प्रकरणपञ्चिका (टीका सहित) · अध्याय 12
अत्र सुगतमतानुसारिणः-क्षणभङ्गिनस्सर्वानेव भावानभिदधति ।
किं पुनस्तेषां तत्र प्रमाणम् ? न1008 तावत् प्रत्यक्षं क्षणिकतामीक्षितुं 1009क्षमते, स्तम्भादिभावं1010 निपुणतरं निरीक्षमाणस्य क्षणिकत्वाध्यवसायाभावात् ।
स्यादेषा मनीषा---न क्षणिकता नाम भावस्वभावबहिर्भाविनी, तेन भावानुभवादेव प्रत्यक्षं क्षणिकतामपि साक्षात्करोतीति ।
तदिदं मनोरथमात्रं मन्यन्ते मतिमन्तः ।
तथाहि---"संविन्निष्ठा विषयव्यवस्थितयः" इति स्थितिरियमविवादा सर्ववादिनाम् ।
तदियमपि क्षणिकता भावस्य स्वभावभूत सती संवित्तिमधिरोहन्ती तदव्यतिरेकेणव्यवतिष्ठते, नान्यथा ।
न च तथा संविदमुदीयमानामुदीक्षामाह इति, कुतस्तस्या भावस्वभावान्तर्भाविता ? कुतस्तराञ्च तदवबोधेनावबोधः ।
अथ मन्वीरन्---क्षणिकता प्रत्यक्षमीक्ष्यमाणापि1011 न निश्चयपथमवतीर्णा तेनागृहीतेवावभाति, तथापि न 1012तस्यां प्रत्यक्षं प्रमाणम् ।
यत्र हि प्रत्यक्षस्य स्वभावतो विकल्पविहरिणस्तत्--1013पृष्ठभाविना सविकल्पकप्रत्ययेन व्यापारो ऽनुगम्यते, तत्र प्रत्यक्षं प्रमाणमिति सौगताः ।
यत्र च दृष्टमेतदिति प्रत्ययो नोदीयते, न 1014तत्प्रत्यक्षसमधिगतमिति सिद्धान्तध्वान्ताक्रान्ताशयानां वाङ्मात्रविलसितमिदम्1015 ।
यदपि केचिदूचिरे---प्रत्यक्षं ज्ञानं क्षणिकं, स्वकालाकलितवस्तुविषयतया क्षणिकतामवगमयतीति ।
तदपि बालिशभाषितम् ।
एकक्षणमात्रवर्त्तिता हि क्षणिकता ।
न तत् प्रत्यक्षेणेदानीमेवेदं 1016वस्त्विति प्रतिपद्यते1017, कालान्तरं प्रत्यौदासीन्यात्1018 प्रत्यक्षस्य ।
प्रत्युत प्रत्यभिज्ञालक्षणं प्रत्यक्षमेव क्षणिकतां दूरमुपक्षिपति, पूर्वा-परकालाकलितभावावकल्पनात् ।
अनुमानमपि सम्बन्धानुसन्धाननिबन्धनं क्षणिकतां न पक्षीकर्तुं क्षमते, तया सह कस्यचिल्लिङ्गस्य सम्बन्धबोधविरहात् ।
न खल्वप्रतीते सम्बन्धिनिसम्बन्धबुद्धिराविर्भवति ।
न 1019चेतदुभयातिरेकि प्रमाणं सुगतमतानुसारिणो मन्यन्ते ।
तदिदमाकाशभ्रान्तमित्यपहसन्ति सौगताः ।
ते 1020हि स्वभावहेतुकानुमानसमधिगमनीयां क्षणिकतामाचक्षते ।
किं पुनस्तदनुमानम् ।
यत् सत्, तत् क्षणिकम्, सन्तश्च सर्वे भावा इति भावमात्रानुबन्धिनि साध्ये स्वभावहेतुर्भवति ।
यथा---शिंशपात्वं वृक्षत्वे ।
शिंशपामात्रानुबन्धि हि वृक्षत्वम् ।
तथेहापि सत्तामात्रानुबन्धिनी 1021 क्षणिकता ।
कथं पुनस्तन्मात्रानुबन्धसिद्धिः ? विपक्षे बाधकप्रमाणप्रवृत्तेः ।
अक्षणिकत्वे हि व्यापकानुपलब्धिस्सत्तां बाधते ।
अर्थक्रियाकारिता हि सत्ता, नापरा काचिदस्ति ।
सा च क्रम-यौगपद्याभ्यां व्याप्ता, तृतीयकोटिविरहात्1022 ।
अनयोः परस्परप्रतिपक्षतयैकप्रतिषेधस्येतरविधिनान्तरीयकत्वात् ।
न च क्रम-यौगपद्ये ऽक्षणिकेषु सम्भवतः ।
ते तु निवर्तमाने सत्तामपि निवर्तयतः, वृक्षत्वं शिंशपात्वमिव ।
कथमक्षणिकेषु क्रम-यौगपद्याभ्यामर्थक्रियाविरहः ? अत्राऽहुः--- 1023अक्षणिको हि भावोर्ऽथक्रियाजननस्वभावो वा भवेत् ? अतत्स्वभावो वा? नापरः प्रकारो ऽस्ति ।
तत्राग्रिमपक्षपरिग्रहे सर्वासामर्थक्रियाणामेकस्मिन्नेव क्षणे कृतत्वात्, कृतस्य च पुनः करणानुपपत्तेः, अनन्तरक्षणेर्ऽथक्रियासामर्थ्यशून्यत्वात्, असल्लक्षणत्वापत्तेरक्षणिकत्वहानिः ।
द्वितीयविकल्पावलम्बने तु 1024कदाचिदपि ततोर्ऽथक्रिया नोदीयत इति, असल्लक्षणत्वापत्तिरेव ।
स्यान्मतम्---समर्थो ऽपि स्वभावतो भावस्सहकारिसमवधानवशेन कदाचित्करोति, तदभावाच्चान्यदा नेति ।
तदपि विमर्दं न क्षमते ।
स हि सहकारी किञ्चिदारभते, न वा ? तेनाऽरभ्यमाणमप्यर्थक्रियासाधनत्वाभिमतभावस्वभावभूतम्, उत--अतत्स्वभावभूतं वेति विकल्पनीयम् ।
अनारम्भपक्षे ऽपेक्षार्थो ऽभिधातव्यः ।
न खल्वनुपकारकं प्रत्यपेक्षार्ऽथवती ।
अर्थक्रियासाधनत्वाभिमतभावस्वभावभूतस्याऽरम्भे च भावस्याप्युत्पत्तिरापतति ।
1025न ह्यनुत्पद्यमान उत्पद्यमानस्वभावो भवति, विरुद्धधर्माध्यासस्य भेदादादकत्वात्1026 ।
भावोदयाङ्गीकारे चाक्षणिकत्वपक्षपरिक्षयः1027 ।
अतत्स्वभावभूतस्यऽऽरम्भाभ्युपगमे भावस्य प्रागसाधकत्वात्, नाक्षणिकात्क्रमेणार्ऽथक्रियासिद्धिः ।
तत एव बाह्यादागन्तोरर्थक्रियोदेयः, तद्भावे भावात्, तदभावे चाभावात् ।
न च तद्व्यतिरेका---व्यतिरेकाभ्यामन्यः प्रकारो ऽस्ति ।
परस्परविरुद्धयोरेकत्र समवायप्रतीतिविरहात् ।
ननु क्षणिको ऽपि भावः---किकर्मक्रियाजननसमर्थस्वभावः, अतत्स्वभावो ? वेति 1028प्राचीं कल्पनां 1020नातिवर्तते ।
तत्रार्ऽथक्रियाजननसमर्थस्वभावस्य सहकारिव्यपेक्षा न स्यात् ।
न ह्यसमर्थादर्थादर्थक्रियोदीयते ।
श्रूयतां परमरहस्यं सौगतानाम्--- 1030अन्त्यक्षणं प्राप्तोर्ऽथक्रियाजननसमर्थस्वभाव एव भावः 1031कार्यमप्येकमेवाऽरभते ।
किमिति तर्हि सहकारिभिर्विनापि न करोति ।
निरपेक्षस्य जनकत्वे, सहकारितापि तस्य कीदृशीति न करोति ।
निरपेक्षस्य जनकत्वे, सहकारितापि तस्य कीदृशीति वक्तव्यम् ।
अत्र वदामः---यत्तावदिदमुक्तम्---विनापि सहकारिभिः किमिति न करोतीति ।
तत्तावत् सुगतमतकौशलविरहविजम्भितम् ।
क्षणिको हि भावो न सहकारिभिव्रिनास्ति ।
कथमसन् 1032करिष्यति ।
यस्त्वस्ति, नासौ स इति, न किञ्चित् क्षीणम् ।
सहकारिभिर्विना किमिति न भवत्येवेति पर्यनुयोगे, हेतुस्वभावैरुत्तरं वाच्यम्---ते1033 तथा भवन्ति, भावयन्ति चेति ।
एककार्यकारिता चान्त्यक्षणवर्तिनां सहकारिता ।
ननु ते ऽप्यन्यनिरपेक्षा एव जनकाः किमिति न कार्यान्तरमारभन्ते ।
अत्रापि वयमनीशाः---भावास्तु यदारभन्ते, तदारभन्तामित्यनुमन्तुमेव वयं प्रभवामः ।
ते चामी जनका अपि 1034सन्तस्तदेव जनयन्तीति, पश्यतामस्माकं तावत्येवाभ्युपगमः ।
नन्वेकेन कृते, अपरः किं करोतीति ? भवेदेतदेवं पर्यायेणार्ऽथक्रियायाम्, सहक्रियायान्तु कृत इत्येव नास्ति ।
नन्वेवमेकस्मादपि तत्सिद्धेः, किमपरे कृर्वन्ति ।
नैतदेवम् ।
न ते प्रेक्षापूर्वकारिणः, येनैवं पर्यालोचयेयुः ।
अन्यो ऽपीदं कर्तुमस्माभिरपि विना समर्थः, वयमिह न प्रभवाम इति ।
ते तु हेत्वधीनसन्निधाना न भवितुं न क्षमन्त इति कानुपपत्तिः ।
ननु कथमेकं कार्यमनेकस्मादुत्पद्यते ।
कारणभेद एव हि कार्यस्य भेदे हेतुः, अन्यथाऽकसिमकत्वापत्तेः ।
उच्यते, न सहकारिकारणभेदाद् भेदः कार्यस्य, किन्तु सामाग्रीभेदादिति, 1035हेतुबिन्दौ कृतपरिश्रमाणामनायाससमधिगम्यम् ।
तस्मान्न क्षणिकत्वे ऽप्यक्षणिकत्वपक्षसदृक्षपर्यनुयोगावकाशः ।
बीजादीनां हि क्षणपरम्परापरिणामेन 1036तादृशः क्षणस्सञ्जायते ।
यतो ऽनपेक्षितहेत्वन्तरप्रवृत्तेरनन्तरमङ्कुरं प्रादुर्भवति ।
नन्वेवमपि परा-परेषु बीजादिक्षणेषु"तदेवेदमि"ति प्रत्यभिज्ञा नोपपद्यते ।
अपि च प्रत्यभिज्ञाप्रत्यक्षविरोधे कथमनुमानमात्मानं लभत इत्यपि न वाच्यम् ।
1037आत्मलाभे वा बह्नावपि शैत्यानुमानप्रसङ्गः ।
समाधिरभिधीयते---ये ते क्षणाः, तेषामात्यन्तिकं भेदं सुसदृशतया दृष्टमपि प्रत्याकलायितुमनीशस्य भेदग्रहणनिबन्धनो ऽभेदव्यवहारः1038 प्रवर्तते, शुक्तिकायामिव रजतव्यवहारः ।
न चानुमानोदयिविरोधः, अर्थक्रियाया अन्यथानुपपत्तेः ।
प्रत्यभिज्ञा तु भेदाग्रहणेनाप्युपपद्यत इति निरवद्यम् ।
अत एव च वृद्धा वदन्ति---"भवति च प्रत्यक्षादप्यनुमानं बलीय" इति ।
युक्तञ्चेदमेव पश्यामः ।
"तदेवेदमि"त्येकविज्ञानोदये1039 कारणाभावात्1040, इन्द्रियं सन्निहिते व्याप्रियते, न पुनः पूर्वकालसम्बन्धिता-1041रूपां तत्तमुपस्पृशति, पूर्वानुभवभाविता च भावना नेदन्तामपरकालयोगात्मिकाम्---इति ।
तदिदं ज्वालाप्रत्यभिज्ञानेन व्याख्यातम् ।
अपि च कृतकानां भावानामवश्यम्भावी विनाशः प्रतीयते ।
अतो ऽपि शक्या क्षणभङ्गितानुमातुम् ।
तथाहि---यद्येषां ध्रुवभाविनी, तत्र तेषां हेत्वन्तरापेक्षा नास्ति ।
ध्रुवभावी च कृतकानां विनाश इति, विरुद्धव्याप्तोपलब्धलिङ्गकमनुमानं विनाशस्य हेत्वन्तरापेक्षितां प्रतिक्षिपित ।
ध्रुवभाविता हि निषिध्यमानहेत्वन्तरापेक्षित्वविरुद्धनिरपेक्षत्वव्याप्तोपलब्धा1042 विनाशस्य हेत्वन्तरानपेक्षितामुपस्थापयति ।
सा च स्वविरुद्धं हेत्वनतरापेक्षित्वं निराकरोति ।
ये हि हेत्वन्तरपेक्षाः, ते ध्रुवभाविनो न भवन्ति ।
यथा--- वाससि रागादयः ।
अतो हेत्वन्तरोपक्षित्वविरुद्धतन्निरपेक्षत्वव्याप्तध्रुवभावित्वस्य योपलब्धिः, सैवाध्रुवभावित्वस्यानुपलब्धिः ।
अध्रुवभावित्वस्यानुपलब्धेः, विनाशस्य हेत्वन्तरापेक्षा नास्ति ।
तथा यदि भावा अपि स्वहेतुभ्यो हेत्वन्तरं विनाशं प्रत्यपेक्षेरन्, ततस्तस्य हेत्वन्तरस्य सन्निधाननियमे प्रमाणाभावात्, कश्चित्कृतको ऽपि न विनश्येत् ।
स्वहेतोस्तु विनश्वरस्योदये ऽनन्तरमेवापवर्ग इति, क्षणभङ्गुरत्वसिद्धिः ।
अपि चेदं चिन्तनीयम्, किं कृतका भावास्स्वहेतुभ्यस्समुपजायमाना विनश्वरस्वभावा एव जायन्ते ? अविनाश्वरस्वभावा1043--- वा ? विनश्वर---स्वभावा उदयानन्तरमेव लीयन्त इति क्षणभङ्गिनः ।
अविनश्वरस्वभावास्तु न कदाचिद्विनश्येयुः ।
न च हेत्वन्तरात्तेषां 1044विनाशः, विकल्पासहत्वात् ।
स हि जायमानो वनाशो भावादव्यतिरेकी ? व्यतिरेकी वा ।
न तावदव्यतिरेकी, हेतुभेदात् ।
व्यतिरेकिणि तु जाते, भावस्य प्राग्वदुपलब्ध्यादिप्रसङ्गः ।
तेन तिरोधीयत इति कल्पनायामपि, तिरोधानं प्रत्येषं विकल्पो वाच्य1045 इत्यलमतिप्रसङ्गेन ।
एकदेशिमतेन क्षणिकत्ववादनिरासः ।
अत्र1046 केचिदेवं समादधति---"तदेवेदमि"ति तत्तेदन्ते परस्परं संवलिते समाकलयदेकं प्रत्यभिज्ञासमाख्यातं प्रत्यक्षविज्ञानं क्षणभङ्गानुमानं निरुणद्धि---इति ।
1047न चेदं समीचीनम् ।
द्वे एते विज्ञाने ग्रहण-स्मरणरूपे यथायथं तत्तामात्रे, इदन्तामात्रे च व्याप्रियमाणे नालमुभयानुभवसम्भवसमयवर्तितामर्थस्यावभासयितुम्, प्रतीतिविरोधात् ।
यर्थैव खल्वभिन्नदेशकालं वस्त्वेकतया चकास्ति, तथा भिन्नदेशकालमप्येकतयैव परिस्फुरतीति, तथाविधसंवेदनोदयश्च नैकविज्ञानमन्तरेणेति, एकमेवेदं विज्ञानमुररीकरणीयम् ।
कार्यसद्भावोपपादनायाप्रतीतमपि कारणं परिकल्पनीयम्, न पुनः कारणमुखनिरीक्षणेन स्पष्टदृष्टकार्यविपर्ययः पर्यालोचनीयः ।
तेन यद्यपि कवलादिन्द्रियात्, केवलात् पूर्वानुभवसमासादितजन्मनो भावनाभिधानात् संस्काराद्वा नैवंविघमिदं विज्ञानुमुदेतुमर्हति ।
तथापि तयोरन्योन्यसमवधानसमासादितदशान्तरयोरिदं कार्यमित्याचार्या1048 मेनिरे ॥
न चेदमप्युचितम् ।
प्रत्यक्षमेवेवेदं न भवतीति, सत्यपि संस्कारोपयोगे, इन्द्रियव्यापाराधीनजन्मतयास्य प्रथमसमागमसमयभाविनस्सकलवादिनामपहस्तितविवादानां प्रत्यक्षसम्मतादविशेषात् ।
न चेदं प्रमाणाभासमित्यत्र किञ्चन प्रमाणमस्ति, बाध-कारणदोषविषयसंवेदनान्तरविरहात् ।
न चेदमेवानुमानं बाधकमिति चित्तमनुरज्यते, परस्पराश्रयदोषसमासक्तेः ।
यावत्खल्वेतद्विज्ञानमबाधितम्, तावदनुमानमेव नोदेतुं प्रभवति, सञ्जाते चानुमाने बाधितामिदं भवतीति, विशदतरमितरेतराश्रयत्वम्1049 ।
अबाधितविषयता1050 चापि कारणमनुमानोदये, अन्यथा हुतवहे शीतता किमिति नानुमीयते ।
नन्वेवं तर्हि कथं ज्वालादीनामेकत्वेनावधारितानामनुमानतो भेदसिद्धिः ।
भाट्टमतेन वस्तुनो द्व्यात्मकतोपन्यासः ।
अत्र सिद्धान्तसारमुदीरयन्ति---समान्य-विशेषात्मकानि सर्ववस्तूनि ।
तत्र ज्वालादिषु प्रत्यक्षं सामान्यविषयम्, अनुमानन्तु विशेषविषयमिति, भिन्नगोचरप्रचारिणोः प्रत्यक्षा---नुमानयोर्विरोधाभावात्, न प्रत्यक्षेणानुमानोदयविरोधः ।
कथं पुनरक्षणिकस्यार्ऽथक्रियाकारिता ? क्रमेणेति वदन्ति ।
स खलु सहकारिसमवधानोपहितविशेषां भावस्तां तामर्थक्रियां क्रमेणैव समपादयति ।
ननु विकल्पितं-सहकारिभिः किं व्यतिरिक्तः, अव्यतिरिक्ते वा विशेष आधीयत इति, दूषणानि चेह विकल्पयुगले पूर्वमावेदितानि ।
1051अत्रापि त एव प्रक्रियामनुक्रमयन्ति ।
नेदमस्मन्मतमेकान्ततोभिन्नन्येव सर्ववस्तूनि, अभिन्नानि 1052वेति, किन्तु सर्वभावेषु भेदा-भेदौ सङ्गिरामहे ।
तत्र भेदमात्रविकल्पसम्भवीनि1053 दूषणान्यभेदाश्रयणेन परिहृतानि, अभेदमात्राश्रितानि चभेदावलम्बनेनेति ।
नन्वेतौ भेदा-भेदौ कथमेकत्र विरोधिनौ निविशेते ॥
तत्राऽहुः--- नेमौ विरोधिनौ, सहदर्शनात् ।
सहानवस्थानलक्षणो हि विरोधः, अनवस्थानञ्चादर्शननिबन्धनम् ।
अतो नास्ति विरोधः ।
तन्निरासः ।
1054तदिदमविचारितरमणीयमिति 1055प्रभाकरगुरोर्नानुमतम् ।
स हि ददर्श---भेदा-भेदावेव तावदेकत्र न सम्भवतः, विरोधात् ।
न ह्वि तयोस्सहदर्शनमुपपद्यते ।
एकाकारप्रतीतिरेव खल्वभेददर्शनम्, विलक्षणाकारप्रतीतिश्च भेददर्शनम् ।
तत्र यद्येकाकारा प्रतीतिः, तदा विलक्षणाकारप्रतीतिर्नास्ति ।
विलक्षणाकारे च प्रतीते, एकाकारप्रतीतिरेव नास्ति ।
तेन भिन्ना-भिन्नविशेषाश्रयणेनार्ऽथक्रियासमर्थनं न घटत1056 इति ।
न च प्रत्यभिज्ञानेनानुमानविरोधः,1057 प्रत्यभिज्ञाया एव परीक्षणीयत्वात् ।
दृष्टा---शुक्तिकायां "तदेवेदं रजतमि"ति मतिः ।
सा च सादृश्यवशेन भेदाग्रहणनिबन्धनैवेति युक्तात्रापि परीक्षा ।
तत्र परीक्ष्यमाणस्यार्थक्रियानुपपत्त्या क्षणिकत्वे निर्णीते, 1058सदृशपरा---परोत्पत्तिविप्रलम्भो ऽयमिति निश्चीयते ।
भवति च विमृशतो ऽपि1059 दिङ्मोहादिष्वनुमानवशेन जाताया अपि प्रतीतेर्विपर्ययः ।
हुतवहादिषु चौष्ण्यप्रतीतिरुपजाता परीक्ष्यमाणापि नान्यथोपपद्यते इति, न विपर्ययानुमानोदयः ।
तस्मादलमनेन 1060वञ्चनादर्शनेनातिनिर्बन्धेन1061 ।
सिद्धान्तः ।
1062गम्भीरतरगुरुदर्शनसागरपारदृश्वानस्तु सम्प्रति समाधिमभिधति---स्तम्भादिषु प्रथममनुभूतेषु पुनरन्तरा तिरोधानादिवशेन विच्छिन्नोपलम्भेषु पुनरनुभवतः"स एवायमि"ति तावज्जायते मतिः ।
तत्र यद्यर्थक्रिया स्थिरादपि कथञ्चिदुपपद्यते, ततो भेदाग्रहणनिबन्धनो ऽयमभेदव्यवहार इति किमिति कल्प्यते ।
उपपद्यते च स्थिरादपि भावात् सहकारिवशोपजातागन्तुकक्रियादिरूपविशेषभाजः क्रमेणार्ऽथक्रिया ।
स च विशेषो व्यतिरिक्त एव भावादर्थक्रियाकारिणः ।
न च स एवार्ऽथक्रियाकारी, भावस्तूदास्त इति चतुरस्त्रम् ।
तथाविधविशेषालीढतैव तस्य साधनता, यदनन्तरमर्थक्रियोदयः, तद्विशेषयोगितयैव भावेषु साधनतवव्यवहारो लौकिकानाम् ।
कथं पुनरसौ विशेषस्तस्येति व्यपदिश्यते, तदाश्रयतयैवानुमानात् ।
कथं पुनस्तदाश्रयतैव ।
स्वहेतुवशेनेति मतवा निवर्ततां भवात्, अलमस्माभिर्दूरमनुयातैः ।
अथ कस्माद्भावस्यैव भेदो नानुमीयते, प्रत्यभिज्ञानानुगुण्यादिति वदामः ।
दृष्टानुसारि चानुमानमुचितम्, दृष्टोपपत्तिमुखत्वात् ।
यथा चार्ऽथक्रिया दृश्ते,1062 तथेदमपि दृश्यते स्थावरो भाव इति, तदनुगुणमनुमानमुचितम् ।
तेन स्थावरे ऽप्यर्थक्रियाव्यापकक्र-यौगपद्यानिवृत्तेरसिद्धो व्यापकानुपलम्भः, 1063तदसिद्धौ च विपर्यये बाधकाभावात्, असिद्धतन्मात्रानुबन्धिनीं क्षणिकतां न सत्ता साधयितुमलम्, अनैकान्तिकत्वादिति ।
न चार्ऽथक्रियाकारितैव सत्ता, किन्तु 1064प्रमाणसम्बन्धयोग्यता ।
यतस्स्वरूपसत्ता च प्रमाणसम्बन्धयोग्यता ।
अतोर्ऽथक्रियामकुर्वन्नपि सन्निति, न किञ्चिदवद्यम् ।
यत्त्विदमुदितमनपेक्षा भावा विनाशं प्रति---इति ।
तदपि विमृश्यमानं 1065 दह्यमानं जातुषमिवाऽभरणं विलीयते1066 ।
कं खलु भवन्तो विनाशमभिमन्यन्ते ? प्रध्वंसाभावो विनाश इति चेत्---कः पुनः प्रध्वंसाभावः ?"दध्नि क्षीरं नास्तीस्त्ये" वमादिका भावविषया संविदिति वद्युच्येत, तदामृतकलायामुदिता नीतिरुद्धरणीया1067 ।
न हि नास्ती"ति बुद्धिरस्ति ।
किन्तु दधिस्वरूपमात्रानुभव एव स्वयम्प्रकाशे नञ्शब्दप्रयोगमात्रमेव, सैव हि पयसो नास्तिता, या दृश्ये ऽपि तस्मिन् दधिस्वरूपमात्रोपलब्धिः ।
न च तां प्रति पयस एव निरपेक्षस्य हेतुता, अनुपनिपतिते हेत्वन्तरे, पयस एवोपलब्धे ।
न चेदं पयोनतरमुपलभ्यत इति शक्यं वक्तुम् ।
प्रत्यभिज्ञानस्याभेदसाधकत्वात् ।
ननु च हेत्वन्तरापेक्षित्वे ध्रुवभाविता नोपपद्यते ।
ध्रुवभाविता नोपपद्यते ।
ध्रुवभावितैव कुतो ऽवगम्यते ? दर्शनादिति चेत् ? हेत्वन्तरेणाप्यवश्यं भवितव्यमिति, दर्शनादेवावगम्यताम् ।
न च बाला वयं1068 येनैवंविधवादाद् भीषयामहे ।
यत्पुनरिदं स्वहेतुभ्यो भावानामपि नश्वराणामुत्पत्तौ, हेत्वन्तरायत्ते विनाशे, व्यतिरेकिणि जाते ऽपि पूर्ववत् भावस्योपलब्ध्यादिप्रसङ्ग इति ।
अत्रोच्यते---उक्तमस्माभिः---यथा तन्मात्रोपलब्धिरेव विनाश इति ।
तेन तस्या हेतुसद्भावात् तयैव भवितव्यम् ।
अनुपलब्धिरपितस्य सैवेत्यनुपलब्धिरेव तस्य नोपलब्धिः, तन्निबन्धनश्चाभावव्यवहारो ऽपीति सर्वमनाकुलम् ।
सुगताशीविषविषमक्षणभङ्गविषानलावलीढसायाः ।
मीमांसायां विहिता1069 मर्ममयी जीवरक्षेयम्
मूल पाठ: Prakaraṇapañcikā with Nārāyaṇabhaṭṭa's Nyāyasiddhi · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0