भाषा

ENहिગુ
ग्रंथ पाठ

प्रज्ञापारमिताहृदयसूत्र · भाग 11

प्रज्ञापारमिता-हृदय-सूत्र
ओं नमो भगवत्यै आर्य-प्रजापारमितायै!
आर्य आवलोकितेश्वरो बोधिसत्त्वो गम्भीरं
प्रज्ञापारमिता-चार्यां चरमाणो
व्यवलोकयति स्म, पञ्च-स्कन्धास् तांश् च
स्वभाव-शून्यान् पश्यति स्म.
इह शारिपुत्र रूपं शून्यता, शून्यत्ऽऐव रूपं,
रूपान् न पृथक् शून्यता,
शून्यताया न पृथग् रूपं,
यद् रूपं सा शून्यता,
या शून्यता तद् रूपं.
एवम् एव वेदना-संज्ञा-संस्कारा-विज्ञानम्.
इह शारिपुत्र सर्व-धर्माः शून्यता-लक्षणा
अनुत्पन्ना अनिरुद्धा अमला अविमला अनूना अपरिपूर्णाः.
तस्माच् छारिपुत्र शून्यतायां न रूपं
न वेदना न संज्ञा न संस्काराः न विज्ञानं,
न चक्षुः-श्रोत्र-घ्राण-जिह्वा-काय-मनांसि,
न रूप-शब्द-गन्ध-रस-स्प्रष्टव्य-धर्माः,
न चक्षुर्-धातुर् यावन् न मनो-विज्ञान-धातुः,
न्ऽआविद्या न्ऽआविद्या-क्षयो यावन् न जरा-मरणं
न जरा-मरण-क्षयो न दुःख-समुदय-निरोध-मार्गा
न ज्ञानं न प्राप्तिर् न्ऽआप्राप्तिः.
तस्माच् छारिपुत्र अप्राप्तित्वाद् बोधिसत्त्वो
प्रज्ञा-पारमिताम् आश्रित्य विहरत्य् अचित्त्ऽआवरणः.
चित्त्ऽआवरण-नास्तित्वाद् अत्रस्तो
विपर्यास्ऽआतिक्रान्तो निष्ठा-निर्वाणः.
त्रध्व-व्यवस्थिताः सर्व-बुद्धाः
प्रज्ञापारमिताम् आश्रित्य अनुत्तरां
सम्यक्-सम्बोधिम् अभिसम्बुद्धाः.
तस्माज् ज्ञातव्यं प्रज्ञापारमिता महा-मन्त्रो
महा-विद्या-मन्त्रोऽनुत्तर-मन्त्रो
समसम-मन्त्रः सर्व-दुःख-प्रशमनः सत्यम् अमिथ्यत्वात्.
प्रज्ञापारमितायाम् उक्तो मन्त्रः, तद्यथा -
ओं गते गते पारगते पारसंगते बोधि स्वाहा.
इत्य् आर्य-प्रज्ञापारमिता-हृदयं समाप्तम्.

मूल पाठ: Prajñāpāramitāhṛdayasūtra · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc