भाषा

ENहिગુ
ग्रंथ पाठ

प्रज्ञापारमितास्तोत्र · श्लोक 1-20

1

निर्विकल्पे नमस् तुभ्यं प्रज्ञापारमिते ऽमिते
या त्वं सर्वानवद्याङ्गि निरवद्यैर् निरीक्ष्यसे ॥

2

आकाशम् इव निर्लेपां निष्प्रपञ्चां निरक्षराम्
यस् त्वां पश्यति भावेन स पश्यति तथागतम् ॥

3

तव चार्ये गुणाढ्याया बुद्धस्य च जगद्गुरोः
न पश्यन्त्य् अन्तरं सन्तश् चन्द्रचन्द्रिकयोर् इव ॥

4

कृपात्मकाः प्रपद्य त्वां बुद्धधर्मपुरःसरीम्
सुखेनायान्ति माहात्म्यम् अतुलं भक्तिवत्सले ॥

5

सकृद् अप्य् आशये शुद्धे यस् त्वां विधिवद् ईक्षते
तेनापि नियतं सिद्धिः प्राप्यते ऽमोघदर्शने ॥

6

सर्वेषाम् अपि वीराणां परार्थनिरतात्मनाम्
पोषिका जनयित्री च माता त्वम् असि वत्सला ॥

7

यद् बुद्धा लोकगुरवः पुत्रास् तव कृपालवः
तेन त्वम् अपि कल्याणि सर्वसत्त्वपितामही ॥

8

सर्वपारमिताभिस् त्वं निर्मलाभिर् अनिन्दिते
चन्द्रलेखेव ताराभिर् अनुयातासि सर्वदा ॥

9

विनेयं जनम् आसाद्य तत्र तत्र तथागतैः
बहुरूपा त्वम् एवैका नानानामभिर् ईड्यसे ॥

10

प्रभां प्राप्येव दीप्तांशोर् अवश्यायोदबिन्दवः
त्वां प्राप्य प्रलयं यान्ति दोषा वादाश् च वादिनाम् ॥

11

त्वम् एव त्रासजननी बालानां भीमदर्शना
आश्वासजननी चासि विदुषां सौम्यदर्शना ॥

12

यस्य त्वय्य् अप्य् अभिष्वङ्गस् त्वन्नाथस्य न विद्यते
तस्याम्ब कथम् अन्यत्र रागद्वेषौ भविष्यतः ॥

13

नागच्छसि कुतश् चित् त्वं न च क्व चन गच्छसि
स्थानेष्व् अपि च सर्वेषु विद्वद्भिर् नोपलभ्यसे ॥

14

ये त्वाम् एवं न पश्यन्ति प्रपद्यन्ते च भावतः
प्रपद्य च विमुच्यन्ते तद् इदं महद् अद्भुतम् ॥

15

त्वाम् एव बध्यते पश्यन्न् अपश्यन्न् अपि बध्यते
त्वाम् एव मुच्यते पश्यन्न् अपश्यन्न् अपि मुच्यते ॥

16

अहो विस्मयनीयासि गम्भीरासि यशस्विनि
सुदुर्बोधासि मायेव दृश्यसे न च दृश्यसे ॥

17

बुद्धैः प्रत्येकबुद्धैश् च श्रावकैश् च निषेविता
मार्गस् त्वम् एका मोक्षस्य नास्त्य् अन्य इति निश्चयः ॥

18

व्यवहारं पुरस्कृत्य प्रज्ञप्त्यर्थं शरीरिणाम्
कृपया लोकनाथैस् त्वम् उच्यसे च न चोच्यसे ॥

19

शक्तः कस् त्वाम् इह स्तोतुं निर्निमित्तां निरञ्जनाम्
सर्ववाग्विशयातीतां या त्वं क्व चिद् अनिश्रिता ॥

20

सत्य् एवम् अपि संवृत्या वाक्पथैर् वयम् ईदृशैः
त्वाम् अस्तुत्याम् अपि सतीं तुष्टूषन्तः सुनिर्वृताः ॥

मूल पाठ: Prajñāpāramitāstotra · Edition: Michael Hahn: "Bemerkungen zu zwei Texten aus dem Phudrag-Kanjur", Indology and Indo-Tibetology. Thirty Years of Indian and Indo-Tibetan Studies in Bonn, ed. by H. Eimer, Bonn 1988 (Indica et Tibetica 13), S. 53-80. · Data entry Lennart Hartmann Jens-Uwe Hartmann · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc