् एव निश्चितो व्यापकत्वेन तस्य धर्मिणो
09706 धर्मो गम्यः ।
09707 तस्य अयं निवृत्तौ वा निवर्तकः

1.193

09708 तस्य व्याप्यस्य धर्मस्य अयं निवर्तको व्यापको धर्मः
09709 स्वयं निर्वर्तमानः । एवं ह्य् अयम् अस्य व्यापकः सिद्धो
09710 भवति यद्य् अस्य अभावे न भवेत् । तद् अनेन द्विविधस्य अपि
09711 साधन-प्रयोगस्य गमकता-लक्षणम् उक्तं वेदितव्यम् । द्विविधो
09712 हि प्रयोगः साधर्म्येण वैधर्म्येण च । यथा आहुर्
09713 एके अन्वयी व्यतिरेकी च इति । न अनयोर् वस्तुतः कश्चिद् भेदो अन्यत्र
09714 प्रयोग-भेदात् । साधर्म्येण अपि हि प्रयोगे अर्थाद् वैधर्म्य-
09715 गतिः असति तस्मिन् साध्येन हेतोर् अन्वय-अभावात् । तथा
09716 वैधर्म्ये अप्य् अन्वय-गतिः असति तस्मिन् साध्य-अभावे हेत्व्-अभावस्य
09717 सन्देहाद् इति विस्तरेण वक्ष्यामः ।
09718 अनित्यत्वे यथा कार्यम् अकार्यं वा अविनाशिनि ।
09719 अनेन उदाहरणम् अनयोर् दर्शयति । तत्र अन्वयी यत् किंचित् कृतकं
09720 तत् सर्वम् अनित्यम् यथा घट-आदयः शब्दश् च कृतक
09721 इति कृतकत्वस्य अप्य् अनित्यत्वेन व्याप्तिं प्रदर्श्य शब्दस् य
09722 कृतकत्वे कथिते सामर्थ्याद् एव अनित्यः शब्द इति । तस्मान्
09723 न अवश्यम् इह पक्ष-निर्देश इति । अयम् अन्वयिनः प्रयोगः ।
09724 व्यतिरेके अपि न अनित्यत्व-अभावे कृतकत्वं भवति शब्दश् च
09725 कृतक इति । सिद्ध-तत्-स्वभावतया तद्-अभावे न भवतः ।
09726 कृतकत्वस्य शब्दे च भाव-ख्यातौ तदात्मनः सतो भाव इति
09727 सामर्थ्यात् सिद्धेः पूर्ववान् न प्रतिज्ञा-वचनम् । अन्वयस् त्व्
09801 अर्थापत्त्या सिद्धः । न ह्य् अतदात्म-नियतस्य तन्-निवृत्तौ
09802 निवृत्तिः । तस्मात् तन्-नियमं प्रसाध्य निवृत्तिर् वक्तव्या ।
09803 सा चेत् सिध्यति तदात्म-नियमम् अर्थात् सूचयति इति सिद्धो अन्वयः ।
09804 कथम् इदानीं कृतको अवश्यम् अनित्य इति प्रत्येतव्यो
09805 येन एवम् उच्यते । यस्मात् ।
09806 अहेतुत्वाद् विनाशस्य स्वभावाद् अनुबन्धिता

1.194

09807 न हि भावा विनश्यन्तस् तद्-भावे हेतुम् अपेक्षन्ते । स्व-हेतोर्
09808 एव विनश्वराणां भावात् । तस्माद् यः कश्चित् कृतकः स प्रकृत्या
09809 एव नश्वरः । तथा हि ।
09810 सापेक्षाणां हि भावानां न अवश्यंभाविता ईक्ष्यते ।
09811 निरपेक्षो भावो विनाशे । सापेक्षत्वे हि घट-आदीनां केषांचिन्
09812 नित्यता अपि स्यात् । येन
09813 बाहुल्ये अपि हि तद्-हेतोर् भवेत् क्वचिद् असम्भवः

1.195

09814 यद्य् अपि बहुलं विनाश-कारणानि सन्ति तेषाम् अपि स्व-प्रत्यय-
09815 अधीन-संनिधित्वान् न अवश्यं संनिधानम् इति कश्चिन् न विनश्येद्
09816 अपि । न ह्य् अवश्यं हेतवः फलवन्तो वैकल्य-प्रतिबन्ध-
09817 सम्भवात् ।
09818 एतेन व्यभिचारित्वम् उक्तं कार्य-अव्यवस्थितेः ।
09819 सर्वेषां नाश-हेतूनां हेतुमन्-नाश-वादिनाम्

1.196

09820 इत्य् अन्तरश्लोकः । तद् अयं भावो अनपेक्षस् तद्-भावं प्रति
09821 तद्-भाव-नियतो असम्भवत्-प्रतिबन्धा इव कारण-सामग्री सकला
09822 कार्य-उत्पादने । नन्व् अनपेक्षाणाम् अपि केषांचित् क्वचिन् न अवश्यं
09823 तद्-भावो भूमि-बीज-उदक-सामग्र्याम् अपि कदाचिद् अङ्कुर-अनुत्पत्तेः ।
09824 न तत्र अपि सन्तानपरिणाम-अपेक्षत्वात् । न एवं भावस्य काचिद्
09825 अपेक्षा । तत्र अप्य् अन्त्या कारण-सामग्री या अव्यवहिता कार्य-उत्पत्तेः
09826 सा फलवत्य् एव । स एव च तत्र अङ्कुर-हेतुः । अन्यस् तु पूर्वः परिणामस्
09901 तद्-अर्थ एव । न च तां तत्र कश्चित् प्रतिबन्धुं समर्थः ।
09902 एकत्र भावे विकार-अनुत्पत्तेः । उत्पत्तौ वा एकत्व-हानेः ।
09903 तदात्मनश् च अप्रच्युतस्य तद्-उत्पादनं प्रति वैगुण्यं कारणस्य
09904 अकुर्वाणस्य प्रतिबन्ध-हेतोर् अप्रतिबन्धकत्वात् । ननु
09905 यव-बीज-आदयो अपि शाल्य्-अङ्कुरे जन्ये न सापेक्षाः । तदुत्पत्ति-प्रत्ययानां
09906 कदाचित् तत्र अपि संनिधानात् । कथं न सापेक्षाः ।
09907 यावता स एव एषां स्वभावो न अस्ति यस् तद्-उत्पादनः शालि-बीजस्य
09908 इति तत्-स्वभाव-अपेक्षाः । एवं तर्हि कृतकानाम् अपि केषांचित्
09909 सतां वा स एव स्वभावो न अस्ति यो विनश्वरः । तस्मात् तत्-स्वभाव-अपेक्षत्वान्
09910 न विनश्वराः । शालि-बीज-आदीनाम् अपि स स्वभावः
09911 स्व-हेतोर् इति यो न तद्-हेतुः सो अतत्-स्वभावः स्यात् । नियत-शक्तिश्
09912 च स हेतुः स्वरूपेण प्रतीत एव । न च स्वभाव-नियमो
09913 अर्थानाम् आकस्मिको युक्तः । अनपेक्षस्य देश-काल-द्रव्य-नियम-
09914 अयोगात् तथा अत्र अपि नियम-हेतुर् वक्तव्यो यत इमे केचिन्
09915 नश्वर-आत्मनो जाता न च अत्र कश्चिन् नियामकः स्वभावस्य अस्ति
09916 सर्व-जन्मिनां विनाश-सिद्धेः । जन्मि-स्वभावो नाशी इति चेत् । न वै
09917 जन्म नाशि-स्वभावस्य हेतुः न च अहेतोः स्वभाव-नियमः ।
09918 तस्मान् न अत्र कश्चिद् हेतोः स्वभाव-प्रविभागः । तद्-अभावात्
09919 फलस्य अपि न अस्ति इत्य् असमानम् । सा इयं निरपेक्षता विनाशस्य
09920 क्वचित् कदाचिच् च भाव-विरोधिनी तद्-अभावं स्वभावेन
09921 साधयति । यो हि स्वभावो निरपेक्षः स यदि कदाचिद्
09922 भवेत् क्वचिद् वा तत्-काल-द्रव्य-अपेक्ष इति निरपेक्ष एव न
09923 स्याद् इत्य् उक्तम् । स तर्हि नश्वरः स्वभावो निरपेक्ष इति अहेतुकः
09924 स्यात् । न अहेतुकः सत्ता-हेतोर् एव भावात् तथा-उत्पत्तेः । सतो
09925 हि भवतस् तादृशस्य एव भावात् । न अवश्यं सतः कुतश्चिद्
09926 भाव इति चेत् । आकस्मिकी तर्हि सत्ता इति । न इयं कस्यचित् कदाचित्
09927 क्वचित् विरमेत् । तद् हि किंचिद् उपलीयेत न वा यस्य यत्र किंचित्
09928 प्रतिबद्धम् अप्रतिबद्धं वा । सा इयं सत्ता अप्रतिबन्धिनी चेत् ।
10001 नियमवती न स्यात् । तस्मान् न इयम् आकस्मिकी क्वचित् । कथं
10002 तर्हि इदानीम् अहेतुको विनाश उक्तः । जातस्य तद्-भावे अन्य-अनपेक्षणात् ।
10003 उक्तं च अत्र न विनाशो नाम अन्य एव कश्चिद् भावात् स्वभाव
10004 एव हि नाशः स एव ह्य् एक-क्षण-स्थायी जात इति । तम् अस्य
10005 मन्दाः स्वभावम् ऊर्ध्वं व्यवस्यन्ति न प्राक् दर्शने अपि
10006 पाटव-अभावाद् इति तद्-वशेन पश्चाद् व्यवस्थाप्यते विकार-दर्शनेन
10007 इव विषम् अज्ञैः । तद् अयं सत्ता-व्यतिरेकेण न अन्यत् किंचिद्
10008 विनाशो अपेक्षत इति तद्-व्यापी । कथं पुनर् एतद् गम्यते
10009 निरपेक्षो विनाश इति ।
10010 असामर्थ्याच् च तद्-हेतोर् ।
10011 अभाव-कारिणः क्रिया-प्रतिषेधाच् च इति च-शब्दात् । कथम् असामर्थ्यम् ।
10012 सिद्धे हि भावे कारको न तं करोति । न अप्य् अन्य-क्रियायां
10013 तस्य किंचिद् इति । तद्-अतद्-रूप-अकरणाच् च अकिंचित्करो न अपेक्ष्यत
10014 इति । कथं क्रिया-प्रतिषेधो विनाश इति हि ते भाव-अभावं मन्यन्ते ।
10015 तद् अयं विनाश-हेतुर् अभावं करोति इति प्राप्तम् । तत्र
10016 यद्य् अभावो नाम कश्चित् कार्यः स्यात् स्वभावः स एव भाव इति
10017 न अभावः स्यात् । तस्माद् अभावं करोति इति भावं न करोति इति
10018 क्रिया-प्रतिषेधो अस्य कृतः स्यात् । तथा अप्य् अयम् अकिंचित्करः
10019 किम् इति अपेक्ष्यत इति सिद्धा विनाशं प्रत्य् अनपेक्षया भावस्य ।
10020 तस्मात्
10021 भवत्य् एष स्वभावतः ।
10022 यत्र नाम भवत्य् अस्माद् अन्यत्र अपि स्वभावतः

1.197

10023 सो अयं क्वचिद् भवन् दृष्टो अनपेक्षत्वात् स्वभावत एव भवति ।
10024 तथा अन्यत्र अपि स्वभाव-भावी विशेष-अभावाद् इति ।
10025 या काचिद् भाव-विषया द्विधा एव अनुमितिस् ततः ।
10026 स्व-साध्ये कार्य-भावाभ्यां सम्बन्ध-नियमात् तयोः

1.198

10028 तस्मात् द्विप्रकारा एव वस्तु-विषय-अनुमितिः कार्य-लिङ्गा स्वभाव-
10101 लिङ्गा च । यथास्वं व्यापिनि साध्ये तयोर् एव प्रतिबन्धात् लिङ्गयोर्
10102 लिङ्गिनि । यथोक्तं प्राक् ।
10103 प्रवृत्तेर् बुद्धि-पूर्वत्वात् तद्-भाव-अनुपलम्भने ।
10104 प्रवर्तितव्यं न इत्य् उक्त-अनुपलब्धेः प्रमाणता

1.199

10105 तृतीयस् तु हेतुर् अनुपलब्धिर् अविशेषेण क्वचिद् अर्थे गमक इत्य्
10106 उच्यते । सन्-निश्चय-शब्द-व्यवहार-प्रतिषेधे हि सर्वा एव अनुपलब्धिर्
10107 लिङ्गम् । सन्-निश्चयाद् हि शब्द-व्यवहाराः प्रवर्तन्ते ।
10108 ते प्रवृत्तिर् इत्य् उक्ताः । तथा ह्य् अनुपलब्धिर् एव असत्त्वम्
10109 इत्य् उक्तम् प्राक् । तच् च प्रतिपत्तृ-वशान् न वस्तु-वशात् । तावद् हि
10110 स भावो अस्य न अस्ति यावद् अत्र अप्रतिपत्तिः । सता अपि ते न तद्-अर्थ-अकरणात् ।
10111 वस्तुतस् त्व् अनुपलभ्यमानो न सन् न असन् । सताम्
10112 अपि स्वभाव-आदि-विप्रकर्षात् कदाचिद् अनुपलम्भात् तस्य असत्स्व् अपि
10113 तुल्यत्वात् । तद् एतत् प्रतिपत्तुः प्रमाण-अभावान् निवृत्तं सत्त्वम्
10114 अनुपलब्धि-लक्षणं स्व-निमित्तान् शब्द-व्यवहारान् निवर्तयति ।
10115 तेन या अपि इयम् अनुपलब्धिर् उपलब्धि-लक्षण-प्राप्तानां
10116 वस्तुतो अप्य् असत्त्व-रूपा अप्रवृत्ति-योग्यत्वात् । तस्या अप्य् एतत् तुल्यं
10117 प्रामाण्यम् अत्र विषये । असन्-निश्चय-फला अपि सा । असत्तायाम् अपि इयं
10118 प्रमाणम् एव । न ह्य् अस्ति सम्भवो यद् उपलब्धि-योग्यः
10119 सकलेष्व् अन्येषु कारणेषु सन् न उपलभ्येत । न पुनः पूर्वा
10120 असत्ता-साधानी । यस्मात्
10121 शास्त्र-अधिकार-असम्बद्धा बहवो अर्था अतीन्द्रियाः ।
10122 अलिङ्गाश् च कथं तेषाम् अभावो अनुपलब्धितः

1.200

10123 सो अयम् असत्तां साधयन्न् अनुपलब्धि-मात्रेण सर्व-अर्थानां
10201 प्रमाण-त्रय-निवृत्त्या साधयेत् । तत्र न शास्त्र-निवृत्तिर् अभाव-साधनी ।
10202 तस्य क्वचिद् अनधिकारे अप्रवृत्तेः । शास्त्रं हि प्रवर्तमानं
10203 कंचित् पुरुष-अर्थ-साधनम् उपायम् आश्रित्य प्रवर्तते ।
10204 अन्यथा अबद्ध-प्रलापस्य अप्रामाण्यात् । तत्र च प्रकरणे
10205 बहवो अर्था न अवश्यं निर्देश्याः । यथा प्रत्यात्म-नियताः
10206 काश्चन पुरुषाणां चेतो-वृत्तयो अनियत-निमित्त-भाविन्यः देश-
10207 काल-व्यवहिता वा प्रकरण-अनुपयोगिनो द्रव्य-विशेषा न तान्
10208 शास्त्रं विषयीकरोति । न च तथा विप्रकृष्टेषु स्व-सामर्थ्य-उपधानाव्
10209 ज्ञान-उत्पादन-शक्तिर् अस्ति । न च अवश्यम् एषां कार्य-उपलम्भो
10210 येन अनुमीयेरन् । न च ते प्रमाण-त्रय-निवृत्ताव् अपि
10211 न सन्ति इति शक्यन्ते व्यवसातुम् । तस्मान् न सर्व-अनुपलब्धिः
10212 साधनी निवृत्ति-निश्चयस्य । तद् इयम् ।
10213 सद्-असन्-निश्चय-फला न इति स्याद् वा अप्रमाणता ।
10214 न एव वा इयम् अनुपलब्धिः प्रमाणं व्यवसाय-फलत्वात् प्रमाणानाम् ।
10215 न हि प्रवृत्ति-निषेधे अपि इयं निःशङ्क-परिच्छेदं
10216 चेतः करोति । संशयाद् अपि क्वचिल् लोकस्य प्रवृत्तेः । तथात्वे
10217 तन् निरवद्यं यदि निश्चय-पूर्वं व्यवहरेद् इति सा इयम् अप्रवृत्ति-
10218 फला प्रोक्ता ।
10219 प्रमाणम् अपि काचित् स्याल् लिङ्ग-अतिशय-भाविनी

1.201

10220 अत्र न सर्व-अनुपलब्धिर् अप्रमाणम् । प्रमाणम् अपि काचिल् लिङ्ग-
10221 विशेष-भाविनी यथा-उदाहृता प्राक् । यत् पुनर् उक्तम् अप्रमाणम् अनुपलब्धिर् इति
10223 स्वभाव-ज्ञापक-अज्ञानस्य अयं न्याय उदाहृतः ।
10301 यस्य कस्यचित् स्वभावो न उपलभ्यते देश-आदि-विप्रकर्षात् न
10302 स तद्-अनुपलम्भ-मात्रेण असन् नाम यथोक्तं प्राक् । यो अपि
10303 ज्ञापकस्य लिङ्गस्य अभावाद् अतीन्द्रियः प्रतिक्षिप्यते अर्थः स्वभाव-
10304 विशेषो वा यथा न अस्ति विरक्तं चेतो देवता-विशेषो वा
10305 न अस्ति दान-हिंसा-विरति-चेतनानाम् अभ्युदय-हेतुता इति प्रत्यक्षे
10306 अप्य् अर्थे फलस्य आनन्तर्य-अभावाद् अतत्-फल-साधर्म्याद् विपर्यस्तो
10307 अपवदेत अपि न तावता तद्-अभाव एव व्यवहितानाम्
10308 अपि हेतोः फलानाम् उत्पत्ति-दर्शनात् मूषिक-अलर्क-विष-विकार-वत् ।
10309 तद्-भावे विरोध-अभावाद् अत्र अनुपलब्धि-मात्रम् अप्रमाणम् ।
10310 भावे किं प्रमाणम् इति चेत् । अत एव संशयो अस्तु भवेद्
10311 वा प्रमाणम् इत्य् अप्रतिक्षेपः । तद् अत्र केषांचिद् अर्थानां
10312 स्वभावानां वा दर्शन-पाटव-अभावात् कारणानां कार्य-उत्पादन-
10313 नियम-अभावाच् च भवेज् ज्ञापक-असिद्धिः । नेयता तद्-अभावः ।
10314 पुनः पर्यायेण केषांचिद् अभिव्यक्तेः ।
10315 कार्ये तु कारक-अज्ञानम् अभावस्य एव साधकम्

1.202

10316 स्वभाव-अभावे साध्ये तद्-अनुपलम्भ एव अप्रमाणम् उच्यते ।
10317 कारक-अनुपलम्भस् तु प्रमाणम् एव । न ह्य् अस्ति सम्भवो यद्
10318 असति कारणे कार्यं स्यात् । ननु कदाचित् कारण-नाशे अपि कार्य-स्थितिर्
10319 दृष्टा । न ब्रूमः कारण-स्थिति-काल-भावी कार्यम् इति । हेतु-रहिता
10320 तु भाव-उत्पत्तिर् न अस्ति इत्य् उच्यते । न च तथा स्थायी भावस् तद्-उपादानः ।
10321 पारंपर्येण तु सन्तान-उपकारात् तत्-कार्य-व्यपदेशः ।
10322 यद्य् अस्य कथंचिद् अभावः सिध्येत् तत्-फलं न अस्ति इति निश्चीयते ।
10323 स्वभाव-अनुपलम्भश् च स्वभावे अर्थस्य लिङ्गिनि ।
10324 स्वभाव-अभाव एव लिङ्गिनि स्वभाव-अनुपलम्भो अपि कश्चित् प्रमाणम् एव ।
10325 एव यद्य् अनुपलभ्यमानो व्यापकः स्वभावो अस्य
10326 सिद्धिः स्यात् । यथा वृक्षत्वं शिंशपायाः ।
10327 तद्-अभावः प्रतीयेत हेतुना यदि केनचित्

1.203

10401 यद्य् अस्य कारणस्य स्वभावस्य व्यापकस्य वा अभावः कुतश्चिद्
10402 गमकाद् हेतोः सिध्येत् । सो अयं असन् एव स्व-कार्यं
10403 व्याप्यं वा निवर्तयति । तद्-अभाव-असिद्धौ निवर्त्ये अपि संशयात् ।
10404 कथम् इदानीं भावस्य स्वयम् अनुपलब्धेर् अभाव-
10405 सिद्धिः ।
10406 दृश्यस्य दर्शन-अभाव-कारण-असम्भवे सति ।
10407 भावस्य अनुपलब्धस्य भाव-अभावः प्रतीयते

1.204

10408 भावो हि यदि भवेद् यथास्वं ग्राहकेण करणेन उपलभ्य
10409 एव भवेत् । स दर्शन-प्रतिबन्धिषु व्यवधान-आदिष्व् असत्सु उपलभ्य
10410 एव । अनुपलब्धस् त्व् असन्न् इति निश्चीयते । तादृशः सत
10411 उपलम्भ-अव्यभिचारात् । अयम् एव हेतुर् हेतु-व्यापकयोर् अभावे
10412 अपि वेदितव्यः ।
10413 विरुद्धस्य च भावस्य भावे तद्-भाव-बाधनात् ।
10414 तद्-विरुद्ध-उपलब्धौ स्याद् असत्ताया विनिश्चयः

1.205

10415 यो हि भावो येन सह न अवतिष्ठते तद्-उपादानयोर् अन्योन्य-वैगुण्य-
10416 आश्रयत्वेन आरम्भ-विरोधात् तयोर् विरुद्धयोर् एकस्य भावे
10417 अप्य् अन्य-अभाव-गतिर् भवति यथोक्तं प्राक् । इदम् अनुपलब्धेर्
10418 न पृथग् व्यवस्थाप्यते । तत एव विरोध-गतेर् विरोधाच् च अभाव-
10419 साधनात् । भवतु नाम एवंविधाया अनुपलब्धेर् अभाव-
10420 गतिः । सा पुनः कथम् अनुमानम् । कथं च न स्यात् ।
10421 दृष्टान्त-अनपेक्षणात् । न ह्य् अस्यां कश्चिद् दृष्टान्तो अस्ति । किं
10422 न निरुपाख्यं व्योमकुसुम-आदि दृष्टान्तः । तद् असत् कथम्
10423 अवगन्तव्यं येन एवं स्यात् । अनुपलब्धेर् एव इति चेत् । तत्र
10424 कथम् अदृष्टान्तिका असत्ता-सिद्धिः सदृष्टान्तत्वे वा अनवस्था-प्रसङ्गः ।
10425 तथा च अप्रतिपत्तिः । तस्मान् निरुपाख्य-अभाव-सिद्धि-वद्
10426 अन्यत्र अपि दृष्टान्त-अनपेक्षणाद् अननुमानम् । शृण्वन्न् अपि देवानांप्रियो
10427 न अवधारण-पटुः । निमित्तं ह्य् असच्-शब्द-व्यवहाराणाम्
10428 उपलभ्य-अनुपलब्धिः । सा स्व-संनिधानात् स्व-निमित्तान्
10429 एतान् साधयति इति स्व-निमित्त-सामग्री-योग्य-संनिधानः सर्वो अत्र
10501 दृष्टान्तः । असत्ता पुनर् अत्र अनुपलब्धिर् एव । अत एव इयं कारणात्
10502 कार्य-अनुमान-लक्षणत्वात् । स्वभाव-हेताव् अन्तर्भवति इति वक्ष्यामः ।
10503 सच्-शब्द-व्यवहार-प्रतिषेधे अपि प्रमाण-निवृत्त्या
10504 निमित्त-वैकल्य-अभाविनो अङ्कुर-आदयो दृष्टान्तः न केवलं निरुपाख्यम् ।
10505 निरुपाख्ये अपि इयम् एव प्रवृत्तिर् निषिध्यते । अनुपलब्धि-
10506 लक्षणा असत्ता सिद्धा एव । सो अयं मूढो निमित्तं तद्-अभावं
10507 वा अभ्युपगम्य प्रवृत्ति-निवृत्ती विलोमयन् यथा अभ्युपगमं
10508 प्रतिपाद्यते निरुपाख्य-वद् अन्य-वद् वा इति । स एव तावद्
10509 उपलब्ध्य्-अभावः कथं सिद्ध इति चेत् । एतद् उत्तरत्र वक्ष्यामः ।
10510 अन्यत्र अप्य् अनुमाने साध्य-धर्मेण व्याप्तं साधनम्
10511 इच्छन् किम् इति दृष्टान्तेन प्रत्याय्यो व्याप्य-निर्देशाद् एव
10512 व्याप्नुवतः सिद्धेः । निश्चित-अर्थस्य अपि स्मृत्य्-अर्थो दृष्टान्त इति
10513 चेत् । तद् इतरत्र अपि समानं । सो अयम् अन्यत्र अनुपलम्भ-मात्राद्
10514 असद्-व्यवहारं प्रतिपद्यमानो अपि इह व्यामूढ इति
10515 स्मार्यते । अथ यद् इदं न सन्ति प्रधान-आदयो अनुपलब्धेर्
10516 इति । तत्र कथम् असद्-व्यवहार-विधिः सद्-व्यवहार-निषेधो
10517 वा । कथं च न स्यात् । तद्-अर्थ-प्रतिषेधे धर्मि-वाचिनो अप्रयोगाद्
10518 अभिधानस्य निर्विषयस्य च प्रतिषेधस्य अयोगात् । न एष
10519 दोषः । यस्मात् ।
10520 अनादि-वासना-उद्भूत-विकल्प-परिनिष्ठितः ।
10521 शब्द-अर्थस् त्रिविधो धर्मो भाव-अभाव-उभय-आश्रयः

1.206

10522 तस्मिन् भाव-अनुपादाने साध्ये अस्य अनुपलम्भनम् ।
10523 तथा हेतुर् न तस्य एव अभावः शब्द-प्रयोगतः

1.207

10524 निवेदितम् एतत् यथा न एते शब्दाः स्वलक्षण-विषया अनादि-
10525 वासना-प्रभव-विकल्प-प्रतिभासिनम् अर्थं विषयत्वेन आत्मसात्
10526 कुर्वन्ति वक्तुः श्रोतुस् च तद्-विकल्प-भाजो यथाप्रतिभासि-
10527 वस्तु-प्रतिपादन-समीह-अप्रयोगात् तद्-आकार-विकल्प-जननाच् च ।
10601 न च उपादान-कार्य-प्रत्यय-अप्रतिभासि रूपं शक्यं तद्-विषयत्वेन
10602 अध्यवसातुम् । स तु विकल्पः सद्-असद्-उभय-प्रत्यय-आहित-
10603 वासना-प्रभव इति तत्-प्रतिभास्य्-आकार-अध्यवसाय-वशेन
10604 च भाव-अभाव-उभय-धर्म इत्य् उच्यते । तद् अत्र धर्मिणि व्यवस्थिताः
10605 सदसत्त्वं चिन्तयन्ति किम् अयं प्रधान-शब्द-प्रतिभास्य्
10606 अर्थो भाव-उपादानो न वा इति । तस्य भाव-अनुपादानत्वे
10607 साध्ये स एव प्रत्यात्म-वेद्यत्वाद् अप्रतिक्षेप-अर्हो अर्थो धर्मी ।
10608 न च स एव अर्थः स्वलक्षणम् इति शक्यं वक्तुम् । असम्प्राप्त-निरुद्धयोर्
10609 अप्य् अर्थयोस् तस्य अनपायात् । वस्तु-विपरीत-आकार-निवेशिष्व्
10610 अपि तीर्थ-अनन्तरीय-प्रत्ययेषु भावात् ।
10611 परमार्थ-एक-तानत्वे शब्दानाम् अनिबन्धना ।
10612 न स्यात् प्रवृत्तिर् अर्थेषु दर्शन-अन्तर-भेदिषु

1.208

10613 अतीत-अजातयोर् वा अपि न च स्याद् अनृत-अर्थता ।
10614 वाचः कस्याश्चिद् इत्य् एषा बौद्ध-अर्थ-विषया मता

1.209

10615 इति संग्रहश्लोकौ । तस्य च यथा समीहित-रूप-अनुपादानत्वे
10616 साध्ये तथा अनुपलम्भो अस्य धर्मो अस्ति इति न साधन-धर्म-असिद्धिः ।
10617 न पुनर् अत्र अयम् एव शब्द-विकल्प-प्रतिभास्य् अर्थो अपह्नूयते ।
10618 तस्य बुद्धाव् उपस्थापनाय शब्द-प्रयोगात् । तद्-अभावे
10619 तद्-अयोगात् । अपि च ।
10620 शब्द-अर्थ-अपह्नवे साध्ये धर्म-आधार-निराकृतेः ।
10621 न साध्यः समुदायः स्यात् सिद्धो धर्मश् च केवलः

1.210

10623 यदि हि शब्द-अर्थ एव अपोह्येत प्रधान-शब्द-वाच्यस्य धर्मिण
10624 एव निराकरणान् निराधारः साध्य-धर्मः स्यात् । तद् अयम्
10625 आधार-व्यवच्छेद-अनपेक्षो न विवाद-आश्रय इति न उपन्यसनीय
10626 एव स्यात् । किं च ।
10627 सद्-असत्-पक्ष-भेदेन शब्द-अर्थ-अनपवादिभिः ।
10628 वस्त्व् एव चिन्त्यते ह्य् अत्र प्रतिबद्धः फल-उदयः

1.211

10629 अर्थक्रियासमर्थस्य विचारैः किं तद्-अर्थिनाम् ।
10630 षण्ढस्य रूप-वैरूप्ये कामिन्याः किं परीक्षया

1.212

10701 न हि शब्द-अर्थो असन् सन् वा कंचित् पुरुष-अर्थम् उपरुणद्धि
10702 समादधाति वा । यथा अभिनिवेशम् अतत्त्वात् । यथा अतत्त्वं च असमीहितत्वात् ।
10703 तद् अयं प्रवर्तमानः सर्वदा सद्-असच्-चिन्तायाम्
10704 अवधीरित-विकल्प-प्रतिभासो वस्त्व् एव अधिष्ठानीकरोति यत्र अयं
10705 पुरुष-अर्थः प्रतिबद्धो यथा अग्नौ शीत-प्रतीकार-आदिः । न ह्य्
10706 अत्र शब्द-अर्थः समर्थस् तद्-अनुभव-आप्ताव् अपि तद्-अभावात् ।
10707 तद् अयम् अर्थक्रिया-अर्थी तद्-असमर्थं प्रति दत्ता-अनुयोगो भवितुं
10708 न युक्तः । न हि वृषस्यन्ती षण्ढस्य रूप-वैरूप्य-परीक्षायाम्
10709 अवधत्ते । यत् पुनर् एतद् उक्तं कल्पितस्य अनुपलब्धिर्
10710 धर्म इति तस्य को अर्थः ।
10711 शब्द-अर्थः कल्पना-ज्ञान-विषयत्वेन कल्पितः ।
10712 धर्मो वस्त्व्-आश्रय-असिद्धिर् अस्य उक्तो न्यायवादिना

1.213

10713 कल्पना-विषयत्वाच् शब्द-अर्थ एव कल्पितः । तस्य वस्त्व् -आश्रय-अनुपलम्भो
10714 धर्म इत्य् अभिप्रायः । यद् उक्तम् न प्रमाण-
10715 त्रय-निवृत्ताव् अपि भाव-अभाव-सिद्धिर् इति । तन् मा भूद् अन्य-प्रमाण-
10716 अनिवृत्तौ निवृत्तिः । तयोर् असकल-विषयत्वाद् आगमः पुनर्
10717 न किंचिन् न व्याप्नोति । तन्-निवृत्तिः कथं न गमिका इति । उक्तम्
10718 अत्र न आगमेषु सर्व-अर्था उपनिबध्यन्ते अप्रकरण-आपन्नत्वाद्
10719 इति । अपि च ।
10720 नान्तरीयकता अभावाच् शब्दानां वस्तुभिः सह ।
10721 न अर्थ-सिद्धिस् ततस् ते हि वक्तृ-अभिप्राय-सूचकाः

1.214

10722 न हि शब्दा यथाभावं वर्तन्ते यतस् तेभ्यो अर्थ-प्रकृतिर्
10723 निश्चीयेत । ते हि वक्तुर् विवक्षा-वृत्तय इति तन्-नान्तरीयकास्
10724 ताम् एव गमयेयुः । न च पुरुष-इच्छाः सर्वा यथार्थ-भाविन्यः ।
10725 न च तद्-अप्रतिबद्ध-स्वभावो भावो अन्यं गमयति ।
10801 यत् तर्हि इदम् आप्त-वाद-अविसंवाद-सामान्याद् अनुमानता इत्य् आगमस्य
10802 प्रामाण्यम् अनुमानत्वम् उक्तम् तत् कथं । न अयं पुरुषो अनाश्रित्य आगम-
10803 आसितुं समर्थः । अत्यक्ष-फलानां केषांचित्
10804 प्रवृत्ति-निवृत्त्योर् महा-अनुशंसा-पाप-श्रवणात् तद्-भावे विरोध-
10805 अदर्शनाच् च । तत् सति प्रवर्तितव्ये वरम् एवं प्रवृत्त
10806 इति परीक्षया प्रामाण्यम् आह । तच् च ।
10807 सम्बद्ध-अनुगुण-उपायं पुरुष-अर्थ-अभिधायकम् ।
10808 परीक्षा-अधिकृतं वाक्यम् अतो अनधिकृतं परम्

1.215

10809 सम्बद्धो वाक्यानाम् एक-अर्थ-उपसंहार-उपकारः । न दश-दाडिम-आदि-
10810 वाक्यानाम् इव अनुपसंहार एव । अन्यथा वक्तुर् वैगुण्यम्
10811 उद्भावयेत् । अशक्य-उपाय-फलानि च शास्त्राणि फल-अर्थी न आद्रियेत
10812 विचारयितुम् अपुरुष-अर्थ-फलानि च । विष-शमनाय तक्षक-
10813 फण-रत्न-अलंकार-उपदेश-वत् काक-दन्त-परीक्षा-वच् च । तद् विपर्ययेण
10814 उपसंहार-वत् शक्य-उपायं पुरुष-अर्थ-अभिधायि च
10815 शास्त्रं परीक्ष्येत अन्यत्र अवधानस्य एव अयुक्तत्वात् । तद् यदि न
10816 परीक्षायां विसंवाद-भाक् प्रवर्तमानः शोभेत । कः पुनर्
10817 अस्य अविसंवादः ।
10818 प्रत्यक्षेण अनुमानेन द्विविधेन अप्य् अबाधकम् ।
10819 दृष्ट-अदृष्ट-अर्थयोर् अस्य अविसंवादस् तद्-अर्थयोः

1.216

10820 प्रत्यक्षेण अबाधनं प्रत्यक्ष-अभिमतानाम् अर्थानां तथाभावः
10821 यथा नील-आदि-सुख-दुःख-निमित्त-उपलक्षण-राग-आदि-बुद्धीनाम् ।
10822 अतथा-अभिमतानां च अप्रत्यक्षता यथा शब्द-आदि-रूप-
10823 संनिवेशिनां सुख-आदीनां द्रव्य-कर्म-सामान्य-संयोग-आदीनां
10824 च । तथा अनागम-अपेक्ष-अनुमान-विषय-अभिमतानां तथाभावः
10825 यथा चतूर्णाम् आर्यसत्यानाम् । अननुमेयानां तथाभावो
10901 यथा आत्म-आदीनाम् । आगम-अपेक्ष-अनुमाने अपि यथा राग-आदि-
10902 रूपं तत्-प्रभवं च अधर्मम् अभ्युपगम्य तत्-प्रहाणाय
10903 स्नान-अग्निहोत्र-आदेर् अनुपदेशः । स इयं शक्य-परिच्छेद-अशेष-विषय-
10904 विशुद्धिर् अविसंवादः ।
10905 आप्त-वाद-अविसंवाद-सामान्याद् अनुमानता ।
10906 बुद्धेर् अगत्या अभिहिता परोक्षे अप्य् अस्य गोचरे

1.217

10907 तस्य च अस्य एवंभूतस्य आप्त-भूतस्य अविसंवाद-सामान्याद् अदृष्ट-
10908 व्यभिचारस्य प्रत्यक्ष-अनुमान-आगम्ये अप्य् अर्थे प्रतिपत्तेस्
10909 तद्-आश्रयत्वात् तद्-अन्य-प्रतिपत्ति-वद् अविसंवादो अनुमीयते ।
10910 ततः शब्द-प्रभवा अपि सती न शाब्द-वद् अभिप्रायं निवेदयत्य्
10911 एव इत्य् अर्थ-अविसंवादाद् अनुमानम् अपि । अथवा अन्यथा आप्त-वादस्य
10912 अविसंवादाद् अनुमानत्वम् उच्यते ।
10913 हेय-उपादेय-तत्त्वस्य स उपायस्य प्रसिद्धितः ।
10914 प्रधान-अर्थ-अविसंवादाद् अनुमानं परत्र वा

1.218

10915 हेय-उपादेय-तद्-उपायानां तद्-उपदिष्टानाम् अवैपरीत्यम् अविसंवादः ।
10916 यथा चतूर्णाम् आर्यसत्यानां वक्ष्यमाणनीत्या । तस्य अस्य
10917 पुरुष-अर्थ-उपयोगिनो अभियोग-अर्थस्य अविसंवादाद् विषय-अन्तरे
10918 अपि तथात्व-उपगमो न विप्रलम्भाय अनुपरोधात् निष्प्रयोजन-
10919 वितथ-अभिधान-वैफल्याच् च वक्तुः । तद् एतद् अगत्या उभयथा
10920 अप्य् अनुमानत्वम् आगमस्य उपवर्णितम् । वरम् आगमात्
10921 प्रवृत्ताव् एवं प्रवृत्तिर् इति । न खल्व् एवम् अनुमानम् अनपायम्
10922 अनान्तरीयकत्वाद् अर्थेषु शब्दानाम् इति निवेदितम् एतत् ।
10923 पुरुष-अतिशय-अपेक्षं यथार्थम् अपरे विदुः ।
10924 यथार्थ-दर्शन-आदि-गुण-युक्तः पुरुष आप्तस् तत्-प्रणयनम् अविसंवाद
11001 इत्य् अन्ये ।
11002 इष्टो अयम् अर्थः शक्येत ज्ञातुं सो अतिशयो यदि

1.219

11003 सर्वे एव आगमम् अनागमं वा प्रवृत्ति-कामो अन्वेषते प्रेक्षा-
11004 पूर्व-कारी न व्यसनेन । अपि नाम अनुष्ठेयम् अतो ज्ञात्वा प्रवृत्तो
11005 अर्थवान् स्याम् इति । स शक्य-दर्शन-अविसंवाद-प्रत्ययेन अन्यत्र अपि
11006 प्रवर्तते । एवंप्रायत्वाल् लोक-व्यवहारस्य । पुरुष-परीक्षया
11007 तु प्रवृत्ताव् अप्रवृत्तिर् एव । तस्य तथाभूतस्य ज्ञातुम्
11008 अशक्यत्वात् न अनिष्टेः । तादृशाम् अवितथ-अभिधानात् । तथा हि ।
11009 अयम् एवं न वा इत्य् अन्य-दोष-अनिर्दोषता अपि वा ।
11010 दुर्लभत्वात् प्रमाणानां दुर्बोधा इत्य् अपरे विदुः

1.220

11011 चैतस्येभ्यो हि गुण-दोषेभ्यः पुरुषाः सम्यङ्-मिथ्या-प्रवृत्तः
11012 ते च अतीन्द्रियाः स्व-प्रभव-काय-वाग्-व्यवहार-अनुमेयाः
11013 स्युः । व्यवहाराश् च प्रायशो बुद्धि-पूर्वम् अन्यथा अपि कर्तुं
11014 शक्यन्ते पुरुष-इच्छा-वृत्तित्वात् तेषां च चित्र-अभिसन्धित्वात् ।
11015 तद् अयं लिङ्ग-संकरात् कथम् अनिश्चिन्वन् प्रतिपद्येत । अथ
11016 किं न एव स तादृशः पुरुषो अस्ति यो निर्दोषः ।
11017 सर्वेषां सविपक्षत्वान् निर्ह्रास-अतिशय-श्रिताम् ।
11018 स आत्मीभावात् तद्-अभ्यासाद् धीयेरन् आश्रवाः क्वचित्

1.222

11019 स तु प्रहीण-आश्रवो दुर्ज्ञानः । दोषा हि निर्ह्रास-अतिशय-धर्मणो
11020 विपक्ष-अभिभव-उत्कर्ष-अपकर्षं साधयन्ति ज्वाला-आदि-वत् । ते हि
11021 विकल्प-प्रभवाः सत्य् अप्य् उपादाने कस्यचिन् मनो-गुणस्य अभ्यासाद्
11022 अपकर्षिणः । तत्-पाटवे निरन्वय-विनाश-धर्माणः
11023 स्युः । ज्वाला-आदि-वद् एव । तेन स्याद् अपि निर्दोषः । कथं निर्दोषो
11024 नाम । यावता दोष-विपक्ष-सात्मत्वे अपि दोष-सात्मनो विपक्ष-उत्पत्ति-वद्
11025 यथा-प्रत्ययं दोष-उत्पत्तिर् अपि । न अयं दोषः । यस्मात् ।
11027 निरुपद्रव-भूत-अर्थ-स्वभावस्य विपर्ययैः॥
11028 न बाधा यत्नवत्त्वे अपि बुद्धेस् तत्-पक्ष-पाततः ॥221 ।
11101 न हि स्वभावो अयत्नेन विनिवर्तयितुं शक्यः । श्रोत्रिय-
11102 कापालिक-घृणा-वत् । यत्नश् च प्राप्य-निवर्त्ययोः स्वभावयोर्
11103 गुण-दोष-दर्शनेन क्रियेत । तच् च विपक्ष-सात्मनः पुरुषस्य
11104 दोषेषु न सम्भवति । तस्य निरुपद्रवत्वात् । अशेष-दोष-हानेः
11105 पर्यवस्थान-जन्म-प्रतिबद्ध-दुःख-विवेकात् प्रशम-सुख-
11106 रसस्य अनुद्वेजनाच् च । अभूत-अर्थं खल्व् अप्य् उपादान- बल-भावि-
11107 सन्तानस्य विपर्यय-उपादानान् न स्यात् । न तु भूत-अर्थम् वस्तु-
11108 बल-उत्पत्तेः । अभूत-अर्थाश् च दोषा न प्रतिपक्ष-सात्म्य-बाधिनः ।
11109 तस्मान् न पुनर् दोष-उत्पत्तिः । यत्ने अपि बुद्धेर् गुण-पक्ष-
11110 पातेन प्रतिपक्ष एव यत्न-आधानात् परीक्षावतो विशेषेण अदुष्ट-
11111 आत्मनः । कः पुनर् एषां दोषाणां प्रभवो यत्-प्रतिपक्ष-
11112 अभ्यासात् प्रहीयन्ते ।
11113 सर्वासां दोष-जातीनां जातिः सत्कायदर्शनात्॥
11114 सा अविद्या तत्र तत्-स्नेहस् तस्माद् द्वेष-आदि-सम्भवः

1.223

11115 न हि न अहं न मम इति पश्यतं परिग्रहम् अन्तरेण क्वचित्
11116 स्नेहः । न च अननुरागिणः क्वचिद् द्वेषः । आत्म-आत्मीय-अनुपरोधिन्य्
11117 उपरोध-प्रतिघातिनि च तद्-अभावात् । तस्मात् समान-जातीय-अभ्यासजम्
11118 आत्म-दर्शनम् आत्मीय-ग्रहं प्रसूते । तौ च तत्-स्नेहं
11119 स च द्वेष-आदीनि इति सत्कायदर्शनजाः सर्व-दोषाः । तद् एव च अज्ञानम्
11120 इत्य् उच्यते ।
11121 मोहो निदानं दोषाणाम् अत एव अभिधीयते॥
11122 सत्कायदृष्टिर् अन्यत्र तत्-प्रहाणे प्रहाणतः

1.224

11123 मोहं दोष-निदानम् आहुः अमूढस्य दोष-अनुत्पत्तेः पुनर्
11124 अन्यत्र सत्कायदृष्टिम् । तच् च एतत् प्रधान-निर्देशे सति स्याद्
11125 अनेक-जन्मनां दोषाणाम् एक-उत्पत्ति-विरोधात् । न च द्वयोः प्राधान्ये
11201 एकैक-निर्देशः पर-भाग-भाक् । उभयथा अप्य् एकस्य
11202 निर्देशे न विरोधः । प्राधान्यं पुनस् तद्-उपादानत्वेन ।
11203 तत्-प्रहाणे दोषाणां प्रहाणात् । तस्मात् सम्भवति सत्कायदर्शन-
11204 जन्मनां दोषाणां तत्-प्रतिपक्ष-नैरात्म्य-दर्शन-अभ्यासात्
11205 प्रहाणम् । स तु क्षीण-दोषो दुरन्वयो यद्-उपदेशाद् अयं प्रतिपद्येत ।
11206 मा भूत् पुरुष-आश्रयं वचनम् आगमः प्रणेतुर्
11207 दुरन्वयत्वात् ।
11208 गिरां मिथ्यात्व-हेतूनां दोषाणां पुरुष-आश्रयात्॥
11209 अपौरुषेयं सत्य-अर्थम् इति केचित् प्रचक्षते

1.225

11210 न खलु सर्व एव आगमः सम्भाव्य-विप्रलम्भः । विप्रलम्भ-
11211 हेतूनां दोषाणां पुरुष-आश्रयाद् अपौरुषेयं सत्य-अर्थम् इत्य्
11212 एके । कारण-अभावो हि कार्य-अभावं साधयति इति । य एवंवादिनस्
11213 तान् एव प्रति ।
11214 गिरां सत्य-अर्थ-हेतूनां गुणानां पुरुष-आश्रयात्॥
11215 अपौरुषेयं मिथ्या-अर्थं किं न इत्य् अन्ये प्रचक्षते

1.226

11216 यथा राग-आदि-परीतः पुरुषो मृषा-वादी दृष्टस् तथा दया-धर्मता-
11217 आदि-युक्तः सत्य-वाक् । तद् यथा वचनस्य पुरुष-आश्रयान् मिथ्या-अर्थता
11218 तथा सत्य-अर्थता अपि इति । स निवर्तमानस् ताम् अपि निवर्तयति
11219 इत्य् आनर्थक्यं स्याद् विपर्ययो वा । न हि शब्दाः प्रकृत्या अर्थवन्तः ।
11220 समयात् ततो अर्थ-ख्यातेः काय-संज्ञा-आदि-वत् । अप्रातिकूल्यं
11221 तु योग्यता समये तद्-इच्छा-प्रणयनात् । निसर्ग-सिद्धेष्व्
11222 इच्छा-वशात् प्रतिपादन-अयोगात् । ते अनर्थकाः पुरुष-संस्काराद्
11223 अर्थवन्तः स्युः । तत्-संस्कार्यता एव च एषां पौरुषेयता युक्ता
11224 न उत्पत्तिः । तत एव अर्थ-विप्रलम्भात् । उत्पन्नो अप्य् अन्यथा समितो
11225 न उपरोधी तद्-अन्य-पुरुष-धर्म-वत् । तद् अयं निवर्तमानः
11226 स्व-कृत-समय-सम्भवाम् अर्थ-प्रतिभां निवर्तयति ।
11227 तत् कुतस् तन्-निवृत्त्या सत्य-अर्थता । अथ पुनर् उत्पत्तिर् एव पौरुषेयता ।
11301 न समय-आख्यानम् ।
11302 अर्थ-ज्ञापन-हेतुर् हि संकेतः पुरुष-आश्रयः॥
11303 गिराम् अपौरुषेयत्वे अप्य् अतो मिथ्यात्व-सम्भवः

1.227

11304 किं ह्य् अस्य अपौरुषेयतया यतो हि समयाद् अर्थ-प्रतिपत्तिः
11305 स पौरुषेयो वितथो अपि स्यात् । शील-साधन-स्वर्ग-वचनं तद् अन्यथा
11306 समयेन विपर्यासयेत् । तेन अयथार्थम् अपि प्रकाशन-सम्भवात्
11307 स एव दोषः ।
11308 सम्बन्ध-अपौरुषेयत्वे स्यात् प्रतीतिर् असंविदः॥
11309 स्याद् एतद् अकार्य-सम्बन्धा एव शब्दाः । न ते अर्थेषु पुरुषैर्
11310 अन्यथा विपर्यस्यन्ते । तेन अदोष इति । किम् इदानीं संकेतेन ।
11311 स हि सम्बन्धो यतो अर्थ-प्रतीतिः । स चेद् अपौरुषेयो न अयं
11312 समयम् अपेक्षेत । अप्रतीत्य्-आश्रयो वा कथं सम्बन्धः ।
11313 संकेतात् तद्-अभिव्यक्ताव् असमर्थ-अन्य-कल्पना

1.228

11314 न वै सम्बन्धो विद्यमानो अप्य् अनभिव्यक्तः प्रतीति-हेतुः ।
11315 संकेतस् त्व् एनम् अभिव्यनक्ति । स तर्हि सिद्ध-उपस्थायी किम्
11316 अकारणं पोष्यते । नन्व् इयान् सम्बन्धस्य व्यापारो यद् अर्थ-
11317 प्रतीति-जननम् । तत् समयेन एव कृतम् इति । न अयोग्ये समयः
11318 समर्थ इति योग्यता तत्-सम्बन्धश् चेत् । तत् किं वै शब्दः
11319 सम्बन्धो अस्तु । समर्थं हि रूपं शब्दस्य योग्यता कार्य-
11320 कारण-योग्यता-वत् । सा चेद् अर्थ-अन्तरं किं शब्दस्य इति सम्बन्धो
11321 वाच्यः । योग्यता-उपकार इति चेत् । न । नित्यायाः निरतिशयत्वात् ।
11322 तत्र अप्य् अतिप्रसङ्गात् उपकार-असिद्धेः । योग्यतायां च स्वतो योग्यत्वे
11323 अर्थ एव किं न इष्यते । समयस् तर्हि कथं शब्द-अर्थ-
11324 सम्बन्धाः । पुरुषेषु वृत्तेः । न अमिश्राणां सिद्धानां कश्चित्
11325 सम्बन्धो अभेद-प्रसङ्गात् अनपेक्षणाच् च । अर्थ-विशेष-समीह-
11326 अप्रेरिता वाग् अत इदम् इति विदुषः स्व-निदान-आभासिनम् अर्थं
11327 सूचयति इति बुद्धि-रूप-वाग् विज्ञप्त्योर् जन्यजनकभावः सम्बन्धः
11401 ततः शब्दात् प्रतिपत्तिर् अविनाभावात् । तद्-आख्यानं
11402 समयः । ततः प्रत्यायक-सम्बन्ध-सिद्धेः सम्बन्ध-आख्यानात् ।
11403 न तु स एव सम्बन्धः । अस्तु वा अन्य एव नित्यः सम्बन्धः ।
11404 तेन
11405 गिराम् एक-अर्थ-नियमे न स्याद् अर्थ-अन्तरे गतिः॥
11406 न हि तेन सम्बन्धेन असम्बद्धे अर्थे प्रतीतिर् युक्ता । तस्य
11407 वैफल्य-प्रसङ्गात् । दृष्टश् च इच्छा-वशात् कृत-समयः सर्वः
11408 सर्वस्य दीपकः ।
11409 अनेक-अर्थ-अभिसम्बन्धे विरुद्ध-व्यक्ति-सम्भवः

1.229

11410 अथ मा भूद् दृष्ट-विरोध इति सर्वे सर्वस्य वाचकाः । तथा न
11411 सर्वः सर्व-साधनो असंकरात् कार्यकारणतायाः । तत्र प्रतिनियत-
11412 साधने अभिमते अर्थे सर्व-साध्य-साधन-साधारणस्य
11413 शब्दस्य-इष्ट-व्यक्तिम् एव समयकारः करोति इति कुत एतत् सो अनियतो
11414 नियमं पुरुषात् प्रतिपद्यते । तदा ।
11415 अपौरुषेयतायाश् च व्यर्था स्यात् परिकल्पना॥
11416 अपि नाम असंकीर्णम् अर्थं जानीयाम् इति संकर-हेतुः पुरुष-उपाकीर्णः ।
11417 तत्र यादृशाः पुरुषैः क्वचित् प्रयुक्ताः संकीर्यन्ते
11418 तादृशा एव सर्व-साधारणाः सन्तः क्वचित् तैर् विनियमितास्
11419 तत्त्व-अपरिज्ञानात् । प्रकृत्या एव वैदिका नियता इति चेत् । न उपदेशम्
11420 अपेक्षेरन् न अन्यथा संकेतेन प्रकाशयेयुः व्याख्या-विकल्पश्
11421 च न स्यात् । उपदेशस्य च इष्ट-संवादः शक्य-विकल्पे न अस्ति इति
11422 व्यर्था एव अपौरुषेयता ।
11423 वाच्यश् च हेतुर् भिन्नानां सम्बन्धस्य व्यवस्थितेः

1.230

11425 अर्था हि बाह्या न रूपं शब्दस्य न शब्दो अर्थानाम् । येन अभिन्न-
11426 आत्मतया व्यवस्था-भेदे अपि नान्तरीयकता स्यात् । कृतकत्व-
11427 अनित्यत्व-वत् । न अप्य् एते विवक्षा-जन्मानो ध्वनयो अजन्मानो
11428 वा विवक्षा-व्यङ्ग्याः न अर्थ-आयत्ताः । ततः कथम् इदानीं
11501 तत्-प्रतिनियम-संसाध्यं तद्-अन्वयं साधयेयुः । न ह्य्
11502 अप्रतिबद्धस् तत्-साधन इति ।
11503 असंस्कार्यतया पुम्भिः सर्वथा स्यान् निरर्थता॥
11504 संस्कार-उपगमे मुख्यं गज-स्नानम् इदं भवेत्

1.232

11505 इति संग्रहश्लोकः । अपि च । शब्द-अर्थयोः सम्बन्धो नित्यो वा
11506 स्याद् अनित्यो वा । यद्य् अनित्यः पुरुष-इच्छा वृत्तिर् अवृत्तिर् वा । अपुरुष-
11507 अधीनत्वे पुरुषाणां यथा अभिप्रायं देश-आदि-परावृत्त्या तेन
11508 प्रतिपादनं न स्यात् । इच्छायाम् अप्य् अनायत्तस्य कदाचिद् अयोगात् ।
11509 पर्वत-आदि-वत् । अयम् एव नित्यत्वे अपि दोषस् तस्य स्थिर-रूपस्य
11510 परावृत्त्य्-अयोगाद् इति समं सर्व-अवस्थाने अपि इष्ट-प्रतिनियम-अभावात् ।
11511 ततो विशेष-प्रतिपत्तिर् न स्याद् इति पूर्ववत् प्रसङ्गः ।
11512 इच्छा-वृत्तौ च पौरुषेयत्वम् इति विप्रलम्भ-आशङ्का । अपि च ।
11513 सम्बन्धिनाम् अनित्यत्वान् न सम्बन्धे अस्ति नित्यता ।
11514 पराश्रयो हि सम्बन्धो अप्रतिबन्धे तयोः सम्बन्धिता अयोगात् ।
11515 स च आश्रयो अनित्यः । अपाये अस्य सम्बन्धस्य अप्य् अपायः अन्यथा अनाश्रितः
11516 स्यात् । ततो न नित्यः । तद्-आश्रय-अर्थश् च वक्तव्यः ।
11517 नित्यस्य अनुपकार्यत्वात् । अनुपकुर्वाणश् च अनाश्रयः । जातेर् वाच्यत्वाद्
11518 अदोष इति चेत् । न । तद्-वचने प्रयोजन-अभावाद् इति निर्लोठितम्
11519 एतत् । सर्वत्र च जात्य्-असम्भवाद् अयोगो यादृच्छिकेषु व्यक्ति-
11520 वाचिषु सर्वदा जाति-चोदने विशेष-अन्तर-व्युदासेन प्रवृत्त्य्-अयोगाच्
11521 च । तस्माद् अन्वय-व्यतिरेकिणो भावस्य भाव-अभावौ सम्बन्धः ।
11523 अर्थैर् अतः स शब्दानां संस्कार्यः पुरुषैर् धिया ॥231 ।
11524 ताव् एव भाव-अभावाव् आश्रित्य-असंसृष्टाव् अपि संसृष्टाव् इव पुरुषस्य
11601 व्यवहार-भावनातः प्रतिभात इति पौरुषेयो भावानां
11602 संश्लेषः । किं च आश्रय-विनाशान् नष्टे सम्बन्धे स शब्दः पुनर्
11603 असम्बन्धत्वान् न अपूर्वेण योज्येत । उत्पन्न-उत्पन्नाश् च भावाः
11604 स्थित-सम्बन्ध-अभावाद् असम्बन्धिनो अवाच्याः स्युः । तत्र
11605 अपि ।
11606 अर्थैर् एव सह उत्पादे ।
11607 कल्प्यमाने
11608 न स्वभाव-विपर्ययः ।
11609 शब्देषु युक्तः ।
11610 अथ मा भून् नष्ट-सम्बन्धस्य शब्दस्य अर्थ-अन्तरे वैगुण्यं
11611 अर्थानां च अवाच्यता इत्य् उत्पन्नो अर्थः सम्बन्धवान् यद्य् उत्पद्येत
11612 स सम्बन्ध उत्पन्नो अपि न शब्दे स्यात् । तस्य तेन असम्बन्धि-
11613 स्वभावस्य स्वभाव-विपर्ययम् अन्तरेण तद्-भाव-अयोगात् ।
11614 अर्थेन सह उत्पन्नस्य अन्यतः सिद्धस्य अनुपकारिणि शब्दे
11615 असमाश्रयाच् च । तस्य अपि तदुत्पत्ति-सहकारित्वे समर्थस्य नित्य-उत्पादन-
11616 प्रसङ्गः । अनपेक्षत्वान् नित्यस्य अनुपकारात् । असामर्थ्ये
11617 अपि पश्चाद् अपि स्वभाव-अत्यागाद् अशक्तिः ।
11618 सम्बन्धे न अयं दोषो विकल्पिते

1.233

11619 न हि भाव-श्लेष-अपेक्षी पुरुष-भावना-प्रतिभासी तद्-अपेक्ष-अलक्षणः
11620 सम्बन्धः । सो अयम् नित्यानाम् अप्य् अपरावर्तयन् स्वभावं
11621 कुतश्चित् स्वयम् उत्प्रेक्ष्य घटयेद् इति ते अपि तथा
11622 स्युः । न च च्यवन-धर्माणः । यद् उक्तम् आश्रय-अपायेन आश्रित-
11623 सम्बन्ध-विनाशाद् अनित्यः स इति तत्र ।
11624 नित्यत्वाद् आश्रय-अपाये अप्य् अनाशो यदि जाति-वत् ।
11625 नित्येष्व् आश्रय-सामर्थ्यं किं येन इष्टः स आश्रयः

1.234

11626 श्रूयत एतन् नित्या जातिर् आश्रयिता च न अप्य् आश्रयेण सह नश्यति इति ।
11627 केवलं नित्येष्व् आश्रय-सामर्थ्यं न पश्यामः येन असाव् आश्रयः ।
11628 कृतस्य करण-अभावाद् अकारकस्य च अनपेक्षत्वात् । व्यक्तिर्
11629 उपकारो जातेः सम्बन्धस्य च आश्रयात् तेन आश्रय इति चेत्
11701 ज्ञान-उत्पादन-हेतूनां सम्बन्धात् सहकारिणाम् ।
11702 तद्-उत्पादन-योग्यत्वेन उत्पत्तिर् व्यक्तिर् इष्यते

1.235

11703 घट-आदिष्व् अपि युक्ति-ज्ञैर् अविशेषे अविकारिणाम् ।
11704 व्यञ्जकैः स्वैः कुतः को अर्थो व्यक्तास् तैस् ते यतो मताः

1.236

11706 सहकारिणः सकाशाद् उपादान-अपेक्षाद् ज्ञान-जनन-योग्य-क्षण-अन्तर-
11707 उत्पत्तिर् एव घट-आदीनाम् अभिव्यक्तिः । अन्यथा अनपेक्ष्य तद्-उपकारं
11708 ज्ञान-उत्पादन-प्रसङ्गात् । सामर्थ्य-कारिणश् च जनकत्वात् ।
11709 तस्य च तदात्मकत्वात् । अर्थान्तरत्वे च भाव-अनुपकार-
11710 प्रसङ्गात् सामर्थ्याच् च ज्ञान-उत्पत्तेर् नित्यं घट-आदीनाम्
11711 अग्रहण-आपत्तेर् अनालोक-अपेक्ष-ग्रहण-प्रसङ्गाद् अनपेक्ष-आत्म-अनुपकारात् ।
11712 तद् इमे स्व-विषय-ज्ञान-जनने परम् अपेक्षमाणास्
11713 ततः स्वभाव-अतिशयं स्वीकुर्वन्ति । तेन अस्य ते जन्याः । ज्ञेय-
11714 रूप-असाधनात् तु ज्ञान-वशेन कार्य-अतिशय-वाचिना शब्देन विशेष-
11715 ख्यात्य्-अर्थं व्यङ्ग्याः ख्याप्यन्ते । न एवं जाति-सम्बन्ध-आदयः
11716 कथंचिद् अप्य् अनुपकार्यत्वाद् अनुपकारिणा व्यक्ता युज्यते ।
11717 सम्बन्धस्य च वस्तुत्वे स्याद् भेदाद् बुद्धि-चित्रता ।
11718 स च अयं सम्बन्धो वस्तु भवन् नियमेन शब्द-अर्थाभ्यां
11719 भेद-अभेदौ न अतिवर्तते । रूपं हि वस्तु । तस्य अतत्त्वम् एव अन्यत्त्वम्
11720 इत्य् उक्तम् । स च अयम् ऐन्द्रियः सन् स्व-बुद्धौ तद्-अन्य-विवेकिन-
11721 अप्रतिभासमानो रूपेण कथं तथा स्यात् । दृश्य- अविवेक-अदर्शनयोर्
11722 विवेक-सत्ता-विपर्यय-आश्रयत्वात् । अन्यथा तत्-स्थितेर्
11723 अभाव-प्रसङ्गात् । अतीन्द्रियत्वाद् अप्रतिभासे अपि इन्द्रिय-आदिष्व् इव अदोष
11724 इति चेत् । न । ततो अप्रतिपत्ति-प्रसङ्गात् अप्रसिद्धस्य अज्ञापकत्वात् ।
11725 संनिधि-मात्रेण ज्ञापने अव्युत्पन्नानाम् अपि स्यात् ।
11726 न अनुमानात् प्रतिपत्तिर् लिङ्ग-अभावात् दृष्टान्त-असिद्धेश् च तत्र अप्य्
11801 अतीन्द्रियत्वेन साधन-अपेक्षणात् । तुल्यम् इन्द्रिय-आदिष्व् अपि इति चेत् । न ।
11802 तेषाम् अन्यथा-अनुमानात् । ज्ञानं हि केषुचित् सत्सु व्यतिरेक-अन्वय-वत्
11803 तन्-मात्र-असम्भवं तद्-व्यतिरिक्त-अपेक्षां च साधयति ।
11804 ततः कार्य-द्वारेण इन्द्रिय-सिद्धिः । न एवं सम्बन्धस्य । तस्य असिद्धौ
11805 तत्-कार्यस्य एव ज्ञानस्य अभावात् । न हि तत्र शब्द-रूपम्
11806 अर्थो वा लिङ्गं तयोः सर्वत्र योग्यत्वात् । विशेष-प्रतीति-समाश्रयस्य
11807 अप्रत्यायनाद् अप्रतीतिर् अस्य । न ह्य् असति सम्बन्ध-विशेषे
11808 सा युक्ता । तस्यां वा अनिमित्तायां तद्-विशेष-प्रतीति-नियम-वद्
11809 अर्थ-प्रतिपादनम् अपि शब्दानाम् अनिमित्तं किं न इष्यते । तस्मात्
11810 तत् सदृशं लिङ्गं सर्व-सम्बन्धे ततो अविशेषेण गमयेत् ।
11811 ततो अविशेषेण एव प्रतीतिः स्यात् सर्वस्य च । तस्मात् सम्बन्ध-
11812 सिद्ध्य्-अर्थ-प्रतीतेर् न कश्चित् सम्प्रदायम् अपेक्षेत । सम्प्रदाय-
11813 सहितस्य लिङ्गत्वम् इति चेत् । तत् किम् अनया परंपरया ।
11814 स एव सम्प्रदाय-अपेक्षो अर्थ-ज्ञापनं किं न करोति । स च शब्दो
11815 यद् अभिप्रायैः प्रयुज्यमानो दृष्टो अन्यथा न दृष्टो दर्शन-
11816 अदर्शनाभ्यां धूम-आदि-वत् तत्-प्रतीतिं जनयति इति स एव
11817 सम्बन्धो अविनाभाव-आख्यः । न च अत्र अन्यस्य सामर्थ्यं पश्यामः ।
11818 न अपि सिद्ध्य्-उपायम् । अथ पुनर् न शब्द-अर्थयोर् अन्य एव
11819 सम्बन्धः ।
11820 ताभ्याम् अभेदे ताव् एव न अतो अन्या वस्तुनो गतिः

1.237

11821 रूप-भेद-निबन्धनत्वाद् व्यवस्था-अन्तरस्य तद्-रूपं तद् एव
11822 स्यात् । धर्म-भेदस् तु स्यात् पूर्व-उक्त-क्रमेण । स च अविरुद्ध
11823 एव न वस्तु-भेदः । न च भेद-अभेदौ मुक्त्वा वस्तुनो अन्या
11824 गतिः । तस्य रूप-लक्षणत्वाद् । रूपस्य च एतद्-विकल्प-अनतिवृत्तेः ।
11825 अपि च ।
11826 भिन्नत्वाद् वस्तु-रूपस्य सम्बन्धः कल्पना-कृतः ।
11827 इत्य् उक्तं प्राक् । न हि श्लेष-लक्षणः सम्बन्धो अश्लिष्टेषु पदार्थेषु
11828 सम्भवति । न च अर्थ-अन्तरम् एषां सम्बन्धः । यस्मात्
11901 सद्-द्रव्यं स्यात् पर-अधीनं सम्बन्धो अन्यस्य वा कथम्

1.238

11903 न हि सिद्धं सत् परम् अपेक्षते । न अनपेक्षः स्वतन्त्रः सम्बन्धः ।
11904 द्रव्यम् इति च स्वभाव उच्यते । स कथं परभावस्य
11905 श्लेषः स्यात् । न हि स्वभाव-अन्तर-सत्तया अन्यः श्लिष्टो नाम ।
11906 मा भूद् अश्लिष्टेन श्लिष्टेन तु स्याद् इति चेत् । न । तस्य एव
11907 ताभ्यां श्लेष-असिद्धेः स एव असिद्धो यस् तौ श्लेषयेत् । तद् अयम्
11908 अतिप्रसङ्गो यद्य् अर्थाव् अर्थ-अन्तरेण श्लिष्यतो विशेष-अभावात् । किं
11909 च ।
11910 वर्णा निरर्थकाः सन्तः पद-आदि परिकल्पितम् ।
11911 अवस्तुनि कथं वृत्तिः सम्बन्धस्य अस्य वस्तुनः

1.239

11912 वाचको हि वचन-अङ्गेन तद्वान् स्यात् । सन्तो अप्य् अवाचका वर्णाः ।
11913 तन् न तेषु वाच्यवाचकसम्बन्धः । तद्-वृत्तौ स्वरूप-हानि-
11914 प्रसङ्गात् । क्रम-विशेषेण वाचका वर्णा इति चेत् । न । क्रमस्य अनर्थ-
11915 अन्तरत्वेन अभेदकत्वात् । तद्-रूपस्य क्रम-अन्तरे अप्य् अविशेषात्
11916 तुल्या स्यात् प्रतिपत्तिः । अर्थान्तरत्वम् अपि क्रमस्य निषेत्स्यामः ।
11917 तद् असति वर्णानां वाचकत्वे पद-आदि वाचकं स्यात् ।
11918 तच् च न किंचिद् व्यतिरेक-अव्यतिरेक-विरोधात् । तस्माद् इन्द्रिय-
11919 विज्ञान-विशेष-अनुबन्धी सभाग-वासना-उपादान -विकल्प-प्रतिभास-विभ्रमः
11920 पदम् । वाक्यं च एक-अवभासि मिथ्या एव । एक-अनेकत्व-
11921 अयोगात् । न ह्य् एकम् । अनेकया बुद्ध्या क्रमेण ग्रहण-अयोगात् ।
11922 न च तद् एकया ग्राह्यं वर्ण-अनुक्रम-ग्रहणात् । एक-वर्ण-
11923 ग्रहण-काले च अनेक-बुद्धि-व्यतिक्रमात् । क्षणिकत्वात् बुद्धीनाम् ।
11924 क्षणस्य एक-परमाणु-व्यतिक्रम-कालत्वात् । आधिक्ये विभागवतः
11925 पर्यवसान-अयोगात् । अनेक-अणु-व्यत्यय-निमेष-तुल्यकालत्वाद्
11926 अन्त्य-वर्ण-परिसमाप्तेः । यथा-अनुभवं स्मरणात्
11927 स्मृतिर् अपि तत्-काल एव । अनुभव-स्मरण-अनुक्रमयोर् विशेष-अनुपलक्षणत्वाच्
11928 च । न अप्य् अनेकं पद-आदि । अभेद-प्रतिभासनाद् बुद्धेस्
11929 तद्-अनेकत्वस्य निषेत्स्यमानत्वाच् च । तन् न वस्तु । तस्य
11930 एतद्-विकल्प-अनतिक्रमात् । वस्तु च सम्बन्धः । स कथं
12001 तद्-आश्रयः स्यात् । आश्रयनीय-अयोगात् । अनाश्रितो ह्य् एवं स्यात् ।
12002 तथा च असम्बन्धः । तस्मान् न स्वाभाविकः शब्द-अर्थयोः
12003 सम्बन्धः । तद्-अभिप्रायस्य प्रयोगाद् उत्पन्नो अभिव्यक्तो
12004 वा शब्दो तद्-अव्यभिचारी इति तत्त्वम् अस्य सम्बन्धः । सा च उत्पत्तिर्
12005 अभिव्यक्तिर् वा अव्यभिचार-आश्रयः पौरुषेयी इति पौरुषेय एव
12006 सम्बन्धस् तद्-द्वारेण च अर्थ-प्रत्यायने अनियमः शब्दानाम्
12007 इत्य् अपौरुषेयत्वे अपि स एव विप्रलम्भः ।
12008 अपौरुषेयता अपि इष्टा कर्तृऋणाम् अस्मृतेः किल ।
12009 या अपि इयम् अपौरुषेयता वेद-वाक्यानां कर्तुर् अस्मरणाद् वर्ण्यते ।
12011 सन्त्य् अस्य अप्य् अनुवक्तार इति धिग् व्यापकं तमः

1.240

12012 तस्य एव तावद् ईदृशं प्रज्ञा-स्खलितं कथं वृत्तम् इति सविस्मय-
12013 अनुकम्पं नश् चेतः । तद् अपरे अप्य् अनुवदन्ति इति निर्दय-
12014 आक्रान्त-भुवनं धिग् व्यापकं तमः । कः प्राणिनो हित-ईप्सा-
12015 विप्रलब्धस्य अपराधः । तथा हि स्मरन्ति सौगता मन्त्राणां
12016 कर्तृऋन् अष्टक-आदीन् । हिरण्यगर्भं च काणादाः । तेषां
12017 स मिथ्या-वाद इति चेत् । क इदानीम् एवं पौरुषेयो अन्यो अपि ।
12018 कुमारसम्भव-आदिष्व् आत्मानम् अन्यं वा प्रणेतारम् उपदिशन्तो
12019 यद् एवं प्रतिव्यूह्येरन् । तत्र प्रतिवहने अभ्युपेत-
12020 बाधा इति चेत् । नन्व् इदम् एव अभ्युपगम-अङ्गम् इति कस्य बाधा ।
12021 तत् परस्य अपि तुल्यम् एव । तस्य इष्टत्वाद् अदोष इति चेत् । कुतो अस्य इयम्
12022 इष्टिर् अप्रमाणिका प्राग् आसीत् । अकस्माद् ग्राही च अयं किं पुनः
12023 क्वचित् साधनम् अपेक्षते । यत् पौरुषेय-अपौरुषेय-चिन्तया
12024 आत्मानम् आयासयति । तत एव इष्टेर् अनभ्युपेत-बाधायां तद्-अन्यस्य
12025 अपि तुल्यम् इत्य् अनुपालम्भः । अनतिशय-दर्शी च अयं
12026 वाक्येष्व् एवंप्रकाराणाम् अपौरुषेयत्व-साधनानां कार्य-धर्माणां
12101 वा क्वचिद् अतिशयम् अभ्युपेत इत्य् अप्रत्यय एव अस्य वृत्तिः ।
12102 दृश्यन्ते च विच्छिन्न-क्रिया-सम्प्रदायाः कृतकाश् च । तान् यत्नवन्त
12103 उपलभन्त इति चेत् । न । नियम-अभावात् । अन्यत्र अनुपलम्भस्य
12104 उपलम्भस्य वा पर-उपदेशाद् अप्रत्ययाद् अनिश्चय-अर्थत्वात् ।
12105 स्वयं-कृतानाम् अप्य् अपह्नोतृ-दर्शनात् । निष्ठा-गमनस्य
12106 अशक्यत्वात् ।
12107 यथा अयम् अन्यतो अश्रुत्वा न इमं वर्ण-पद-क्रमम् ।
12108 वक्तुं समर्थः पुरुषस् तथा अन्यो अपि इति कश्चन

1.241

12109 तस्य अपि तद् एव उत्तरम् एवम् अपौरुषेयत्वे अपि किम् इदानीं पौरुषेयम्
12110 इत्य् आदि । तथा हि ।
12111 अन्यो वा रचितो ग्रन्थः सम्प्रदायाद् ऋते परैः ।
12112 दृष्टः को अभिहितो येन सो अप्य् एवं न अनुमीयते

1.242

12113 न खलु किंचिद् अन्यद् अपौरुषेयत्व-आश्रयो अन्यत्र इदानीन्तनानाम्
12114 अनुपदेश-पाठ-अशक्तेः । सा च अन्यत्र अप्य् एकेन रचिते ग्रन्थे अन्यस्य
12115 तुल्या । तद्-अनुसारिणा सर्वस् तथा उन्नेयो न वा कश्चित् । तस्य
12116 तथा अनिष्टत्वाद् इत्य् आदाव् अप्य् उक्तम् इष्टेस् तद्-आश्रयत्वाद् इत्य् आदि ।
12117 अपि च ।
12118 यज्-जातीयो यतः सिद्धः स तस्माद् अग्नि-काष्ठ-वत् ।
12119 अदृष्ट-हेतुर् अन्यो अप्य् अविशिष्टः सम्प्रतीयते

1.243

12120 न अदर्शनाद् हेतुर् अहेतुको नाम । अदृष्ट-हेतवो अपि हि भावास्
12121 तद्-अन्यैः स्वभाव-अभेदम् अनुभवन्तस् तथाविधाः समुन्नीयन्ते ।
12122 हेतु-रूप-निवृत्ताव् अपि तद्-रूपम् अनिवृत्तं कार्य-धर्म-
12123 व्यतिक्रमान् न ततः स्याद् इति न कश्चित् तथा वचनीयः ।
12124 रूप-विशेषो वा तथा दर्शनीयो य एनं हेतुम् अनुविदध्यात् । येन इष्ट-
12125 अनिष्टयोर् इष्ट-विपर्ययो न स्यात् । स्वभाव-निवृत्तेश् च हेतोर्
12126 अभेदने भावानां भेदः स्याद् आकस्मिक इति न क्वचिद् विनिवर्तेत ।
12127 तस्माद् यः स्वभावो यज्-जन्मा दृष्टः सो अन्यत्र अप्य् अविभज्यमानः
12128 स्वात्मना तत्-कार्य-धर्मतां न अतिवर्तते अग्नि-इन्धन-वत् ।
12201 तत्र अप्रदर्श्य ये भेदं कार्य-सामान्य-दर्शनात् ।
12202 हेतवः प्रवितन्यन्ते सर्वे ते व्यभिचारिणः

1.244

12203 यथा-अद्यो अपि पथिक-कृतो अग्निर् ज्वाला-अन्तर-पूर्वको न अरणि-निर्मथन-
12204 पूर्वकः । पथिक-अग्नित्वात् । अनन्तर-अग्नि-वद् इति । कथं
12205 पुनः पथिक-अग्नेर् व्यभिचारः । ज्वाला-उद्भव-सामर्थ्यं ह्य्
12206 आश्रित्य दहनस्य हेत्व्-अन्तरं प्रतिक्षिप्यते । यदि हि विना ज्वालया
12207 स्याद् अन्यत्र अपि स्याद् इति । तत्र ज्वाला-इतर-जन्मनोर् अबाध्यबाधकत्वे
12208 ज्वाला-अप्रभवत्वम् अन्यथा अपि स्याद् इति धर्मयोर्
12209 एकत्र अर्थे सम्भवात् स पथिक-अग्निर् अन्यो वा अर्थ एक-प्रतिनियतो
12210 न स्याद् इत्य् आशङ्क्यते व्यभिचारः । सो अप्य् अन्योन्य-व्यतिरेकी
12211 धर्म-द्वय-अवतारो वस्तु-सामान्ये अविरुद्ध इत्य् उच्यते न अवस्था-
12212 भेदिनि विशेषे । निष्कलस्य आत्मनस् तद्-अतत्त्व-विरोधात् । न च
12213 ज्वाला-इतर-जन्मनोर् बाध्यबाधकता पथिक-अग्नौ । तस्य ज्वाला-प्रभव-
12214 व्यतिरेकेण असम्भव-अभावात् । एवंभूतः पथिक-अग्निर्
12215 ज्वाला-प्रभव इति स्यात् । न सर्वः । तत्र विशेष-प्रतिक्षेपस्य
12216 कर्तुम् अशक्यत्वात् । सम्भवद्-विशेषस्य च तादवस्थ्य-अनियमात् ।
12217 यद् अपि विना ज्वालया स्याद् अन्यत्र अपि स्याद् इति । भवत्य् एव ।
12218 यया सामग्र्या सम्भवति सा यदि स्यात् अस्याः सम्भवं प्रदर्श्य
12219 तद्-अभावं प्रदर्शयेत् तत्र वा ज्वालाम् स्याद् एतत् ।
12220 तस्मान् न एकस्य पर-पूर्वकम् अध्ययनं सर्वस्य तथाभावं
12221 साधयति । तस्य अन्यथा असम्भव-अभावात् । तथाविधस्य
12222 तु तत्-क्रिया-प्रतिभा-रहितस्य तथा स्याद् इति । तथाभूतम्
12223 एवं वाच्यं स्यात् तद् अविशेषेण सम्भवद्-विशेषम् उच्यमानं
12224 छायां न पुष्णाति । कथं विशेषस्य सम्भवो यावता
12225 तेषाम् अपि पुरुषाणाम् अशक्तिर् एव इदानीन्तन-पुरुष-वत् । अत्र अपि
12226 शक्ति-पुरुषयोर् न किंचिद् विरोध-दर्शनम् इति न अविरुद्ध-विधिर्
12227 अनुपलब्धि-प्रयोगो गमकः । न ह्य् अतीन्द्रियेषु विरोध-गतिर्
12228 अस्ति इत्य् उक्तम् । न च अयं पूर्व-प्रयोगाद् भिद्यते । यदि पुरुषाः
12229 शक्ताः स्युर् इदानीन्तना अपि इति । विशेष-असम्भव एतत् स्यात् ।
12301 स च दुःसाधः । यत्र एकस्य अशक्तिस् तत्र सर्व-पुरुषाणाम् इत्य् अपि
12302 पूर्ववद् व्यभिचारि । भारत-आदिष्व् इदानीन्तनानाम् अशक्ताव्
12303 अपि कस्यचित् शक्ति-सिद्धेः । तस्मात् कारणानि विवेचयत अर्थेष्व्
12304 अपि तद्-अतत्-प्रतिभवेषु स्वभाव-भेदो दर्शनीयः । तद्-अभावे
12305 सर्वस् तदात्मा न वा कश्चित् । न च अत्र लौकिक-वैदिकयोः स्वभाव-
12306 भेदं पश्यामः । असति तस्मिंस् तयोः सामान्यस्य एव
12307 दृष्टेर् एकस्य कश्चिद् धर्मं विवेचयन् तत्-स्वभाव-सम्भविना
12308 तेन आशङ्क्य-व्यभिचार-वादः क्रियते । ननु वेद-अवेदयोस्
12309 तत्त्व-लक्षणो अस्त्य् एव विशेषः । सत्यम् अस्ति । न केवलं
12310 तयोर् एव । किं तर्हि । डिण्डिक-पुराण-इतरयोर् अपि । न च स्व-प्रक्रिया-
12311 भेद-दीपनो नाम-भेदः पुरुष-कृतिं बाधते । अन्यत्र
12312 अपि प्रसङ्गात् । यदि तादृशीं रचनां पुरुषाः कर्तुं न शक्नुयुः
12313 कृतां वा अकृत-संकेतो विवेचयेत् व्यक्तम् अपौरुषेयो
12314 वेदः । ननु न शक्नुवन्त्य् एव पुरुषा मन्त्रान् कर्तुम् । एतद्
12315 उत्तरत्र विचारयिष्यामः । अपि च । न मन्त्रो नाम अन्यद् एव
12316 किंचित् । किं तर्हि । सत्य-तपः-प्रभाववतां समीहित-अर्थ-साधनं
12317 वचनम् । तद् अद्यत्वे अपि पुरुषेषु दृश्यत एव । यथास्वं
12318 सत्य-अधिष्ठान-बला विष-दहन-आदि-स्तम्भन-दर्शनात् ।
12319 शबराणां च केषांचिद् अद्य अपि मन्त्र-करणात् । अवैदिकानां
12320 च बौद्ध-आदीनां मन्त्र-कल्पानां दर्शनात् । तेषां च पुरुष-
12321 कृतेः । तत्र अप्य् अपौरुषेयत्वे कथम् इदानीम् अपौरुषेयम्
12322 अवितथम् । तथा हि बौद्ध-इतरयोर् मन्त्र-कल्पयोर् हिंसा-
12323 मैथुन-आत्म-दर्शन-आदयो अनभ्युदय-हेतवो अन्यथा च वर्ण्यते ।
12324 तत् कथम् एकत्र विरुद्ध-अभिधायि द्वयम् सत्यं
12325 स्यात् । तत्र अर्थ-अन्तर-कल्पने तद् अन्यत्र अपि तुल्यम् इत्य् अर्थ-अनिर्णयात्
12326 क्वचिद् अप्रतिपत्तिः । तथा च सद् अप्य् अनुपयोगम् अपौरुषेयम् ।
12327 बौद्ध-आदीनाम् अमन्त्रत्वे तद्-अन्यत्र अपि कोष-पानं
12328 स्यात् करणीयम् । विष-कर्म-अधिकृतो बौद्धा अपि दृश्यन्ते । तत्र अमन्त्रत्वम्
12401 अपि विप्रतिषिद्धम् । मुद्रा-मण्डल-ध्यानैर् अप्य्
12402 अनक्षरैः कर्माणि क्रियन्ते । न च तान्य् अपौरुषेयाणि नित्यानि
12403 युज्यते । तेषां क्रिया-सम्भवे अक्षर-रचनायां कः प्रतिघातः
12404 पुरुषाणाम् । तस्मान् न किंचिद् अशक्य-क्रियम् एषाम् । कथम्
12405 इदानीं सत्य-प्रभवौ मन्त्र-कल्पौ परस्पर-विरोधिनौ । न
12406 वै सर्वत्र तौ सत्य-प्रभवौ । प्रभाव-युक्त-पुरुष-प्रतिज्ञा-
12407 लक्षणाव् अपि तौ स्तः । स प्रभावो गति-सिद्धि-विशेषाभ्याम् अपि
12408 स्यात् । यदि पौरुषेया मन्त्राः किं न सर्वे पुरुषा मन्त्र-कारिणः ।
12409 तत्-क्रिया-साधन-वैकल्यात् । यदि तादृशैः सत्य-तपः-प्रभृतिभिर्
12410 युक्ताः स्युः कुर्वन्त्य् एव । अपि च काव्यानि पुरुषः करोति इति
12411 सर्वः पुरुषः काव्य-कृत् स्यात् । अकरणे वा न एव कश्चित् तद्वद्
12412 इत्य् अपूर्वा एषा वाचो-युक्तिः । सत्यं मन्त्र-क्रिया-साधन-विकला
12413 मन्त्रान् न कुर्वते । तत् तु कस्यचित् साकल्यं न पश्यामः ।
12414 पुरुषाणां समान-धर्मत्वात् । उक्तम् अत्र न मन्त्रो नाम अन्यद्
12415 एव किंचित् सत्य-आदिमतां वचन-समयाद् इति । तानि च क्वचित्
12416 पुरुषेषु दृश्यन्ते । सर्व-पुरुषास् तद्-रहिता इत्य् अपि तत्-सम्भव-
12417 विरोध-अभावाद् अनिर्णयः । न च अत्यक्ष-स्वभावेष्व् अनुपलब्धिर्
12418 निश्चय-हेतुः । न च स्मृति-मति-प्रतिवेध-सत्य-शक्तयः
12419 सर्व-भाविन्यः । तत्-साधन-सम्प्रदाय-भेद-वद् गुण-अन्तर-
12420 साधनान्य् अपि स्युः । न अपि सन्न् अपि सर्वो द्रष्टुं शक्यः । अत
12421 एव अदृष्टस्य अनपह्नवः । न अपि पुरुषेषु उत्पित्सोः कस्यचिद् गुणस्य
12422 प्रतिरोद्धा । बाध्य-अदृष्टेर् बाध्यबाधकभाव-असिद्धेः । एतेन
12423 सर्व-ज्ञान-प्रतिषेध-आदयो अपि निर्वर्णित-उत्तराः । तत्र अप्य् एवंभूतो
12424 यादृशो अयम् असम्भवत्-तत्-साधन-सम्प्रदायो न इति न्यायः ।
12425 न अदृष्ट-ज्ञापको अतत्-स्वभाव इत्य् अपि । सतां अपि कार्य-अनारम्भ-
12426 सम्भवात् । स्वभाव-विप्रकर्षेण द्रष्टुम् अशक्यत्वाच् च ।
12427 तस्माद् अध्ययनम् अध्ययन-अन्तर-पूर्वकम् अध्ययनाद् इति
12428 भारत-अध्ययने अपि भावाद् व्यभिचारि । ननु वेदने विशेषणाद्
12429 अदोषः । कः पुनर् अतिशयो वेद-अध्ययनस्य यद् अन्यथा अध्येतुं
12430 न शक्यते । न हि विशेषणम् अविरुद्धं विपक्षेण अस्माद्
12431 हेतुं व्यावर्तयति । अविरुद्धयोर् एकत्र सम्भवात् । इदानीन्तनानाम्
12501 अध्ययनाद् इति चेत् । उक्त-उत्तरम् एतत् । अदर्शनाद्

12502 इति चेत् । इदम् अपि प्रतिव्यूढम् । न अप्य् अदर्शन-मात्रम् अभावं
12503 गमयति इति व्यभिचार एव । तस्मान् न विशेषणम् अतिशय-
12504 भाग् इत्य् अनुपात्त-समम् । यत् किंचिद् वेद-अध्ययनं सर्वं
12505 तद्-अध्ययन-अन्तर-पूर्वकम् इत्य् अपि व्याप्तिर् न सिध्यति ।
12506 सर्वस्य तथाभाव-असिद्धेः । यादृशं तु तन्-निमित्तं दृष्टं
12507 तत् तथा इति स्यात् । दृष्टे विशेषे तन्-निमित्ततया तत्-त्यागेन सामान्य-
12508 ग्रहणं व्यभिचार्य् एव । हुताशन-संसिद्धौ पाण्डु-द्रव्यत्व-वत् ।
12509 एतेन वचन-आदयो राग-आदि-साधने प्रत्युक्ताः । अस्तु
12510 वेदम् अध्ययनम् अध्ययन-पूर्वता-साधनम् ।
12511 सर्वथा अनादिता सिध्येद् एवं न अपुरुष-आश्रयः ।
12512 तस्माद् अपौरुषेयत्वे स्याद् अन्यो अप्य् अनर-आश्रयः

1.245

12513 पुरुष एव हि स्वयम् अभ्यूह्य परतो वा आधीयते । न एषाम् अव्यापृत-
12514 करणानां स्वयं शब्दा ध्वनन्ति येन अपौरुषेयाः स्युः ।
12515 अपि स्युर् अपौरुषेया यदि पुरुषाणाम् आदिः स्यात् । तदा अप्य् अन्य-
12516 पूर्वकं न सिध्यति । अध्यापयितुर् अभावात् । तत् प्रथमो
12517 अध्येता कर्ता एव स्यात् । तद् अयम् अनादिः पूर्व-पूर्व-दर्शन-
12518 प्रवृत्तो डिम्भक-पांसु-क्रीडा-आदि-वत् पुरुष-व्यवहार इति स्यात् ।
12519 न अपौरुषेय इति । अनादित्वाद् अपौरुषेयत्वे बहुतरम् इदानीम्
12520 अपौरुषेयम् । तथा हि ।
12521 म्लेच्छ-आदि-व्यवहाराणां नास्तिक्य-वचसाम् अपि ।
12522 अनादित्वात् तथाभावः पूर्व-संस्कार-सन्ततेः

1.246

12523 म्लेच्छ-व्यवहारा अपि केचिन् मातृ-विवाह-आदयो मदन-उत्सव-आदयश्
12524 च अनादयः । नास्तिक्य-वचांसि च अपूर्व-परलोक-आद्य्-अपवादीनि । न
12525 हि तान्य् अनाहित-संस्काराः परैः प्रवर्तयन्ति । स्व- प्रतिभा-रचित-
12526 समयानाम् अपि यथा अश्रुत-अर्थ-विकल्प-संहारेण एव प्रवृत्तेः ।
12527 तत् किंचित् कुतश्चिद् आगतम् इत्य् एकस्य उपदेष्टुः प्रबन्धेन अभावाद्
12528 अपर-पूर्वकम् इत्य् उच्यते । प्राग् एव यथा-दर्शन-
12529 प्रवृत्तयः सम्यङ्-मिथ्या-प्रवृत्तयो लोक-व्यवहाराः । नन्व्
12530 आदि-कल्पिकेष्व् अदृष्टा एव व्यवहाराः पश्चात् प्रवृत्ता इष्यन्ते ।
12601 न । तेषाम् अप्य् अन्य-संस्कार-आहितानां यथा-प्रत्ययं प्रबोधात् ।
12602 भवतु सर्वेषाम् अपौरुषेयत्वम् इति चेत् ।
12603 तादृशे अपौरुषेयत्वे कः सिद्धे अपि गुणो भवेत् ।
12604 कामम् अविसंवादकम् इत्य् अपौरुषेयत्वम् इष्टम् । तद् विसंवादकानाम्
12605 अपि केषांचिद् अनादित्वाद् अस्ति इति किम् अपौरुषेयत्वेन ।
12606 सति वा वेद-वाक्यानाम् एव अपौरुषेयत्वे ।
12607 अर्थ-संस्कार-भेदानां दर्शनात् संशयः पुनः

1.247

12608 यदि अपौरुषेयत्वे अपि प्रतिनियताम् एव तद्-अर्थ-प्रतिभां
12609 जनयेद् आश्वासनं स्यात् । यथेष्टं तु समारोप-अपवादाभ्यां
12610 नैरुक्त-मीमांसक-आदयो वेद-वाक्यानि विशसन्तो दृश्यन्ते । न
12611 च ते अर्थास् तेषां न संघटन्ते । समय-प्राधान्याद् अर्थ-निवेशस्य
12612 एकस्य अपि वाक्यस्य अनेक-विकल्प-सम्भवात् । प्रकृति-प्रत्ययानाम्
12613 अनेक-अर्थ-पाठात् । रूढेर् अप्य् एकान्तेन अननुमतेः । अरूढ-
12614 शब्द-बाहुल्यात् । तद्-अर्थस्य पुरुष-उपदेश-अपेक्षणात् । तद्-उपदेशस्य
12615 तद्-इच्छा-अनुवृत्तेर् अनिर्णय एव वेद-वाक्य-अर्थेषु ।
12616 अपि च । अयम् अपौरुषेयत्वं साधयन् वर्णानां वा साधयेद्
12617 वाक्यस्य वा । तत्र ।
12618 अन्य-अविशेषाद् वर्णानां साधने किं फलं भवेत् ।
12619 न हि लोक-वेदयोर् नाना वर्णाः । भेदे अपि च प्रत्यभिज्ञान-अविशेषात्
12620 तत एकत्व-असिद्धि-प्रसङ्गाद् भेद-अनुपलक्षणाच् च वैदिक-
12621 वर्ण-असिद्धिः प्रत्यभिज्ञानाद् अप्रतिपत्ति-प्रसङ्गात् । अनभ्युपगमाच्
12622 च । तेषां च अपौरुषेयत्व-साधने ते तुल्याः सर्वत्र
12623 इति किम् अनेन परिशेषितम् । तथा च सर्वो व्यवहारो अपौरुषेयः ।
12624 न च सर्वो अवितथ इति व्यर्थः परिश्रमः । अथ वाक्यम्
12625 अपौरुषेयम् इष्टम् ।
12701 वाक्यं न भिन्नं वर्णेभ्यो विद्यते अनुपलम्भनात्

1.248

12703 न हि वयं देवदत्त-आदि-पद-वाक्येषु दकार-आदि-प्रतिभासं मुक्त्वा
12704 अन्यं प्रतिभासं बुद्धेः पश्यामः । द्वितीय-वर्ण-प्रतिभास-वत् ।
12705 न च अप्रतिभासमानं ग्रहणे ग्राह्यतया इष्टम् अस्त्य्
12706 अन्यद् वा इति शक्यम् अवसातुम् । आकार-अन्तर-वत् । अन्य-असम्भवि
12707 कार्यं गमकम् इति चेत् । स्याद् एतत् यदि तेषु वर्णेषु सत्सु अपि
12708 तत् कार्यं न स्यात् । न भवति तेषाम् अविशेषे अपि पद-वाक्य-अन्तरे
12709 अभावाद् इति चेत् । न । तेषाम् अविशेष-असिद्धेः । अविशेषः प्रत्यभिज्ञानात्
12710 सिद्ध इति चेत् । न । तस्य व्यभिचाराद् अनिदर्शनत्वाच्
12711 च । वर्ण-अविशेषे अपि वाक्य-भेदात् प्रतिपत्ति-भेदः कार्य-भेदः
12712 स्यात् । सा च वाक्यात् । तच् च अतीन्द्रियम् इति कुतः स्यात् । संनिधान-
12713 मात्रेण जनने अव्युत्पन्नस्य अपि स्यात् । तस्मान् न वाक्यं
12714 नाम किंचिद् अर्थ-अन्तरं वर्णेभ्यो यस्य अपौरुषेयत्वं साध्येत ।
12715 तद्-अभावाद् वेद-अविशिष्ट-वर्ण-अपौरुषेयत्वम् अपि प्रथम-
12716 पक्षे प्रत्युक्तम् । अपि च अस्त्व् अर्थ-अन्तरं वाक्यम् ।
12717 तद् अनेक-अवयव-आत्मकं वा स्याद् अनवयवं वा ।
12718 अनेक-अवयव-आत्मत्वे पृथक् तेषां निरर्थता ।
12719 ते अपि तस्य बहवो अवयवाः पृथक् प्रकृत्या यद्य् अनर्थकाः ।
12720 अतद्-रूपे च ताद्रूप्यं कल्पितं सिंहता-आदि-वत्

1.249

12721 अर्थवान् एव आत्मा वाक्यम् । ते च अवयवाः स्वयम् अनर्थकाः ।
12722 तेषु स आत्मा कल्पना-समारोपितः स्यात् । सिंहता-आदि-वन् माणवक-
12723 आदिष्व् इति पौरुषेय एव । अथ मा भूद् एष दोष इति प्रत्येकं
12724 ते अवयवाः सा अर्थका इष्यन्ते ।
12801 प्रत्येकं सा अर्थकत्वे अपि मिथ्या-अनेकत्व-कल्पना ।
12802 एक-अवयव-गत्या च वाक्य-अर्थ-प्रतिपद् भवेत्

1.250

12803 परिसमाप्त-अर्थं हि शब्द-रूपं वाक्यम् । ते च अवयवास् तथाविधाः
12804 पृथक् पृथग् इति प्रत्येकं ते वाक्यम् । तथा च न अनेक-
12805 अवयवं वाक्यम् । एक-अवयव-प्रतिपत्त्या च वाक्य-अर्थ-प्रतिपत्तेर्
12806 अवयव-अन्तर-अपेक्षा काल-क्षेपश् च न स्यात् । तस्य निष्कल-
12807 आत्मनः क्षणेन प्रतिपत्तेर् एक-ज्ञान-उत्पत्तौ निःशेष-अवगमात् ।
12808 अन्यथा च एकत्व-विरोधात् ।
12809 सकृच् श्रुतौ च सर्वेषां काल-भेदो न युज्यते ।
12810 अथ मा भूद् अवयव-अन्तर-अप्रतीक्षणेन एकस्माद् एव अवयवाद्
12811 वाक्य-अर्थ-सिद्धेर् अनेक-अवयवत्व-हानिर् वाक्यस्य इति सकृत् सर्व-
12812 अवयवानां श्रवणम् इष्यते । तदा अपि काल-क्षेपो न युक्त एव ।
12813 एक-अवयव-प्रतिपत्ति-काल एव सर्वेषां श्रवणात् । क्रम-श्रवणे
12814 च पृथग् अर्थवताम् एकस्माद् एव तद्-अर्थ-सिद्धेर् अन्यस्य
12815 वैयर्थ्यात् । सकृच् श्रुतौ च पृथग् अर्थेष्व् अदृष्ट-सामर्थ्यानाम्
12816 अर्थवत्ता च न सिध्यति । सहितेष्व् अर्थ-दर्शनाद् अदोषः ।
12817 न । पृथग् असतो रूपस्य संघाते अप्य् असम्भवात् । अर्थ-अन्तर-अनुत्पत्तेश्
12818 च । शब्द-उत्पाद-वादिनस् तावद् अयम् अदोष एव । पृथग्
12819 असमर्थानाम् अप्य् अवयवानाम् उपकार-विशेषाद् अतिशयवतां
12820 कार्य-विशेष-उपयोगात् । प्रत्येकं त्व् अवयवेषु समर्थेषु व्यर्था
12821 स्याद् अन्य-कल्पना । अथ पुनर् एकम् एव अनवयवं वाक्यम् ।
12822 तत्र ।
12823 एकत्वे अपि ह्य् अभिन्नस्य क्रमशो गत्य्-असम्भवात्

1.251

12824 काल-भेद एव न युज्यते । न ह्य् एकस्य क्रमेण प्रतिपत्तिर्
12825 युक्ता । गृहीत-अगृहीतयोर् अभेदात् । क्रमेण च वाक्य-प्रतिपत्तिर्
12826 दृष्टा । सर्व-वाक्य-व्याहार-श्रवण-स्मरण-कालस्य अनेक-क्षण-निमेष-
12827 अनुक्रम-परिसमाप्तेः । वर्ण-रूप-असंस्पर्शिनश् च एक-बुद्धि-प्रतिभासिनः
12828 शब्द-आत्मनो अप्रतिभासनात् । वर्ण-अनुक्रम-प्रतीतेः ।
12829 तद्-अविशेषे अप्य् अनुक्रम-कृतत्वाद् वाक्य-भेदस्य अनुक्रमवती
12901 वाक्य-प्रतीतिः । वर्ण-अनुक्रम-उपकार-अनपेक्षणे तैर् यथा कथंचित्
12902 प्रयुक्तैर् अपि यत् किंचिद् वाक्यं प्रतीयेत विना वा
12903 वर्णैः । तैर् अनुक्रमवद्भिर् अक्रमस्य उपकार-अयोगात् । अक्रमेण
12904 च व्याहर्तुम् अशक्यत्वात् । गत्य्-अन्तर-अभावाच् च । न एव
12905 वाक्ये वर्णाः सन्ति तद् एकम् एव शब्द-रूपं व्यञ्जक-अनुक्रम-
12906 वशाद् अनुक्रम-वद् वर्ण-विभाग-वच् च प्रतिभाति इति चेत् ।
12907 अनुक्रमवता व्यञ्जकेन अक्रमस्य व्यक्तिः प्रत्युक्ता । व्यक्त-
12908 अव्यक्त-विरोधाद् अवर्ण-भागे च वाक्ये असकल-श्राविणो असकल-वाक्य-
12909 गतिर् न स्यात् एकस्य शकल-अभावात् सकल-श्रुतिर् न वा कस्यचित् ।
12910 समस्त-वर्ण-संस्कारवत्या अन्त्यया बुद्ध्या वाक्य-अवधारणम्
12911 इत्य् अपि मिथ्या । तस्य अवर्ण-रूप-संस्पर्शिनः कस्यचित् कदाचिद्
12912 अप्रतिपत्तेः । वर्णानां च अक्रमेण अप्रतिपत्तेः कुतो अक्रमम्
12913 एक-बुद्धि-ग्राह्यं वाक्यं नाम । न च अन्त्य-वर्ण-प्रतिपत्तेर्
12914 ऊर्ध्वम् अन्यम् अशकलं शब्द-आत्मानम् उपलक्षयामः । न अपि
12915 स्वयम् अयं वक्ता विभावयति । केवलम् एवं यदि स्यात् साधु
12916 मे स्याद् इति कल्याण-कामता-मूढ-मतिर् अन्त्यायां बुद्धौ समाप्त-कलः
12917 शब्दो भाति इति स्वप्नायते । न हि स्मर्यमाणायोर्
12918 अपि पद-वाक्ययोर् वर्णाः क्रम-विशेषम् अन्तरेण विभाव्यन्ते ।
12919 अक्रमायां बुद्धौ पौर्वापर्य-अभावात् । तेषां तत्-कृतः पद-
12920 वाक्य-भेदानां भेदो न स्यात् । न अप्य् अवर्ण-क्रमम् अन्यच्
12921 शब्द-रूपं पश्याम इत्य् उक्तम् । सति वा तद् अनित्यं वा स्यान्
12922 नित्यं वा । यदि ।
12923 अनित्यं यत्न-सम्भूतं पौरुषेयं कथं न तत् ।
12924 अवश्यं ह्य् अनित्यम् उत्पत्तिमत् कुतश्चिद् भवति । तथा ह्य् आकस्मिकत्वे
12925 सत्त्वस्य देश-आदि-नियमो न स्याद् इत्य् उक्तम् । तच् च यत्न-
12926 प्रेरित-अविगुण-करणानां दृष्टम् अन्यथा न इति । कारण-धर्म-
13001 दर्शनात् पुरुष-व्यापार एव कारणम् । अतः पौरुषेयं स्यात् ।
13002 नित्य-उपलब्धिर् नित्यत्वे अप्य् अनावरण-सम्भवात्

1.252

13003 अथ तच् शब्द-रूपं नित्यं स्याद् उपलभ्य-स्वभावं च ।
13004 स च तस्य स्वभावः कदाचिन् न अपैति इति नित्यम् उपलभ्येत ।
13005 एवं हि स नित्यः स्याद् यदि न कुतश्चित् सामर्थ्यात् प्रच्यवेत् ।
13006 ज्ञान-जनन-सामर्थ्यस्य तदात्मकत्वात् । अर्थान्तरत्वस्य च
13007 प्राग् एव निषिद्धत्वात् । न अपि तस्य उपलभ्य-आत्मनः किंचिद् उपलम्भ-
13008 आवरणं सम्भवति । तस्य सतो अपि तदात्मनम् अखण्डयतः
13009 सामर्थ्य-तिरस्कार-अयोगात् । न हि तत्र अतिशयम् अनुत्पादयन्
13010 किंचित्करो नाम । अकिंचित्करश् च कः कस्य आवरणम् अन्यद्
13011 वा इति निर्लोठित-प्रायम् एतत् । कुड्य-आदयो घट-आदीनां कम् अतिशयम्
13012 उत्पादयन्ति खण्डयन्ति वा येन आवरणम् इष्यन्ते । न ब्रूमस्
13013 ते कंचिद् अतिशाययन्ति इति । अपि तु न सर्वे घट-क्षणाः सर्वस्य इन्द्रिय-
13014 विज्ञान-हेतवः परस्पर-सहितास् तु विषय-इन्द्रिय-आलोकाः
13015 परस्परतो विशिष्ट-क्षण-अन्तर-उत्पादाद् विज्ञान-हेतवः । अनुपकार्यस्य
13016 अपेक्षा-अयोगात् । शक्त-स्वभावस्य नित्यं जननम् अजननं
13017 वा अन्यस्य सर्वदा स्याद् इत्य् उक्तम् । ते च अव्यवहिताः प्रतिघातिना
13018 अन्येन अन्योन्यस्य उपकारिणः । अव्यवधान-देश-योग्यता-सहकारित्वात्
13019 तेषाम् अन्योन्य-अतिशय-उत्पत्तेः । व्यवधाने तु हेत्व्-अभावात्
13020 समर्थ-क्षण-अन्तर-अनुत्पत्तेर् ज्ञान-अनुत्पत्तिः । तस्मात् पूर्व-उत्पन्न-
13021 समर्थ-निरोधात् सति कुड्ये अन्यस्य उत्पित्सोः कारण-अभावेन अनुत्पत्तेः
13022 कारण-वैकल्याज् ज्ञान-अनुत्पत्तिर् इति कुड्य-आदय आवरणम्
13023 उच्यन्ते । न प्राग् योग्यस्य प्रतिबन्धात् । तस्य स्वभावाद् अप्रच्युतेः ।
13024 अथवा सम्भवत्य् अपि भावानां क्षणिकानाम् अन्योन्य-उपकारो
13025 अचिन्त्यत्वाद् हेतु-प्रत्यय-सामर्थ्यस्य असर्वविदा । तेन
13026 यद् इन्द्रिय-विषय-मध्य-स्थितम् आवरणं तत् तौ विज्ञान-उत्पत्ति-
13027 वैगुण्य-तारतम्य-भेदेन अतिशययेद् अपि । आवरण-भेदे न शब्द-
13028 आदौ श्रुति-मान्द्य-पाटव-दर्शनात् । अन्यथा क्वचिद् अप्य् अकिंचित्करस्य
13101 संनिधानस्य अप्य् असंनिधान-तुल्यत्वात् तस्य इदम् इत्य् ।
13102 उपसंहारो विकल्प-निर्मित एव स्यात् । न वस्त्व्-आश्रयः । न च
13103 समारोप-अनुविधायिनो अर्थक्रियाः । न हि माणवको दहन-उपचाराद्
13104 आधीयते पाके । तस्मात् सत्याम् अपि कल्पनायाम् अतत्-परावृत्तयो
13105 भावा यथा-स्वभाव-वृत्तय एव स्युः । तत् सत्य् अप्य्
13106 आवरणे विज्ञापयेयुर् एव इन्द्रिय-आदयः । न च तथा । तस्मात् तेन आधेयविशेषा
13107 इति गम्यन्ते । न खल्व् एवं नित्यानां शब्दानां
13108 कस्मिंश्चित् सत्य् अतिशय-हानिर् उत्पत्तिर् वा । तद् यदि तेषां ज्ञान-जननः
13109 स्वभावः सर्वस्य सर्वदा सर्वाणि स्व-विषय-ज्ञानानि सकृज्
13110 जनयेयुः । नो चेन् न कदाचित् कस्यचित् किंचिद् इत्य् एकान्त एषः ।
13111 अश्रुतिर् विकलत्वाच् चेत् कस्यचित् सहकारिणः ।
13112 स्याद् एतत् । न आवरणान् नित्यं सर्वे शब्दा न श्रूयन्ते । अपि तु
13113 किंचित् तेषां प्रतिपत्तौ सहकारि प्रतिनियतम् अस्ति । तत् कदाचित्
13114 कस्यचिद् भवति इति तत्-कृतम् एषां कदाचित् क्वचिच् श्रवणम् इति ।
13115 कामम् अन्य-प्रतीक्षा अस्तु नियमस् तु विरुध्यते

1.253

13116 न वै वयं कारणानां सहकारीणि प्रतिक्षिपामः । किं त्व्
13117 अपेक्षन्त एव कारणानि तद्-अवस्था-उपकारिणम् । ततो लभ्यस्य अतिशयस्य
13118 कार्य-उपयोगात् । तथा शब्दो अपि यदि किंचिद् अपेक्ष्य
13119 कार्यं कुर्यात् करोतु पूर्व-स्वभाव-नियत इत्य् एतन् न स्यात् ।
13120 तस्य प्रच्युतेः । अपेक्ष्याच् च स्वभाव-अन्तर-प्रतिलम्भात् ।
13121 न ह्य् अनुपकार्य् अपेक्ष्यत इत्य् उक्तम् एतत् । तद्-उपकारस्य
13122 च अर्थान्तरत्वे तस्य इति सम्बन्ध-अभाव-आदयो अप्य् उक्ताः । तस्य
13123 च अज्ञेयत्वम् । उपकाराद् एव ज्ञान-उत्पत्तेः । तस्माद् एव शब्दो न इन्द्रियं
13124 न संनिकर्षं न आत्मानम् अन्यद् वा किंचिज् ज्ञान-उत्पत्ति-समाश्रयं
13125 स्व-विज्ञान-जनने अपेक्षते । सर्वस्य तत्र अकिंचित्करत्वाद् ।
13126 अपि च । एते शब्दा व्यापिनो वा स्युर् अव्यापिनो वा ।
13127 सर्वत्र अनुपलम्भः स्यात् तेषाम् अव्यापिता यदि ।
13128 कथं एक-देश-वर्तितं तच्-शून्य-देश-स्थित उपलब्धेत । अप्राप्त-
13201 ग्रहण-पक्षे अदोष इति चेत् । न । तत्र अपि योग्य-देश-स्थिति-तारतम्य-
13202 अपेक्षणाद् अयस्कान्त-आदि-वत् । अन्यथा स्पष्ट-अस्पष्ट-श्रुति-
13203 भेदो न स्यात् । सति च उपलम्भ-प्रत्यये सर्वत्र देशे तुल्यम्
13204 उपलभ्येरन् । तस्मान् न अव्यापिनः ।
13205 सर्वेषाम् उपलम्भः स्याद् युगपद् व्यापिता यदि

1.254

13206 न हि कश्चिच् शब्द क्वचिन् न अस्ति इति सर्वे युगपद् उपलभ्येरन्
13207 सर्व-देश-स्थितैश् च । योग्य-इन्द्रियत्वाद् विषय-संनिधानाद् अप्रतिबन्धाच्
13208 च ।
13209 संस्कृतस्य उपलम्भे च कः संस्कर्ता अविकारिणः ।
13210 स्याद् एतत् । सन्न् अपि न सर्वः शब्द उपलभ्यते सर्वेण । संस्कृतस्य
13211 संस्कृतेन एव उपलम्भाद् इति । तत्र न संस्कृतस्य उपलम्भो
13212 अनाधेयविकारस्य संस्कार-अयोगात् ।
13213 इन्द्रियस्य हि संस्कारः शृणुयान् निखिलं च तत्

1.255

13214 तत्र यदि संस्कृतेन उपलम्भ इत्य् असंस्कृतेन इन्द्रियो न उपलभते ।
13215 यस्य संस्कार इन्द्रियस्य कृतः स सर्व-शब्दान् युगपच् शृणुयाद्
13216 इति प्रसङ्गो अनिवृत्त एव ।
13217 संस्कार-भेदाद् भिन्नत्वाद् एक-अर्थ-नियमो यदि ।
13218 अनेक-शब्द-संघाते श्रुतिः कलकले कथम्

1.256

13219 अथ अपि स्यात् । प्रतिनियताः ते संस्काराः शब्दानाम् । तत्र केनचित्
13220 संस्कृतम् इन्द्रियं कस्यचिद् एव ग्राहकम् इति न युगपत् सर्व-
13221 शब्द-श्रुतिर् इति । संस्कार-विशेषाच् श्रुति-नियमे इन्द्रियाणाम् अनेक-
13222 शब्द-संघातस्य कलकलस्य श्रुतिर् न स्यात् । न ह्य् एकः
13223 शब्दः कलकलो नाम । भिन्न-स्वभावानां युगपच् श्रवणात् ।
13224 स्वभाव-भेद-आश्रयत्वाच् च भेद-व्यवस्थितेः । लघुवृत्तेः
13225 सकृच्-श्रुतिर् भ्रान्तिर् इति चेत् । वंश-आदि-स्वर-धारायां गमक-अवयव-
13226 संहारात् संकुला प्रतिपत्तिः स्यात् । वक्ष्यते च अत्र प्रतिषेधः ।
13227 तस्माद् एक-गति-शक्ति-प्रतिनियमाद् इन्द्रियस्य अनेकात्मा
13228 कलकलो न श्रूयेत ।
13229 ध्वनयः केवलं तत्र श्रूयन्ते चेन् न वाचकाः ।
13301 न वै कलकले वर्ण-पद-वाक्यानि श्रूयन्ते । ध्वनीनाम् एव
13302 केवलानां श्रवणात् । वाचके च प्रतिनियत-शक्ति-इन्द्रियं न
13303 ध्वनिषु । तत्र ।
13304 ध्वनिभ्यो भिन्नम् अस्ति इति श्रद्धा इयं अतिबह्व् इदम्

1.257

13305 न हि वयं ध्वनिं शब्दं च वाचकं पृथग्-रूपम् उपलक्षयामः ।
13306 एकम् एव एकदा वर्ण-अनुक्रम-श्रवणे शब्द-आत्मानं
13307 व्यवस्यामः । तत् कथं व्यवसाय-पूर्वकं व्यवहारम्
13308 अव्यवस्यन्तः प्रवर्तयामः । तस्माद् ध्वनि-विशेष एव इयं
13309 वर्ण-आद्य्-आख्यः । अपि च ।
13310 स्थितेष्व् अन्येषु शब्देषु श्रूयते वाचकः कथम् ।
13311 न ध्वनिर् अतो भिन्नस् तेन सह पृथग् वा । न हि प्रत्यक्षे
13312 अर्थे पर-उपदेशो गरीयान् । तद् अयं स्थितेष्व् अन्येषु व्याहर्तृषु
13313 केवलम् एव शब्दं शृण्वंस् तद्-उपलम्भ-प्रत्ययानां तद्-अन्य-
13314 निष्पादने सामर्थ्य-अभावं प्रत्येति । यदि हि समर्थाः स्युस्
13315 तत्-साधितं तद् उपलभ्येत । तत्-स्वभावा एव पुनः प्रत्ययाः
13316 कथं कलकले अर्थ-अन्तरम् आरभेरन् । न हि कारण-अभेदे
13317 कार्य-भेदो युक्तः । भेदस्य अहेतुकत्व-प्रसङ्गाद् इत्य् उक्तम् ।
13318 न च कलकले वाचको न श्रूयते । पद-वाक्य-विच्छेदानाम् उपलक्षणात् ।
13320 कथं वा शक्ति-नियमाद् भिन्न-ध्वनि-गतिर् भवेत्

1.258

13321 तानि प्रतिनियत-शक्तीन्य् अपि इन्द्रियाणि नाना-रूपान् प्रति-शब्द-नियतान्
13322 ध्वनीन् शृण्वन्ति न त्व् एवं शब्दान् इति कः शब्देष्व् एषां
13401 निर्वेदः । यद् उक्तं न ध्वनयो भेदेन वाचकेभ्यः सिद्धा
13402 इति कथं न सिद्धाः । वचनाद् अर्थ-प्रतिपत्तेः । न हि ध्वनि-
13403 भागाद् अल्पीयसः शब्द-अर्थ-प्रतीतिः । न च सो अन्यं सम इति ।
13404 तद् इयं समस्त-पद-वाक्य-रूप-साध्य-अर्थ-प्रतीतिर् असमस्त-
13405 भागेषु ध्वनिषु न सम्भवति इति सिद्धम् अक्रम-सत्त्वं
13406 शब्द-रूपम् । क्रमवद्-भागश् च ध्वनिर् इति । तन् न । अक्रमस्य
13407 क्रमवद्-व्यतिरेकिणः प्राग् एव निषिद्धत्वात् । अतिप्रसङ्गश् च एवम् ।
13408 कर्म-भागानां पूर्वेण अपरस्य अप्रतिसन्धानात् एक-अंशाच्
13409 च अप्रतिपत्तेः तद्-व्यतिरेकी हस्त-संज्ञा-आदिष्व् अर्थ-प्रतिपत्ति-
13410 हेतुः समस्त-रूपः कर्म-आत्म-अभ्युपगन्तव्यः स्यात् । शब्द-वद्
13411 एव । क्रम-भाविन एव यथास्वं करण-प्रयोगाद् भिन्ना
13412 वर्ण-भागाः कर्म-भागा वा क्रमेण विकल्प-विषया यथा-
13413 संकेतम् एव अर्थ-प्रतीतिं जनयन्ति इति न्याय्यम् । किं च ।
13414 ध्वनयः सम्मता यैस् ते दोषैः कैर् अप्य् अवाचकाः ।
13415 ध्वनिभिर् व्यज्यमाने अस्मिन् वाचके अपि कथं न ते

1.259

13416 क्रम-उत्पादिभिर् ध्वनि-भागैर् व्यक्तः किल वाचको वक्ति । तम्
13417 अपि ते न एव सकृत् प्रकाशयन्ति । क्रम-भावात् । न अप्य् एक एव
13418 भागः शब्दं व्यनक्ति । तद्-अन्य-वैयर्थ्य-प्रसङ्गात् । एक-वर्ण-
13419 भाग-काले च समस्त-रूप-अनुपलक्षणात् । तद् अयम् अप्रतिसंहित-
13420 सकल-उपलम्भो ध्वनि-वद् उपलम्भ-साकल्य-संनिधान-
13421 अर्थं कथं साधयेत् । को हि विशेषो अत्यन्त-अनुपलम्भे
13422 सद्-असतोर् उपलम्भ-साध्येष्व् अर्थेषु । न च संनिधि-मात्रेण
13423 साधनः । व्यक्त्य्-अपेक्षणात् । सा च इयं क्रम-भाविनी सद्-असतोस्
13424 तुल्य-उपयोग इति ध्वनिभिर् अशक्य-साधनं कार्यम् । तत्र अपि
13425 तथा इत्य् अलं अन्येन । तस्मान् न वर्णेषु वाक्ये वा अपौरुषेयता ।
13426 वर्ण-अनुपूर्वी वाक्यं चेन् न वर्णानाम् अभेदतः ।
13501 न अर्थ-अन्तरम् एव शब्द-रूपं वाक्यम् अपौरुषेयम् । किं तर्हि ।
13502 वर्ण-अनुक्रम-लक्षणं हि नो वाक्यम् । तद् अपौरुषेयं साध्यम्
13503 इति चेत् । न । वर्णानाम् आनुपूर्व्या अभेदात् । न इयम् अर्थ-अन्तरं
13504 वर्णेभ्यः । दृश्यायां विभाग-उपलम्भात् । अदृश्यायां ततो
13505 अप्रतिपत्तेर् लिङ्ग-अभावात् । भेदवत्याश् च आनुपूर्व्या अभावे वर्ण-
13506 मात्रम् अवशिष्टं सर्वत्र इति पूर्ववत् प्रसङ्गः ।
13507 तेषां च न व्यवस्थानं क्रम-अन्तर-विरोधतः

1.260

13508 यद्य् अकृतक-अनुपूर्वी वर्णानां ते च न बहवः समान-जातीयाः
13509 येन केचिद् व्यवस्थित-क्रमाः स्युः अन्ये यथा इष्ट-परावृत्तयः
13510 किं तर्हि एक एव त्रैलोक्ये अकारस् तथा गकारः तदा अग्निर् इत्य्
13511 एव स्यात् न गगनम् इति अकार-गकारयोः पूर्वापर-भावस्य
13512 व्यवस्थितत्वात् । कृतकानाम् अपि हेतु-परिणाम-नियमवताम्
13513 अशक्यः क्रम-विपर्ययः कर्तुम् । यथा बीज-अङ्कुर-पत्र-आदीनाम्
13514 ऋतु-संवत्सर-आदीनां च । किं पुनर् अचलित-अवस्था-स्वभावानाम्
13515 अकृतकानां कथंचित् स्थितानां पूर्व-अवस्था-त्यागम् अन्तरेण
13516 अन्यथा अभाव-अयोगात् । त्यागे वा विनाश-प्रसङ्गात् । विशेषेण नित्यायाम्
13517 आनुपूर्व्यां । तद् एतत् प्रतिपदं क्रम-अन्यत्वं वर्ण-
13518 अन्यत्वे अपूर्व-उत्पादात् वर्ण-बाहुल्याद् वा स्यात् । तच् च अनभिमतम् ।
13519 अपि च ।
13520 देश-काल-क्रम-अभावो व्याप्ति-नित्यत्व-वर्णनात् ।
13521 सा च इयम् आनुपूर्वी वार्णानां देश-कृता वा स्यात् । यथा पिपीलिकानां
13522 पङ्क्तौ । काल-कृता वा यथा बीज-अङ्कुर-आदीनाम् । सा द्विविधा अपि
13523 वर्णेषु न सम्भवति । व्याप्तेर् नित्यत्वाच् च । अन्योन्य-देश-
13601 परिहारेण वृत्तिर् हि देश-पौर्वापर्यम् । तत् सर्वस्य सर्वेण
13602 तुल्यदेशत्वाद् वर्णेषु न सम्भवति । वात-आतप-वद् आत्म-आदि-वच्
13603 च । तथा काल-परिहारेण वृत्तिः काल-पौर्वापर्यम् । यदा एको
13604 न अस्ति तदा अन्यस्य भावात् । तद् अपि नित्येषु न सम्भवति । सर्वदा
13605 सर्वस्य भावात् । न च अन्या गतिर् अस्ति । तत् कथं वर्ण-पौर्वापर्यं
13606 वाक्यं यद् अपौरुषेयं साध्येत ।
13607 अनित्य-अव्यापितायां च दोषः प्राग् एव कीर्तितः

1.261

13608 अथ मा भूद् अयं दोष इत्य् अनित्यान् अव्यापिनश् च वर्णान् इच्छेत् ।
13609 ताव् अपि पक्षौ प्राग् एव निराकृताव् इत्य् अपरिहारः ।
13610 व्यक्ति-क्रमो अपि वाक्यं न नित्य-व्यक्ति-निराकृतः ।
13611 न वर्णानां रूप-अनुपूर्वी वाक्यम् । किं तर्हि । तद्-व्यक्तेः । सा
13612 यथा स्व-वर्ण-अभिव्यक्ति-प्रत्यय-क्रमाद् भवन्ती क्रम-योगिनी
13613 इति तदा अनुपूर्वी वाक्यम् इत्य् अपि मिथ्या । तस्या नित्येषु प्राग् एव
13614 निषिद्धत्वात् । कार्यता-विशेष एव साक्षाच्-शक्त्य्-उपधानेन ज्ञान-
13615 जनकानां व्यक्तिर् इत्य् आख्यातम् एतत् ।
13616 व्यापाराद् एव तत्-सिद्धेः करणानां च कार्यता

1.262

13617 यत् खलु रूपं यत एव उपलभ्यते तस्य तद्-उपलब्धि-नान्तरीयकाम्
13618 उपलब्धिम् एव आश्रित्य लोकः कार्यतां प्रज्ञापयति । सा
13619 वर्णेष्व् अप्य् अस्ति । स एव च अन्यत्र अपि तद्-आश्रयः । न विशेषः । तत्
13620 कथं तुल्ये अभ्युपगम-निबन्धने न वर्णाः कार्याः । न
13621 च एतद् उपलब्ध्य्-आश्रया कार्यता-स्थितिः । किं तर्हि । यत् सत्य् एव
13622 भवति इति सत्ता-आश्रया । सा सत्ता कुतः सिद्धा ये न कार्यतां साधयेत् ।
13623 न ह्य् असिद्धायाम् अस्याम् एवं भवति इति । तस्मात् सत्ता-
13624 सिद्धिस् तत्-साधनी । सा च उपलब्धिर् एव । सत्यम् एवं यदि तस्य
13625 प्राङ् न सत्ता सिद्धा स्यात् । सा हि सत्ता-सिद्धिर् या असिद्धि-पूर्विका ।
13701 ननु तद् रूपम् असिद्धम् एव यत् तथाभूत-विज्ञान-अव्यवधान-
13702 उपयोगि । सिद्धम् एव तद् अन्य-वैकल्यान् न उपयुक्तम् इति
13703 चेत् । कथम् इदानीम् उपयुक्त-अनुपयुक्तयोर् अभेदः । न अपि भेदः
13704 शब्द-स्वभाव-असंस्पर्शी तस्य एव अतिशयस्य उपयोग-सिद्धेस् तस्या
13705 कारणत्व-प्रसङ्गात् । यस्य एव भावे साध्य-सिद्धिस् तद् एव हि
13706 तत्र उपयोगि युक्तम् । तद्-अतिशय-उपयोगे अप्य् अस्य तद्वत् प्रसङ्गः ।
13707 तस्माद् अतिशेत एव अव्यवहित-सामर्थ्य-उपयोगो अवस्था-
13708 भेदस् तद्-अन्यम् । अनतिशयस्य अपेक्षा च प्राग् एव निषिद्धा ।
13709 स च करण-व्यापाराद् एव सिद्ध इति सर्व-कार्य-तुल्य-धर्मा ।
13710 तस्य तादृशस्य व्यक्तौ सर्वं व्यङ्ग्यं न वा किंचिद् अप्य्
13711 अविशेषात् । तथा हि ।
13712 स्व-ज्ञानेन अन्य-धी-हेतुः सिद्धे अर्थे व्यञ्जको मतः ।
13713 यथा दीपो अन्यथा वा अपि को विशेषो अस्य कारकात्

1.263

13714 स्व-प्रतिपत्ति-द्वारेण अन्य-प्रतिपत्ति-हेतुर् लोके व्यञ्जकः सिद्धः
13715 दीप-आदि-वत् स चेत् प्राक् सिद्धः स्यात् समान-जातीय-उपादान-क्षण-सिद्धेः ।
13716 न तस्य एव अतिशयस्य ज्ञान-हेतोः तस्य तत्-सामग्री-प्रत्ययत्वात् ।
13717 ये पुनर् असिद्ध-उपलम्भनाः कारका एव कुलाल-आदि-वद्
13718 घट-आदौ । प्रत्यभिज्ञान-आदयो अपि सिद्धि-हेतवो न हेतु-लक्षणं
13719 पुष्णन्ति । यद् अपि किंचिद् उत्तरा अकार-प्रतीतिर् अकार-प्रतीतेः पूर्व-अभिन्न-
13720 विषया तद्वद् इत्य् आदि । तद् अपि न स्वलक्षणयोर् अभेद-
13721 साधने समर्थम् । तत्-स्वभाव-सिद्धेः । सामान्येन वचने
13801 भिन्न-विषयत्वस्य अप्य् अविरोधः । एक-विषययोश् च प्रतीत्योः
13802 पूर्वापर-भाव-अयोगात् संनिहित-असंनिहित-कारणत्वेन उत्पाद-अनुत्पादात्
13803 संनिधाने अप्य् अनुत्पन्नस्य अतत्-कारणत्वात् तयोर्
13804 भिन्न-अखिल-कारणत्वम् । तत्र एक-अभेदे अपि शक्तस्य अप्रतीक्षणाद्
13805 युक्ति-विरुद्धं पूर्वापरयोः प्रतीत्योर् एक-विषयत्वम् । प्रतीति-
13806 प्रतिभास-स्वभाव-भेदे अपि नाम-साम्याद् एक-विषयत्वम् अप्य्
13807 अयुक्तम् । घट-आदिष्व् अपि प्रसङ्गात् । तत्र दृष्ट-विरोधाद् असाधनत्वम्
13808 इति चेत् । इह अपि विरोध-अभावः केन सिद्धः । यावत् तथा अभिधेयता-
13809 अर्थ-भेदेन व्याप्ता न साध्यते तावत् सन्दिग्धो
13810 व्यतिरेकः । प्रतिकरण-भेदं च भिन्न-स्वभावः शब्दः
13811 श्रुतौ निविशमानो यदा एकः साध्यते किं न घट-आदयः । तत्र
13812 अपि शक्यम् एवं व्यञ्जक-भेदात् प्रतिभास-भेद इति प्रत्यवस्थातुम् ।
13813 अपि च ।
13814 करणानां समग्राणां व्यापाराद् उपलब्धितः ।
13815 नियमेन च कार्यत्वं व्यञ्जके तद्-असम्भवात्

1.264

13816 न हि कदाचिद् व्यापृतेषु करणेषु शब्द-अनुपलब्धिः । न च अवश्यं
13817 व्यञ्जक-व्यापारो अर्थम् उपलम्भयति । क्वचित् प्रकाशे
13818 अपि घट-आद्य्-अनुपलब्धेः । सा इयं नियमेन उपलब्धिस् तद्-व्यापाराच्
13819 शब्दस्य तद्-उद्भवे स्यात् । अकर्तुर् व्यापारे अपि तत्-सिद्ध्य्-अयोगात् ।
13820 व्यापि-नित्यत्वाद् उपलम्भ इति चेत् । क इदानीं घट-आदिषु
13821 समाश्वासः । तेषां तथा अनिष्टेर् इति चेत् । शब्दः किम् इष्टस् तत्-समान-
13822 धर्मा । न च अस्य कश्चिद् अतिशय इत्य् उक्तम् । प्रतिषिद्धे च
13823 व्यापि-नित्यत्वे । घट-आदीनां व्यञ्जक-अन्तर-सम्भवाद् अदोषः ।
13824 प्रकाशो ह्य् एषां व्यञ्जकः सिद्धः । कुलाल-आदीनां व्यञ्जकत्वे
13825 तादृशा एव स्युः । अतिशेरते च । ततो व्यञ्जक-अतिशयात् कारका एव ।
13826 उपकारकस्य गत्य्-अन्तर-अभावात् । तद् एतच् शब्देष्व् अपि तुल्यम् ।
13827 तत्र अपि इन्द्रिय-योग्य-देशता-आदिभ्यः करणानाम् अतिशयात् । घट-आदि-
13828 कारक-धर्मस्य च करणेषु दृष्टेः । तस्य एव प्रदीप-आदेर्
13829 विषय-अन्तरस्य च कस्यचिद् व्यञ्जक-अन्तर-अभावात् । तत्- कारणानि
13830 तेषां व्यञ्जकानि स्युः । तस्मान् न व्यक्तिः शब्दस्य । भवन्ती
13901 वा करणेभ्यो अतिशयत्ता वा शब्दस्य व्यक्तिर् आवरण-विगमो
13902 विज्ञानं वा गत्य्-अन्तर-अभावात् । तत्र न अतिशय-उत्पत्तिर् अनित्यता-
13903 प्रसङ्गात् । तस्याः पूर्वापर-रूप-हान्य्-उपजनन-लक्षणत्वात् ।
13904 अथ
13905 तद्-रूप-आवरणानां च व्यक्तिस् ते विगमो यदि ।
13906 अभावे करण-ग्राम-सामर्थ्यं किं नु तद् भवेत्

1.265

13907 न ह्य् आवरणस्य अकिंचित्कराणि करणानि समर्थानि नाम । विगमश्
13908 च अभावः । न च अभावः कार्यम् इति निवेदितम् एतत् । न अपि शब्दस्य
13909 नित्यस्य किंचिद् आवरणम् असामर्थ्याद् इत्य् अप्य् उक्तम् ।
13910 तस्मान् न आवरणे करण-उपक्षेपः । न अप्य् एषाम् असामर्थ्यम् । तद्-
13911 व्यापार-अभावे शब्द-अनुपलब्धेः । अतो युक्तम् एते यच् शब्दान्
13912 कुर्युः । अन्यथा ।
13913 शब्द-अविशेषाद् अन्येषाम् अपि व्यक्तिः प्रसज्यते ।
13914 तथा अभ्युपगमे सर्व-कारणानां निरर्थता

1.266

13915 यदि सर्व-कारण-समान-धर्माण्य् अपि करणानि व्यञ्जकानि न
13916 किंचिद् इदानीं कार्यं स्यात् । न च एतद् युक्तम् । सर्व-कारणानाम्
13917 आनर्थक्य-प्रसङ्गात् । वस्तुनो अनाधेयविशेषत्वात् । आवरण-अभावस्य
13918 अकार्यत्वात् । वस्तु-वद् एव ज्ञानस्य अपि सिद्धत्वात् । ज्ञानं
13919 प्रति कारकत्वे कस्यचित् तथाभूतानाम् अन्येषाम् अपि तथाभाव-
13920 प्रसङ्गेन सर्वस्य कार्यता-प्रसङ्गात् । तस्माद् अयं
13921 कारक-अभिमतो अर्थ-कलापो न व्यक्तौ न क्रियायाम् इति व्यर्थ
13922 एव स्यात् । तथा च इदम् अनुपकार्य-उपकारकं निरीहं जगत् स्यात् ।
13923 शब्द-नित्यत्वे च ।
13924 साधनं प्रत्यभिज्ञानं सत्-प्रयोग-आदि यन् मतम् ।
13925 अनुदाहरणं सर्व-भावानां क्षण-भङ्गतः

1.267

14001 क्षण-भङ्गिनो हि सर्व-भावा विनाशस्य अकारणत्वाद् इत्य् उक्तं
14002 वक्ष्यते च । उत्पत्तिमन्तश् च परतः । सत्ताया आकस्मिकत्व-अयोगात् ।
14003 तन् न इदं प्रत्यभिज्ञानं सत्-प्रयोग-आदिकं क्वचिद् अन्वेति
14004 स्थिर-एक-रूपे । अपरापर-स्वभाव-परावृत्तिष्व् एव दीप-आदिषु
14005 दृष्टम् इति विरुद्धम् एव । न । अभिन्न-जन्मनः साधर्म्य-विप्रलम्भाद्
14006 भ्रान्त्या दीप-आदिषु भावात् । अभिन्न-जन्म इति केन अवष्टम्भेन
14007 उच्यते । तस्य एव अभेदस्य सर्वत्र पौर्वापर्येण
14008 चिन्त्यत्वात् । तथा भेदस्य अपि इति चेत् । तेन एव संशयो अस्तु । न च
14009 संशयितात् सिद्धिः । विवेक-अदर्शनाद् एकत्वम् इति चेत् । न । ज्ञान-
14010 पौर्वापर्येण सदसत्त्व-सिद्धेः । स्वभाव-विवेक-सद्भावात् ।
14011 यद्य् अपराणि ज्ञानानि प्राक् संनिहित-कारणानि पूर्व-ज्ञान-वज् जातानि
14012 एव स्युः । अजातानि तु कारण-वैकल्यं सूचयन्ति । समर्थस्य
14013 जननाद् असमर्थस्य अपि पुनः सामर्थ्य-अप्रतिलम्भात् ।
14014 प्रतिलम्भे वा स्थैर्य-अयोगात् । तद् अयम् सत्-प्रयोग इत्य् अपि जननम्
14015 एव प्रयोक्तुः सामर्थ्यात् । स्वयं समर्थे तस्य अनुपयोगात् ।
14016 प्रयोग इत्य् अपि इष्ट-साधन-समर्थ-उत्पादनम् एव समान-
14017 जातीय-उपादान-अपेक्षम् अनपेक्षं वा वास्य्-आदि-प्रयोग-वत् कर्म-
14018 आदि-प्रयोग-वच् च कथ्यते । यो अपि मन्यते समक्षे प्रत्यभिज्ञानं
14019 प्रत्यक्षम् एव ततः प्रत्यक्षाद् एव स्थैर्य-सिद्धिर्
14020 इति । तद् अप्य् उत्तरत्र निषेत्स्यामः ।
14021 दूष्यः कुहेतुर् अन्यो अपि ।
14022 न एव कश्चिद् धर्मो यः समान-जातीयम् अन्वेति । सर्व-धर्माणाम्
14023 एतद्-अवस्थत्वात् । सर्व-स्थैर्य-प्रतिज्ञायाश् च यथा अभिधानं
14024 युक्ति-विरोधाद् अन्ये अपि नित्य-हेतवो वाच्य-दोषाः ।
14025 बुद्धेर् अपुरुष-आश्रये ।
14026 बाधा अभ्युपेत-प्रत्यक्ष-प्रतीत-अनुमितैः समम्

1.268

14027 यदि व्यक्तिर् बुद्धिस् तदा आनुपूर्वी वाद्यम् । तस्या अपौरुषेयत्व-
14101 प्रसाधने बुद्धीनां पुरुष-गुणत्व-अभ्युपगमात् सम यो
14102 अस्य बाध्यते । प्रत्यक्षं खल्व् अप्य् एतद् यद् इमा बुद्धयः
14103 पुरुष-संख्यातेभ्यः पुरुष-गुणेभ्यो वा मनस्कार-आदिभ्यो
14104 भवन्ति इति । न च कार्यता नाम अन्या भाव-अभाव-विशेषाभ्याम् ।
14105 स च भावः प्रत्यक्षो अभावो अप्य् अनुपलब्धि-लक्षणः प्रत्यक्ष-
14106 सामर्थ्य-सिद्ध इति वक्ष्यामः । तत एव पुरुष-कार्यता
14107 बुद्धीनाम् अनुमेय-अन्वय-व्यतिरेक-लिङ्गत्वाद् अस्याः । किं च ।
14108 आनुपूर्व्याश् च वर्णेभ्यो भेदः स्फोटेन चिन्तितः ।
14109 कल्पना-आरोपिता सा स्यात् कथं वा अपुरुष-आश्रया

1.269

14110 वर्ण-व्यतिरेकिण्य् आनुपूर्वी स्फोट-विचार-अनुक्रमेण एव प्रतिविहिता ।
14111 न अपि सा वर्ण-स्वभावा । वस्तु-स्वभावस्य एतद्-विकल्प -अनतिक्रमात् ।
14112 अतद्-रूपेषु तद्-रूप-समारोप-प्रतिभासिन्या बुद्धेर्
14113 अयं विभ्रमः स्याद् आनुपूर्वी इति । सा च कथम् अपौरुषेयी । बुद्धि-
14114 विठपन-प्रत्युपस्थापनात् । अपि च । आत्यन्तिकस्य कस्यचित्
14115 स्वभावस्य अभावाद् भवता ध्वनिना अनात्यन्तिकेन भवितव्यम् ।
14116 स च अहेतुको अन्य-हेतुको वा नित्यं भवेन् न च पुरुष-
14117 व्यापारात् । तस्मान् न अपौरुषेयः । कथम् इदं गम्यते अनात्यन्तिको
14118 ध्वनिर् अन्यो वा भाव इति ।
14119 सत्ता-मात्र-अनुबन्धित्वान् नाशस्य अनित्यता ध्वनेः ।
14120 न हि नाशो भावानां कुतश्चिद् भवति । तद् भाव-स्वभावो भवेत् ।
14121 भावस्य एव स्व-हेतुभ्यस् तद्-धर्मणो भावात् । न च भाव-
14122 विशेष-स्वभावः । तस्य निषेत्स्यमानत्वात् । तस्माद् भाव-
14123 मात्र-स्वभावः स्यात् । तेन शब्दो अन्यो वा सत्ता-भाजनः सर्व
14124 एव भावो अनात्यन्तिक इति सिद्धम् । न सिद्धम् । तस्य एव विनाशस्य
14125 अपर-जन्म-असिद्धेः । तथा ह्य् अग्निना काष्ठं दण्डेन
14201 घट इति विनाश-हेतवो भावानां दृश्यन्ते । अन्वय-व्यतिरेक-अनुविधानं
14202 हेतु-तद्वतोर् लक्षणम् आहुः । न । पूर्वस्य स्व-रस-
14203 निरोधे अन्यस्य विशिष्ट-प्रत्यय-आश्रयेण विकृतस्य उत्पत्तेः ।
14204 अस्तु वा अग्निः काष्ठ-विनाश-हेतुः । स विनाशो अग्नि-जन्मा किं काष्ठम्
14205 एव आहोस्विद् अर्थ-अन्तरम् ।
14206 अग्नेर् अर्थ-अन्तर-उत्पत्तौ भवेत् काष्ठस्य दर्शनम्

1.270

14207 अविनाशात् ।
14208 किम् इत्य् अर्थ-अन्तराद् अर्थ-अन्तर-जन्मनि काष्ठम् अभूतं नाम
14209 न दृश्यते वा । अतिप्रसङ्गो ह्य् एवं स्यात् ।
14210 स एव अस्य विनाश इति चेत् ।
14211 यदि स एव अर्थो अग्नि-जन्मा अभावस् तद् इदम् अभूतत्वान् न दृश्यत
14212 इति । भवतु तस्य इदं नाम अभाव इति । तथा अपि
14213 कथम् ।
14214 अन्यो अन्यस्य विनाशः । न हि कस्यचिद् अर्थस्य नाम-करण-मात्रेण
14215 काष्ठं न दृश्यत इति युक्तम् । न च अन्यो अन्यस्य विनाशः ।
14216 अतिप्रसङ्गात् । विशेष-अभावात् तस्य अर्थान्तरत्वेन वस्तु-भूतस्य
14217 तद्-अन्येभ्यः । काष्ठे अग्नि-कृतः स्वभावो विनाशो न सर्व इति
14218 चेत् । काष्ठा इति कः सम्बन्धः । आश्रयाश्रयि सम्बन्धश् चेत् ।
14219 न । तस्य निषेत्स्यमानत्वात् । जन्यजनकभावाश् चेत् । अग्नेर् इति
14220 किम् । काष्ठाद् एव भावात् । तद्-अपेक्षाद् उत्पत्तेर् अदोष इति चेत् ।
14221 अनतिशय-लाभिनः का अपेक्षा । लाभे वा अपर-काष्ठ-जन्म स्यात् ।
14222 पूर्वं त्व् अप्रच्युति-कारणम् । तथा एव दृश्यत । तत एव अग्नेः
14223 पूर्व-विनाश इति चेत् । पूर्वेण अस्य कः सम्बन्ध इति स एव प्रसङ्गो
14224 अपर्यवसानश् च । तद् अवश्यं विनाश-सम्बन्ध-योग्यम् उत्तरम्
14225 अतिशयं प्रत्युपकुर्वाणो अग्निर् अपूर्वम् एव जनयति इति
14226 पूर्वं तद्-अवस्थं दृश्येत । काष्ठ-विनाश इति च काष्ठ-अभाव
14301 उच्यते । न च अभावः कार्यः । तत्-कारी च अकारक एव इत्य् अनपेक्षणीय
14302 इत्य् उक्तम् । स्वभाव-अभावस्य च ततो भेदे ततो निवर्तमानस्य
14303 भावस्य स्वभाव एव समर्थितः स्याद् इति कथम्
14304 अभूतो नाम । तस्मान् न
14305 अन्यो अन्यस्य विनाशो अस्तु काष्ठं कस्मान् न दृश्यते

1.271

14306 को अयम् अर्थ-अन्तर-भाव-काष्ठ-दर्शनयोर् विरोधः ।
14307 तत्-परिग्रहतश् चेन् न तेन अनावरणं यतः ।
14308 यदि तेन अर्थ-अन्तरेण परिगृहीतम् इति काष्ठं न दृश्येत तत्
14309 काष्ठस्य आवरणम् इत्य् आपन्नम् । न च एतद् युक्तम् । आवरणं
14310 हि दर्शनं बिबध्नीयान् न अभिघाट-आदीनि द्रव्य-सामर्थ्यानि ।
14311 सर्व-प्रतिबन्धे च नन्व् अनेन एव द्रव्यं विनाशितं स्यात् ।
14312 सर्व-शक्ति-प्रच्यावनात् । पुनस् तत्र अप्य् अग्नाव् इव प्रसङ्गाद्
14313 अनवस्था । अप्रच्युतेषु वा अस्य अभिघाट-सामर्थ्य-आदिषु सता वा
14314 तेन अन्येन किं विनाशितम् । यदि च अग्नि-समुद्भवस्य विनाश-आख्यस्य
14315 अर्थस्य परिग्रहात् काष्ठं न दृष्टम् ।
14316 विनाशस्य विनाशित्वं स्याद् उत्पत्तेस् ततः पुनः

1.272

14317 काष्ठस्य दर्शनं ।
14318 अवश्यं ह्य् उत्पत्तिमता विनाशेन विनष्टव्यम् । तस्मिन् विनष्टे
14319 पुनः काष्ठ-आदीनाम् उन्मज्जनं स्यात् ।
14320 हन्तृ-घाते चैत्र-अपुनर्भवः ।
14321 यथा अत्र अप्य् एवम् इति चेद् धन्तुर् न अमरणत्वतः

1.274

14322 विनाश-विनाशे अपि च वस्तुनः प्रत्यापत्तिः । न हि हन्तरि हते अपि
14323 तद्वतः प्रत्युज्जीवति इति चेत् । न । हन्तुस् तद्-घात-हेतुत्वात् ।
14324 न ब्रूमो विनाश-हेतोर् अग्नि-दण्ड-आदेर् निवृत्तौ भावेन भवितव्यम्
14325 इति । किं तर्हि । भाव-अभावस्य अत्यन्त-अनुपलब्धि-लक्षणस्य ।
14326 तन्-निवृत्तौ कान्या गतिः स्वभाव-स्थितेः । हन्ता हि चैत्रस्य
14327 न नाश-कल्पः । किं तर्हि । दण्ड-आदि-कल्पः । नाश-कल्पं
14401 ह्य् अस्य मरणं । तन्-निवृत्तौ च स्याद् एव अस्य पुनर्भावः ।
14402 अनन्यत्वे अपि नाशस्य स्यान् नाशः काष्ठम् एव तु ।
14403 तस्य सत्त्वाद् अहेतुत्वं न अतो अन्या विद्यते गतिः ॥273 ।
14404 अनर्थ-अन्तर-भूतो विनाशः काष्ठात् । तद् एव तद् भवति । तच्
14405 च प्राग् एव अस्ति इति किम् अत्र सामर्थ्यं वह्न्य्-आदीनाम् । तस्मात्
14406 तद्-अनुपकारात् तेन न अपेक्ष्यन्ते कथंचित् । न अप्य् अस्य इदम् इति
14407 सम्बन्धम् अर्हति । तस्य उपकार-निबन्धनत्वात् । अन्यथा अतिप्रसङ्गात् ।
14408 पारंपर्येण उपकारे अप्य् अवश्यम् अयं विकल्पो अन्वेति
14409 स किम् उपकारो अर्थ-अन्तरम् आहोस्वित् तद् एव इति । तद्-अर्थान्तरत्वे
14410 अपि तस्य इति पुनर् उपकारत्व-आदि-पर्यनुयोगस् तद्-अवस्था
14411 एव । तथा अनन्यत्वे । तस्मात् सतो रूपस्य तत्त्वान्यत्त्व-अव्यतिक्रमात् ।
14412 उपकार-उत्पादनस्य च रूप-निष्पादन-लक्षणत्वात् ।
14413 तद्-अतत्-क्रिया-विकलो न कर्ता एव इति न कस्यचिद् हेतुर् अहेतुश् च
14414 न अपेक्षते । तस्मात् स्वयम् अयं भावस् तत्-स्वभाव इति सिद्धम् ।
14415 अहेतुत्वे अपि नाशस्य नित्यत्वाद् भाव-नाशयोः॥
14416 सहभाव-प्रसङ्गश् चेद् असतो नित्यता कुतः

1.275

14417 स्याद् एतद् यस्य अपि विनाशो अहेतुकः सो अवश्यं नित्य इति भावस्
14418 तद्-अभाव-लक्षणो विनाशश् च सह स्याताम् इति । न । तस्य नित्य-अनित्य-
14419 धर्म-अयोगात् । न ह्य् असत्य् अयं विकल्पः सम्भवति ।
14420 तयोर् वस्तु-धर्मत्वात् । विनाशस्य च अकिंचित्वात् । भवतो हि
14421 केनचित् सहभावः स्यात् । न च विनाशो भवति । तस्माद् अदोषः ।
14422 असत्त्वे अभाव-नाशित्व-प्रसङ्गो अपि न युज्यते ।
14423 यस्माद् भावस्य नाशेन न विनाशनम् इष्यते

1.276

14424 कथम् असन् विनाशो भावं नाशयेत् । अतो अविनाशी भावः स्याद्
14425 इत्य् अप्रसङ्ग एव । विनाशाद् भाव-नाश-अनभ्युपगमात् । यो हि
14501 विनाश इति किंचिन् न इत्य् आह स कथं ततो भाव-नाशम् इच्छेत् ।
14502 कथम् इदानीम् असति विनाशे भावो नष्टो नाम । न ह्य् असद्-विनाशा
14503 नष्टा गण्यन्ते प्रत्युत्पन्न-अवस्थायाम् । न हि यो येन अतद्वान्
14504 स तेन तथा व्यपदिश्यते प्रतीयते वा । यथा अश्वो विषाणेन ।
14505 न वै विनाशो न अस्त्य् एव । स तु न अस्ति यो भावस्य भवन्ति । भाव
14506 एव तु क्षण-स्थिति-धर्मा विनाशः । तम् अस्य स्वभावम् उत्तर-
14507 कालं विभावयन्तो विनाशो अस्य भूत इति यथा-प्रतीति व्यपदिशन्ति
14508 इत्य् उक्तम् । न हि भावस्य किंचित् कदाचिद् भवति । स एव
14509 केवलं स्व-हेतुभ्यस् तथाभूतो भवति । तन् न केनचिद् भवता
14510 स नष्टः । किं तर्हि । स्वभाव एव अस्य येन स नष्टो नाम ।
14511 कथं तर्हि इदानीम् अहेतुको विनाशो भवति इत्य् उच्यते ।
14512 नश्यन् भावो अपर-अपेक्ष इति तज्-ज्ञापनाय सा ।
14513 अवस्था अहेतुर् उक्ता अस्या भेदम् आरोप्य चेतसा

1.277

14514 न भावो जातो अपरस्मान् नाशं प्रतिलभते तथाभूतस्य एव
14515 स्वयं जातेर् इत्य् अपर-अपेक्ष-धर्म-अन्तर-प्रतिषेध-अर्थं तत्-
14516 स्वभाव-ज्ञापनेन अर्थ-अन्तरम् इव धर्मिणो धर्मं चेतसा
14517 विभज्य तन्-मात्र-जिज्ञासायां स्वभाव एव तथा उच्यते । तद् एतन्
14518 मन्द-बुद्धयः क्वचित् तथा दर्शनाद् घोष-मात्र-विप्रलब्धा
14519 नाशं गुणं तस्य च भावम् आरोप्य सहेतुकम् अहेतुकं
14520 वा अप्रतिष्ठित-तत्त्वया भाव-चिन्तया आत्मानम् आकुलयन्ति ।
14521 स्वतो अपि भावे अभावस्य विकल्पश् चेद् अयं समः ।
14522 नन्व् अपरभावित्वे अपि विनाशस्य स्वत एव भावस्य भवतो
14523 अयं तत्त्वान्यत्त्व-विकल्पस् तुल्यः । तदा किम् अर्थ-अन्तर-भावे
14524 भावो न दृश्यते अनर्थान्तरत्वे अपि तद् एव तद् भवति ।
14525 तन् न किंचिद् अस्य जातम् इति कथं विनष्टो नाम । नन्व् अत्र ।
14526 न तस्य किंचिद् भवति न भवत्य् एव केवलम्

1.278

14527 इत्य् उक्तम् । न ह्य् अयं विनाशो अन्यो वा कश्चिद् भावस्य भवति इत्य्
14528 आह । किं तर्हि । स एव भावो न भवति इति । यदि हि कस्यचिद् भावं
14529 ब्रूयात् न भावो अनेन निवर्तितः स्यात् । तथा च भाव-निवृत्तौ
14530 प्रस्तुतायाम् अप्रस्तुतम् एव उक्तं स्यात् । न हि कस्यचिद्
14531 भावेन भावो न भूतो नाम । तदा न भूतो यदि स्वयं न
14601 भवेत् । न भवति इति च प्रसज्यप्रतिषेध एष न पर्युदासः ।
14602 अन्यथा इह अपि कस्यचिद् भावे न प्रतिषेध-पर्युदासयो रूप-
14603 भेदः स्याद् उभयत्र विधेः प्राधान्यात् । एवं च अप्रतिषेधात्
14604 कस्यचित् पर्युदासो अपि क्वचिन् न स्यात् । यदि हि किंचित् कुतश्चिन्
14605 निवर्तेत तदा तद्-व्यतिरेकि संस्पृश्येत । तत्-पर्युदासेन । तच्
14606 च न अस्ति । सर्वत्र निवृत्तिर् भवति इत्य् उक्ते कस्यचिद् भावस्य एव
14607 प्रतीतिः । तथा च अनेन अर्थ-अन्तर-भाव एव उक्तः स्यात् । न तयोः
14608 परस्परं विवेकः । अविवेके च न पर्युदासः । तद् एवं व्यतिरेक-
14609 अभावाद् अन्वयो अपि न स्यात् । तस्य एक-स्वभाव-स्थिति-लक्षणत्वात् ।
14610 तत्-स्थितिश् च तद्-अन्य-व्यतिरेके सति स्यात् । स च न अस्ति इत्य् अप्रवृत्ति-
14611 निवृत्तिकं जगत् स्यात् । तस्माद् यस्य नाशो भवति इत्य् उच्यते स
14612 स्वयम् एव न भवति इत्य् उक्तं स्यात् । न वै घोष-साम्याद् विषय-
14613 अन्तर-दृष्टो विधिः सर्वत्र योजनाम् अर्हति । न हि गर्दभ इति
14614 नाम-करणाद् बालेय-धर्मा मनुष्ये अपि संयोज्याः । तथा न
14615 चैत्रस्य पुत्रो भवति इत्य् अत्र दृष्टो विधिर् नाशे अपि विरोधात् ।
14616 एवं च अभिधाने अपि प्रयोजनम् आवेदितम् एव । अतः
14617 भावे ह्य् एष विकल्पः स्याद् विधेर् वस्त्व्-अनुरोधतः ।
14618 भावो अवश्यं भवन्तम् अपेक्षते । स च स्वभाव एव । निःस्वभावस्य
14619 क्वचिद् व्यापारे समावेश-अभावात् । व्यापार इति हि
14620 तथाभूत-स्वभाव-उत्पत्तिः । सा निःस्वभावस्य कथं स्यात् ।
14621 कथम् इदानीं भवत्य् अभावः शश-विषाणम् इत्य् आदि-व्यवहारः ।
14622 न वै शश-विषाणं किंचिद् भवति इत्य् उच्यते । अपि त्व् एवम्
14623 अस्य न भवति इति भाव-प्रतिषेध एव क्रियते । अपि च । व्यवहर्तार
14624 एव एतद् एवं व्यापार-वद् इव समारोप्य आदर्शयन्ति
14625 प्रकरणेन केनचित् । न तु तत् तथा । सर्व-अर्थ-विवेचनं हि
14626 तत्र तत्त्वं न कस्यचित् समावेशः । न खल्व् एवं विनाशो वस्तुनि
14627 तद्-भावात् । असाव् अपि यदि वक्तृभिर् एवं ख्याप्यते न
14628 तु स्वयं तथा तदा न किंचिद् भवति इति इष्टम् एव । तस्मात् स्वयं
14701 भवन् स्वभावो विकल्प-द्वयं न अतिवर्तते तत्त्वम् अन्यत्त्वम्
14702 इति । अतत्त्वम् एव स्वभावस्य अन्यत्त्वम् । न हि रूप-रसयोर्
14703 अप्य् अन्यद् एव परस्परम् अन्यत्त्वम् । स्वभाव-अप्रतिबन्धो
14704 अन्यत्त्वम् इति चेत् । को अयं प्रतिबन्धो नाम येन स च न
14705 स्यात् । न अन्य-स्वभावश् च । जन्म इति चेत् । सर्व-कारणानां परस्परम्
14706 अवाच्यता स्यात् । तथा च सर्वः सर्वस्य कथंचिद् उपयोगि
14707 इति न कश्चित् कुतश्चिद् अन्यः स्यात् । एवं च अवाच्यता इत्य् अपि कार्यकारणभाव
14708 एव शब्द-अन्तरेण उक्तः स्यात् । न अर्थ-भेदः । स्वभाव-अननुगमनं
14709 त्व् अन्यत्त्वं ब्रूमः । स च स्वभाववतां परस्परम्
14710 अस्त्य् एव इत्य् अन्यत्त्वम् एव । न च तज्-जन्म-लक्षणात्
14711 स्वभावप्रतिबन्धाद् अन्यः प्रतिबन्धो नाम । अनायत्तस्य
14712 व्यभिचार-अविरोधात् । ततो धर्म-भेदाच् च अन्यत्त्वम् । ज्ञान-कृतः
14713 प्रतिबन्ध इति चेत् । स्याद् एतत् । यत्-प्रतिपत्ति-नान्तरीयकं
14714 यज्-ज्ञानं तद्-गतौ नियमेन तत्-प्रतिभासनात् तद् अतद्-रूपम्
14715 अप्य् अवाच्यम् इति । न । तस्य निःस्वभावत्वात् स्वयम् । स एव हि
14716 तस्य स्वभावो यः प्रतिभाति । स्वभाववत्त्वे अस्य तद्वत् प्रतिभास-
14717 प्रसङ्गात् । अप्रतिभासमानस्य च दृश्य-अभावात् । अदृश्यत्वे
14718 अपि न तद्-रूपं ज्ञानम् इति कस्य किम् आयत्ता प्रतिपत्तिः । न
14719 च यद् यद् आयत्ता-प्रतीतिकं तस्य स्वभाव-प्रतिभास एव नश्यति ।
14720 प्रकाश-आयत्त-प्रतीतीनाम् इव नील-आदीनाम् । का वा तस्य प्रत्यासत्तिः ।
14721 तत्र यत् तस्मिन्न् अनात्म-रूपे प्रतीयमाने स स्वयं
14722 प्रत्युपतिष्ठते । अतिप्रसङ्गो ह्य् एवं स्यात् । प्रतीयमानस्य
14723 तद्-उपादानता इति चेत् । को अयम् उपादान-अर्थः । न कार्यकारणभावो
14724 अनभ्युपगमात् । अभ्युपगमे वा न कार्य-कारणे अन्योन्य-
14725 प्रतीति-प्रत्युपस्थापने । प्रतीतेर् एव तन्-नान्तरीयकता
14726 प्रत्यासत्तिर् इति चेत् । ननु स एव असति प्रतिबन्धे न युक्ता इत्य् उच्यते ।
14801 न अकार्य-कारणयोः कश्चित् प्रतिबन्ध इति च उक्तम् । यत् -प्रतिपत्ति-
14802 नान्तरीयकं यज्-ज्ञानम् इत्य् अपि तज्-ज्ञाने सति स्यात् । न हि यो
14803 विज्ञाने स्वरूपेण अस्वरूप-असंसर्गेण न प्रतिभासते तस्य किंचिज्
14804 ज्ञानम् । तद्-अभावान् न सिध्यति अवाच्यता-लक्षणम् अर्थ-
14805 रूपस्य । तद् भवता वस्तुतस् तत्त्वान्यत्त्व-भाजा भवितव्यम् ।
14806 यस्य तु विनश्यतो भावस्य न किंचिद् भवति । तेन
14807 न भावो भवति इत्य् उक्तम् अभावो भवति इत्य् अपि

1.279

14808 यद् अप्य् अयं भावस्य अभावो भवति इत्य् आह । तद् अपि भावो
14809 न भवति इत्य् एव उक्तं भवति । एवं हि स निवर्तितो भवति ।
14810 प्रतिषेधे विधेर् असम्भवात् । तत एव अस्य विनाशे न कश्चिद् हेतुः ।
14811 तथा हि ।
14812 अपेक्ष्येत परः कार्यं यदि विद्यत किंचन ।
14813 यद् अकिंचित्करं वस्तु किं केनचिद् अपेक्ष्यते

1.280

14814 सति हि कार्ये कारणं भवति । न च नश्यतो भावस्य किंचित्
14815 कार्यम् इत्य् उक्तम् । तस्माद् यो नाम नाश-हेतुः स भावे न
14816 किंचित् करोति इत्य् अकिंचित्करो न अपेक्ष्यणीयः । तत् कथं इदानीम्
14817 अनुत्पन्न-अतिशयस् तद्-अवस्थ एव भावो नष्टो नाम ।
14818 नन्व् अतिशय-उत्पत्ताव् अपि स एव तस्य अतिशय उत्पन्न इति कथं
14819 स नष्टो नाम । तेन न अयं तद्-अवस्थो नष्टो नाम । येन स्वयं
14820 न भवति तेन नष्टः । न अर्थ-अन्तर-उत्पादाद् इत्य् उक्तम् । न ह्य्
14821 अतिशय-उत्पत्त्या स्वयं न भूतो नाम । अभावस्य सर्व-अतिशय-उपाख्या-
14822 निवृत्त्या सर्व-भाव-धर्म-विवेक-लक्षणत्वात् । भावस्य
14823 च उत्पत्ति-समावेश-लक्षणत्वात् । तस्मान् न अभावे कस्यचिद् भाव-उपक्षेपो
14824 अन्यस्य ।
14825 एतेन अहेतुकत्वे अपि ह्य् अभूत्वा नाश-भावतः ।
14826 सत्ता-नाशित्व-दोषस्य प्रत्याख्यातं प्रसञ्जनम्

1.281

14827 यो अपि मन्यते अहेतुके अपि विनाशे अभूत्वा अस्य भावात् सत्ता-अनित्यत्वं
14901 च दुर्निवारम् । अभूत्वा भवन्न् अहेतुको भवति इत्य् अपि
14902 विरुद्धम् इति । सो अप्य् अनेन एव प्रत्याख्यातः । कस्यचिद् भावान् अभ्युपगमात् ।
14904 यथा केषांचिद् एव इष्टः प्रतिघो जन्मिनां तथा ।
14905 नाशः स्वभावो भावानां न अनुत्पत्तिमतां यदि

1.282

14906 अथ अपि स्याद् । भवतु नाम स्वभाव एष भावानां य इमे क्षण-
14907 स्थिति-धर्माणाः । स तु उत्पत्तिमताम् एव भविष्यति । न हि स्वभाव
14908 इति सर्वः सर्वस्य स्वभावो भवति प्रतिघ-आत्मता-वत् ।
14909 सत्यम् एतत् । तथा अपि ।
14910 स्वभाव-नियमाद् हेतोः स्वभाव-नियमः फले ।
14911 न अनित्ये रूप-भेदो अस्ति भेदकानाम् अभावतः

1.283

14912 न वै प्रतिघो अन्यो वा स्वभावो अकस्मात् प्रतिनियमवान् । यादृशी
14913 तु स्व-हेतोः शक्ति-स्थितिस् तादृशं फलं भवति इति हेतु-स्वभाव-
14914 नियमात् फल-स्वभाव-नियमः । आकस्मिकत्वे अप्य् अस्य उक्तो
14915 दोषः । प्रतिघात-आत्मता-हेतु-स्वभाव-प्रतिनियमवन् न नश्वर-
14916 जनन-प्रतिनियत-स्वभावं भावं पश्यामः । येन तज्-जन्मा
14917 तथा स्यान् न अन्यः । सर्व-आकार-जन्मनां विनाश-दर्शनात् ।
14918 नन्व् इदम् अप्य् अनिश्चेयम् एव सर्व-आकार-जन्मानो नश्यन्ति इति ।
14919 तासाम् अनिःशेष-दर्शनात् । विचित्र-शक्तयो हि सामग्र्यो दृश्यन्ते ।
14920 तत्र काचित् स्याद् अपि या अनश्वर-आत्मानं जनयेत् । न । ज्ञेय-अधिकारात् ।
14921 ये कदाचित् क्वचित् केनचिज् ज्ञाताः सन्तो न ज्ञायन्ते
14922 तेषां सत्ता-अनुबन्धी नाश इति ब्रूमः । त एव कृतका अनित्याः
14923 साध्यन्ते । न ह्य् अयं सम्भवो अस्ति यत् ते ज्ञान-जनन-
14924 स्वभावाः पुनर् अनष्टा न जनयेयुर् अपेक्षेरन् वा परम् ।
14925 तज्-जनन-स्वभावस्य निष्पत्तेः । न च तेष्व् अनपेक्षेषु कस्यचित्
14926 कदाचित् किंचिज् ज्ञानं निवर्तेत । न च एवंभूतं किंचिद् अस्ति ।
14927 सर्वस्य केनचित् कदाचित् ज्ञानात् । ज्ञान-मात्र-अर्थक्रियायाम् अप्य्
15001 असामर्थ्ये वस्त्व् एव न स्यात् । तथा हि तल्-लक्षणं वस्त्व् इति
15002 वक्ष्यामः । तस्य च विनाश-अव्यभिचारात् स सत्ता-अनुबन्धी ।
15003 प्रत्याख्येया अत एव एषां सम्बन्धस्य अपि नित्यता ।
15004 अत एव यथा उक्ताद् वस्तु-मात्र-अनुबन्धाद् विनाशस्य शब्द-वत्
15005 सम्बन्ध-नित्यता अपि प्रत्याख्येया । या च शब्द-शक्तिर् योग्यता-आख्या
15006 अर्थ-प्रतिपत्त्या आश्रयो जैमिनीयैर् वर्ण्यते स अर्थ-अन्तरम्
15007 एव न भवति । तथा हि । योग्यता इति रूप-अतिशय एव भावानाम् इत्य्
15008 आवेदितं प्राक् । अस्तु वा अर्थ-अन्तरम् । तथा अपि
15009 सम्बन्ध-दोषैः प्राग् उक्तैः शब्द-शक्तिश् च दूषिता

1.284

15010 उक्तो हि सम्बन्ध-अर्थ-अन्तर-वादे अनेक-प्रकारो दोषः । तेन एव
15011 सा शब्द-शक्तिर् दूषिता इति न पुनर् उच्यते । अपि च ।
15012 न अपौरुषेयम् इत्य् एव यथा अर्थ-ज्ञान-साधनम् ।
15013 दृष्टो अन्यथा अपि वह्न्य्-आदिर् अदुष्टः पुरुष-आगसा

1.285

15014 भवन्तु नाम अपौरुषेया वैदिकाः शब्दाः तथा अपि सम्भाव्यम्
15015 एव एषाम् अयथार्थ-ज्ञान-हेतुत्वम् । न हि पुरुष-दोष-उपधानाद्
15016 एव अर्थेषु ज्ञान-विभ्रमः । तद्-रहितानाम् अपि प्रदीप-आदीनां नील-उत्पल-
15017 आदिषु वितथ-ज्ञान-जननात् । तद् इमे शब्दाः संस्कार-निरपेक्षाः
15018 प्रकृत्या च अर्थेषु प्रतिभान-हेतवः स्युः । स्वभाव-विशेषाद्
15019 वह्न्य्-आदि-वत् । वितथ-व्यक्तयश् च नियमेन एव नियम-
15020 कारण-अभावाद् अयुक्तम् इति चेत् । अवितथ-व्यक्ति-नियमे किं
15021 कारणम् । तस्माद् यथार्थ-व्यक्ति-नियम-वत् प्रकृत्या अयथार्थ-
15022 व्यक्ति-नियमः किं न कल्प्यते । अथवा वह्न्य्-आदि-वद् एव अर्थेषु
15023 उभय-ज्ञान-हेतुत्वं स्यात् । न ह्य् अपौरुषेया अपि वह्न्य्-आदय
15024 एकत्र यथार्थ-ज्ञान-हेतवो अपि सर्वत्र तथा भवन्ति इति ।
15025 तथा शब्दानाम् अप्य् अपौरुषेयत्वे अप्य् उभयं स्याद् इति । भवतु
15026 वह्न्य्-आदीनाम् कृतकत्वाद् यथा-प्रत्ययम् अन्यत्र अन्यथात्वम्
15027 न पुनर् नित्येषु शब्देष्व् एतद् अस्ति । नन्व् एवंविधो अन्यत्र
15028 अप्य् अस्त्य् एव धर्मस् तेषाम् अपि संकेत-बलाद् अन्यथा-वृत्तेः
15029 कार्य-जनन-स्वभाव-स्थितौ च एषां समय-आदेर् अपेक्षणीयस्य अभावात् ।
15101 ततः प्रतीतिर् अर्थेषु सर्वस्य सर्वदा स्यात् । न च अस्ति
15102 तस्मान् न शब्दाः स्थित-स्वभावा इति । अपि च ।
15103 न ज्ञान-हेतुता एव स्यात् तस्मिन्न् अकृतके मते ।
15104 नित्येभ्यो अवस्तु-सामर्थ्यान् न हि जन्म अस्ति कस्यचित्

1.286

15105 यद्य् अकृतकः शब्दो न तस्माद् अर्थेषु प्रतीतिर् एव स्यात् । प्रतीति-
15106 जन्म-इतर-कालयोस् तुल्य-रूपस्य प्रतीति-जन्मनि सामर्थ्य-
15107 सम्भावना-अयोगात् । एवम् अयं जनको न एवम् इति विवेचनीयस्य
15108 रूप-भेदस्य अभावात् । न यादृशो अस्य अजनकस् तादृश एव जनको
15109 युक्तः । अन्य-अपेक्षा अपि निषिद्धा एव । तस्मान् न नित्यानां क्वचिद्
15110 विज्ञान-जनन-सामर्थ्यम् । कदाचिद् अजनने नित्यम् अजनन- प्रसङ्गात् ।
15111 कार्य-सातत्य-अदर्शनाच् च न ते कथंचित् कर्तार इत्य्
15112 उक्त-प्रायम् । या अप्य् एता नित्य-अभिमतेष्व् आकाश-आदिषु प्रतिपत्तयस्
15113 ता अपि न तत्-स्वभाव-भाविन्यः । तथा हि ।
15114 विकल्प-वासना-उद्भूताः समारोपित-गोचराः ।
15115 जायन्ते बुद्धयस् तत्र केवलं न अर्थ-गोचराः

1.287

15116 स्वलक्षण-विषया हि बुद्धिर् नियमेन तद्-योग्यता-उपस्थापन-अनुविधायिनी
15117 इति तस्मिन् सत्य् अस्याः कारणे योग्ये सा भवत्य् एव ।
15118 तद् यदि नित्यानां पदार्थानां स्वलक्षणे कस्यचित् ज्ञानं स्यात्
15119 सर्वस्य सर्वदा स्यात् । कार्य-विशेषा हि व्यक्तयः कथंचित्
15120 क्वचिद् उपयुज्यमानास् तद्-उपजनन-योग्य-अतिशय-प्रतिलम्भ-हेतुम्
15121 वस्तु-विशेषम् अपेक्षन्त इति युक्तम् । तथा अकार्य-विशेषो नित्यो
15122 भावः केनचिद् गृह्यमाणस् तत्-कारण-अपेक्षो यदि ग्रहणम् अस्य
15123 जनयेत् युक्तं यत् तेन एव गृह्येत । तच् च स्थित-स्वभावत्वान्
15124 न सम्भवति इति । सर्वेण समं गृह्येत न वा केनचिद् इति
15125 सन् केनचिद् दृष्टो न नित्यः कश्चिद् अतीन्द्रियः स्यात् । न च एतद् अस्ति ।
15126 तस्माद् अर्थ-सामर्थ्य-अनपेक्षाः समारोपित-गोचरा आन्तरम् एव उपादानं
15127 विकल्प-वासना-प्रबोधम् आश्रित्य बाह्य-अर्थ-शून्या भ्रान्तय
15128 एव आकाश-आदिषु सर्वस्य सम्भवन्ति इति । तस्मान् न अपरावृत्ति-
15201 धर्माः शब्दाः । तत्त्वे वा कुत एतद् अवितथ-अर्थ-प्रतीतय
15202 एव इति । न ह्य् अग्निर् हिमस्य भेषजम् इत्य् आदिषु शीत-प्रतिघात-
15203 सामर्थ्यं लोक-प्रसिद्धं अग्नेः ख्याप्यत इति सर्वं तथा
15204 भवति । लोकस्य स्व-इच्छा-कृत-संकेत-अनुव्यवहारात् किम् अयं
15205 लोकः स्व-संकेतम् अनुविदधद् एवं प्रत्येति आहोस्विच् शब्द-
15206 स्वभाव-स्थितेर् इति सन्देहः । लोक-इच्छया अपि परावर्त्यमानाः
15207 शब्दाः पुनर् अन्यत्र अन्यथा दृश्यन्त इति लोक-प्रसिद्ध्य्-अनुविधाने
15208 अपि सम्भवत्य् एषाम् अन्यथाभावः । तस्मात् कस्यचिद् अवैपरीत्य-
15209 दर्शने अपि सर्वेषां तथाभावो न सिध्यति । अकृतक-स्वभावत्वे
15210 अपि ह्य् एषां कश्चिन् मिथ्या-अर्थ-नियतो अपि स्याद् इति स्वभाव-
15211 अपरिज्ञानात् सर्वत्र संशयः स्यात् ।
15212 मिथ्यात्वं कृतकेष्व् एव दृष्टम् इत्य् अकृतं वचः ।
15213 सत्य-अर्थं व्यतिरेकस्य विरोधि-व्यापनाद् यदि

1.288

15214 अथ यन् मिथ्या-अर्थं वचनं तद् अखिलं कृतकम् इति हेतु-व्यतिरेकेण
15215 साध्य-व्यतिरेकस्य व्याप्तेर् अन्यत्र असम्भवाद् अकृतकं
15216 सत्य-अर्थम् इति स्याद् विना अप्य् अन्वयेन । यो हि येन अव्याप्तस्
15217 तत्र तद्-व्यतिरेकः शङ्क्येत । न च विरुद्धयोर् एकत्र सम्भवो
15218 अस्ति । असम्भवे च विजातीयस्य गत्य्-अन्तर-अभावाद् इष्ट-अर्थ-सिद्धेस्
15219 तत्-साधनत्वाच् च लिङ्गस्य व्यर्थम् अन्वय-दर्शनं
15220 व्यतिरेक-मात्रेण एव सिद्धेर् इति । सत्यम् एतत् यदि विपक्षयोर्
15221 व्याप्यव्यापकभावः सिध्येत् । स तु न सिद्धः । यस्मात्
15222 हेताव् असम्भवे अनुक्ते भावस् तस्य अपि शङ्क्यते ।
15223 विरुद्धानां पदार्थानाम् अपि व्यापक-दर्शनात्

1.289

15224 यदि हेतोः साध्य-विपक्षे अभावः सिध्येत् तदा साध्य-व्यतिरेकं
15225 हेतु-व्यतिरेको व्याप्नुयात् । न च तत्र तस्य असम्भवे
15226 प्रमाणं पश्यामः । न च अविरुद्ध-विधिः प्रतिषेध-साधनो
15227 युक्तः । अतिप्रसङ्गात् । न च एकत्र दृष्टस्य अन्यत्र असम्भव
15228 एव पृथग् विरुद्ध-सहभाविनाम् अपि दर्शनात् । अनित्यत्व-वत्
15229 प्रयत्नानन्तरीयक-इतरयोर् । न च तथाविधस्य अदर्शनाद् असत्त्वम्
15230 एव । यस्मात् ।
15301 न असत्ता-सिद्धिर् इत्य् उक्तं सर्वतो अनुपलम्भनात् ।
15302 असिद्धायाम् असत्तायां सन्दिग्धा व्यतिरेकिता

1.290

15303 न ह्य् अयं पुरुष-मात्रकः सर्वं द्रष्टुं समर्थो येन अस्य
15304 दर्शन-निवृत्त्या न तथा स्यात् । यस्य हि ज्ञानं ज्ञेय-सत्तां
15305 न व्यभिचरति स एवं ब्रुवाणः शोभेत अदर्शनान् न अस्ति इति ।
15306 तद् इमे स्वभाव-देश-काल-विप्रकर्षेण सन्तो अप्य् अनुपलक्ष्याः
15307 स्युः । तथा हि । को अत्यन्तपरोक्षे अर्थे संवादनम् इतरद्
15308 वा सर्व-दर्शी वचनस्य अकृतकस्य इतरस्य वा विभावयितुं समर्थः ।
15309 प्रतिपादितं च एतत् क्वचित् तथा दृष्टानाम् अप्य् अर्थानां
15310 पुनः कथंचिद् अन्यथाभावः यथा क्वचिद् देशे मधुराणि
15311 निम्ब-फलानि संस्कार-विशेषाद् आमलकी-फलानि च न
15312 च इदानीम् अतद्-दर्शिना तानि प्रतिक्षेप्तव्यान्य् एव इति । तस्माद् अकृतकं
15313 च स्याद् स्यान् मिथ्या-अर्थं च इति न विरोधं पश्यामः । न
15314 हि इयम् अनुपलब्धिर् अदृश्य-आत्मस्व् अभाव-साधिका इत्य् उक्तम् । तेन
15315 यत् किंचिन् मिथ्या-अर्थं तत् सर्वं पौरुषेयम् इत्य् अनिश्चयाद्
15316 अव्याप्तिः । तथा हि ।
15317 अन्वयो व्यतिरेको वा सत्त्वं वा साध्य-धर्मिणि ।
15318 तन्-निश्चय-फलैर् ज्ञानैः सिध्यन्ति यदि साधनम्

1.291

15319 तथा च उक्तम् । य एव तु उभय-निश्चित-वाची स साधनम् दूषणम्
15320 वा न अन्यतर-प्रसिद्ध-सन्दिग्ध-वाची पुनः साधन-अपेक्षत्वाद्
15321 इति । को ह्य् अदृष्ट-विरोधस्य सम्भवं प्रत्याचक्षीत । तद् अयं
15322 व्यतिरेकः संशयाद् असाधनम् । अपि च ।
15323 यत्र साध्य-विपक्षस्य वर्ण्यते व्यतिरेकिता ।
15324 स एव अस्य सपक्षः स्यात् सर्वो हेतुर् अतो अन्वयी

1.292

15401 यत् किंचिन् मिथ्या-अर्थं तत् सर्वं पौरुषेयम् इति हेतु-विपक्षेण
15402 साध्य-विपक्षस्य व्याप्तिस् तद्-अभावे अभाव-सिद्धौ स्यात् । तद्-अभावे
15403 भवतस् तेन व्याप्त्य्-अयोगात् । या एव च विजातीययोर् व्यावृत्ति-सिद्धिः
15404 सा एव अन्वय-स्थितिर् विपक्ष-व्यवच्छेद-लक्षणत्वात् साध्यस्य ।
15405 प्रतिषेध-द्वयाच् च विधि-सिद्धिर् इति का अनन्वय-अव्यतिरेक-व्याप्ति-
15406 सिद्धिः । तन् न कश्चिद् हेतुर् अनन्वयो नाम । एक-व्यवच्छेदस्य
15407 तद्-विजातीय-सिद्धि-नान्तरीयकत्वात् । अनित्य-निरात्मता-आदि-व्यवच्छेदे
15408 अपि तथा स्यात् । न । व्यतिरेक-व्यवच्छेदस्य भाव-रूपत्वात् ।
15409 न भाव-रूप-व्यवच्छेदे भाव-अनुषङ्गः । अभाव-व्यवच्छेदस्
15410 तु नियमेन भाव-उपस्थापनः । भाव-अभावयोर् अन्योन्य-विवेक-
15411 रूपत्वात् । अभाव-रूपस् तु व्यतिरेकः स च व्यतिरिच्यमानो
15412 भावम् उपस्थापयति न एवं नैरात्म्य-आदयः स्वभाव-विशेषात् ।
15413 क्रिया-भोग-अधिष्ठान-अस्वतन्त्रो ह्य् आत्मा निरात्मा । तत्-स्वातन्त्र्य-
15414 लक्षणत्वाद् आत्मनः । तद् रूपं नैरात्म्यं न आत्म-निवृत्ति-
15415 मात्रम् अन्यथा निरुपाख्ये कृतकत्व-आद्य्-अयोगान् न ततो नैरात्म्य-
15416 सिद्धिः स्यात् । आत्म-व्यवच्छेदेन निरात्मनो भावस्य परामर्शाद्
15417 अदोष इति चेत् । पर्युदासेन वस्तु-संस्पर्शाद् तद् एव
15418 वस्तु-रूपं नैरात्म्यम् आयातम् । यस्य अपि न अभाव-रूपो व्यतिरेकस्
15419 तस्य भाव-रूप-व्यवच्छेदे न भाव-सिद्धिः स्याद् इति
15420 न अन्वय-अनुषङ्गः । तथा अनैरात्म्ये अपि न भाव-सिद्धिः । यथा
15421 न इदं निरात्मकं जीवच्छरीरं प्राण-आदिमत्त्वाद् इति विपक्षयोर्
15422 व्याप्यव्यापकभाव-चिन्तायाम् अप्राण-आदिमत्त्व एव नैरात्म्यं
15423 दृष्टम् । तद्-अभावे च न अस्ति इति स्वयं न भवद् अपि प्राण-आदीनां
15424 न आत्मनि सिद्धिम् उपस्थापयति । तथा साध्ये अपि प्राण-आदिभिर्
15425 व्युदस्यमानं स्यात् केवलम् । नैरात्म्ये अभावात् प्राण-
15426 आदयस् तन्-निरसना न आत्म-उपस्थापनाः । तत्र भाव-असिद्धेः ।
15427 न च नैरात्म्य-निवृत्त्या आत्म-सिद्धिः स्यात् । विपक्ष-व्यतिरेक-दर्शने
15428 अपि प्रसङ्गात् । तन् न विपर्यय-व्याप्तिर् व्यतिरेक-असिद्धौ ।
15429 तत्-सिद्धिर् एव च अन्वय-सिद्धिः । असिद्धौ वा तद्-व्यतिरेक-निवृत्ति-
15430 सिद्धाव् अपि तद्-असिद्धिर् इति साध्ये अपि प्रसङ्गः । तन् न अनन्वया
15431 व्यतिरेक-व्याप्तिः । मिथ्या-अर्थतायास् तु पौरुषेयत्वेन व्याप्त्या
15501 अपौरुषेयान् निवृत्ताव् अपि न सत्य-अर्थत्वम् । प्रकार-अन्तर-सम्भवात् ।
15502 द्वैराश्ये तु शब्दानाम् एतत् स्याद् एक-निवृत्तौ गत्य्-अन्तर-
15503 अभावात् । ते त्व् अनर्थका अपि स्युर् इति न इष्टसिद्धिः । अर्थ-प्रतीतेर्
15504 न अनर्थका इति चेत् । एष पुरुष-व्यापारः स्यात् । अर्थ-अन्तर-विकल्प-वत् ।
15505 यथा अतद्-अर्थत्वे अपि भरत-उर्वश्य्-आदि-चरित-आदिकम् अर्थम्
15506 अन्ये अन्यथा व्याचक्षते । तद्-अनुसारेण च केषांचित् प्रतीतिः ।
15507 तथा अयम् अनर्थकेष्व् अर्थ-विकल्पः पुरुष-कृतः न तु शब्द-
15508 स्वभाव-कृतः पुरुष-उपदेश-अपेक्षणात् अर्थ-अन्तर-वद् एव ।
15509 न हि प्रकृत्या प्रकाशनास् तम् अपेक्षन्ते वह्न्य्-आदयः । पुरुषस्
15510 तु स्व-समय-व्यापारम् आचक्षाण उपदिशति इति न्याय्यम् ।
15511 पुरुष-समित-निसर्ग-सिद्धयोर् उपदेश-अपेक्षण-अविशेषाद् अन्य-विशेष-अभावाच्
15512 च एको नैसर्गिको अन्यस् तु पौरुषेय इति दुरवसानम् । अस्ति
15513 विशेषः प्रमाण-संवाद इति चेत् । एतद् उत्तरत्र निषेत्स्यामः न अस्त्य्
15514 अत्यन्तपरोक्षे अर्थे प्रमाण-अन्तर-वृत्तिर् इति । समान-धर्मिणोर्
15515 अर्थयोः प्रमाण-संवाद-मात्र-विशेषाद् एकत्र अपौरुषेयत्वे बहुतरम्
15516 इदानीम् अपौरुषेयम् । सन्ति पुरुष-कृतान्य् अपि वाक्यानि कानिचिद्
15517 एवंविधानि इति तेष्व् अपि प्रसङ्गः । तद्वद् एषाम् अप्य् अभिमत-
15518 अर्थवत्ता पौरुषेयी च स्यात् प्रमाण-अनुरोधिनी च । अपि
15519 च इदं मन्त्रा अपौरुषेयाश् च इति व्याहतं पश्यामः । तथा हि ।
15520 समयत्वे हि मन्त्राणां कस्यचित् कार्य-साधनम् ।
15521 युक्तम् । यद्य् एते मन्त्राः कस्यचित् समयो यथा मत्-प्रणीतम् ।
15522 एतद् अभिमत-अर्थ-उपनिबन्धनं वाक्यम् एवं नियुञ्जानम्
15523 अनेन अर्थेन योजयामि इति परार्थ-परता-अनुरोधेन अन्यतो वा कुतश्चिद्
15524 हेतोः कृतः स्यात् तदा मन्त्र-प्रयोगात् कदाचित् अर्थ-
15525 निष्पत्तिर् युक्ता कवि-समयाद् इव पाठकानाम् ।
15526 अथ अपि भाव-शक्तिः स्याद् अन्यत्र अप्य् अविशेषतः

1.293

15527 न वै पुरुष-समयान् मन्त्रेभ्यो अर्थ-सिद्धिः । किं तर्हि । भाव-
15528 स्वभाव एष यद् इमे कथंचिन् नियुक्ताः फलदाः । तत् तर्हि
15601 रूपं वर्णानां सर्वत्र अविशिष्टम् इति यथाकथंचित् प्रयुक्ताद्
15602 अपि फलं स्यात् । वर्णा एव हि मन्त्रो न अन्यत् किंचित् । तत्-क्रमो
15603 मन्त्र इति चेत् ।
15604 क्रमस्य अर्थान्तरत्वं च पूर्वम् एव निराकृतम् ।
15605 न वर्ण-व्यतिरिक्तो अन्यः क्रम इति निवेदितम् एतत् । अव्यतिरेके
15606 च वर्णा एव मन्त्रस् । ते च अविशिष्टाः सर्वत्र इति सर्वदा फलदाः
15607 स्युः । उपप्लवस् त्व् अल्पीयसो अपि क्रमस्य भ्रंशाद् दृष्टः ।
15608 कस्यचिद् अनुष्ठानाद् देवता-संनिधेर् असाकल्येन विराधनाच्
15609 च । सर्व-भ्रंशे तु कस्यचिद् एव समयस्य अननुष्ठानाद् असंनिधेर्
15610 न अर्थ-अनर्थौ । किं च क्रमस्य अर्थान्तरत्वे अनर्थान्तरत्वे
15611 वा वर्ण-आत्मनस् तत्-क्रम-आत्मनो वा मन्त्रस्य अर्थ-हेतोर्
15612 अकृतकत्वान् नित्यस्य नित्यं संनिधानम् इति
15613 नित्यं तद्-अर्थ-सिद्धिः स्याद् ।
15614 यतो हि भाव-शक्तेः फल-उत्पत्तिः सा अविकला इति न फल-वैकल्यं
15615 स्यात् । न हि कारण-साकल्ये कार्य-वैकल्यं युक्तम् । तस्य
15616 अकारणत्व-प्रसङ्गात् । न केवलान् मन्त्र-प्रयोगाद् इष्टसिद्धिस्
15617 तस्य विधान-अपेक्षत्वाद् इति चेत् ।
15618 असामर्थ्यम् अपेक्षणे

1.294

15619 यदि मन्त्रा विधानाद् अन्यतो वा कंचित् स्वभाव-अतिशयम् आसादयेयुः
15620 स तत्र समर्थो अपेक्ष्यः स्यात् । न च नित्येष्व् एतद्
15621 अस्ति इत्य् उक्तम् । तत् किम् अयम् असमर्थो अपेक्ष्यत इत्य् अनपेक्षाः
15622 सदा कुर्युर् न वा कदाचिद् अनतिशयात् ।
15623 सर्वस्य साधनं ते स्युर् भाव-शक्तिर् यद् ईदृशी ।
15624 प्रयोक्तृ-भेद-अपेक्षा च न असंस्कार्यस्य युज्यते

1.295

15625 यदि भाव-शक्तया एव मन्त्राः सिद्धि-प्रदा न ते कंचित् परिहरेयुर्
15626 यजमानम् अन्यं वा । न ह्य् अन्यं प्रति स्वभावो अतद्-भावो
15627 भवति । तस्य तेन अनपकर्षणाद् अन्येन च अनुत्कर्षणात् ।
15701 केनचित् सह कार्यकारणभाव-अयोगात् । प्रत्यासत्ति-विप्रकर्ष-
15702 अभावात् । अत एव अस्य असंस्कार्यत्वात् प्रयोक्ता अपि न अस्ति । अतः
15703 प्रयोक्ता फलम् अश्नुवीत ।
15704 संस्कार्यस्य अपि भावस्य वस्तु-भेदो हि भेदकः ।
15705 प्रयोक्तृ-भेदान् नियमः शक्तौ न समये भवेत्

1.296

15706 आधेयविशेषा ह्य् अनित्या भावाः । तद्-हेतोः स्वभाव-भेदे ततः
15707 समासादित-अतिशयत्वाद् अन्यत्र अन्यथा स्युः । न अभेदे । कारण-अविशेषे
15708 कार्य-अविशेषात् । विशेषे तस्य अहेतुकत्व-प्रसङ्गाद् इत्य् उक्त-
15709 प्रायम् । तद् इमे मन्त्राः स्वभाव-अतिशयात् फलदायिनः कार्या
15710 अपि न शूद्र-आदि-प्रयोगे अप्य् अन्यथा स्युः । शूद्र-विप्र-अभिधानयोः
15711 पुरुषयोः स्वभाव-अभेदात् । न हि पुरुष-इच्छा-अनुविधायिनो
15712 नाम-व्यवहार-भेदात् स्वभाव-भेद-अनुबन्धिनाम् अर्थानाम् अन्यथात्वम्
15713 अस्ति । तयोर् जाति-भेद इति चेत् । स खल्व् आकृति-गुण-शक्ति-
15714 भेदे दृष्टो गव-अश्व-वत् । अनुपदेशं च एनं लोकः प्रतिपद्यते ।
15715 न तद्वद् अनयोः कंचिद् अपि गुणं विनियतं पश्यामः । अपश्यन्तश्
15716 च कथं भेदं प्रतिपद्येमहि । यो अप्य् अयं नाम-
15717 भेद-अन्वयो लोके प्रतीति-भेदः सो असत्य् अपि जाति-भेदे व्यापार-
15718 विशेष-अनुष्ठानाद् अन्वयाच् च स्याद् वैद्य-वणिग्-व्यपदेश-आदि-वत् ।
15719 तद् इमे अविशिष्टेन प्रयुज्यमाना मन्त्रास् ततो अविशिष्टम् एव
15720 स्वभावम् आसादयन्ति । तेन अविशेषेण एव फलदाः स्युः । यदा
15721 तु समयाद् एभ्यः फलं तदा अयम् अदोषः । समयकारस्य
15722 रुचेः फल-उत्पत्ति-नियमात् । स्वभाव-वृत्तयो हि भावास् तन्-मुखेन
15723 प्रसङ्गम् अर्हन्ति । न पुरुष-इच्छा-वृत्तयस् तेषां
15724 यथाकथंचिद् वृत्तेः । यद् अपि प्रयोक्ता फलम् अश्नुत इति
15725 प्रयोगं समीहित-अर्थ-योग्यस्य उत्पादनं सन्तानपरिणामनं
15726 वा पश्यामः । तद् उभयं विशेष-जन्मनि स्यात् । अन्यथा ।
15727 अनाधेयविशेषाणां किं कुर्वाणः प्रयोजकः ।
15728 येन ततः कश्चित् फलम् अश्नुते अन्यो न ।
15729 प्रयोगो यद्य् अभिव्यक्तिः सा प्राग् एव निराकृता

1.297

15801 न हि नित्यानां काचिद् अभिव्यक्तिर् इत्य् उक्तम् यतो अभिव्यञ्जकः
15802 प्रयोक्ता स्यात् ।
15803 व्यक्तिश् च बुद्धिः सा यस्मात् स फलैर् यदि युज्यते ।
15804 स्याच् श्रोतः फल-सम्बन्धो वक्ता हि व्यक्ति-कारणम्

1.298

15806 न हि शब्दस्य अन्यतः स्वरूप-परिणामो व्यक्तिर् न अप्य् आवरण-विगमनम् ।
15807 किं तु तद्-विषया प्रतीतिर् अश्रूयमाणे अव्यक्त-व्यपदेशात् ।
15808 तत्र यदि बुद्धि-हेतुर् वक्ता स्यात् तत् तुल्यं श्रोतर्य् अपि इति
15809 सो अपि फलं वक्तृ-वद् अश्नुवीत । न हि वक्तुः कश्चिद् अन्यस्
15810 तद्-भावो अन्यत्र तद्-बुद्धि-हेतुत्वात् । पर-उपाधि-बुद्धिः श्रोतुर्
15811 न वक्तुर् इति विशेष इति चेत् । कः पुनर् उपयोगो वक्तुः श्रोतरि
15812 येन उपाधिर् इष्यते । ततः शब्द-श्रुतिर् इति चेत् । ननु तद् एव इदं
15813 पर्यनुयुज्यते कथं तत इति । असम्बन्धात् । विषय-उपनयनाद्
15814 अयम् अस्य श्रावकः स्यात् । तच् च न शक्यम् तस्य कथंचिद्
15815 अप्य् अपरिणामात् । इन्द्रिय-संस्कार-आदयो अप्य् उक्ताः । मां
15816 श्रावयत्य् अहं श्रावयामि इति तयोः प्रत्ययाद् वक्तृ-श्रोतृ-भेद
15817 इति चेत् । अनुपकार्य-उपकारकाद् भ्रान्ति-मात्रात् तद्-भावे अतिप्रसङ्गात् ।
15818 अन्यत्र अपि भ्रान्त्या प्रत्यय-दर्शनात् । सर्वथा उपकार-अभावे
15819 च तथा प्रत्ययो न युक्तः । सर्वेषां परस्परम् एवं
15820 प्रसङ्गात् । भ्रान्तिर् अपि कुतश्चिद् उपकारे सति कयाचित् प्रत्यासत्त्या
15821 अन्यत्र भवति । स अप्य् अत्यन्त-अनुपकारे न स्यात् । तस्माद्
15822 वक्तृ-श्रोत्रोर् व्यक्ति-हेतुत्वे अविशेषात् तुल्यः फल-सम्बन्धः
15823 स्यात् । अपि च ।
15824 अनभिव्यक्त-शब्दानां करणानां प्रयोजनम् ।
15825 मनोजपो वा व्यर्थः स्याच् शब्दो हि श्रोत्र-गोचरः

1.299

15826 श्रोत्र-ग्रहण-लक्षणः शब्दः । तद्-अतिक्रमे अतिप्रसङ्गात् । नन्व्
15827 एवं सामान्ये अपि प्रसङ्गः । न ब्रूमः शब्द एव इति । शब्दस् त्व्
15828 अवश्यं तल्-लक्षणस् तस्य लक्षण-अन्तर-अभावात् । तत्र यदि
15829 शब्द-आत्मनां मन्त्राणां व्यक्ति-हेतुः प्रयोक्ता अनभिव्यक्त-
15901 श्रुति-विषयाणां करणानां प्रयोक्ता जापी न मन्त्र-फलेन
15902 युज्यते न अपि मनसा जपन् । न हि तदा श्रोत्रेण कंचिद् अर्थं
15903 विभावयामः । न च अशब्द-आत्मा मन्त्रः ।
15904 पारंपर्येण तज्जत्वात् तद्-व्यक्तिः सा अपि चेन् मतिः ।
15905 न हि मनसा ध्यायतो अपि मन्त्र-आभासा बुद्धिः शब्द-श्रवणाद्
15906 ऋते । ततः शब्द-प्रभवात् सा अपि शब्द-व्यक्तिर् एव । अनवस्था एवं
15907 स्यात् । शब्द-अर्थ-विकल्पानाम् अपि परंपरया प्रसूतिर् अस्ति इति ।
15908 ते ।
15909 अपि
15910 तथा स्युस् तद्-अर्था चेद् असिद्धं कल्पना-अन्वयात्

1.300

15911 न ब्रूमः सर्वा शब्द-प्रभवा बुद्धिस् तद्-व्यक्तिर् इति । या तु
15912 तद्-विषया सा तस्य व्यक्तिर् इति । मनो-विकल्पस्य तद्-विषयत्वम्
15913 असिद्धम् । न हि स्वलक्षणे विकल्पानां वृत्तिर् इति निवेदयिष्यामः ।
15914 ते हि यथास्वम् आन्तराद् विकल्प-वासना-प्रबोधाद् अनपेक्षित-
15915 बाह्य-अर्थ-उपनिधयो भवन्ति । बाह्य-अपायान-आगमे अपि भावात् ।
15916 न हि यो यस्य सत्ता-उपधानं न अपेक्षते स तस्य हेतुः । अहेतुश्
15917 च कथं विषयः । तस्मान् न मनो-विकल्पः शब्द-व्यक्तिर्
15918 यतस् तद्वान् प्रयोक्ता स्यात् । तत्-प्रसूता तद्-विषया बुद्धिस् तद्-व्यक्तिः ।
15919 तद्-आश्रयः प्रयोक्ता इति । अत्र अप्य् उक्तं श्रोतर्य् अपि प्रसङ्ग
15920 इति । तज्-ज्ञाने च प्रयोगे शब्दः पुरुषे व्याप्रियते । तस्य ज्ञान-
15921 जननात् । न पुरुषः शब्दे । तदात्मन्य् अनुपकारात् । अथ च
15922 पुरुषः शब्दानां प्रयोक्ता इत्य् अलौकिको अयं व्यवहारः ।
15923 सर्वथा शब्द-स्वभावानां मन्त्राणां प्रयोगात् फल-अवाप्तौ
15924 व्यर्थो मनोजपो विकल्पस्य शब्द-रूप-असंस्पर्शात् ।
15925 स्व-सामान्य-स्वभावानाम् एक-भाव-विवक्षया ।
15926 उक्तेः समयकाराणाम् अविरोधो न वस्तुनि

1.301

15927 समयकारस् तु स्वलक्षणम् इन्द्रिय-विषयं सामान्यलक्षणं
15928 च विकल्प-प्रतिभासं यथा-व्यवहारं संवृत्या संकलय्य
15929 समयम् आरोचयेत् यथा-समयं च अर्थं निष्पादयेद् इति
16001 न मनोजप-आदाउ दोषः । वस्तु-स्वभावात् तु फलाव् आप्ताव् अतत्-
16002 स्वभाव-संस्पर्शे न स्यात् । यद् उक्तं न वर्णेभ्यो अन्या काचिद्
16003 आनुपूर्वी इति तत्र ।
16004 आनुपूर्व्याम् असत्यां स्यात् सरो रस इति श्रुतौ ।
16005 न कार्य-भेद इति चेद् ।
16006 न हि सरो रस इत्य् आदि-पादेषु कश्चिद् वर्ण-भेदो न च वर्ण-व्यतिरिक्तम्
16007 अन्यद् यतः कार्य-भेदः स्यात् । भिन्नां च तयोः
16008 प्रतिभां पश्यामः आनुपूर्वीम् एव च अतुल्याम् । न च कारण-अभेदे
16009 कार्य-भेदो युक्तः । तस्माद् अस्ति सा भेदवती यतो अयम्
16010 प्रतीति-भेदः । सत्यम्
16011 अस्ति सा पुरुष-आश्रया

1.302

16012 तथा हि ।
16013 यो यद्-वर्ण-समुत्थान-ज्ञानजाज् ज्ञानतो ध्वनिः ।
16014 जायते तद्-उपाधिः स श्रुत्या समवसीयते

1.303

16015 तज्-ज्ञान-जनित-ज्ञानः स श्रुताव् अपटु-श्रुतिः ।
16016 अपेक्ष्य तत्-स्मृतिं पश्चाद् आधत्ते स्मृतिम् आत्मनि

1.304

16017 इत्य् एषा पौरुषेय्य् एव तद्-हेतु-ग्राहि-चेतसाम् ।
16018 कार्यकारणता वर्णेष्व् आनुपूर्वी इति कथ्यत्

1.305

16019 चित्त-समुत्थाना हि वाग्-विज्ञप्तिर् वर्ण-पद-वाक्य-अभिधाना । तत्र
16020 सकार-समुत्थापन-चेतसा समनन्तरप्रत्ययेन अकर-उत्थापन-
16021 चित्तम् उत्थाप्यते । तथा रेफ-आकार-विसर्जनीय-उत्थापनानि पूर्व-
16022 पूर्व-प्रत्ययानि । तद् इमे अन्यान्य-हेतवो वर्णाः स्व-कारण-
16101 आनुपूर्वी-जन्मानः । श्रुति-काले अपि यदा मन्द-चारिणः पूर्व-
16102 वर्ण-ज्ञान-सहकारि-प्रत्यय-अपेक्षाः स्व-ज्ञानं जनयन्ति तदा
16103 पूर्व-वर्ण-स्मरण-अपेक्षा एव स्मृतिम् उपलीयन्ते । स एष वर्णानां
16104 भिन्न-कार्यकारणभाव-प्रत्यय-निर्वृत्ति-धर्मा भिन्न-
16105 निर्वर्तन-धर्मा च स्वभावः पुरुष-संस्कार-भेद-भिन्नः
16106 क्रम इत्य् उच्यते ।
16107 अन्यद् एव ततो रूपं तद् वर्णानां पदं पदम् ।
16108 कर्तृ-संस्कारतो भिन्नं सहितं कार्य-भेद-कृत्

1.306

16109 तस्मान् न खल्व् एक एव पदेषु वर्णानां स्वभावः कर्तृ-चित्त-
16110 संस्कार-भेदेन भेदात् । स च परस्पर-सहितः कार्य-भेद-
16111 हेतुः ।
16112 सा च आनुपूर्वी वर्णानां प्रवृत्ता रचन-आकृतः ।
16113 इच्छा अविरुद्ध-सिद्धीनां स्थित-क्रम-विरोधतः

1.307

16114 कार्यकारणभूत-प्रत्यय-उत्पन्न-स्वभाव-विशेषो वर्णानाम् आनुपूर्वी
16115 इत्य् उक्तम् । सा च पुरुष-वितर्क-विचार-कृता इति न स्थित-क्रमा
16116 वर्णाः । इच्छा अविरुद्ध-सिद्धि-क्रमत्वात् । क्रम-विशेष-अनुक्रम-वत् ।
16117 न हि स्थित-क्रमाणां देश-कालयोर् हिमवद्-विन्ध्य-मलय-
16118 आदीनां बीज-अङ्कुर-आदीनां च स्व-इच्छया क्रम-रचना शक्यते
16119 कर्तुम् । तत एव पुरुष-धर्म-संख्याते विकल्प-अनुक्रमे सति
16120 भावाद् असति च अभावात् ।
16121 कार्यकारणता-सिद्धेः पुंसां वर्ण-क्रमस्य च ।
16122 सर्वो वर्ण-क्रमः पुम्भ्यो दहन-इन्धन-युक्ति-वत्

1.308

16123 सति इन्धने दाह-वृत्तेर् असत्य् अभावाद् अदृष्ट-इन्धनो अपि दहनो
16124 न अनिन्धनस् तस्य देश-काल-नियम-अयोगात् । नियमे च तस्य एव इन्धनत्वाद्
16125 दहन-उपादान-लक्षणत्वाद् इन्धनस्य । तथा अयम्
16201 अपि वर्ण-अनुक्रमः पुरुष-विकल्पं यदि न अपेक्षेत निरालम्बनः
16202 स्वयं प्रकाशेत । यत्ने अपि न शक्येत । अतत्-प्रभवात् ।
16203 क्वचिच् शक्तौ सर्वस् तथा स्यात् । विशेष-अभावात् । तद्-भाव-भाविनो
16204 अतद्-विशिष्टस्य च अतत्-कृतौ सर्वत्र कार्यकारणभावश् च
16205 निराकृतः स्यात् । अन्वय-व्यतिरेक-लक्षणत्वात् तस्य । लक्षण-अन्तरं
16206 वा वक्तव्यम् । सर्वे अपि घट-आदयो भावाः कृत्रिमा अकृत्रिमा
16207 प्रसजन्ति । तत्र अप्य् एवं विकल्पनायाः सम्भवात् । विशेष-अभावाच्
16208 च । तान् अपि हि पर-क्रिया-दर्शन-पूर्वकम् एव अन्यः करोत्य् अविदित
16209 कर्तारश् च केचिद् इति सर्वेषां केषांचिद् वा अक्रिया-अभिनिवेशो अस्तु ।
16210 तस्मात् सर्वा एव इयं वर्ण-आनुपूर्वी प्रसिद्ध-कार्यकारणभाव-
16211 वस्तु-धर्म-अनतिक्रमात् पुरुष-कृता । अत एव ।
16212 असाधारणता सिद्धा मन्त्र-आख्य-क्रम-कारिणाम् ।
16213 पुंसां ज्ञान-प्रभावाभ्याम् अन्येषां तद्-अभावतः

1.309

16214 अयं क्रमो वर्णानां विष-निर्घात-आदि-समर्थो न अन्य इति यद्य्
16215 अन्यो अपि जानीयत् तं तथा एव प्रतिपद्येत । न च एवम् । तस्माद्
16216 अयम् अनुक्रमः स्वभावतो अपि कार्य-कृत् कैश्चिद् एव विज्ञात इत्य्
16217 अस्ति परोक्ष-अर्थ-दर्शी पुरुषः । न ह्य् अयम् अर्थः समर्थो
16218 न अयम् इति शक्यम् उन्नेतुम् असंकीर्णस्य लिङ्ग-विशेषस्य असिद्धेः ।
16219 प्रत्यक्षयोर् अप्य् अनुपदिष्टयोर् मन्त्र-अमन्त्रयोर् अपरिज्ञानात् ।
16220 उपदेशे अपि कथंचित् स्वभाव-विवेक-अप्रतीतेर् अन्यत्र कार्य-
16221 संवादात् तस्य च करणात् प्राग् द्रष्टुम् अशक्यत्वात् । न
16222 च अयम् अनुक्रमः स्वभावतः कारकः कस्यचिद् आशु-सिद्धेर्
16223 अन्यस्य चिराद् अपरस्य व्रत-चरण-आद्य्-अपेक्षणात् । एकस्माद् अपि
16224 कर्मणः कयोश्चिद् अर्थ-अनर्थ-सन्दर्शनात् । वहताम् अपि
16225 मन्त्राणां पुनः क्वचिद् विसंवादात् । न ह्य् अयं प्रकारः
16226 स्वभावे युक्तः । स्वभावस्य सर्वत्र अविशेषात् । पुरुषस्
16227 तु स्व-इच्छा-प्रवृत्तिः सत्त्व-सभागता-आदि-वशात् सा इव अविशेषाद् वा
16301 कंचिद् अनुगृह्णाति न अपरम् इति युक्तम् । व्रत-चर्या-भ्रंश-
16302 आदिना धर्म-अधर्म-उपचये धर्म-अधर्म-आत्मनोर् वा प्रकृत्या
16303 सिद्ध्य्-असिद्धी इति चेत् । न । धर्म-विरुद्धानाम् अपि क्रौर्य-
16304 स्तेय-मैथुन-हीन-कर्म-आदि-बहुलानां व्रतानां डाकिनी-भगिनी-
16305 तन्त्र-आदिषु दर्शनात् । तैश् च सिद्धि-विशेषात् । न च एवंविधो
16306 धर्म-स्वभाव इति च यथावसरं निवेदयिष्यामः । मैत्री-
16307 शौच-धर्म-परायणानां च तन्-निमित्तम् एव कस्याश्चिद् सिद्धेर्
16308 असिद्धेर् विपर्यये च पुनः सिद्धेः । न च एक-रूपात् कर्मणः
16309 स तद्-विरोधी धर्मो युक्तो अधर्मश् च । कथम् इदानीं धर्म-
16310 फलम् इष्टम् अधर्म-आत्मनो व्रत-आदेर् अश्नुते । न वै तस्य एव
16311 तद् इष्टं फलं व्रत-आदेर् विपाको अपि तु पूर्वस्य कर्मणः ।
16312 ब्रह्म-हत्य्-आदेश-अनुष्ठानाद् ग्राम-प्रतिलम्भ-वत् । तस्य त्व्
16313 अधर्म-आत्मनो व्रतस्य आगामि फलम् अनिष्टम् । स तु मन्त्र-आदि-
16314 प्रयोगस् तस्य इष्ट-फलस्य कर्मणः कथंचिद् उपकारात् पाचकश्
16315 चित्रत्वाद् उपकारक-शक्तेः । पुरुष-विशेष-आश्रय-विपाक-
16316 धर्मा स धर्मस् तेन कृतः स तथा तद्-आराधनेन फलति इति ।
16317 तत्-प्रयोग-उपकार-विपाक-धर्मणः कृतत्वात् तत्-फलस्य कर्मणः ।
16318 विना अपि पुरुषेण तद्-उपकारात् फलम् इति चेत् । न । पुरुष-आकार-
16319 स्वभाव-चर्या-अधिमुक्ति-वैयर्थ्य-प्रसङ्गात् । तस्य अप्य् उपकारत्वे
16320 सिद्धः पुरुष-विशेषो असाधारण-गुणः । तद्-अधिमुक्तेर्
16321 एव हि विष-कर्म-आदि-करणात् । तस्मात् च मन्त्राः पुरुष-प्रनीता
16322 अपि तद्-उपयोग-निरपेक्षाः स्वभावेन फलदाः ।
16323 ये अपि तन्त्रविदः केचिन् मन्त्रान् कांश्चन कुर्वते ।
16324 प्रभु-प्रभावस् तेषां स तद्-उक्त-न्याय-वृत्तितः

1.310

16325 रथ्या-पुरुषा अपि केचन तन्त्रज्ञाः स्वयं-कृतैर् मन्त्रैः
16326 किंचित् कर्म कुर्वन्ति । तथा अन्यो अप्य् अनतिशयश् च कर्ता च
16327 मन्त्राणाम् इति । न । तेषां प्रभाववता एव अधिष्ठानात् । तत्-कृतं
16328 हि ते समयम् अनुपालयन्तस् तद्-उपदेशेन च वर्तमानाः समर्थाः ।
16329 तत्-समय-उपदेश-निरपेक्षाणाम् असामर्थ्यात् । तत्र अपि
16401 तद्-आकार-ध्यान-आदेर् एव प्रयोगात् । तस्मात् तद्-अधिष्ठानम् एव
16402 तत् तादृशम् इत्य् उन्नेयम् । अपि च । सो अपि तादृशः प्रभाववान्
16403 एव अनन्य-साधारण-शक्तित्वाद् इति पुरुष-विशेष एव समर्थितः
16404 कृतकाः पौरुषेयाश् च वाच्या मन्त्राः फल-ईप्सुना ।
16405 न ह्य् अकृतकानां प्रयोगः सम्भवति न च अप्रयुक्तेभ्यः
16406 फलम् इति प्रयोगात् फलम् इच्छता कृतका मन्त्रा वाच्याः पौरुषेयाश्
16407 च । पुरुष-अधिष्ठानम् अन्तरेण अन्यतो असम्भवत्-फलानां
16408 फल-दर्शनात् । कृत-समय-काव्य-आदि-वत् ।
16409 अशक्ति-साधनं पुंसाम् अनेन एव निराकृतम्

1.311

16410 प्रतिपादिता हि पुरुष-कृतास् तद्-अधिष्ठानाच् च फलदा मन्त्राः ।
16411 तद् अस्ति कश्चिद् अतिशयवान् इति तत्-प्रतिक्षेप-साधनान्य् अपि प्रतिव्यूढानि ।
16413 बुद्धि-इन्द्रिय-उक्ति-पुंस्त्व-आदि साधनं यत् तु वर्ण्यते ।
16414 प्रमाण-आभं यथार्था अस्ति न हि शेषवतो गतिः

1.312

16415 यत् तु बुद्धि-इन्द्रिय-वचन-योगात् पुंस्त्वाद् इति पुरुष-अतिशय-प्रतिक्षेप-
16416 साधनं तत् त्व् अगमकम् एव । प्रतिक्षेप-सामान्य-
16417 साधनयोर् असम्भवात् । न ह्य् अतीन्द्रियेष्व् अतद्-दर्शिनः प्रतिक्षेपः
16418 सम्भवति । सताम् अप्य् एषाम् अज्ञानात् । अत एव विरोध-असिद्धेः ।
16419 अविरोधिना च सह सम्भव-अविरोधाद् इत्य् अप्य् उक्तम् ।
16420 न अपि इतर-सामान्य-सिद्धिर् विशेष-असम्भवस्य ज्ञातुम् अशक्यत्वात् ।
16421 ईदृशेषु च अनुपलब्धेर् हेतुत्व-प्रतिक्षेपात् । पुंस्त्व-आदि-साम्ये
16422 अपि कस्यचिद् विशेषस्य दर्शनात् । सम्भवद्-विशेषे च साम्य-असिद्धिर्
16423 इत्य् उक्तम् । तस्माच् शेषवद् अनुमानम् एतत् । व्यतिरेकस्य
16424 सन्देहाद् असमर्थम् अदर्शने अपि विपक्ष-वृत्तेः । अपि
16425 च एवंवादिनो जैमिनीयाः स्वम् एव वादं स्व-वाचा विधुरयन्ति ।
16426 तथा हि ।
16501 अर्थो अयं न अयम् अर्थो न इति शब्दा वदन्ति न ।
16502 कल्प्यो अयम् अर्थः पुरुषैस् ते च राग-आदि-संयुताः

1.313

16503 तत्र एकस् तत्त्वविन् न अन्य इति भेदश् च किं-कृतः ।
16504 तद्वत् पुंस्त्वे कथम् अपि ज्ञानी कश्चित् कथं न वः

1.314

16506 न खल्व् एते वैदिकाः शब्दा एवं विक्रोशन्ति एत भवन्तो ब्राह्मणा
16507 अयम् अस्माकम् अर्थो ग्राह्यो न अन्य इति केवलम् अनभिव्यक्त-
16508 अर्थ-विशेष-संसर्गाः श्रुतिम् अभिपतन्ति । तत्र एकः पुरुषः
16509 कंचिद् अर्थं कल्पयत्य् अन्यो अपरम् । न च शब्दानां
16510 कश्चित् स्वभाव-प्रतिनियमो येन एकम् अर्थम् अनुरुन्धते न अपरम् ।
16511 केवलं समय-वशात् तं तम् आविशन्तो दृश्यन्ते । तेषाम्
16512 अविदित-अर्थ-नियमानाम् अत्यक्ष-आवेशाद् अविद्वान् एव दोष-उपप्लवः
16513 कश्चित् तत्त्वं व्याचष्टे न अपर इति न न्याय्यम् । अथ
16514 कुतश्चिद् अतिशयाद् बुद्धि-इन्द्रिय-आदीनां स एव वेत्ति न अपरः । तस्य
16515 कुतो अयम् अतीन्द्रिय-ज्ञान-अतिशयः । तथा अन्यो अपि द्रष्टा देश-काल-
16516 स्वभाव-विप्रकृष्टानाम् अर्थानां किम् असम्भवी दृष्टः । न
16517 हि तत्-प्रतिक्षेप-साधनानि कानिचिद् यानि न एनम् उपलीयन्ते ।
16518 यथा अयं तत्-साधन-सम्भवे अप्य् अस्य विशेषस् तथा अन्यस्य अपि
16519 स्याद् इत्य् अनभिनिवेश एव युक्तः ।
16520 यस्य प्रमाण-संवादि वचनं सो अर्थविद् यदि ।
16521 न ह्य् अत्यन्तपरोक्षेषु प्रमाणस्य अस्ति सम्भवः

1.315

16522 स्याद् एतन् न वयं पुरुष-प्रामाण्यात् कस्यचिद् व्याख्यानम्
16523 अभिनिविष्टाः । किं तर्हि । प्रमाण-अन्तर-संवादाद् । बहुष्व् अपि
16524 व्याख्यातृषु यः प्रमाणं प्रत्यक्ष-आदिकं संस्यन्दयति सो
16525 अनुमन्यते । तन् न । अतीन्द्रियेष्व् अदृष्ट-आदिषु प्रमाण-अन्तर-अवृत्तेः ।
16526 तद्-असम्भवाद् एव ह्य् आगमस् तत्-प्रतिपत्त्य्-अर्थम् उपयाच्यते ।
16527 अन्यथा सत्य् अपि तस्मिन् प्रमाण-अन्तर-अवृत्ताव् अप्रतिपत्तेः । ततश्
16601 च केवलाद् अर्थ-प्रतिपत्तेर् असाधनम् एव आगमः स्यात् । केवलाद् अन्यतो
16602 अप्य् अतीन्द्रियेष्व् अप्रतिपत्तिर् इति चेत् । कथम् अतीन्द्रियश् च नाम
16603 प्रत्यक्ष-आदि-विषयश् च । ते पुनः स्व-विषये अप्य् आगमम् अपेक्ष्य एव
16604 साधकाश् चेत् । अनागमाद् धूम-आदेर् अग्न्य्-आदि-प्रत्ययो न स्यात् ।
16605 न वै प्रवृत्त आगमे प्रमाण-अन्तरम् अन्विष्यते किं तर्हि
16606 स एव आगम-प्रवृत्तिर् न ज्ञायत इति चेत् । स्वयं समर्थस्य प्रसाधने
16607 अस्य तद्-आगम-उपधानं कम् अतिशयं पुष्णाति । असमर्थं
16608 त्व् आगम-प्रवृत्तिम् अपि न एव साधयिष्यति । सा च अतीन्द्रिय-
16609 अर्थ-सम्बद्धा आगम-प्रवृत्तिर् अतीन्द्रिया कथम् अन्येन
16610 सिद्धा । अन्यच् च एवम् आगम-लक्षणं स्यात् । तथा हि ।
16611 यस्य प्रमाण-संवादि वचनं तत्-कृतं वचः ।
16612 स आगम इति प्राप्तं निरर्था अपौरुषेयता

1.316

16613 तुल्ये अप्य् आगम-वादे प्रमाण-बलाद् आगमस्य क्वचिद् आगमत्वे
16614 प्रमाण-संवादो वचनानाम् आगम-लक्षणं स्यात् । न अपुरुष-
16615 क्रिया । तस्याः सर्व-अर्थेषु तुल्यत्वे अपि प्रमाण-अबाधनात् प्रतिपत्तेः ।
16516 तद्-भावे अप्य् अन्यत्र प्रमाण-असंवादिन्य् अनिष्टत्वात् ।
16617 किं च ।
16618 यद्य् अत्यन्तपरोक्षे अर्थे अनागम-ज्ञान-सम्भवः ।
16619 अतीन्द्रियार्थवित् कश्चिद् अस्ति इत्य् अभिमतं भवेत्

1.317

16620 यद्य् आगम-अनपेक्षं ज्ञान-अयाथातथ्यं पुरुषस्य इष्यते परोक्षे
16621 अर्थे सन्ति पुरुषा अतीन्द्रियार्थदृश इति इष्टं स्यात् । प्रत्यक्ष-
16622 पूर्वकानां प्रमाणानाम् अतद्-दर्शने असम्भवात् । प्रत्यक्ष-
16624 प्रमाणम् आगमः । प्रमाण-अन्तर-वृत्तिस् तु प्रत्यक्षम्
16625 अन्वाकर्षति इति न पुरुष-अतिशयो निवार्यः स्यात् । तस्मान् न अस्त्य् अतीन्द्रियेषु
16626 प्रमाण-अन्तर-वृत्तिः । अत एव आगमस्य अर्थ-विशेष-वृत्तेर्
16627 अपरिज्ञानाद् अयं जैमिनिर् अन्यो वा
16628 स्वयं राग-आदिमान् न अर्थं वेत्ति वेदस्य न अन्यतः ।
16701 न वेदयति वेदो अपि वेद-अर्थस्य कुतो गतिः

1.318

16702 सर्व एव हि पुरुषो अनतिक्रान्त-दोष-विप्लवस् तम् अतीन्द्रियम्
16703 अर्थ-विशेष-प्रतिनियमं व्याख्याता न स्वयं वेत्ति । न अप्य् एनम्
16704 अन्यो वेदयति । तस्य अपि तुल्य-प्रसङ्गत्वात् । न ह्य् अन्धेन आकृश्यमाणो
16705 अन्धः पन्थानं प्रतिपद्यते । न अपि स्वयं वेदः
16706 स्वार्थं विवृणोति । उपदेश-वैयर्थ्य-प्रसङ्गात् । तद् अयम् अपरिज्ञात-
16707 अर्थः शब्द-गडुर् एवं शल्यभूतो असद्-दर्शन-स्नायु
16708 विनिबद्धो दुरुद्धरो दुःखम् आसयति ।
16709 तेन अग्निहोत्रं जुहुयात् स्वर्गकाम इति श्रुतौ ।
16710 खादेच् श्वमांसम् इत्य् एष न अर्थ इत्य् अत्र का प्रमा

1.319

16711 क्वचिद् अप्य् अर्थे प्रत्यासत्ति-विप्रकर्ष-रहितस्य अग्निहोत्रं जुहुयात्
16712 स्वर्गकाम इत्य् आदि-वाक्यस्य भूत-विशेषे यथा-अभिमतं
16713 घृत-आदि प्रक्षिपेद् इत्य् अयम् अर्थः न पुनः श्वमांसं खादेद्
16714 इति न अतिशयं पश्यामः । नन्व् अयं सर्वत्र समानः प्रसङ्गः
16715 परोक्ष-दैशिकानां वचनानाम् अर्थं यथा-अभिप्रायम् इदानीन्तनाः
16716 किं समनुयन्ति आहोस्विद् विपर्ययम् इति । न । उपदेष्टुः
16717 स्व-अभिप्राय-प्रकाशनेन सम्प्रदाय-सम्भवात् । न ह्य्
16718 अयम् अदैशिकानां शब्दानां सम्भवति । लोक-प्रत्यायन-अभिप्रायश्
16719 च ब्रुवाणो लोक-संकेत-प्रसिद्धिम् अनुपालयति इति ततो अपि
16720 तद्-अर्थ-सिद्धिः स्यात् न अपौरुषेयाणां शब्दानाम् । तत्र कस्यचित्
16721 समीह-अभावात् । अपि च न्यायम् एव अनुपालयन्तः पण्डिता हेय-उपादेय-
16722 तद्-आश्रयेषु संघटन्ते न तु प्रवाद-मात्रेण इति न समानः
16723 प्रसङ्गः । तच् च यथावसरं प्रतिपादयिष्यामः । ननु
16724 कश्चिल् लोक-संनिवेश-आदिर् अयुक्ति-विषयो अपि सम्भावनीय-पुरुष-
16725 वचनाद् अर्थः प्रतिपद्यते । न । अप्रत्ययात् । न हि क्वचिद्
16726 अस्खलित इति सर्वं तथा । व्यभिचार-दर्शनात् । तत् प्रवृत्तेर्
16801 अविसंवादेन व्याप्त्य्-असिद्धेश् च । अगत्या च इदम् आगम-लक्षणम्
16802 इष्टम् । न अतो निश्चयः । तन् न प्रमाणम् आगम इत्य् अप्य् उक्तम् ।
16803 अपौरुषेयानां शब्दानाम् अर्थ-ज्ञानं न सम्प्रदायान्
16804 न युक्तेर् न लोकाद् इति तत्र अप्रतिपत्तिर् न्याय्या । तत्र अपि ।
16805 प्रसिद्धो लोक-वादश् चेत् ।
16806 प्रतिपत्ति-हेतुः ।
16807 तत्र को अतीन्द्रियार्थदृक् ।
16808 अनेक-अर्थेषु शब्देषु येन अर्थो अयं विवेचितः

1.320

16809 न ह्य् अयं लोक-व्यवहारो अपौरुषेयाच् शब्द-अर्थ-सम्बन्धात् ।
16810 किं तर्हि । समयात् । स्व-शास्त्रकार-समयात् पाणिनीय-आदि-व्यवहार-वत् ।
16811 उपदेश-अपेक्षणात् । न ह्य् अपौरुषेये तस्मिन्न् उपदेशो
16812 युक्तः । तस्य केनचिद् अज्ञानात् । अतीन्द्रियत्वात् । ऐन्द्रियकत्वे
16813 स्वयं प्रतिपत्ति-प्रसङ्गात् । रूप-आदि-वत् । उपदेशे च पुरुषाणां
16814 स्वतन्त्राणां यथा-तत्त्वम् उपदेशेन अविसंवादस्य असिद्धेर् अनाश्वासः ।
16815 वेद-वत् तद्-व्याख्यानम् अप्य् अपौरुषेयं सम्प्रदाय-अविच्छेदाद्
16816 आगतम् ततो अर्थ-सिद्धिर् इति चेत् । तस्य अपि शब्द-आत्मकत्वे
16817 तुल्यः पर्यनुयोगः कथम् अस्य अर्थो विदित इति । पुरुषो
16818 हि स्वयं समितानां शब्दानाम् अर्थं शृङ्ग-ग्राहिकया अपि तावद्
16819 अबुधं बोधयेद् इत्य् अस्ति पौरुषेयानां शब्दानाम् अर्थ-गताव्
16820 उपायः । अपौरुषेयस् तु शब्दो न एवं करोति । न च अस्य कश्चित्
16821 क्वचित् सम्बन्ध-नियमं ज्ञातुम् ईश इत्य् अप्रतिपत्तिर् एव
16822 तद्-अर्थस्य । अपि च वेदस् तद्-व्याख्यानं वा पुरुषेण पुरुषाय उपदिश्यमानम्
16823 अनष्ट-सम्प्रदायम् एव अनुवर्तत इत्य् अत्र अपि समयः
16824 शरणम् । आगम-भ्रंश-कारिणाम् आहोपुरुषिकया तद्-दर्शन-
16825 विद्वेषेण वा तत्-प्रतिपन्न-खलीकाराय धूर्त-व्यसनेन अन्यतो
16826 वा कुतश्चित् कारणाद् अन्यथा रचन-अदर्शनात् । अपि च अत्र
16827 भवान् स्वम् एव मुख-वर्णं स्व-वाद-अनुरागान् नूनं विस्मृतवान्
16901 पुरुषो राग-आदिभिर् उपप्लुतो अनृतम् अपि ब्रूयाद् इति न अस्य
16902 वचनं प्रमाणम् इति । तद् इह अपि किं न प्रत्यवेक्ष्यते
16903 सम्भवति न वा इति । स एव उपदिशन्न् उपप्लवाद् वेदं वेद-अर्थं
16904 वा अन्यथा अप्य् उपदिशेद् इति । श्रूयन्ते हि कैश्चित् पुरुषैर् उत्सन्न-उद्धृतानि
16905 शाखा-अन्तराणि । इदानीम् अपि कानिचिद् विरल-अध्येतृकाणि ।
16906 तद्वत् प्रचुर-अध्येतृकाणाम् अपि कस्मिंश्चित् काले कथंचित्
16907 संहार-सम्भवात् । पुनः सम्भावित-पुरुष-प्रत्ययात् प्रचुरता-
16908 उपगमन-सम्भावना-असम्भवात् । तेषां च पुनः प्रतानयितृऋणां
16909 कदाचिद् अधीत-विस्मृत-अध्यनानाम् अन्येषां वा सम्भावना-
16910 भ्रंश-भय-आदिना अन्यथा उपदेश-सम्भवात् । तत्-प्रत्ययाच्
16911 च तद्-भक्तानाम् अविचारेण प्रतिपत्तेर् बहुष्व् अध्येतृषु
16912 सम्भावितात् पुरुषाद् बहुलं प्रतिपत्ति-दर्शनात् । ततो अपि कथंचिद्
16913 विप्रलम्भ-सम्भवात् । किं च । परिमित-व्याख्यातृ-
16914 पुरुष-परंपराम् एव च अत्र भवताम् अपि शृणुमः । तत्र
16915 कश्चिद् द्विष्टाज्ञ-धूर्तानाम् अन्यतमः स्याद् अपि इत्य् अनाश्वासः ।
16916 तस्मान् न अपौरुषेयाद् व्याख्यानान् न अपि सामयिकाल् लोक-व्यवहाराद्
16917 वेद-अर्थ-सिद्धिः । असामयिकत्वे अपि नाना-अर्थानां शब्दानां
16918 व्यवहारे दर्शनात् कस्यचिद् अप्रसिद्ध-अर्थस्य अप्रसिद्धस्य वा
16919 पुनर् व्युत्पत्ति-दर्शनेन सर्वत्र तद्-आशङ्का-अनिवृत्तेः । सर्वेषां
16920 यथार्थ-नियोगे अप्य् अवैगुण्येन यथा-समयं प्रतीति-
16921 जननात् । इष्ट-अनिष्टयोर् अविशेषात् । अविशिष्टानां सर्व-अर्थेष्व् एकम् अर्थम्
16922 अत्यक्ष-संयोगम् अनत्यक्ष-दर्शिनि पुरुष-सामान्ये को विवेचयेद्
16923 यतो लोकात् प्रतीतिः स्यात् । अपि च । स्वयम् अप्य् अयं न
16924 सर्वत्र प्रसिद्धिम् अनुसरति । यस्मात् ।
16925 स्वर्ग-उर्वश्य्-आदि-शब्दश् च दृष्टो अरूढ-अर्थ-वाचकः ।
16926 अनेन एव निर्वर्ण्यमानः । मनुष्य-अतिशायि-पुरुष-विशेष-निकेतो अतिमानुष-
16927 सुख-अधिष्ठानो नाना-उपकरणः स्वर्गः तन्-निवासिन्य्
16928 अप्सरा उर्वशी नाम इति लोक-वादः । तम् अनादृत्य-अन्याम् एव अर्थ-कल्पनाम्
16929 अयं कुर्वाणः शब्द-अन्तरेषु कथं प्रसिद्धिं प्रमाणयेत् ।
16930 तत्र अविरोधाद् अभ्युपगम इति चेत् । न । अत्र अप्य् अतीन्द्रिये
16931 विरोध-असिद्धेः । अन्यत्र अप्य् अविरोधस्य दुरन्वयत्वात् । विरुद्धाम्
16932 अप्य् अग्निहोत्रात् स्वर्ग-अवाप्तिं मान्द्याद् अयं न लक्षयेद्
16933 अपि । विरोध-अविरोधौ च बाधक-साधक-प्रमाण-वृत्ती । ते च अत्यक्षे
17001 न अभिमते । तत् कथं तद्-वशात् प्रतीतिः । न च वचन-
17002 वृत्तेर् एव अविरोधो अन्यत्र अपि प्रसङ्गात् । अपौरुषेय आगमस् तस्य
17003 प्रवादाद् अर्थ-सिद्धिः । तत्र पुनर् विरोध-चिन्तायाम् अनाश्वास
17004 आगमे स्यात् । सत्य् अपि तस्मिन्न् अतथाभावाद् अर्थस्य अप्रमाण-
17005 वृत्तेर् अन्यस्य अपि शङ्कनीयत्वात् । यद् उक्तम् अग्निहोत्रं
17006 जुहुयात् स्वर्गकाम इत्य् अत्र श्वमांस-भक्षण-देशना-विकल्पो
17007 भवत्व् इति स न भवति । प्रदेश-अन्तरेषु तथा तस्य चर्चनात् ।
17008 न । तस्य अर्थ-अपरिज्ञानात् । प्रदेश-अन्तरेष्व् अपि तथाविध-अर्थ-
17009 कल्पनाया अनिवार्यत्वात् । यदि हि क्वचिद् विदित-अर्थो अयम् अपौरुषेयः
17010 शब्द-राशिः स्यात् तदा ततो अर्थ-प्रतीतिः स्यात् । ते तु बाहुल्ये
17011 अप्य् अन्धा एव सर्व इति यथेष्टम् प्रणीयन्ते । तस्मात् ।
17012 शब्द-अन्तरेषु तादृक्षु तादृश्य् एव अस्तु कल्पना

1.321

17013 यादृश्य् अग्निहोत्रं जुहुयात् स्वर्गकाम इत्य् अस्य वाक्यस्य । अपि
17014 च
17015 प्रसिद्धिश् च नृणां वादः प्रमाणं स च न इष्यते ।
17016 ततश् च भूयो अर्थ-गतिः किम् एतद् द्विष्ट-कामितम्

1.322

17017 न प्रसिद्धिर् नाम अन्या अन्यत्र जन-प्रवादात् । ते च सर्वे जना
17018 राग-आद्य्-अविद्या-अपरीतत्वाद् असम्भावनीय-याथातथ्य-वचनाः ।
17019 तद् एषां प्रवादो न प्रमाणम् । न हि कस्यचिद् अपि सम्यक्-प्रतिपत्तेर्
17020 अभावे बाहुल्यम् अर्थ-वद् भवति । पारशीक-मातृ-मिथ्या-
17021 चार-वत् । तेषाम् एव पुरुषाणां वचनात् पुनः परोक्ष-अर्थ-सम्प्रतिपत्तिर्
17101 इति कथं तद् एव युगपद् द्वेष्यं च काम्यं च ।
17102 अथ प्रसिद्धिम् उल्लङ्घ्य कल्पने न निबन्धनम् ।
17103 प्रसिद्धेर् अप्रमाणत्वात् तत्-ग्रहे किं निबन्धनम्

1.323

17105 प्राप्त-प्रतिलोमनेन अन्यत्र प्रवृत्तिर् गुण-दोष-सन्दर्शनेन युक्ता
17106 इति प्रसिद्धेर् अन्वय इति चेत् । न । प्राप्तेः प्रमाण-वृत्ति-लक्षणत्वात् ।
17107 यत् किंचन ग्रहणं हि प्रसिद्धिम् अप्रमाणयतस्
17108 तन्-मुखेन प्रतीतिः । न्यायात् प्राप्ति-प्रतिषेधात् । तुल्या स्व-पर-
17109 विकल्पयोर् उभयथा अपि वृत्तिर् इति कः प्रसिद्धाव् अनुरोधः ।
17110 अपि च इयम्
17111 उत्पादिता प्रसिद्ध्या एव शङ्का शब्द-अर्थ-निश्चये ।
17112 यस्मान् नाना-अर्थ-वृत्तित्वं शब्दानां तत्र दृश्यते

1.324

17113 न प्रसिद्धेर् एक-अर्थ-निश्चयः शब्दानां तत एव शङ्का-उत्पत्तेः ।
17114 नाना-अर्था हि शब्दा लोके दृश्यन्ते । लोक-वादश् च प्रतीतिः । अत एव
17115 नाना-अर्था इति तत एक-अर्थ-नियमो न युक्तः ।
17116 अन्यथा असम्भव-अभावान् नाना-शक्तेः स्वयं ध्वनेः ।
17117 अवश्यं शङ्कया भाव्यं नियामकम् अपश्यताम्

1.325

17118 इत्य् अन्तरश्लोकः । तस्माद् अविदित-अर्थ-विभागेषु शब्देष्व् एकम्
17119 अर्थम् अत्यक्ष-संयोगम् अनालम्बन-समारोपं विनिश्चित्य व्याचक्षाणो
17120 जैमिनिस् तद्-व्याजेन स्वम् एव मतम् आह इति न तीर्थकर-
17121 अन्तराद् अस्य विशेषं पश्यामः । तथा हि । तद्-अर्थ-वचन-व्यापार-
17122 शून्यस्य तत्-समारोपेण अभिधानं न स्व-वचनम् अतिशेते ।
17123 तत्-कारिणा केवलं मिथ्या-विनीतता एव आत्मनः समुद्द्योतिता स्यात्
17124 तथा हि ।
17125 एष स्थाणुर् अयं मार्ग इति वक्ति इति कश्चन ।
17126 अन्यः स्वयं ब्रवीमि इति तयोर् भेदः परिक्ष्यताम्

1.326

17201 निरभिप्राय-व्यापार-वचने स्थाणौ समारोप्य-उपदिशतः स्वतन्त्रस्य
17202 वा स्वयं वचन-उपगमे न कश्चिद् विशेषो अन्यत्र जडस्य
17203 प्रतिपत्ति-मान्द्यात् । अपि च एक-अर्थ-नियमे सत्य् एनं जैमिनिर्
17204 जानीयात् । स एव शब्दस्य
17205 सर्वत्र योग्यस्य एक-अर्थ-द्योतने नियमः कुतः ।
17206 न हि शब्दस्य कश्चिद् अर्थः स्वभाव-नियतः सर्वत्र योग्यत्वात् ।
17207 अयोग्यत्वे च तद्-अप्रच्युतेर् अविधेयस्य पुरुषाणां क्वचिद्
17208 उपनयन-अपनयन-असम्भवात् ।
17209 ज्ञाता वा अतीन्द्रियाः केन विवक्षा-वचनाद् ऋते

1.327

17210 पुरुष-प्रणीते हि शब्दे कयाचिद् विवक्षया स तां कदाचित् क्वचिन्
17211 निवेदयेद् अपि इति विवक्षा-पूर्वकानां शब्दानाम् अर्थ-नियमः
17212 प्रतीयेत अपि । अपौरुषेये तु विद्यमानो अप्य् अर्थ-नियमः कथं
17213 विज्ञेयः । स्वभाव-भेदस्य अभावात् । सति वा प्रत्यक्षस्य स्वयं
17214 प्रतीति-प्रसङ्गात् । अप्रत्यक्षे अपि केनचिज् ज्ञातुम् अशक्यत्वात् ।
17215 न च अस्ति कश्चिद् विशेषः । सर्व-शब्दा हि सर्व-अर्थ- प्रत्यासत्ति-विप्रकर्ष-
17216 रहिताः । ततस् तेषाम्
17217 विवक्षा नियमे हेतुः संकेतस् तत्-प्रकाशनः ।
17218 अपौरुषेये सा न अस्ति तस्य सा एकार्थता कुतः

1.328

17219 विवक्षया हि शब्दो अर्थे नियम्यते न स्वभावतः तस्य
17220 क्वचिद् अप्रतिबन्धेन सर्वत्र तुल्यत्वात् । यत्र अपि प्रतिबन्धस्
17221 तद्-अभिधान-नियम-अभावात् । सर्व-शब्दैः करणानाम् अभिधान-
17222 प्रसङ्गात् । तस्माद् विवक्षा-प्रकाशनाय अभिप्राय- निवेदन-लक्षणः
17223 संकेतः क्रियते । अपौरुषेये तु न विवक्षा न संकेतः
17224 कस्यचिद् अभिप्राय-अभावाद् इति न नियमो न तज्-ज्ञानम् ।
17225 स्वभाव-नियमे अन्यत्र न योज्येत तया पुनः ।
17226 यदि संकेत-निरपेक्षः स्वभावत एव अर्थेषु शब्दो निलीनः
17227 स्यात् उक्तम् अत्र अप्रतिबन्धाद् अनियम इति । अपि च । स्वाभाविके
17228 वाच्यवाचकभावे न पुनर् विवक्षया यथेष्टं नियुज्येत ।
17301 संकेतश् च निरर्थः स्याद् ।
17302 न हि स्वभाव-भेद इन्द्रिय-गम्यः स्व-प्रतीतौ परिभाषा-आदिकम्
17303 अपेक्षते । नील-आदि-भेद-वत् । तद्-अपेक्ष-प्रतीतयस् तु न वस्तु-स्वभावाः ।
17304 किं तर्हि । सामयिका राज-चिह्न-आदि-वत् । यश् च सामयिकः
17305 स स्वभाव-नियतो अयुक्तस् तस्य इच्छा-वृत्तेः । अत एव संकेतात्
17306 स्वभाव-विशेषस्य
17307 व्यक्तौ च नियमः कुतः

1.329

17308 स्व-इच्छा-वृत्तिः संकेतः स इह एव कर्तुं शक्यते न अन्यत्र इति
17309 न उपरोधो अस्ति । स च पुरुषैः स्व-इच्छया क्रियमाणस् तम् एव
17310 स्वभावं व्यनक्ति न अन्यम् इति न नियमो अस्ति ।
17311 यत्र स्वातन्त्र्यम् इच्छाया नियमो नाम तत्र कः ।
17312 द्योतयेत् तेन संकेतो न इष्टाम् एव अस्य योग्यताम्

1.330

17313 इति अन्तरश्लोकः ।
17314 यस्मात् किल ईदृशं सत्यं यथा अग्निः शीत-नोदनः ।
17315 वाक्यं वेद-एकदेशत्वाद् अन्यद् अप्य् अपरो अब्रवीत्

1.331

17316 अन्यस् त्व् अपौरुषेयम् आगम-लक्षणं परित्यज्य अन्यथा प्रामाण्यं
17317 वेदस्य साधयितुकामः प्राह अवितथानि वेद-वाक्यानि
17318 यत्र अप्रतिपत्तिर् वेद-एकदेशत्वात् यथा अग्निर् हिमस्य
17319 भेषजम् इत्य् आदि-वाक्यम् इति । तस्य इदम् ।
17320 रस-वत् तुल्य-रूपत्वाद् एक-भाण्डे च पाक-वत् ।
17321 शेषवद् व्यभिचारित्वात् क्षिप्तं न्यायविदा ईदृशम्

1.332

17322 स्वयम् ईदृशम् आचार्येण अनुमानं नैयायिक-शेषवद्-अनुमान-
17323 व्यभिचारम् उद्भावयता तुल्य-रूपतया फलानां तुल्य-रस-
17324 साधन-वद् एक-स्थाल्य्-अन्तर्गमाद् दृष्ट-वद् अदृष्ट-तण्डुल-पाक-
17325 साधन-वच् च असाधनम् उक्तम् । तद्-असाधनत्व-न्यायश् च
17326 पूर्वम् एव उक्तः । उक्तं च इदम् आगम-लक्षणम् अस्माभिः तत् तु
17327 सर्वस्य शक्य-विचारस्य विषयस्य यथास्वं प्रमाणेन विधि-
17328 प्रतिषेध-विशुद्धौ नान्तरीयकत्व-अभावे अपि शब्दानाम् अर्थेषु
17401 वरं संशयितस्य वृत्तिः तत्र कदाचिद् अविसंवाद-सम्भवात्
17402 न त्व् अन्यत्र दृष्ट-प्रमाण-उपरोधस्य पुरुषस्य प्रवृत्तिर् इति ।
17403 यः पुनः प्राकृत-विषयस्य वह्नेः शीत-प्रतिघात-सामर्थ्यस्य
17404 अभिधानं सत्य-अर्थम् उपदर्श्य सर्वं सत्य-अर्थम् आह
17405 शास्त्रं शक्य-परिच्छेदे अपि विषये प्रमाण-विरोधाद् बहुतरम्
17406 अयुक्तम् अपि ।
17407 नित्यस्य पुंसः कर्तृत्वं नित्यान् भावान् अतीन्द्रियान् ।
17408 ऐन्द्रियान् विषमं हेतुं भावानां विषमां स्थितिम्

1.333

17409 निवृत्तिं च प्रमाणाभ्याम् अन्यद् वा व्यस्त-गोचरम् ।
17410 विरुद्धम् आगम-अपेक्षेण अनुमानेन वा वदत्

1.334

17411 विरोधम् असमाधाय शास्त्र-अर्थं च अप्रदर्श्य सः ।
17412 सत्य-अर्थं प्रतिजानानो जयेद् धार्ष्ट्येन बन्धकीम्

1.335

17414 अप्रच्युत-अनुत्पन्न-पूर्वापर-रूपः पुमान् कर्ता क्रमेण कर्मणां
17415 कर्म-फलानां च भोक्ता समवायि-कारण-अधिष्ठान-भाव-आदिना
17416 इत्य् आह वेदः तच् च अयुक्तम् इत्य् आवेदित-प्रायम् नित्यत्वं च
17417 केषांचिद् भावानाम् अक्षणिकस्य वस्तु-धर्म-अतिक्रमाद् अयुक्तम्
17418 अप्रत्यक्षान्य् एव हि सामान्य-आदीनि प्रत्यक्षानि जन्म-स्थिति-
17419 निवृत्तीश् च विषमाः पदार्थानाम् अनाधेयविशेषस्य प्राग् अकर्तुः
17420 पर-अपेक्षया जनकत्वम् निष्पत्तेर् अकार्य-रूपस्य आश्रय-वशेन
17421 स्थानम् कारणाच् च विनाश इत्य् आदिकम् अन्यद् अपि प्रत्यक्ष-
17422 अनुमानाभ्यां प्रसिद्धि-विपर्ययम् आगम-आश्रयेण च अनुमानेन
17423 बाधितम् अग्निहोत्र-आदेः पाप-शोधन-सामर्थ्य-आदिकम् । तस्य
17424 एवंवादिनो वेदस्य सर्वत्र शास्त्र-शरीरे प्रमाण-विरोधम्
17425 अप्रतिसमाधाय सम्बन्ध-अनुगुण-उपाय-पुरुष-अर्थ-अभिधानानि च
17426 शास्त्र-धर्मान् अप्रदर्श्य-अत्यन्त-प्रसिद्ध-विषय-सत्य-अभिधान-
17427 मात्रेण प्रज्ञा-प्रकर्ष-दुरवगह-गहने अपि निरत्ययतां साधयितुकामो
17428 बन्धकीम् अपि प्रागल्भ्येन विजयते । काचित् किल
17429 बन्धकी स्वयं स्वामिना विप्रतिपत्ति-स्थाने दृष्ट्वा उपालब्धा । सा
17430 तं प्रत्युवाच । पश्यत मातः पुरुषस्य वैपरीत्यं । मयि
17431 धर्म-पत्न्यां प्रत्ययम् अकृत्वा आत्मीययोर् न इतर-अभिधानयोर्
17432 जल-बुद्बुदयोः । करोति । तेन जरत्काणेन ग्राम्य-काष्ठ-हारकेण
17501 प्रार्थिता अपि न संगता । रूप-गुण-अनुरागेन किल मन्त्रि-मुख्य-
17502 दारकं कामये अहम् इति । एवंजातीयकम् एतद् अपि वह्नेः
17503 शीत-प्रतीकार-वचनेन दृष्ट-प्रमाण-विरोधस्य अप्य् अत्यन्तपरोक्षे
17504 अर्थे अविसंवाद-अनुमानम् ।
17505 सिध्येद् प्रमाणं यद्य् एवम् अप्रमाणम् अथ इह किम् ।
17506 न ह्य् एकं न अस्ति सत्य-अर्थं पुरुषे बहु-भाषिणि

1.336

17507 यथा इदम् अतिदुष्करम् अत्यन्त-सत्य-अभिधानं तथा अत्यन्त-असत्य-
17508 अभिधानम् अपि । तत्र एकस्य वचनस्य कथंचित् संवादेन अविशिष्टस्य
17509 तद्-वचन-राशेस् तथाभावे न कश्चित् पुरुषो अनाप्तः
17510 स्यात् । अपि च ।
17511 न अयं स्वभावः कार्यं वा वस्तूनां वक्तरि ध्वनिः ।
17512 न च तद्-व्यतिरिक्तस्य विद्यते अव्यभिचारिता

1.337

17513 न तावद् एतद् वचनं वाच्यानां स्वभावः । न अप्य् एषां कार्यम्
17514 तद्-अभावे अपि वक्तुर् विवक्षा-मात्रेण भावात् । न च अन्यः
17515 कश्चित् कस्यचिद् अव्यभिचारी । व्यभिचारे च ततो अन्यथा अपि
17516 तत्-सम्भवात् तद्-भावात् तत्-प्रतीतिर् अयुक्ता ।
17517 प्रवृत्तिर् वाचकानां च वाच्य-दृष्टि-कृता इति चेत् ।
17518 स्याद् एतत् कार्यम् एव वचनं वाचकस्य वाच्य-दर्शन-वृत्तेर् ।
17519 एवं सति ।
17520 परस्पर-विरुद्ध-अर्था कथम् एकत्र सा भवेत्

1.338

17521 यद्य् एष प्रतिनियमो वाच्यं वस्त्व् अन्तरेण शब्दो न प्रवर्तत
17522 इति । भिन्नेषु प्रवादेष्व् एकत्र वस्तुनि विरुद्ध-स्वभाव-उपसंहारेण
17523 वचन-वृत्तिर् न स्यात् । न ह्य् अयं सम्भवो अस्ति एकः
17524 शब्दो निष्पर्यायं नित्यश् च स्याद् अनित्यश् च इति ।
17525 वस्तुभिर् न आगमास् तेन कथंचिन् नान्तरीयकाः ।
17526 प्रतिपत्तुः प्रसिध्यन्ति कुतस् तेभ्यो अर्थ-निश्चयः

1.339

17527 आगमं प्रमाणं तद्-आदर्शित-अर्थ-प्रतिपत्तये अज्ञो जनः समन्वेषते
17528 समधिगत-याथातथ्यानाम् उपदेश-अनपेक्षणात् । अज्ञस्य
17529 च अतीन्द्रिय-गुण-पुरुष-विवेचने असामर्थ्यात् । वचनानां
17601 समीहित-अर्थ-सत्ताम् अन्तरेण अपि वृत्तिं पश्यतो भवितव्यम् एव अदृष्ट-
17602 व्यभिचार-वचसाम् अपि पुरुषाणां वाचि शङ्कया किं यथार्था
17603 न वा इति । तेन न युक्तम् अनेन कस्यचिद् वचनेन किंचिन्
17604 निश्चेतुम् ।
17605 तस्मान् न तन्-निवृत्त्या अपि भाव-अभावः प्रसिध्यति ।
17606 यद् उक्तं सर्व-विषयत्वाद् आगमस्य सति वस्तुन्य् अविसंवादेन
17607 अस्य वृत्तेस् तन्-निवृत्ति-लक्षण-अनुपलब्धिर् अभावं साधयति
17608 इति तद् अस्य सर्व-विषयत्वे अपि वस्त्व्-अन्तरेण आवृत्तौ स्यात् । तच्
17609 च न अस्ति । ततः प्रतिपत्तुकामस्य असिद्धिर् इत्य् उक्तम् ।
17610 तेन असंनिश्चय-फला अनुपलब्धिर् न सिध्यते

1.340

17611 तस्मान् न प्रमाण-त्रय-निवृत्ताव् अपि विप्रकृष्टेष्व् अभाव-निश्चयः ।
17613 वेद-प्रामाण्यं कस्यचित् कर्तृ-वादः ।
17614 स्नाने धर्म-इच्छा जाति-वाद-अवलेपः ।
17615 सन्ताप-आरम्भः पाप-हानाय च इति ।
17616 ध्वस्त-प्रज्ञाने पञ्च लिङ्गानि जाड्ये

मूल पाठ: Pramāṇavārttisvavṛtti · Edition: R. GNOLI, The Pramanavarttikam of Dharmakirti, the first chapter with the autocommentary. Roma 1960. · Data entry Motoi Ono · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc