भाषा

ENहिગુ
ग्रंथ पाठ

प्रज्ञापारमिताहृदयसूत्र, संक्षिप्तमातृका · भाग 11

प्रज्ञापारमिताहृदयसूत्रम् । [संक्षिप्तमातृका ॥]
नमः सर्वज्ञाय ॥
आर्यावलोकितेश्वरबोधिसत्त्वो गम्भीरायां प्रज्ञापारमितायां चर्यां चरमाणो व्यवलोकयति स्म । पञ्च स्कन्धाः, तांश्च स्वभावशून्यान् पश्यति स्म ॥
इह शारिपुत्र रूपं शून्यता, शून्यतैव रूपम् । रूपान्न पृथक् शून्यता, शून्यताया न पृथग् रूपम् । यद्रूपं सा शून्यता, या शून्यता तद्रूपम् ॥
एवमेव वेदनासंज्ञासंस्कारविज्ञानानि ॥
इहं शारिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला न विमला नोना न परिपूर्णाः । तस्माच्छारिपुत्र शून्यतायां न रूपम्, न वेदना, न संज्ञा, न संस्काराः, न विज्ञानानि । न चक्षुःश्रोत्रघ्राणजिह्वाकायमनांसि, न रूपशब्दगन्धरसस्प्रष्टव्यधर्माः । न चक्षुर्धातुर्यावन्न मनोधातुः ॥
न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो यावन्न जरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तित्वम् ॥
बोधिसत्त्वस्य(श्च?) प्रज्ञापारमितामाश्रित्य विहरति चित्तावरणः । चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः । त्र्यध्वव्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः ॥
तस्माज्ज्ञातव्यः प्रज्ञापारमितामहामन्त्रो महाविद्यामन्त्रो ऽनुत्तरमन्त्रो ऽसमसममन्त्रः सर्वदुःखप्रशमनः सत्यममिथ्यत्वात् प्रज्ञापारमितायामुक्तो मन्त्रः । तद्यथा - गते गते पारगते पारसंगते बोधि स्वाहा ॥
इति प्रज्ञापारमिताहृदयसूत्रं समाप्तम् ॥

मूल पाठ: Prajñāpāramitāhṛdayasūtra, saṃkṣiptamātṛkā · Edition: P.L. Vaidya in: Mahayana-sutra-samgrahah, Part 1. Darbhanga: The Mithila Institute 1961 (Buddhist Sanskrit Texts, 17) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc