भाषा

ENहिગુ
ग्रंथ पाठ

पोषधवस्तु · भाग 117

पोषधवस्तु
पोष्-व् 1. ( 53व् = ग्ब्म् 6.707 ) पिण्डोद्दानम्* ॥
तीर्थिका ः कप्फिण आवासो
भिक्षुपेयालपश्चिमम्* ॥ ॥
पोष्-व् 2. उद्दानम्* ॥
तीर्थिकाः पोषधम् आहुः किं न पोषधः क्रियते ।
विसंकेते न निषीदन्ति कुत्र पोषधम् उद्दिशेत्* ॥ ॥
पोष्-व् 3.1. भगवान् राजगृहे विहरति वेणुवने कलन्दकनिवापे ।
पोष्-व् 3.2. तेन खलु समयेन संबहुला राजगृहीयका उपासका दिवादिवं एवोद्युक्ता अभूवन् भगवन्तं दर्शनायोपसंक्रमितुं पर्युपासनायै ।
पोष्-व् 3.3. अथ संबहुलानां राजगृहीयकानाम् उपासकानाम् एतद् अभवत्* अतिप्रातस् तावद् अस्माकं भगवन्तं दर्शनायोपसंक्रमितुं पर्युपासनायै । प्रतिसंलीनो भगवान् प्रतिसंलीनाश् च मनोभावनीयाश् च भिक्षवो यन् नु वयं येनान्यतीर्थिकपरिव्राजकानाम् आरामस् तेनोपसंक्रमेम ।
पोष्-व् 3.4. अथ संबहुला राजगृहीयका उपासका येनान्यतीर्थिकपरिव्राजकानाम् आरामस् तेनोपसंक्रान्ता उपसंक्रम्यान्यतीर्थिकपरिव्राजकैस् सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्यैकान्ते निषण्णाः ।
पोष्-व् 3.5. अथान्यतमस् तीर्थ्यस् तीर्थ्यान् इदम् अवोचत्* किन् नु भवन्त् ओ ऽस्माक् अम् एव निषद्या क्रिया पोषधश् च प्रज्ञायते आहोस्विच् छ्रमणानाम् अपि शाक्यपुत्रीयाणां ।
पोष्-व् 3.6. अथान्यतमस् तीर्थ्यस् तीर्थ्यान् इदम् अवोचत्* अस्माकम् एव भवन्तो निषद्या क्रिया पोषधश् च प्रज्ञायते न त्व् एव श्रमणानां शाक्यपुत्रीयाणां ।
पोष्-व् 3.7. अथ संबहुला राजगृहीयका उपासकाः संबहुलानाम् अन्यतीर्थिकपरिव्राजकानां भाषितं नाभिनन्दन्ति न प्रतिक्रोशन्ति अनभिनन्द्याप्रतिक्रोश्य उत्थायासनेभ्यः प्रक्रान्ताः ।
पोष्-व् 3.8. ते येन भगवांस् तेनोपसंक्रान्ताः उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णाः । एकान्तनिषण्णा राजगृहीयका उपासका यावान् एवैषाम् अभूत् संबहुलैर् अन्यतीर्थिकपरिव्राजकैस् सार्धम् अन्तराकथासमुदाहारस् तत् सर्वं भगवतो विस्तरेणारोचयन्ति ।
पोष्-व् 3.9. एवं चाहुर् अहो बत भगवान् अस्माकम् अपि निषद्या ं क्रिया ं पोषधं च प्रज्ञपयेद् अनुकंपाम् उपादाय ।
पोष्-व् 3.10. अधिवासयति भगवान् संबहुलानां राजगृहीयकानाम् उपासकानां तूष्णींभावेन ।
पोष्-व् 3.11. अथ संब हु ला राजगृहीयका उपासका भगवतः तूष्णींभावेनाधिवासनां विदित्वा भगवतो भाषितम् अभिनन्द्यानुमोद्य भगवतो ऽन्तिकात् प्रक्रान्तः ।
पोष्-व् 4. तत्र भगवान् भिक्षून् आमन्त्रयते स्म । तस्माद् अनुजानामि भिक्षुभिर् अद्याग्रेण निषद्या क्रिया पोषधश् च प्रतिजागर्तव्यः ।
पोष्-व् 5.1. उक्तं भगवता अद्याग्रेण भिक्षुभिर् निषद्या क्रिया पोषधश् च प्रतिजागर्तव्य इति । ते न जानन्ति का निषद्या का क्रिया कः पोषध इति । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति ।
पोष्-व् 5.2. भगवान् आह । निषद्या उच्यते योगः । एत यूयं भिक्षव इमम् एव कायम् ऊर्ध्वं पादतलाद् अधः केशमस्तकात् त्वक्पर्यन्तं यथास्थितं यथाप्रणिहितं पूर्णं नानाप्रकारस्याशुचेः प्रत्यवेक्षध्वं । सन्त्य् अस्मिन् काये केशा रोमाणि नखा दन्ता रजो मलं त्वङ् मांसम् अस्थि स्नायु सिरा वृक्का हृदयं प्लीहा क्लोमक आन्त्राण्य् अन्त्रगुणान्य् आमाशयः पक्वाशय औदर्यकं यकृत् पुरीषम् अश्रु स्वेदः खेटश् शिंघाणको वसा लसीका मज्जा मेदः पित्तं श्लेष्मा पूयः शोणितं मस्तकं ( 54र् = ग्ब्म् 6.1058 ) मस्तकलुङ्गं मूत्रं च इति ।
पोष्-व् 6.1. उक्तं भगवता योगो वाहयितव्य इति भिक्षवो गोचराय प्रसृता अपि योगं वाहयन्ति । ते भ्रान्तेन हस्तिना सार्धं समागच्छ न्त् इ भ्रान्तेनाश्वेन भ्रान्तेन पदातिकेन च सार्धं समागच्छन्ति निपतन्ति । अश्राद्धा अवस्फण्डयन्ति । आर्याः किं न पश्यथेति । त् ए कथयन्ति । योगं वाहयामः । एतत् प्रकरणं भिक्षवो भ ग वत आरोचयन्ति ।
भगवान् आह । न गोचराय प्रसृतेन योगो वाहयित् अव्यः ।
पोष्-व् 6.2. ते द्वारकोष्ठके योगं वाहयन्ति । प्रचालयन्ति च । अश्राद्धा अवस्फण्डयन्ति । एतत् प्रकरणं भिक्षवो भग वत आरोचयन्ति ।
भगवान् आह । न द्वारकोष्ठके योगो वाहयितव्यः ।
पोष्-व् 6.3. ते प्रासादे वाहयन्ति । स एवादीनवो भवति ।
भगवान् आह । न भिक्षुण् आ प्रासादे योगो वाहयि तव्यः ।
पोष्-व् 6.4. ते ल् अ य् अ न् ए व् आहयन्ति । ध्यायिनां कण्टकशब्देन चित्तैकाग्र्यं न लभन्ते । एतत् प्रकरणं भिक्षवो भग वत आरोचयन्ति ।
भगवान् आह । न लयने योगो वाहयितव्यः ।
पोष्-व् 6.5. ते अरण्ये भावयन्ति । चोरधूर्तसिंहव्याघ्रद्व् ई प् ई नां गम्या भवन्ति । एतत् प् रकरणं भिक्षवो भगवत आरोचयन्ति ।
भगवान् आह । नारण्ये योगो भावयितव्यः ।
पोष्-व् 6.6. ते ग्रामस मीपे स मा गत्य भावयन्ति । अश्राद्धा अवस्फण्डयन्ति । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति ।
भगवान् आह । स प्रदेशः शाखाभिर् वा किटकैर् वा वेष्टयि तव्यः ।
पोष्-व् 6.7. वेष्टितो भवति । अश्राद्धा अवस्फण्डयन्ति । आर्याः किम् इयं वाटिः कर्कटिकाया वा मूलस्य वा भवति । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति ।
भगवान् आह । स प्रदेशः कन्थाभिर् वा परिखाभिर् वा वेष्टयितव्यः ।
पोष्-व् 6.8. वेष्टितो भवति । अश्राद्धा अवस् फण्डयन्ति । आर्याः किम् इयं वाटिर् मातुलुङ्गस्य वा दाडिमस्य वा भवति । ते कथयन्ति योगं वाहयामः । एतत् प्रकरणं भिक्षवो भ गवत आरोचयन्ति ।
भगवान् आह । तस्माद् अनुजानामि प्रहाणशाला मापयितव्या ।
पोष्-व् 7. उक्तं भगवता प्रहाणशाला माप य् इ तव् य् ए ति । ते न जानन्ति कीदृशा प्रहाणशाला । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति ।
भगवान् आह । द्वे प्रहाणशाले । खु ड्डलिका महन्तिका च । खुड्डलिका द्वे लयने । मध्ये सुरुंगा । महन्तिका दशलयनिका द्वादशलयनिका वा ।
पोष्-व् 8.1. भिक्ष वो लयनं कृत्व् आ द्वारं न यथाग्राह्यं मुंचन्ति ।

भगवान् आह । द्वारं मोक्तव्यं ।
पोष्-व् 8.2. भिक्षवो कवाटिकां न ददन्ति ।
भगवान् आह । कवाटिका दातव्या ।
पोष्-व् 8.3. दुःखम् उद्घा ट्यते ।
भगवान् आह। आयामपटको दातव्यः ।
पोष्-व् 8.4. शब्दं करोति ।
भगवान् आह । अधस्ताच् चर्मखण्डको दातव्यः ।
पोष्-व् 8.5 दुःखं बध्यते ।
भगवान् आह । + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + ( 54र्10 )
पोष्-व् 9.1. अन्धकारो भवति ।
भगवान् आह । वाताय नो मोक्तव्यः ।
पोष्-व् 9.2. अधस्तान् मुंचन्ति । चोरधूर्तसिंहव्याघ्राणां गम्या भवन्ति ।
भगवान् आह । नाधस्तान् मोक्तव्यः ।
पोष्-व् 9.3. उपरिष्टान् मुंचन्ति । स एवा द् ई नवो भवति ।
भगवान् आह । नोपरिष्टान् मोक्तव्यः । द्वौ भागौ छोरयितव्या । छोरयित्वा तृतीये ( 54व् = ग्ब्म् 6.1057 ) भागे मोक्तव्ये ।
पोष्-व् 9.4. त उपरिष्टाद् द्वौ भागौ छ् ओ र् अ यित्वा अधस्तान् मुंचन्ति ।
भगवान् आह । अधस्ताद् द्वौ भागौ च्छोरयित्वा उपरिष्टात् तृतीये भागे मोक्तव्यः ।
पोष्-व् 9.5. भिक्षवो बहिर्विस्तीर्ण् अम् अन्तःसंवृतं कुर्वन्ति ।
भगवान् आह । वातायनः सागराकार इव मोक्तव्यः । बहिःसंवृतो अन्तर्विस्तीर्णः ।
पोष्-व् 9.6. काककलन्तककपोताः प्रविशन्ति ।
भगवान् आह । जालवातायनं कर्तव्यः ।
पोष्-व् 9.7. त्र्यंबुकत्रैलाटाः प्रविशन्ति ।
भगवान् आह । कवाटिका दातव्या ।
पोष्-व् 9.8. वातेनोद्घाट्यते ।
भगवान् आह । ... दातव्याः ।
पोष्-व् 9.9. दुःखं बध्यते ।
भगवान् आह । ... दातव्यः ।
पोष्-व् 9.10. दुःखम् उद्घाट्यते ।
भगवान् आह । अजपदकदण्डकां कृत्वा ... बधयितव्या । अजपदकदण्डकैर् उद्घाटयितव्या ।
पोष्-व् 10.1. तत्रासनेन कार्यम्* ।
भगवान् आह । मृन्मयान्य् आसनानि कर्तव्यानि ।
पोष्-व् 10.2. खक्खटा भवन्ति ।
भगवान् आह । पीठिका कर्तव्या ।
पोष्-व् 10.3. उक्तं भगवता पीठिका कर्तव्येति । ते न जानन्ति कीदृशा पीठिकेति ।
भगवान् आह । + + + + + + + + + + + + + + + का कर्तव्या । ततः पश्चाद् वानैर् दातव्या ।
पोष्-व् 10.4. ते न जानते कति वाण इति ।
भगवान् आह । पंच वाणाः । मुंजशाणवाल्वजो प् अटः सूक्ष्ंओ वेत्रः ।
पोष्-व् 10.5. खक्खटा भवन्ति ।
भगवान् आह । तूलिकाः प्रास्तारयितव्याः ।
पोष्-व् 10.6. उक्तं भगवता तुलिकाः प्रास्तारयितव्याः । ते न जानते कीदृशा तूलिकेति ।

भगवान् आह । दैर्घे चत्वारो हस्ताः तिर्यग् द्वे । द्विपुटां कृत्वा सीवयितव्याः । ततः पश्चात् तूलिकेन पूरयित व्याः ।
पोष्-व् 10.7. ते न जा नते कति तूलिकानीति ।
भगवान् आह । पंच तूलिकानि । अर्ककाशिकैरकाबकशाल्मलीतूलिकानि । अपराण्य् अपि पंच तूलानि । ऊर्णा शनः कर्पासो नन्तकानि पांसुतूलानि ।
पोष्-व् 10.8. पूरिता भवन्ति । सर्वन् तत् तूलम् एकं प्रदेशं गच्छति ।
भगवान् आह । सूत्रेणान्तरा काकपदका दातव्या । {च्f. स्ह्त् विइइ (एर्ग्.) 1033र्1: सूत्रेणा न्तरा काकपदका दातव्या}
पोष्-व् 11.1. निषद्य प्रचालयन्ति ।
भगवान् आह । घटिर् {च्f. स्ह्त् विइइ (एर्ग्.) 1033र्1} धारयितव्या ।
पोष्-व् 11.2. सा पतति ।
भगवान् आह । सूत्रके बद्ध्वा कर्णे परिबध्य धारयितव्या ।
पोष्-व् 11.3. तथापि प्रचालयन्ति ।
भगवान् आह । यष्टिः सारयितव्या ।
पोष्-व् 11.4. भिक्षवः कलमच्छेद्या कुर्वन्ति । व्रणं करोति ।
भग वान् आह । + + छेद्या कर्तव्या ।
पोष्-व् 11.5. तथापि हन्ति ।
भगवान् आह । नन्तकैर् वेष्टित्वा मन्दं सार यितव्यं ।
पोष्-व् 11.6. तथापि प्रचालयन्ति ।
भगवान् आह । कन्दुसकः क्षेप्तव्यः ।
पोष्-व् 11.7. भिक्षवो ऽन्धकारे क्षिपन्ति । स न पश्यति ।
भगवान् आह । सूत्रकैर् बद्ध्वा क्षेप्तव्यः ततो ऽपि प्रतिक र्षितव्यः {च्f. स्ह्त् विइइ (एर्ग्.) 1033र्4: ततः पश्चात् पुनर् आकर्षितव्यः} ।
पोष्-व् 11.8. तथापि प्रच् आलयन्ति ।
भगवान् आह । पुरो दीपः स्थापयितव्यः ।
पोष्-व् 11.9. तथापि प्रचालयन्ति ।
भगवान् आह । एकपादो ऽव् अ तारयितव्यः ।
पोष्-व् 11.10. तथापि प्रचालयन्ति ।
भगवान् आह । द्वितीयः पादो ऽवतारयितव्यः ।
पोष्-व् 11.11. तथापि प्रचालयन्ति ।
भगवान् आह । उत्थाय चंक्र् अमितव्यं ।
पोष्-व् 12.1. भिक्षवश् ... । {च्f. स्ह्त् विइइ (एर्ग्.) 1033व्1: भिक्षवः चंक्रमन्ति + + + + + कान् धारिकां बद्धव्य्. }
भगवान् आह । ... ।
पोष्-व् 12.2. हस्तेन धारयन्ति ।
भगवान् आह । ... धारयन्तश् च ंक्रमितव्यं ।
पोष्-व् 12.3. सोपानत्काश् चंक्रमन्ते । शब्दं कुर्वन्ति ।
भगवान् आह । न सोपानत्केन चंक्रमितव्यं ।
पोष्-व् 12.4. पांसुना पादौ नश्येते ।
भगवान् आह । कालक् उथः प्र् आस्तारयितव्यः ।
पोष्-व् 12.5. स्निग्धं भवति ।
भगवान् आह । प्राहाणिकस्याहं भिक्षवो भिक्षोर् आसमुदाचारिकां धर्मां प्रज्ञपयिष्यामि । प्राहा णिकेन ( 55र् = ग्ब्म् 6.708 ) भिक्षुणा तृतीये तृतीये दिवसे पादौ प्रक्षालयितव्यौ ।
प्राहाणिको भिक्षुः यथाप्रज्ञप्तान् आसमुदाचारिकां धर्मां न समादाय वर्तते । सातिसारो भवति ।
पोष्-व् 13.1. ते तत्र न मापयन्ति ।
भगवान् आह । उपरिष्टा द् द्वितीयं पुरं कर्तव्य ं ।

पोष्-व् 13.2. दुःखं अभिरूह्यते ।
भगवान् आह । सोपानपङ्क्तयः क र्तव्याः ।
पोष्-व् 13.3. प्रपातं भवति ।
भगवान् आह । वेदिका परिक्षेप्तव्या ।
पोष्-व् 13.4. तत् कंपते ।
भगवान् आह । लोहकण्टकैः कीलयितव्या ।
पोष्-व् 13.5. तथापि न मापयन्ति ।
भगवान् आह । बहिर् वा लयनपङ्क्तिः कर्तव्या ।
पोष्-व् 13.6. ते ऽपि सिद्धानि द्वाराणि कुर्वन्ति । ते प् अरस्परम् अभिलोकयन्ति ।
भगवान् आह । व्यस्तानि द्वा राणि कर्तव्यानि ।
पोष्-व् 14. ते तत्र प्रचालयन्ति ।
भगवान् आह । द्वारमूले पटिकां वा पटकं वालंबयित्वा शयितव्यम्* नात्र कौकृत्यं करणीयं ।
पोष्-व् 15. ते ततो गता भवन्ति । न पुनर् आगच्छन्ति ।
भगवान् आह । प्रहाणप्रतिजाग्रको भिक्षुस् संमन्त व्यः ।
पोष्-व् 16.1. पंचभिर् धर्मैः समन्वागतः प्रहाणप्रति जाग्रको भिक्षुः असंमतो न संमन्तव्यः । संमतश् चावकाशयितव्यः ।
कतमैः पंचभिः । छन्दाद् गच्छति द्वेषान् मोहाद् भयाद् गच्छति । जागृता म् अ जागृतां प्रहाणं न जानाति ।
एभिः पंचभिर् धर्मैस् समन्वागतः प्रहाणप्र तिजाग्रको भिक्षुर् असंमतो न संमन्तव्यः । संमतश् चावकाशयितव्यः ।
पोष्-व् 16.2. पंचभिर् धर्मैस् समन्वागतः प्रहाणप्रतिजाग्रको भिक्षुः असंमतस् संमन्तव्यः । संमतश् च नावकाशयितव्यः ।
कतमैः पंचभिः । न च्छन्दाद् गच्छति न द्वेषान् न मोहान् न भयाद् गच्छति । प्रतिजागृत् आम् अप्रतिजागृताञ् च प्रहाणं जानाति ।
एभिः पंचभिर् धर्मैः समन्वागतः प्रहाणप्रतिजाग्रको भिक्षुर् असंमतः संमन्तव्यः । संमतश् च नावकाशयितव्यः ।
पोष्-व् 17.1. एवं च पुनः संमन्तव्यः ।
पोष्-व् 17.2. शयनासनप्रज्ञप्तिं कृत्वा गण्डीम् आकोट्य पृष्टवाचिकया भिक्षूं समनुयुज्य सर्वसं घे सन्निषण्णे सन्निपतित एकेन भिक्षुणा पृष्टव्यं ।
उत्सहसि त्वम् एवंनामा संघस्य प्रहाणं प्रतिजागर्तुं ।
तेन वक्तव्यम् उत्सहे ।
पोष्-व् 17.3. ततः पश्चाद् एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यं ।
पोष्-व् 17.4. शृणोतु भदन्ताः संघः ।
अयम् एवंनामा प्रहाणप्रतिजाग्रको भिक्षुः उत्सहते संघस्य प्रहा णं प्रतिजागर्तुं ।
सचेत् संघस्य प्राप्तकालं क्षमेतानु जानीयात् संघो यत् संघ एवंनामानं प्रहाणप्रतिजाग्रकं संमन्येत । एवंनामा प्रहाणप्रतिजाग्रको भिक्षुः संघस्य प्रहाणं प्रतिजागरिष्यति ।
एषा ज्ञप्तिः ।
पोष्-व् 17.5. एवं च कर्म कर्तव्यं ।
शृणोतु भदन्ताः संघः ।
अ. ए वंनामा प्रहाणप्रतिजाग्रको भिक्षुर् उत्सहते संघस्य प्र हाणं प्रतिजागर्तुं ।
ब्. तत् संघ एवंनामानं प्रहाणप्रतिजाग्रकं भिक्षुं संमन्येत । अयम् एवंनामा प्रहाणप्रतिजाग्रको भिक्षुः संघस्य प्रहाणं प्रतिजागरिष्यति ।
च्. येषाम् आयुष्मतां क्षमते एवंनामानं प्रहाणप्र त् इ जाग्रकं भिक्षुं संमन्तुं यद् एवंनामा प्रहाणप्रतिजाग्रको भ् इ क्षुः संघस्य प्रहाणं प्रतिजागरिष्यति स तूष्णीं । न क्षमते भाषतां ।
द्. संमतः संघेन एवंनामा प्रहाणप्रतिजाग्रको भिक्षुः । अयम् एवंनामा प्रहाणप्रतिजाग्रको भिक्षुः संघस्य प्रहाणं प्रतिजागरिष्यति । क्षान्तम् अनुज्ञातं संघेन यस्मात् तूष्णीम् एवम् ( 55व् = ग्ब्म् 6.709 ) एतद् धारया मि ।
पोष्-व् 18. प्रहाणप्रतिजाग्रकस्याहं भिक्षोर् आसमुदाचारिकान् धर्मान् प्रज्ञपयिष्यामि ।
प्रहाणप्रतिजाग्रकेन भिक्षुणा प्रहाणशाला सेक्तव्या । संमार्जितव्या । सुकुमारी गोमयकार्षी अनुप्रदातव्या । वर्चकुटी प्रसावकुटी च संस्करयितव्या सेक्तव्या संमार्जितव्या । सुकुमारी गोमय कार्षी ( पोष्-व् 290 ) अनुप्रदातव्या । पत्रवैभङ्गुका स्थापयितव्या । मृत्तिकापानीयं स्थापयितव्यं ।
पोष्-व् 19.1. स तेषाम् एकैकं गत्वा शब्दापयति ।
भगवान् आह । नैकैकः शब्दापयितव्यः । गण्डी आकोटयितव्या ।
पोष्-व् 19.2. तेन विस्तरेण गण्डी दत्ता । या वद् + + + + + + + + + + + + + + + + + + सन्नह्यागताः । आर्याः किं चोराः पतिताः ।

ते कथयन्ति । भवन्तो न चौराः पतिता अपि तु प्रहाणं प्रतिजागरीम ।
ते कथयन्ति । आर्या विहेठं प्रतिजागृथ । कुतो ऽत्र प्रहाणम्*
एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति ।
भगवान् आह । गण्डी न विस्तरेण दातव्या ।
पोष्-व् 19.3. ए वम् अ त्र् अ प् अं च् अ ग् अ ण्ड्यः । सार्वसंघिका । कर्मगण्डी । अंसगण्डी । प्रहाणगण्डी । आपद्गण्डी च ।
तत्र सार्वसंघिका तिद्रोघुमाः तिस्रः प्रहाराः । कर्मगण्डी तिद्रोघुमा द्वे प्रहारे । अ ं सगण्डी मुण्डिका । प्रहाणगण्डी ख क्खरं । आपद्गण्डी यावत् तुष्टं ।
पोष्-व् 20. ते ऽवशिष्टायां वे लायां यथासुखं कुर्वन्ति ।
भगवान् आह । कालं ज्ञात्वा यथासुखं कर्तव्यम्* ये संघलाभिनस् ते स्नात्वा संघे ऽवतरिष्यंति । ये पिण्डपातिकास् ते हस्तपादौ प्रक्षाल्य ग्रामं पिण्डाय प्रवेक्ष्यन्ति ।
पोष्-व् 21.1 त एवम् एव यथासुखं कुर्वन्ति ।
भगवान् आह । एवम् एव यथासुखं न कर्त व्यं । तृदण्डको भाषितव्यः ।
पोष्-व् 21.2. अतिमहान्तं भाषन्ते ।
भगवान् आह । नातिमहान् भाषितव्यः ।
पोष्-व् 21.3. ते त्व् अल्पं भाषन्ते ।
भगवान् आह । नात्यल्पो भाषितव्यः । अपि तु परिमण्डलो भाषितव्यः ।
पोष्-व् 22.1. दक्षिणा न् नादिशन्ति ।
भगवा न् आह । दक्षिनादेष्टव्या ।
पोष्-व् 22.2. उक्तं भगवता दक्षि णादेष्टव्येति । ते न जानते केनादेष्टव्येति ।
भगवान् आह । संघस्थविरेण भिक्षुणा आदेष्टव्येति ।
पोष्-व् 22.3. ते महतीन् दक्षिणाम् आदिशन्ति ।
भगवान् आह । न महती दक्षिणा आदेष्टव्या ।
पोष्-व् 22.4. अत्यल्पाम् आदिशन्ति ।
भगवा न् आह । नात्यल्पा दक्षिणादेष्टव्या । अपि तु परिमण्डला दक्षिणा आदेष्टव्येति ।
पोष्-व् 23.1. प्रहाणप्रतिजाग्रको भिक्षुः सर्वपृष्ठत आगच्छति । सर्वाग्रतो गच्छति ।
भगवान् आह । प्रहाणप्रतिजाग्रकेन भिक्षुणा सर्वपृष्ठतो गन्तव्यं । सर्वाग्रत आगन्तव्यं ।
पोष्-व् 23.2. सचेत् तद्रूपः प्र त्ययो भवति तेन रहोगते प्रदेशे ऽपाव रणीं गोपयित्वा वक्तव्यं ।
आयुष्मान् अमुष्मिन् प्रदेशे मया अपावरणी गोपिता । उद्घाट्य प्रवेक्ष्यसे ।
पोष्-व् 23.3. प्रहाणप्रतिजाग्रको भिक्षुर् यथाप्रज्ञप्तान् आसमुदाचारिकान् धर्मान् असमादाय वर्तते सातिसारो भवति ।
पोष्-व् 24. इय म् उच्यते निषद्या ।
पोष्-व् 25. क्रिया कतमा ।
संघेन ज्ञप्तिर् ज्ञ प्तिद्वितीयं ज्ञप्तिचतुर्थं कर्म । इयम् उच्यते क्रिया ।
पोष्-व् 26. पोषधः कतमः ।
यो वो मया भिक्षवो प्रातिमोक्षसूत्रोद्देश उद्दिष्टः स वो ऽद्याग्रेणान्वर्धमासम् उद्देष्टव्यः ।
पोष्-व् 27. उक्तं भगवता अन्वर्धमासं प्रातिमोक्षसूत्रोद्देश उद् द् ए ष्टव्य इति । ते न जानते केनोद्देष्टव्य इति । ( 56र् = ग्ब्म् 6.710 )
भगवान् आह । संघस्थविरेणान्वर्धमासं प्रातिमोक्षसूत्रोद्देश उद्देष्टव्य इति ।
पोष्-व् 28.1. उक्तं भगवता संघस्थविरेणान्वर्धमासं प्रातिमोक्षसूत्रोद्देश उद्देष्टव्य इति । भिक्षवस् तस्य लयनं गच्छन्ति । ते तत्र न मापयन्ति । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति ।
भगवान् आह । न लयने उद्देष्टव्यः ।
पोष्-व् 28.2. ते प्रासादे उद्दिशन्ति । तत्रापि न मापयन्ति ।
भगवान् आह । संघस्य पोषधामुखं संमन्तव्यं ।
पोष्-व् 29. उक्तं भगवता संघस्य पोषधामुखं संमन्तव्य म् इति । ते न जानते कुत्र संमन्तव्य म् इति ।
भगवान् आह । यद् वस्तु सर्वाकारपरिनिष्ठितम् अन्तःसीमं बहिर्व्यामोप वि चारं संघस्य पोषधामुखम् अभिरुचितं तत् संघे न संमन्तव्यं ।

पोष्-व् 30.1. एवं च पुनः संमन्तव्यं ।
पोष्-व् 30.2. शयनासन प्र ज्ञप्तिं कृत्वा गण्डीम् आकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे सन्निषण्णे सन्निपतिते एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यं ।
पोष्-व् 30.3. शृणोतु भदन्ताः संघः ।
इदं वस्तु सर्वाकारपरिनिष्ठितम् अन्तःसीमं बहिर्व्यामोपविचारं संघस्य पोषधामुखम् अभिरुचितं ।
सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघः यत् संघ इदं वस्तु सर्वाकारपरिनिष्ठितम् अन्तःसीमं बहिर्व्यामोपविचारं संघस्य पोषधामुखं संमन्येत ।
एषा ज्ञप्तिः ।
पोष्-व् 30.4. एवं च कर्म कर्तव्यं ।
शृणोतु भदन्ताः संघः ।
अ. इदं वस्तु सर्वाकारपरिनिष्ठितम् अन्तःसीमं बहिर्व्यामोपविचारं संघस्य पोषधामुखम् अभिरुचितं ।
ब्. तत् संघ इदं वस्तु सर्वाकारपरिनिष्ठितम् अन्तःसीमं बहिर्व्यामोपविचारं संघस्य पोषधामुखं संमन्यते ।
च्. येषाम् आयुष्मतां क्षमते इदं वस्तु सर्वाकारपरिनिष्ठितम् अन्तःसीमं बहिर्व्यामोपविचारं संघस्य पोषधामुखं संमन्तुं स तूष्णीं । न क्षमते भाषतां ।
द्. संमतः संघेन इदं वस्तु सर्वाकारपरिनिष्ठितम् अन्तःसीमं बहिर्व्यामोपविचारं संघस्य पोषधामुखं । क्षान्तम् अनुज्ञातं संघेन यस्मात् तूष्णीम् एवम् एतद् धारयामि ।
पोष्-व् 31.1. यत्र संघेन पोषधामुखं संमतं भवति तत्र भिक्षुभिर् निषद्य पोषधः कर्तव्यः प्रवारणा ज्ञप्तिर् ज्ञप्तिद्वितीयं ज्ञप्तिचतुर्थं कर्म कर्तव्यं ।
पोष्-व् 31.2. व्यग्राः कुर्वन्ति सातिसारा भवन्ति ॥ ॥
पोष्-व् 32. उद्दानम्* ॥
कप्फिणेन कृता सीमा चीवरं तत्र संमतं ।
अबद्धसीमे आवासे ऽभिनिर्हारो ऽभिसंहारः ।
कर्म च प्रातिमोक्षश् च मुखां पंच समुद्दिताः ॥ ॥
पोष्-व् 33.1. राजगृहे निदानम्* ॥
पोष्-व् 33.2. तेन खलु समयेनायुष्मान् ब्राह्मणकप्फिणो राजगृहे विहरति सेनिकागुहायाम् एकपोषधावाससंवास स ंवृत्त्या संघस्य ।
पोष्-व् 33.3 अथ संबहुला भिक्षवस् तद् एव पोषधे पंचदश्यां पोषधामुखे सन्निषण्णा ः सन्निपतिता यद्भूयसा आयुष्मन्तं ब्राह्मणकप्फिणम् आगमयमानाः ।
पोष्-व् 33.4. अथायुष्मतो ब्राह्मणकप्फिणस्यैतद् अभवत्*
अद्य संघस्य पोषधः पांचदशिकः ममापि कप्फिणस्य भिक्षोः पोषधः पांचदशिकः ।
किन् नु गच्छेयं संघस्य पोषधामुखम् आहोस्विन् न गच्छेयं संघस्य पोषधामुखं । ( 56व् = ग्ब्म् 6.711 )
किन् नु प्रत्यनुभवेयं संघेन सार्धं पोषधम् आहोस्विन् न प्रत्यनुभवेयं ।
किन् नु गच्छेयं संघस्य संघकृत्येषु संघकरणीयेषु आहोस्विन् न गच्छेयं ।
किन् नु प्रत्यनुभवेयं संघेन सार्धं संघकृत्यानि संघकरणीयान्य् आहोस्विन् न प्रत्यनुभवेयं ।
पोष्-व् 33.5. उक्तं च भगवता
शुद्धस्य हि सदा फल्गु सदा शुद्धस्य पोषधः ।
शुचिकर्मणो हि शुद्धस्य तस्य संपद्यते व्रतम् ॥ इति ।
पोष्-व् 33.6. शुद्धो ऽहम् अस्मि परमया शुद्ध्या समन्वागतः ।
पोष्-व् 34.1. अथ भगवान् आयुष्मतो ब्राह्मणकप्फिणस्य चेतसा चित्तम् आज्ञाय वेणुवने ऽन्तर्हितः सेनिकागुहायां प्रत्यष्ठात्* आयुष्मतो ब्राह्मणकप्फिणस्य पुरत एवं चाह ।
पोष्-व् 34.2. ननु ते कप्फिण एकाकिनो रहोगतस्य प्रतिसंलीनस्यैवं चेतसि चेतःपरिवितर्क उदपादि ।
अद्य संघस्य पोषधः पांचदशिकः ममापि कप्फिणस्य भिक्षोः पोषधः पांचदशिकः पूर्ववद् यावत्* तस्य संपद्यते व्रतम् इति । शुद्धो ऽहम् अस्मि परमया शुद्ध्या समन्वागत इति ।
एवं भदन्त ।
पोष्-व् 34.3 त्वं तावत् कप्फिण न गमिष्यसि संघस्य पोषधामुखं को ऽन्यो गमिष्यति ।
त्वं न प्रत्यनुभविष्यसि संघेन सार्धं पोषधं को ऽन्यः प्रत्यनुभविष्यति ।
त्वं न गमिष्यसि संघस्य संघकृत्येषु सं घ करणीयेषु को ऽन्यो गमिष्यति ।
त्वं न प्रत्यनुभविष्यसि संघेन सार्धं संघकृत्यानि संघकरणीयानि को ऽन्यः प्रत्यनुभविष्यति ।
पोष्-व् 34.4. गच्छ त्वं कप्फिण संघस्य पोषधामुखं मा न गच्छ ।

प्रत्यनुभव त्वं संघेन सार्धं पोषधं मा न प्रत्यनुभव ।
गच्छ त्वं कप्फिण संघस्य संघकृत्येषु संघकरणीयेषु मा न गच्छ ।
प्रत्यनुभव त्वं संघेन सार्धं संघकृत्यानि संघकरणीयानि मा न प्रत्यनुभव ।
पोष्-व् 34.5. अथ भगवान् आयुष्मन्तं ब्राह्मणकप्फिण आदाय येन पोषधामुखं तेनोपसंक्रान्तः । उपसंक्रम्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषन्नः ।
पोष्-व् 35. निषद्य भगवान् भिक्षून् आमन्त्रयते स्म । तस्मात् तर्हि भिक्षवो ऽनुजानामि भिक्षुभिर् एकपोषधावाससंवृत्या{ओर् एकपोषधावाससंवृत्त्या } महती सीमा बद्धव्या ।
पोष्-व् 36.1 उक्तं भगवता एकपोषधावाससंवृत्या महती सीमा बद्धव्येति । भिक्षवो न जानते कथं बद्धव्येति ।
भगवान् आह । पूर्वं तावद् आवासिकनैवासिकैर् भिक्षुभिर् महत्या ः सीमायाश् चतुर्दिशं स्थावरणिमित्तानि संलक्षयितव्यानि ।
पूर्वस्यान् दिशि कुड्यनिमित्तं वा वृक्षनिमित्तं वा शैलनिमित्तं वा प्राकारनिमित्तं वा प्राग्भारनिमित्तं वा ।
दक्षिणस्यां पश्चिमायाम् उत्तरस्यान् दिशि कुड्यनिमित्तं वा वृक्षनिमित्तं वा शैलनिमित्तं वा प्राकारनिमित्तं वा प्राग्भारनिमित्तं वा ।
पोष्-व् 36.2. ततः पश्चाच् छयनासनप्रज्ञप्तिं कृत्वा गण्डीम् आकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे सन्निषण्णे सन्निपतिते आवासिकनैवासिकैर् भिक्षुभिर् महत्या ः सीमायाश् चतुर्दिशं स्थावराणि निमित्तानि परिकीर्तयितव्यानि ।
पूर्वस्यां दिशि कुड्यनिमित्तं वा वृक्षनिमित्तं वा शैलनिमित्तं वा प्राकारनिमित्तं वा प्राग्भारनिमित्तं वा ।
दक्षिणस्यान् दिशि पश्चिमायाम् उत्तरस्यां दिशि कुड्यनिमित्तं वा वृक्षनिमित्तं वा शैलनिमित्तं वा प्राकारनिमित्तं वा प्राग्भारनिमित्तं वा ।
पोष्-व् 37.1. ततः पश्चाद् एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यं ।
पोष्-व् 37.2. शृणोतु ( 57र् = ग्ब्म् 6.712 ) भदन्ताः संघो ।
ऽस्मिन्न् आवासे आवासिकनैवासिकैर् भिक्षुभिर् महत्या ः सीमायाश् चतुर्दिशं स्थावराणि निमित्तानि परिकीर्तितानि ।
पूर्वस्यान् दिशि कुड्यनिमित्तं वा वृक्षनिमित्तं वा शैलनिमित्तं वा प्राकारनिमित्तं वा प्राग्भारनिमित्तं वा ।
दक्षिणस्यां पश्चिमायाम् उत्तरस्यान् दिशि कुड्यनिमित्तं वा वृक्षनिमित्तं वा शैलनिमित्तं वा प्राकारनिमित्तं वा प्राग्भारनिमित्तं वा ।
सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघ एषां निमित्तानां अर्वाग् एकपोषधावाससंवाससंवृत्त्या महतीं सीमां ( पोष्-व् 312 ) बध्नीयाद् यावच् चारण्यं यावच् च शयनासनं स्थापयित्वा ग्रामं च ग्रामोपविचारं च ।
एषा ज्ञप्तिः ।
पोष्-व् 37.3. एवं च कर्म कर्तव्यं ।
शृणोतु भदन्ताः संघो ।
अ. ऽस्मिन्न् आवासे आवासिकनैवासिकैर् भिक्षुभिर् महत्या ः सीमायाश् चतुर्दिशं स्थावराणि निमित्तानि परिकीर्तितानि ।
पूर्वस्यान् दिशि कुड्यनिमित्तं वा वृक्षनिमित्तं वा शैलनिमित्तं वा प्राकारनिमित्तं वा प्राग्भारनिमित्तं वा ।
दक्षिणस्यां पश्चिमायाम् उत्तरस्यान् दिशि कुड्यनिमित्तं वा वृक्षनिमित्तं वा शैलनिमित्तं वा प्राकारनिमित्तं वा प्राग्भारनिमित्तं वा ।
ब्. तत् संघस् तेषां निमित्तानाम् अर्वाग् एकपोषधावाससंवृत्त्या महती ं सीमां बध्नाति । यावच् चारण्यं यावच् च शयनासनं स्थापयित्वा ग्रामं च ग्रामोपविचारं च ।
च्. येषाम् आयुष्मतां क्षमते एषां निमित्तानां अर्वाग् एकपोषधावाससंवृत्त्या संघस्य महतीं सीमां बद्धुं यावच् चारण्यं यावच् च शयनासनं स्थापयित्वा ग्रामं च ग्रामोपविचारं च स तूष्णीं । न क्षमते भाषतां ।
द्. बद्धा संघेन एषां निमित्तानां अर्वाग् एकपोषधावाससंवृत्त्या संघस्य महती सीमा यावच् चारण्यं यावच् च शयनासनं स्थापयित्वा ग्रामं च ग्रामोपविचारं च । क्षान्तम् अनुज्ञातं संघेन यस्मात् तूष्णीम् एवम् एतद् धारयामि ।
पोष्-व् 38.1. यत्र संघेन महती सीमा बद्धा भवति तत्र भिक्षुभिर् निषद्य पोषधः कर्तव्यः प्रवारणा ज्ञप्तिर् ज्ञप्तिद्वितीयं ज्ञप्तिचतुर्थं कर्म कर्तव्यं ।
पोष्-व् 38.2. व्यग्राः कुर्वन्ति सातिसारा भवन्ति ।
पोष्-व् 39. भिक्षवस् त्रिचीवरं गृहीत्वा दिवाविहारं गच्छन्ति । खेदम् आपद्यन्ते । एतत् प्रकरणं भिक्षवो आरोचयन्ति ।
भगवान् आह । महत्या ः सीमाया अर्वाक् सर्वेषां भिक्षूणां चीवरकाणाम् अविप्रवाससंवृतिर् दातव्या ।
पोष्-व् 40.1. एवं च पुनर् दातव्या ।
पोष्-व् 40.2. शयनासनप्रज्ञप्तिं कृत्वा गण्डीम् आकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे सन्निषण्णे सन्निपतिते एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यं ।
पोष्-व् 40.3. शृणोतु भदन्ताः संघो ।
ऽस्मिन्न् आवासे समग्रेण संघेन एकपोषधावाससंवाससंवृत्या संघस्य महती सीमा बद्धा ।
सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघः महत्या ः सीमाया अर्वाक् सर्वेषां भिक्षूणां चीवरकाणां अविप्रवाससंवृतिं दद्याद् इति ।
एषा ज्ञप्तिः ।
पोष्-व् 40.4. एवं च कर्म कर्तव्यं ।
शृणोतु भदन्ताः संघः ।
अ. अस्मिन्न् आवासे समग्रेण संघेनैकपोषधावाससंवाससंवृत्त्या संघस्य महती सीमा बद्धा ।

ब्. तत् संघो महत्याः सीमायाः अर्वाक् सर्वेषां भिक्षूणां चीवरकाणां अविप्रवाससंवृतिं ददाति ।
च्. येषाम् आयुष्मतां क्षमते महत्याः सीमायाः अर्वाक् सर्वेषां भिक्षूणां चीवरकाणां अविप्रवाससंवृतिं दातुं ते तूष्णीं । न क्षमते भाष न् ताम्*
द्. दत्ता संघेन महत्याः सीमायाः अर्वाक् सर्वेषां भिक्षूणां चीवरकाणाम् अविप्रवाससंवृतिः । क्षान्तम् अनुज्ञातं संघेन यस्मात् तूष्णीम् एवम् एतद् धारयामि ।
पोष्-व् 41. यत्र संघेन महत्या ः सीमाया अर्वाग् भिक्षूणां चीवरकाणां अविप्रवाससंवृत्तिर् दत्ता भवति । तत्र भिक्षूणां सान्तरोत्तरेण गन्तव्यं । नात्र कौकृत्यं करणीयं ।
पोष्-व् 42.1. भिक्षूणां चतुर्वर्गकरणीयानि कर्माणि भवन्ति । पंचवर्गकरणीयाणि दशवर्गकरणीयानि कर्माणि भवन्ति ।
पोष्-व् 42.2. ते सर्वसंघं सन्निपातयन्ति । भिक्षूणां कुशलपक्षपरिहाणिर् भवति । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति ।
भगवान् आह । खुड्डलिका सीमा बद्धव्या । संमन्तव्यो मण्डलक ।
पोष्-व् 43. एवं च पुनर् बद्धव्या ।
पोष्-व् 44.1. पूर्वं तावन् महती सीमा मोक्तव्या ।
पोष्-व् 44.2. एवं च पुनर् मोक्तव्या ।
पोष्-व् 44.3. शयनासनप्रज्ञप्तिं कृत्वा गण्डीम् आकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे सन्निषण्णे सन्निपतिते एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यं ।
पोष्-व् 44.4. शृणोतु भदन्ताः संघः ।
यावद् एवास्मिन्न् आवासे समग्रेण संघेन एकपोषधावाससंवाससंवृत्या महती सीमा बद्धा ।
सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघः महतीं सीमां मुंचीत {fओर् मुंचेत } ।
एषा ज्ञप्तिः ।
पोष्-व् 44.5. एवं च कर्म कर्तव्यं ।
शृणोतु भदन्ताः संघः ।
अ. यावद् एवास्मिन्न् आवासे समग्रेण संघेन एकपोषधावाससंवाससंवृत्या महती सीमा बद्धा ।
ब्. तत् संघो म ह तीं सीमां मुंचति ।
च्. येषाम् आयुष्मतां क्षमते महतीं सीमां मोक्तुं ते तूष्णीं । न क्षमते भाषन्तां ।
द्. इयं प्रथमा कर्मवाचना द्वितीया तृतीया कर्मवाचना ।
ए. मुक्ता संघेन महती सीमा । क्षान्तम् अनुज्ञातं संघेन यस्मात् तूष्णीम् एवम् एतद् धारयामः {fओर् धारयामि ?} ।
पोष्-व् 45.1. ततः पश्चाद् आवासिकनैवासिकैर् भिक्षुभिः खुड्डलिकायाः सीमायाश् चतुर्दिशं स्थावराणि निमित्तानि संलक्षयितव्यानि ।
पूर्वस्यां दिशि कुड्यनिमित्तं वा वृक्षनिमित्तं वा शैलनिमित्तं वा प्राकारनिमित्तं वा प्राग्भारनिमित्तं वा मा र् ष्टीका वा क ड् ढितव्या शिला वा उच्छ्रेपयितव्या कीलको वा निखन्तव्यः ।
दक्षिणस्यां पश्चिमायाम् उत्तरस्यां दिशि कुड्यनिमित्तं वा वृक्षनिमित्तं वा शैलनिमित्तं वा प्राकारनिमित्तं वा प्राग्भारनिमित्तं वा मा र् ष्टीका वा क ड् ढितव्या शिला वा उच्छ्रेपयितव्या कीलको वा निखन्तव्यः ।
पोष्-व् 45.2. ततः पश्चाच् छयनासनप्रज्ञप्तिं कृत्वा गण्डीम् आकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे सन्निषण्णे सन्निपतिते आवासिकनैवासिकैर् भिक्षुभिः खुड्डलिकायाः सीमायाश् चतुर्दिशं स्थावराणि निमित्तानि परिकीर्तयितव्यानि ।
पूर्वस्यां दिशि कुड्यनिमित्तं वा वृक्षनिमित्तं वा शैलनिमित्तं वा प्राकारनिमित्तं वा प्राग्भारनिमित्तं वा मा र् ष्टीका वा क ड् ढिता शिला वा उच्छ्रेपिता कीलको वा निखातः ।
दक्षिणस्यां पश्चिमायाम् उत्तरस्यां दिशि कुड्यनिमित्तं वा वृक्षनिमित्तं वा शैलनिमित्तं वा प्राकारनिमित्तं वा प्राग्भारनिमित्तं वा मा र् ष्टीका वा क ड् ढिता शिला वा उच्छ्रेपिता कीलको वा निखातः ।
पोष्-व् 46.1. ततः पश्चाद् एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यं ।
पोष्-व् 46.2. शृणोतु भदन्ताः संघः ।
यावद् एवास्मिन्न् आवासे आवासिकनैवासिकैर् भिक्षुभिः खुड्डलिका याः ( 58र् = ग्ब्म् 6.714 ) सीमायाः चतुर्दिशं स्थावराणि निमित्तानि परिकीर्तितानि ।
पूर्वस्यान् दिशि कुड्यनिमित्तं वा वृक्षनिमित्तं वा शैलनिमित्तं वा प्राकारनिमित्तं वा प्राग्भारनिमित्तं वा मार्ष्टीका वा क ड् ढिता शिला वा उच्छ्रेपिता कीलको वा निखातः ।
दक्षिणस्यां पश्चिमायाम् उत्तरस्यां दिशि कुड्यनिमित्तं वा वृक्षनिमित्तं वा शैलनिमित्तं वा प्राकारनिमित्तं वा प्राग्भारनिमित्तं वा मार्ष्टीका वा कड्ढिता शिला वा उच्छ्रेपिता कीलको वा निखातः ।
सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघ एषां निमित्तानां अर्वाक् खुड्डलिकां सीमां बध्नीयात् संमन्येत मण्डलकं ।
एषा ज्ञप्तिः ।
पोष्-व् 46.3. एवं च कर्म कर्तव्यं ।
शृणोतु भदन्ताः संघः ।
अ. यावद् एवास्मिन्न् आवासे आवासिकनैवासिकैर् भिक्षुभिः खुड्डलिकायाः सीमायाश् चतुर्दिशं स्थावराणि निमित्तानि परिकीर्तितानि ।
पूर्वस्यान् दिशि कुड्यनिमित्तं वा वृक्षनिमित्तं वा शैलनिमित्तं वा प्राकारनिमित्तं वा प्राग्भारनिमित्तं वा मार्ष्टीका वा क ड् ढिता शिला वा उच्छ्रेपिता कीलको वा निखातः ।
दक्षिणस्यां पश्चिमायाम् उत्तरस्यान् दिशि कुड्यनिमित्तं वा वृक्षनिमित्तं वा शैलनिमित्तं वा प्राकारनिमित्तं वा प्राग्भारनिमित्तं वा मार्ष्टीका वा क ड् ढिता शिला वा उच्छ्रेपिता कीलको वा निखातः ।

ब्. तत् संघ एषां निमित्तानाम् अर्वाक् खुड्डालिकां सीमां बध्नाति । संमन्यति मण्डलकं ।
च्. येषाम् आयुष्मतां क्षमते एषां निमित्तानाम् अर्वाक् खुड्डलिकां सीमां बद्धुं मण्डलकं सम्मन्तुं स तूष्णीं । न क्षमते भाषतां ।
द्. बद्धा संघेन एषा ं निमित्तानाम् अर्वाक् खुड्डलिका सीमा । संमतो मण्डलकः । क्षान्तम् अनुज्ञातं संघेन यस्मात् तूष्णीम् एवम् एतद् धारयामि ।
पोष्-व् 47.1. ततः पश्चान् महती सीमा बद्धव्या ।
पोष्-व् 47.2. एवं च पुनर् बद्धव्या ।
पोष्-व् 47.3. पूर्वं तावत्* महत्याः सीमाया आवासिकनैवासिकैर् भिक्षुभिश् चतुर्दिशं स्थावराणि निमित्तानि संलक्षयितव्यानि ।
पूर्ववद् विस्तरेण वाच्यम्* ।
पोष्-व् 48.1 ततः पश्चान् महत्याः सीमाया अर्वाग् भिक्षूणां चीवरकाणाम् अविप्रवाससंवृतिर् दातव्या ।
पोष्-व् 48.2. एवं च पुनर् दातव्या ।
पोष्-व् 48.3. शयनासनप्रज्ञप्तिं कृत्वा पूर्ववत्* विस्तरेण ।
पोष्-व् 49.1. आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति ।
अबद्धसीमे भदन्तावासे का सीमा ।
कुड्यान्तरम् उपालिं सामन्तकेन ।
पोष्-व् 49.2. ये कुड्यस्याभ्यन्तरे भिक्षवः प्रतिवसन्ति तैर् एकध्ये निषद्य पोषधः कर्तव्यः प्रवारणा ज्ञप्तिः ज्ञप्तिद्वितीयं ज्ञप्तिचर्तुर्थं कर्म कर्तव्यं ।
पोष्-व् 49.3. व्यग्राः कुर्वन्ति सातिसारा भवन्ति ।
पोष्-व् 50.1. आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति ।
अग्रामके भदन्तारण्यायतने का सीमा ।
क्रोशम् उपालिं सामन्तकेन ।
पोष्-व् 50.2. ये क्रोशस्याभ्यन्तरे भिक्षवः प्रतिवसन्ति सर्वैस् तैर् एकध्ये निषद्य पोषधः प्रवारणा विस्तरेण ।
पोष्-व् .50.3. व्यग्राः कुर्वन्ति सातिसारा भवन्ति ।
पोष्-व् 51. आयुष्मान् उपाली बुद्धं भगवन्तं पृ च्छ ति ।
लभ्यं भदन्त एकया ज्ञप्त्या एकेन कर्मकारकेण एकया कर्मवाचनया सान्तर्बहिर्मुखीं सीमाम् अभि सं हर्तुं वा अभिनिर्हर्तुं वा ।
लभ्यं उपालिं । तत्रायम् अभिसंहारः संकोचः । तत्रायम् अभिनिर्हारः विस्तारः ।
पोष्-व् 52. एवं च पुनर् बद्धव्या ।
पोष्-व् 53.1. पूर्वं तावन् महती सीमा मोक्तव्या । खुड्डलिका सीमा मोक्तव्या । प्रतिप्रस्रंभितव्यो मण्डलकः ।
पोष्-व् 53.2. एवं च पुनर् मोक्तव्या ।
पोष्-व् 53.3. शयनासनप्रज्ञप्तिं कृत्वा गण्डीम् आकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे सन्निषण्णे सन्निपतिते उभयतःसीमायां संघं स्थापयित्वा कर्मकारकेण ( 58व् = ग्ब्म् 6.715 ) भिक्षुणा उभे सीमे काष्ठेन वा दण्डेन वा किट् अक् एन वा किलिंजेन वा अवष्टभ्य ( पोष्-व् 334 ) ज्ञप्तिं कृत्वा कर्म कर्तव्यं ।
पोष्-व् 53.4. शृणोतु भदन्ताः संघः ।
यावद् एवास्मिन्न् आवासे समग्रेण संघेन एकपोषधावाससंवाससंवृत्या महती सीमा बद्धा । खुड्डलिका सीमा बद्धा । संमतो मण्डलकः ।
सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघः यत् संघः महतीं सीमां मुंचीत {fओर् मुंचेत } । खुड्डलिकां सीमां मुंचीत । प्रतिप्रस्रंभेत मण्डलकं ।
एषा ज्ञप्तिः ।
पोष्-व् 53.5. एवं च कर्म कर्तव्यं ।
शृणोतु भदन्ताः संघः ।
अ. यावद् एवास्मिन्न् आवासे समग्रेण संघेन एकपोष धावास संवाससंवृत्या महती सीमा बद्धा । खुड्डलिका सीमा बद्धा । संमतो मण्डलकः ।
ब्. तत् संघः महतीं सीमां मुंचति । खुड्डलिकां सीमां मुंचति । प्रतिप्रस्रंभयति मण्डलकं ।
च्. येषाम् आयुष्मतां क्षमते महतीं सीमां मोक्तुं । खुड्डलिकां सीमां मोक्तुं । प्रतिप्रस्रब्धुं मण्डलकं स तूष्णीं । न क्षमते भाषन्तां ।
द्. इयं प्रथमा कर्मवाचना द्वितीया तृतीया कर्मवाचना ।
ए. मुक्ता संघेन महती सीमा । मुक्ता खुड्डलिका सीमा । प्रतिप्रस्रब्धो मण्डलकः । क्षान्तम् अनुज्ञातं संघेन यस्मात् तूष्णीम् एवम् एतद् धा रया मि ।
पोष्-व् 54. तत्र यदीच्छन्ति विस्तारयितव्याः । नोचेत् संकोचयितव्याः ।
पोष्-व् 55.1. ततः पश्चाद् आवासिकनैवासिकैर् भिक्षुभिः खुड्डलिकाया ः सीमायाश् चतुर्दिशं स्थावराणि निमित्तानि संलक्षयितव्यानि ।

पूर्वस्यां दिशि कुड्यनिमित्तं वा वृक्षनिमित्तं वा शैलनिमित्तं वा प्राकारनिमित्तं वा प्राग्भारनिमित्तं वा मार्ष्टीका वा क ड् ढितव्या शिला वा उच्छ्रेपयितव्या कीलको वा निखन्तव्यः ।
यथा पूर्वस्यां दिश्य् एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्यां दिशि ।
पोष्-व् 55.2. ततः पश्चाच् छयनासनप्रज्ञप्तिं कृत्वा गण्डीम् आकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे सन्निषण्णे सन्निपतिते आवासिकनैवासिकैर् भिक्षुभिः खुड्डलिकायाः सीमायाश् चतुर्दिशं स्थावरनिमित्तानि परिकीर्तयितव्यानि ।
पूर्ववद् यावत् कीलको वा निखातः ।
पोष्-व् 56. महत्याः सीमायाश् चतुर्दिशं स्थावराणि निमित्तानि परिकीर्तयितव्यानि ।
पूर्ववद् यावत् प्राग्भारनिमित्तं वा ।
पोष्-व् 57.1. ततः पश्चाद् उभयतःसीमायां संघं स्थापयित्वा कर्मकारकेण भिक्षुणा उभे सीमे काष्ठेन वा दण्डेन वा किटकेन वा किलिंजेन वा अवष्टभ्य ज्ञप्तिं कृत्वा कर्म कर्तव्यं ।
पोष्-व् 57.2. शृणोतु भदन्ताः संघः ।
यावद् एवास्मिन्न् आवासे आवासिकनैवासिकैर् भिक्षुभिः खुड्डलिकायाः सीमायाश् चतुर्दिशं स्थावरनिमित्तानि परिकीर्तितानि ।
पूर्ववद् यावत् कीलको वा निखातः ।
महत्या ः सीमायाश् चतुर्दिशं स्थावराणि निमित्तानि परिकीर्तितानि ।
पूर्ववद् यावत् प्राग्भारनिमित्तं वा ।
सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघः एषाम् आघटनानाम् अर्वक् खुड्डलिकां सीमां बध्नीयात् संमन्येत मण्डलकं । तेषाम् आघटनानाम् अर्वाग् एकपोषधावाससंवाससंवृत्या ( पोष्-व् 340 ) महती ं सीमा ं बध्नीयात्* यावच् चारण्यं यावच् च शयनासनं स्थापयित्वा ग्रामं च ग्रामोपविचारं च ।
एषा ज्ञप्तिः । ( 59र् = ग्ब्म् 6.716 )
पोष्-व् 57.3. एवं च कर्म कर्तव्यं ।
शृणोतु भदन्ताः संघः ।
अ. यावद् एवास्मिन्न् आवासे आवासिकनैवासिकैर् भिक्षुभिः खुड्डलिकायाः सीमायाश् चतुर्दिशं स्थावराणि निमित्तानि परिकीर्तितानि ।
पूर्ववद् यावत् कीलको वा निखातः ।
महत्याः सीमायाश् चतुर्दिशं स्थावराणि निमि त्ता नि परिकीर्तितानि ।
पू र्व वद् यावत् प्राग्भारनिमित्तं वा ।
ब्. तत् संघ एषाम् आघटनानाम् अर्वा क् खुड्डलिकां सीमां बध्नाति । संमन्यते मण्डलकं । तेषाम् आघटनानाम् अर्वाग् एकपोषधावाससंवाससंवृत्त्या महतीं सीमां बध्नाति । यावच् चारण्यं यावच् च शयनासनं स्थापयित्वा ग्रामं च ग्रामोपविचारं च ।
च्. येषाम् आयुष्मतां क्षमते एषाम् आघटनानाम् अर्वाक् खुड्डलिकां सीमां बद्धुं संमतुं मण्डलकं तेषाम् आघटनानाम् अर्वाग् एकपोषधावाससंवाससंवृत्या महती ं सीमां बद्धुं यावच् चारण्यं यावच् च शयनासनं स्थापयित्वा ग्रामं च ग्रामोपविचारं च ते तूष्णीं । न क्षमते भाषन्तां ।
ए. बद्धा संघेन एषाम् आघटनानाण् अर्वाक् खुड्डलिका सीमा । संमतो मण्डलकः । बद्धा तेषाम् आघटनानाम् अर्वाग् एकपोषधावाससंवाससंवृत्या महती सीमा यावच् चारण्यं यावच् च शयनासनं स्थापयित्वा ग्रामं च ग्रामोपविचारं च । क्षान्तम् अनुज्ञातं संघेन यस्मात् तूष्ण् ई म् एवम् एतद् धारयामि ।
पोष्-व् 58. ततः पश्चात् खुड्डलिकायाः सीमाया निर्गत्य महत्याः सीमायाः शयनासनप्रज्ञप्तिं कृत्वा भिक्षूणां चीवरकाणाम् अविप्रवाससंवृतिर् दातव्या ।
पूर्ववद् यावत्*
पोष्-व् 59. आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति ।
कति भदन्त पोषधकर्माणि ।
चत्वार्य् उपालिं ।
अ. अधर्मेण कुर्वन्ति व्यग्राः ।
ब्. अधर्मेण समग्राः ।
च्. धर्मेण व्यग्राः ।
द्. धर्मेण समग्राः ।
तत्रैकं धार्मिकं पोषधकर्म यद् इदं धर्मेण कुर्वन्ति समग्राः ॥
पोष्-व् 60. आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति ।
कति भदन्त प्रातिमोक्षसूत्रोद्देशाः ।
पंचोपालिं ।
अ. ज्ञप्तिं कृत्वा निदानम् उद्दिश्य अवशिष्टं श्रुतेन श्रावयन्ति । उद्दिष्टः प्रातिमोक्षः कृतः संघेन पोषधः ।
ब्. ज्ञप्तिं कृत्वा निदानम् उद्दिश्य चत्वारः पाराजिकान् धर्मान् उद्दिश्य अवशिष्टं श्रुतेन श्रावयन्ति । उद्दिष्टः प्रातिमोक्षः कृतः संघेन पोषधः ।
च्. ज्ञप्तिं कृत्वा निदानम् उद्दिश्य चत्वारः पाराजिकान् धर्मान् उद्दिश्य त्रयोदश संघावशेषा न् धर्मान् उद्दिश्य अवशिष्टं श्रुतेन श्रावयन्ति । उद्दिष्टः प्रातिमोक्षः कृतः संघेन पोषधः ।
द्. ज्ञप्तिं कृत्वा निदानम् उद्दिश्य चत्वारः पाराजिकान् धर्मान् उद्दिश्य त्रयोदश संघावशेषान् धर्मान् उ द्दिश्य द्वाव् अनियतौ धर्माव् उद्दिश्य अवशिष्टं श्रुतेन श्रावयन्ति । उद्दिष्टः प्रातिमोक्षः कृतः संघेन पोषधः ।

ए. विस्तरेण प्रातिमोक्षसूत्रोद्देश एव पञ्चमः ॥ ॥
पोष्-व् 61. उद्दानम् ।
आवासवर्षागन्तुकचारिका कुरु पोषध ं ।
रात्रिश् चैवातिक्रामति चित्तोत्पादेन पोषधः ॥ ॥
पोष्-व् 62.1. यथापि तद् अन्यतरस्मिन्न् आवासे संबहुला भिक्षवः प्रतिवसन्ति ।
तेषाम् एवं भवति । अमुकस्य भिक्षोर् उद् दिश्यते प्रातिमोक्ष अमुकस्य भिक्षोर् उद् दिश्यते प्रातिमोक्ष इति ।
तेषां तद् एव पोषधे पञ्चदश्यां न कस्यचिद् भिक्षोर् उद्दिश्यते प्रातिमोक्षः ।
भगवान् आह । स तैर् भिक्षुभिः ( 59व् = ग्ब्म् 6.717 ) भिक्षुः पर्येषितव्यः वस्तुपरिहारेण शयनासनपरिहारेण कर्मपरिहारेण लाभपरिहारेणोपस्थायकपरिहारेण यस्य भिक्षोर् उद् दिश्यते प्रातिमोक्षः ।
सचेत् संपद्यते इत्य् एवं कुशलं । नोचेत् संपद्यते न तैर् भिक्षुभिस् तस्मिन्न् आवासे अन्यत् पोषधम् आगमयि तव् यं आ गमयन्ति सातिसा रा भवन्ति ॥
पोष्-व् 62.2. यथापि तद् अन्यतरस्मिन्न् आवासे संबहुला भिक्षवः पूर्विकां वर्षाम् उपगन्तुकामा भवन्ति ।
तेषाम् एवं भवत्य् । अमुकस्य भिक्षोर् उद्दिश्यते प्रातिमोक्ष अमुकस्य भिक्षोर् उद्दिश्यते प्रातिमोक्ष इति ।
तेषां तद् एव पोषधे पञ्चदश्यां न कस्यचिद् भिक्षोर् उद् दिश्यते प्रातिमोक्षः ।
भगवान् आह । स तैर् भिक्षुभिर् भिक्षुः पर्येषि तव्यो वस्तुपरिहारेण शयनासनपरिहारेण कर्मपरिहारेण ल् आ भपरिहारेण उपस्थायकपरिहारेण यस्य भिक्षोर् उद् दिश्यते प्रातिमोक्षः ।
सचेत् संपद्यते ऽत्य् एवं कुशलं । नोचेत् संपद्यते न तैर् भिक्षुभिस् तस्मिन्न् आवासे पूर्विकां वर्षाम् उपगन्तव्यं । उपगच्छन्ति सातिसारा भवन्ति ॥
पोष्-व् 62.3. यथापि तद् अन्यतमस्मिन्न् आवासे संबहुला भिक्षवः पूर्विकां वर्षाम् उपगन्तुकामा भवन्ति ।
तेषाम् एवं भवति । अमुकस्य भिक्षोर् उद्दिश्यते प्रातिमोक्ष अमुकस्य भिक्षोर् उद्दिश्यते प्रातिमोक्ष इति ।
तेषां तद् एव पोषधे पञ्चदश्यां न कस्यचिद् भिक्षोर् उद्दिश्यते प्रातिमोक्षः ।
भगवान् आह । स तैर् भिक्षुभिर् भिक्षुः पर्येषितव्यः वस्तुपरिहारेण शयनासनपरिहारेण कर्मपरिहारेण लाभपरिहारेणोपस्थायकपरिहारेण यस्य भिक्षोर् उद्दिश्यते प्रातिमोक्षः ।
सचेत् संपद्यते ऽत्य् एवं कुशलं । नोचेत् संपद्यते न तैर् भिक्षुभिस् तस्मिन्न् आ वा से पूर्विकां वर्षाम् वस्तव्यं । वसन्ति सातिसारा भवन्ति ।
पोष्-व् 62.4 यथापि तद् अन्यतमस्मिन्न् आवासे संबहुला भिक्षवः पश्चिमिकां वर्षाम् उपगन्तुकामा भवन्ति ।
तेषाम् एवं भवत्य् । अमुकस्य भिक्षोर् उद्दिश्यते प्रातिमोक्ष अमुकस्य भिक्षोर् उद्दिश्यते प्रातिमोक्ष इति ।
तेषां तद् एव पोषधे पञ्चदश्यां न कस्यचिद् भिक्षोर् उद् दिश्य् अते प्रातिमोक्षः ।
भगवान् आह । स तैर् भिक्षुभिर् भिक्षुः पर्येषितव्यः वस्तुपरिहारेण शयनासनपरिहारेण कर्मपरिहारेण लाभपरिहारेणोपस्थायकपरिहारेण यस्य भिक्षोर् उद् दिश्यते प्रातिमोक्षः ।
सचेत् संपद्यते ऽत्य् एवं कुशलं । नोचेत् संपद्यते न तै र् भ् इ क्षुभिस् तस्मिन्न् आ वासे पश्चिमिकां वर्षाम् उपगन्तव्यं । उपगच्छन्ति सातिसारा भवन्ति ।
पोष्-व् 62.5 यथापि तद् अन्यतमस्मिन्न् आवासे संबहुला भिक्षवः पश्चिमिकां वर्षाम् उपगन्ता भवन्ति ।
तेषाम् एवं भवति । अमुकस्य भिक्षोर् उद् दिश्यते प्रातिमोक्षः अमुकस्य भिक्षोर् उद्दिश्यते प्राति मो क्ष् अ इति ।
तेषा ं तद् एव पोषधे पंचदश्यां न कस्यचिद् भिक्षोर् उद्दिश्यते प्रातिमोक्षः ।
भगवान् आह । तैर् भिक्षुभिः तस्मिन्न् आवासे द्वौ मासौ प्रतिसंख्याय वस्तव्यम्* द्वयोर् मासयोर् अत्ययाद् भिक्षुः पर्येषितव्यः वस्तुपरिहारेण शयनासनपरिहारेण कर्मपरिहारेण लाभपरिहारेणोपस्थायकपरिहारेण यस्य भिक्षोर् उद्दिश्यते प्रातिमोक्षः ।
सचेत् संपद्यते इत्य् एवं कुशलं । नोचेत् संपद्यते न तैर् भिक्षुभिर् अस्मिन्न् आवासे अन्यं पोषधं आगमयितव्यः । आगमयन्ति सातिसारा भवन्ति ॥ ॥
पोष्-व् 63.1 आयुष्मान् उपाली बुद्धं भ ग वन्तं पृच्छति । ( 60र् = ग्ब्म् 6.718 )
यथापि तद् भदन्त नैवासिका भिक्षवः शृण्वन्ति आगन्तुका भिक्षव आगच्छन्ति सूत्रधरा विनयधरा मातृकाधरा इति । तैस् तेषां कथं प्रतिपत्तव्यं ।
तैर् उपालिं भिक्षुभिः सूत्रधरविनयधरमातृकाधराणां भिक्षूणाम् अर्थाय अर्धतृतीयानि योजनानि छत्रध्वजपताकाभिः प्रत्युद्गन्तव्यं ।
सचेत् संपद्यते ऽत्य् एवं कुशलं । नोचेत् संपद्यते पंच क्रोशानि छत्रध्वजपताकाभिः प्रत्युद्गन्तव्यं ।
सचेत् संपद्यते ऽत्य् एवं कुशलं । नोचेत् संपद्यते त्रीङ् क्रोशान् अर्धक्रोशम् अन्ततः परिषण्डाम् अपि छत्रध्वजपताकाभिः प्रत्युद्गन्तव्यं ।
सचेत् संपद्यते ऽत्य् एवं कुशलं । नोचेत् संपद्यते स्नात्रं कर्तव्यं संघे स्नेहलाभः कर्तव्यः ।
पोष्-व् 63.2. तेषां वस्तुपरिहार ः शयनासनपरिहारः कर्मपरिहारः लाभपरिहार उपस्थायकपरिहारो दातव्यः ।
पोष्-व् 63.3 सचेत् तत्र कश्चिद् एवं वदेत् । सामानिकायां आयुष्मन्तः प्रव्रज्यायां कस्माद् एते भिक्षवो ऽर्हन्ति न वयम् इति । स इदं स्याद् वचनीयः । अतीतशास्त्रके आयुष्मन् प्रवचने एष शास्ता एष प्रतिसरणं यद् उत सूत्रविनयमातृका श् चेति । स चैषम् आयुष्मतां विस्तरेणोद्दिष्टः प्रवृत्तश् चेति । तस्माद् एते ऽर्हन्ति न त्वम् इति ।
पोष्-व् 64.1. यथापि तद् एव पोषधे पंचदश्यां सार्धंविहार्यन्तेवासिका भिक्षवो जनपदचारिकां चर्तुकामा भवन्ति ।
तेषाम् आचार्योपाध्यायैर् न केनचित् प्रकारेणावलोकना दातव्या ।
पोष्-व् 64.2. सचेत् तद् रूपः प्रत्ययो भवति वक्तव्यः ।

आयुष्मन्न् अमुक आवासः सस्थविरः सप्रातिमोक्षः ।
सचेत् तत्रोक्ता अन्यत्रावतरन्ति सातिसारा भवन्ति ।
पोष्-व् 65.1. अथ भगवांस् तद् एव पोषधे पंचदश्यां पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः । निषद्य भगवान् भिक्षून् आमन्त्रयते स्म ।
निर्गच्छति भिक्षवो रात्रिः । कुरुत भिक्षवः पोषधं ।
पोष्-व् 65.2. अथान्यतमो भिक्षुर् उत्थायासनाद् एकांसम् उत्तरासंगं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणमय्य भगवन्तम् इदम् अवोचत्*
अन्यतमस्मिं भदन्तावासे भिक्षुर् आबाधिको दुःखितो बाढग्लानः । तस्यास्माभिः कथं प्रतिपत्तव्यं ।
भगवान् आह । पारिशुद्धिर् अस्यानयितव्या ।
पोष्-व् 65.3. उक्तं भगवता पारिशुद्धिर् अस्यानयितव्येति । भिक्षवो न जानते कथम् आनयितव्येति ।
भगवान् आह । एकस्य एकेन द्वाभ्याम् एकेन संबहुलानां यावतां वा शक्नोति संघमध्ये नामानं परिकीर्तयितुं ।
पोष्-व् 66.1. पारिशुद्धिदायकस्याहं भिक्षव भिक्षोर् आसमुदाचारिकान् धर्मान् प्रज्ञप यिष्यामि ।
पोष्-व् 66.2. पारिशुद्धिदायकेन भि क्षुणैकां सम् उत्तरास ं ग ं क् ऋत्व् आ उपानहाव् अवमुच्य यथावृद्धिकया सामीचीं कृत्वा उत्कुण्डकेन ( पोष्-व् 360 ) स्थित्वा अञ्जलिं प्रगृह्य इदं स्याद् वचनीयं ।
समन्वाहरायुष्मन्न् अद्य संघस्य पोषधः पांचदशिकः ममाप्य् एवंनामो भिक्षोः पोषधः पाञ्च दशिकः सो ऽहम् एवंनामा भिक्षुः परिशुद्धम् अन्तरायिकैर् धर्मैर् आत् म् आ न् अ ं वदामि । पोषधे मे पारिशुद्धिम् आरोचयाम्य् आरोचितां च प्रवेदयामि ।
एवं द्विर् अप्य् एवं त्रिर् अपि ।
पोष्-व् 66.3. पारिशुद्धिदायको भिक्षुः सचेत् कायविज्ञप्त्या पारिशुद्धिन् ददाति । दत्ता पारिशुद्धिर् वक्तव्या । वाग्विज् ञप्त्या ( 60व् = ग्ब्म् 6.719 ) ददाति । दत्ता पारिशुद्धिर् वक्तव्या । कायविज्ञप्त्या च वाग्विज्ञप्त्या च द दाति । दत्ता पारिशुद्धिर् वक्तव्या ।
पोष्-व् 66.4. न कायविज्ञप्त्या न वाग्विज्ञप्त्या ददाति । सर्वसंघेन वा तत्र गन्तव्यं । स वा भिक्षुः संघमध्ये ऽवतारयितव्यः ।
पोष्-व् 66.5. न सर्वसंघस् तत्र गच्छति । तं च भिक्षुं संघे नावतारयिष्यन्ति । व्य ग्राः कुर्वन्ति सातिसारा भवन्ति ।
पोष्-व् 66.6 पारिशुद् ध् इदा य् अ क् ओ भ् इ क्ष् उ र् य् अ थ् आ प्र् अ ज्ञ् अ प्तान् आसमुदाचारिकां धर्मां न समादाय वर्तते सातिसारो भवति ।
पोष्-व् 67.1. पारिशुद्धिग्राहकस्याहं भिक्षव भिक्षोर् आसमुदाचारिकान् धर्मान् प्रज्ञपयिष्यामि ।
पोष्-व् 67.2. पारिशुद्धिग्राहकेण भिक्षुणा पारिशुद्धिं गृहीत्वा न धावितव्यं । न द्रवितव्य ं । न ल ं घ् अतव् य् अं न + .. लं घ् अ यितव्या । न परिषण्डा लंघयितव्या । नोपरिविहायसा स्थातव्यं । न बहिः सीमा ं गन्तव्यं । नैकेन पादेन द्वौ निश्रेणपदकाव् अभिरुहितव्यौ । नैकेन पादेन द्वौ सोपानकडेवराव् अभिरुहितव्यौ । न स्वपितव्यं । न समापत्तव्यं ।
पोष्-व् 67.3. स्वपिति समापद्यते द्वाभ्यां कारणाभ्यां गर्ह्यो भवति यच् चालज्जित्वेन यच् च वैतरिकत्वेन ।
पोष्-व् 67.4. यदा संघस्थविरः कथयत्य् अनागमनायायुष्मन्तश् छन्दं च पारिशुद्दिं चारोचयत । आरोचितां च प्रवेदयथेति । तेनान्तरिकस्स {fओर् तेनान्तरिकस्य} भिक्षोः पुरतः स्थित्वा वक्तव्यं ।
समन्वाहर आयुष्मन्न् अमुष्मिन्न् आवासे भिक्षुर् आबाधिको दुःखितो बाढग्लानः । अद्य संघस्य पोषधः पाञ्चदशिकस् तस्यापि भिक्षोः पोषधः पाञ्चदशिकः सो ऽयम् एवंनामा भिक्षुः परिशुद्धम् अन्तरायिकैर् धर्मैर् आत्मानं वेदयति । पोषधे ऽस्य पारिशुद्धिम् आरोचयाम्य् आरोचितां च प्रवेदयामि ।
पोष्-व् 67.5. पारिशुद्धिग्राहको भिक्षुर् आसमुदाचारिकान् धर्मान् न समादाय वर्तते सातिसारो भवति ।
पोष्-व् 68.1. आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति ।
पारिशुद्धिग्राहकस् तावद् भदन्त भिक्षुः पारिशुद्धिं गृहीत्वा तत्रैवोच्छिद्य कालं कुर्याद् आनीता पारिशुद्धिर् वक्तव्या । अनानीता ।
अनानीता उपालिं पुनर् अप्य् आनयितव्या ।
पोष्-व् 68.2. आगारिकत्वं प्रतिजानाति श्रमणोद्देशत्वं शण्ठकत्वं पण्डकत्वं भिक्षुणीदूषकत्वं मातृघातकत्वं पितृघातकत्वम् ( पोष्-व् 368 ) अर्हद्घातकत्वं संघभेदकत्वं तथागतस्यान्तिके दुष्टचित्तरुधिरोत्पादकत्वं तीर्थिकत्वं तीर्थिकावक्रान्तकत्वं स्तेयसंवासिकत्वं नानासंवासिकत्वम् असंवासिकत्वं प्रतिजानाति । आनीता पारिशुद्धिर् वक्तव्या । अनानीता ।
अनानीता उपालिं पुनर् अप्य् आनयितव्या ।
पोष्-व् 68.3. पारिशुद्धिग्राहकस् तावद् भदन्त भिक्षुः पारिशुद्धिं गृहीत्वा संघमध्ये प्राप्तः कालं कुर्याद् आनीता पारिशुद्धिर् वक्तव्या । अनानीता ।
अनानीता उपालिं पुनर् अप्य् आनयितव्या ।
पोष्-व् 68.4. आगारिकत्वं प्रतिजानाति पूर्ववद् यावद् असंवासिकत्वं प्रतिजानाति । आनीता पारिशुद्धिर् वक्तव्या । अनानीता ।
अनानीता उपालिं पुनर् अप्य् आनयितव्या । ॥
पोष्-व् 69.1.अ. आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति ।
यस्मिन् भदन्तावासे एको भिक्षुः प्रतिवसति । तेन तद् एव पोषधे पंचदश्यां कथं प्रतिपत्तव्यं ।
तेनोपालिं भिक्षुणा विहारः सेक्तव्यः संमार्जितव्यः । सुकुमारी गोमयकार्षी अनुप्रदातव्या । सिंहासनं प्रज्ञपयितव्यं । आसनप्रज्ञप्तिः कर्तव्या । धर्मश्रवणं दातव्यं ।
ततः पश्चाद् उच्चतरके ( fओल्. 61, 62 अन्द् 63 अरे लोस्त् )
( पोष्-व् 458 ) पोष्-व् 85.1.ब्. ( 64र् = ग्ब्म् 6.730 ) स् ऊत्र् ओ द्द् ए शम् उद्दिशन्ति ।
ततः पश्चान् नैवासिका भिक्षव आगच्छन्त्य् अल्पतरकाः । तैर् यथागता निषद्य तैः सार्धं पोषधः कर्तव्यः । प्रातिमोक्षसूत्रोद्देश उद्देष्टव्यः ।
पूर्वका भिक्षवो न सातिसाराः ।
पोष्-व् 85.2. यथापि तद् तद् एव पोषधे पञ्चदश्यां नैवासिका भिक्षवः सन्निषण्णाः सन्निपतिता भवन्ति चत्वारो वा उत्तरे वा ।

तेषां नैवं भवति । सन्ति भिक्षवो ये ऽनागतका इति । ते धर्मसंज्ञिनः समग्रसंज्ञिनः ज्ञप्तिं कृत्वा पोषधं कुर्वन्ति । प्रातिमोक्षसूत्रोद्देशम् उद्दिशन्ति ।
उद्दिष्टः प्रातिमोक्षः कृतः संघेन पोषधः । अव्युत्थिता सा पर्षद् अ वि प्रक्रान्ताश् च भिक्षवः ।
ततः पश्चान् नैवासिका भिक्षव आगच्छन्त्य् अल्पतरकाः । तैस् तेषाम् अर्थाय पुनर् अपि ज्ञप्तिं कृत्वा पोषधः कर्तव्यः । प्रातिमोक्षसूत्रोद्देश उद्देष्टव्यः ।
पूर्वका भिक्षवो न सातिसारः ॥
पोष्-व् 85.3. यथापि तद् तद् एव पोषधे पंचदश्यां नैवासिका भिक्षवः सन्निषण्णाः सन्निपतिताः भवन्ति चत्वारो वा उत्तरे वा ।
तेषां नैवं भवति । सन्ति भिक्षवो ये ऽनागतकाः । ते धर्मसंज्ञिनः समग्रसंज्ञिनः ज्ञप्तिं कृत्वा पोषधं कुर्वन्ति । प्रातिमोक्षसूत्रोद्देशम् उद्दिशन्ति ।
उद्दिष्टः प्रातिमोक्षः कृतः संघेन पोषधः । व्युत्थिता सा पर्षत्* एकत्या भिक्षवो विप्रक्रान्ताः एकत्या अविप्रक्रान्ताः ।
ततः पश्चान् नैवासिका भिक्षव आगच्छन्त्य् अल्पतरकाः । ते यदि तावत् सामग्रीम् आरागयन्ति पुनर् अपि तैस् तेषाम् अर्थाय ज्ञप्तिं कृत्वा पोषधः कर्तव्यः । प्रातिमोक्षसूत्रोद्देश उद्देष्टव्यः । नोचेत् आरागयन्ति तैर् मण्डलकं गत्वा पोषधः कर्तव्यः । प्रातिमोक्षसूत्रोद्देश उद्देष्टव्यः ।
पूर्वका भिक्षवो न सातिसारः ।
पोष्-व् 85.4. यथापि तद् तद् एव पोषधे पञ्चदश्यां नैवासिका भिक्षवः सन्निषण्णाः सन्निपतिताः भवन्ति चत्वारो वा उत्तरे वा ।
तेषां नैवं भवति । सन्ति भिक्षवो ये ऽनागतकाः । ते धर्मसंज्ञिनः समग्रसंज्ञिनः ज्ञप्तिं कृत्वा पोषधं कुर्वन्ति । प्रातिमोक्षसूत्रोद्देशम् उद्दिशन्ति ।
उद्दिष्टः प्रातिमोक्षः कृतः संघेन पोषधः । व्युत्थिता सा पर्षत्* विप्रक्रान्ताश् च भिक्षवः ।
ततः पश्चान् नैवासिका भिक्षव आगच्छन्त्य् अल्पतरका ः । तैर् मण्डलकं गत्वा पोषधः कर्तव्यः । प्रातिमोक्षसूत्रोद्देश उद्देष्टव्यः ।
पूर्वका भिक्षवो न सातिसारः ।
पोष्-व् 86. यथा नैवासिकैः सन्निषण्णैः सन्निपतितैः नैवासिका आगच्छन्त्य् अल्पाः ।
एवं समकाः ।
आगन्तुका आगच्छन्त्य् अल्पाः । समकाः ।
आगन्तुकनैवासिका आगच्छन्त्य् अल्पाः । समकाः ।
आगन्तुकैः सन्निषण्णैः सन्निपतितैर् आगन्तुका आगच्छन्त्य् अल्पाः । समकाः ।
नैवासिका आगच्छन्त्य् अल्पाः । समकाः ।
आगन्तुकनैवासिका आगच्छन्त्य् अल्पाः । समकाः ।
आगन्तुकनैवासिकैः सन्निषण्णैः सन्निपतितैः आगन्तुकनैवासिका आगच्छन्त्य् अल्पाः । समकाः ।
नैवासिका आगच्छन्त्य् अल्पाः । समकाः ।
आगन्तुका आगच्छंत्य् अल्पाः । समकाः ॥ ॥
पोष्-व् 87. अन्तरोद्दानं ॥
यथा गन्त्या च ज्ञप्तिश् च ।
साम ग्री मण्डलकश् च ॥ ॥{म्स्: पिण्डोदानम्* ॥ गन्तृज्ञप्तिं श्रीमण्डलकश् च }
पोष्-व् 88.1. यथापि तद् तद् एव पोषधे पञ्चदश्यां नैवासिका भिक्षवः सन्निषण्णा भवन्ति सन्निपतिताश् चत्वारो वा उत्तरे वा ।
तेषां नैवं भवति । सन्ति भिक्षवो ये ऽनागतकाः । ते धर्मसंज्ञिनः समग्रसंज्ञिनः ज्ञप्तिं कृत्वा पोषधं कुर्वन्ति । प्रातिमोक्षसूत्रोद्देशम् उद्दिशन्ति ।
ततः पश्चान् नैवासिका भिक्षव आगच्छन्त्य् बहुतरकाः । तैः पुनर् अपि ज्ञप्तिं कृत्वा पोषधः कर्तव्यः । प्रातिमोक्षसूत्रोद्देश उद्देष्टव्यः ।
पूर्वका भिक्षवो न सातिसारः ।
पोष्-व् 88.2. यथापि तद् तद् एव पोषधे पञ्चदश्यां नैवासिका भिक्षवः सन्निषण्णा भवन्ति सन्निपतिताश् ( 64र् = ग्ब्म् 6.731 ) चत्वारो वा उत्तरे वा ।
तेषां नैवं भवति । सन्ति भिक्षवो ये ऽनागतका । ते धर्मसंज्ञिनः समग्रसंज्ञिनः ज्ञप्तिं कृत्वा पोषधं कुर्वन्ति । प्रातिमोक्षसूत्रोद्देशम् उद्दिशन्ति ।
उद्दिष्टः प्रातिमोक्षः कृतः संघेन पोषधः । अव्युत्थिता सा पर्षद् अविप्रक्रान्ताश् च भिक्षवः ।
ततः पश्चान् नैवासिका भिक्षव आगच्छन्ति बहुतरकाः । तैः पुनर् अपि ज्ञप्तिं कृत्वा पोषधः कर्तव्यः । प्रातिमोक्षसूत्रोद्देश उद्देष्टव्यः ।
पूर्वका भिक्षवो न सातिसारः ।
पोष्-व् 88.3. यथापि तद् तद् एव पोषधे पञ्चदश्यां नैवासिका भिक्षवः सन्निषण्णा भवन्ति सन्निपतिताः चत्वारो वा उत्तरे वा ।
तेषां नैवं भवति । सन्ति भिक्षवो ये ऽनागतकाः । ते धर्मसंज्ञिनः समग्रसंज्ञिनो ज्ञप्तिं कृत्वा पोषधं कुर्वन्ति । प्रातिमोक्षसूत्रोद्देशम् उद्दिशन्ति ।
उद्दिष्टः प्रातिमोक्षः कृतः संघेन पोषधः । व्युत्थिता सा पर्षद् एकत्या भिक्षवो विप्रक्रान्ताः एकत्या अविप्रक्रान्ताः ।
ततः पश्चान् नैवासिका भिक्षव आगच्छन्ति बहुतरकाः । तैः पुनर् अपि ज्ञप्तिं कृत्वा पोषधः कर्तव्यः । प्रातिमोक्षसूत्रोद्देश उद्देष्टव्यः ।

पूर्विका भिक्षवो न सातिसारः ।
पोष्-व् 88.4. यथापि तद् तद् एव पोषधे पञ्चदश्यां नैवासिका भिक्षवः सन्निषण्णा भवन्ति सन्निपतिताश् चत्वारो वा उत्तरे वा ।
तेषां नैवं भवति । सन्ति भिक्षवो ये ऽनागतकास् । ते धर्मसंज्ञिनः समग्रसंज्ञिनः ज्ञप्तिं कृत्वा पोषधं कुर्वन्ति । प्रातिमोक्षसूत्रोद्देशम् उद्दिशन्ति ।
उद्दिष्टः प्रातिमोक्षः कृतः संघेन पोषधः । व्युत्थिता सा पर्षद् विप्रक्रान्ता भिक्षवः ।
ततः पश्चान् नैवासिका भिक्षव आगच्छन्ति बहुतरकाः । पुनर् अपि ज्ञप्तिं कृत्वा पोषधः कर्तव्यः । प्रातिमोक्षसूत्रोद्देश उद्देष्टव्यः ।
पूर्वका भिक्षवो न सातिसाराः ।
पोष्-व् 89. यथा नैवासिकैः सन्निषण्णैः सन्निपतितैः नैवासिका भिक्षव आगच्छन्ति बहुतरकाः ।
एवम् आगन्तुका आगच्छन्ति बहुतरकाः ।
आगन्तुकनैवासिका आगच्छन्ति बहुतरकाः ।
आगन्तुकैः सन्निषण्णैः सन्निपतितैर् आगन्तुका आगच्छन्ति बहुतरकाः ।
नैवासिका आगच्छन्ति बहुतरकाः ।
आगन्तुकनैवासिका आगच्छन्ति बहुतरकाः ।
आगन्तुकनैवासिकैः सन्निषण्णै ः सन्निपतितैः आगन्तुकनैवासि का आगच्छन्ति बहुतरकाः ।
नैवासिका आगच्छन्ति बहुतरकाः ।
आवासिका आगच्छंति बहुतरकाः ।
पोष्-व् 90.1. नैवासिकानां पंचदशी आगन्तुकानां चतुर्दशी वा प्रतिपद् वा अल्पतरका णा म् ।
अनुवर्तितव्यम् आगन्तुकैः नैवासिकानां बहुतरकाणां ।
पोष्-व् 90.2. नैवासिकानां पंचदशी आगन्तुकानां चतुर्दशी वा प्रतिपद् वा समकानाम् ।
अनुवर्तितव्यम् आगन्तुकैर् नैवासिकानां समकानाम्*
पोष्-व् 90.3. नैवासिकानां पंचदश्य् आ ग न्तुकानां चतुर्दशी वा प्रतिपद् वा बहुतरकाणां ।
अनुवर्तितव्यं नैवासिकैर् आगन्तुकानां बहुतरकाणां ।
पोष्-व् 90.4. आगन्तुकानां पंचदशी नैवासिकानां चतुर्दशी वा प्रतिपद् वा अल्पतरकाणाम् ।
अनुवर्तितव्यं नैवासिकैर् आगन्तुकानां बहुतरकाणां ।
पोष्-व् 90.5. आगन्तुकानां पञ्चदशी नैवासिकानां चतुर्दशी वा प्रतिपद् वा समकानाम् ।
अनुवर्तितव्यं आगन्तुकैर् नैवासिकानां समकानां ।
पोष्-व् 90.6. आगन्तुकानां पंचदशी नैवासिकानां चतुर्दशी वा प्रतिपद् वा बहुतरकाणाम् ।
अनुवर्तितव्यम् आगन्तुकैर् नैवासिकानां बहुतरकाणां ।
पोष्-व् 91.1. यथापि तद् तद् एव पोषधे पंचदश्यां नैवासिका भिक्षवः सन् न् इषण्णाः ( 65र् = ग्ब्म् 6.720 ) भवन्ति सन्निपतिताः चत्वारो वा उत्तरे वा ।
तत्र ते पश्यन्ति आगन्तुकाकाराणि आगन्तुकलिङ्गान्य् आगन्तुकनिमित्तानि तद्यथा अन्यादकं पात्र ं चीवरं यष्टि ं विसिकां कुण्डी ं तुम्बक ं खोलां पूलान् उपानहौ ।
तेषाम् एवं भवति । सन्ति भिक्षवो ये ऽनागतका इति । ये ऽनागतका भिक्षवो नश्यन्तु ते । अत एव भवन्तु हिरुग् । ( पोष्-व् 470 ) भवन्तु दूरे ण । परेण भवन्तु ।
ते भेदार्थिनो भेदपरिष्कारा ज्ञप्तिं कृत्वा पोषधं कुर्वन्ति । प्रातिमोक्षसूत्रोद्देशम् उद्दिशन्ति ।
ततः पश्चाद् आगन्तुका भिक्षव आगच्छन्त्य् अल्पत र काः । तैः पुनर् अपि ज्ञप्तिं कृत्वा पोषधः कर्तव्यः । प्रातिमोक्षसूत्रोद्देश उद्देष्टव्यः ।
पूर्विका भिक्षव आपद्यन्ते स्थूलात्ययां भेदसामन्तका ः ।
पोष्-व् 91.2. यथापि तद् तद् एव पोषधे पंचदश्यां नैवासिका भिक्षवः सन्निषण्णा भवन्ति सन्निपतिताश् चत्वारो वा उत्तरे वा ।
ते तत्र पश्यन्ति आगन्तुकाकाराण्य् आगन्तुकलिंगान्य् आगन्तुकनिमित्ता नि तद्यथा अन्यादकं पात्रं चीवरं यष्टि ं विसिकां कुण्डीं तुंबकं खोला ं पूलान् उपानहौ ।
तेषाम् एवं भवति । सन्ति भिक्षवो ये ऽनागतका । भिक्षवो ये ऽनागतका न कल्पयत्य् अस्माकं तैर् विना ज्ञप्तिं कृत्वा पोषधं कर्तुं । प्रातिमोक्षसूत्रोद्देशम् उद्देष्टुं ।
ते अधर्मसंज्ञिनो व्यग्रसंज्ञिनः ज्ञप्तिं कृत्वा पोषधं कुर्वन्ति । प्रातिमोक्षसूत्रोद्देशम् उद्दिशन्ति ।
ततः पश्चाद् आगन्तुका भिक्षव आगच्छंत्य् अल्पतरकाः । तैः पुनर् अपि ज्ञप्ति ं कृत्वा पोषधं कर्तव्यः । प्रातिमोक्षसुत्रोद्देश उद्देष्टव्यः ।
पूर्विका भिक्षवः सातिसाराः । व्यग्रसामन्तका ः ।
पोष्-व् 91.3. यथापि तद् तद् एव पोषधे पंचदश्यां नैवासिका भिक्षवः सन्निषण्णा भवन्ति सन्निपतिताः चत्वारो वा उत्तरे वा ।

ते तत्र पश्यन्त्य् आगन्तुकाकाराण्य् आगन्तुकलिंगान्य् आगन्तुकनिमित्तानि तद्यथान्यानकं {तद्यथान्यादकं} पात्रं चीवरं यष्टिं विसिकां कुण्डी ं तुंबकं खोला ं पूलान् उपानहौ ।
तेषाम् एवं भवति । सन्ति भिक्षवो ये ऽनागतका इति । ये ऽनागतका भिक्षवः कल्पत्य् अस्माकं तैर् विना ज्ञप्तिं कृत्वा पोषधं कर्तुं । प्रातिमोक्षसूत्रोद्देशम् उद्देष्टुं ।
ते कल्पार्थिनः कल्पपरिष्कारा यावत् तावन् मार्गित्वा ज्ञप्तिं कृत्वा पोषधं कुर्वन्ति । प्रातिमोक्षसूत्रोद्देशम् उद्दिशंति ।
ततः पश्चाद् आगन्तुका भिक्षव आगच्छंत्य् अल्पतरकाः । तैः पुनर् अपि ज्ञप्ति ं कृत्वा पोषधः कर्तव्यः । प्रातिमोक्षसूत्रोद्देश उद्देष्टव्यः ।
पूर्विका भिक्षवः सातिसारा ः । कल्पसामन्तकाः ।
पोष्-व् 91.4. यथापि तद् तद् एव पोषधे पंचदश्यां नैवासिका भिक्षवः सन्निषण्णा भवंति सन्निपतिताश् चत्वारो वा उत्तरे वा ।
ते तत्र पश्यंत्य् आगन्तुकाकाराण्य् आगन्तुकलिंगान्य् आगन्तुकनिमित्तानि तद्यथा अन्यादकं पात्र ं चीवरं यष्टिं विसिकां कुण्डीं तुंबकं खोला ं पूलान् उपानहौ ।
तेषाम् एवं भवति । सन्ति भिक्षवो ये ऽनागतका इति । ये ऽनागतका भिक्षवो न कल्पत्य् अस्माकं तैर् विना ज्ञप्तिं कृत्वा पोषधं कर्तुं । प्रातिमोक्षसूत्रोद्देशम् उद्देष्टुं ।
ते तान् अध्याशयेन मार्गयित्वा न लभवंति । ते ज्ञप्ति ं कृत्वा पोषधं कुर्वन्ति । प्रातिमोक्षसूत्रोद्देशम् उद्दिशंति ।
ततः पश्चाद् आगन्तुका भिक्षव आगच्छंत्य् अल्पतरकाः । तैः पुनर् अपि ज्ञप्तिं ( 65व् = ग्ब्म् 6.721 ) कृत्वा पोषधः कर्तव्यः । प्रातिमोक्षसूत्रोद्देश उद्देष्टव्यः ।
पूर्वका भिक्षवो न सातिसाराः ॥
पोष्-व् 91.5. यथापि तद् तद् एव पोषधे पंचदश्यां नैवासिका भिक्षवः सन्निषण्णा भवन्ति सन्निपतिताश् चत्वारो वा उत्तरे वा ।
ते तत्र पश्यन्त्य् आगन्तुकाकाराण्य् आगन्तुकलिंगान्य् आगन्तुकनिमित्तानि तद्यथा अन्यादकं पात्रं चीवरं यष्टिं च विसिकां कुण्डी ं तुंबकं खोलां पूलान् उपानहौ ।
तेषाम् एवं भवति । सन्ति भिक्षवो ये ऽनागतका इति । ये ऽनागतका भिक्षवो न कल्पत्य् अस्माकं तैर् विना ज्ञप्तिं कृत्वा पोषधं कर्तुं । प्रातिमोक्षसूत्रोद्देशम् उद्देष्टुं ।
ते तान् अध्याशयेन मार्गन्ति । ते तान् अध्याशयेन मार्गित्वा लभन्ते । ते तैः सार्धं निषद्य ज्ञप्तिं कृत्वा पोषधं कुर्वन्ति । प्रातिमोक्षसूत्रोद्देशम् उद्दिशन्ति ।
पूर्वका भिक्षवो न सातिसाराः ॥ ॥
पोष्-व् 92.1. यथापि तद् तद् एव पोषधे पञ्चदश्यां नैवासिका भिक्षवः सन्निषण्णा भवन्ति सन्निपतिता ः चत्वारो वा उत्तरे वा ।
ते तत्र शृण्वन्त्य् आगन्तुकाकाराणि आगन्तु क लिंगान्य् आगन्तुकनिमित्तानि तद्यथा यष्टिशब्दं पदशब्दं उत्कासनशब्दं आगन्तुकानां च भिक्षूणां स्वरगुप्तिं ।
तेषाम् एवं भवति । सन्ति भिक्षवो ये ऽनागतकाः । ये ऽनागतका भिक्षवो नश्यन्तु ते । अत एव भवन्तु हिरुग् । भवन्तु दूरेण । परेण भवन्तु ।
ते भेदार्थिनो भेदपरिष्कारा ज्ञप्तिं कृत्वा पोषधं कुर्वन्ति । प्रातिमोक्षसूत्रोद्देशम् उद्दिशन्ति ।
ततः पश्चाद् आगन्तुका भिक्षव आगच्छन्त्य् अल्पतरकास् । तैः पुनर् अपि ज्ञप्तिं कृत्वा पोषधः कर्तव्यः । प्रातिमोक्षसूत्रोद्देश उद्देष्टव्यः ।
पूर्विका भिक्षव आपद्यन्ते स्थूलात्ययाम्* ॥ भेदसामन्तकाः ।
पोष्-व् 92.2. यथापि तद् तद् एव पोषधे पञ्चदश्यां नैवासिका भिक्षवः सन्निषण्णा भवन्ति सन्निपतिताश् चत्वारो वा उत्तरे वा ।
ते तत्र शृण्वन्त्य् आगन्तुकाकारां पूर्ववद् यावत् ते तान् अध्या श येन मार्गन्ति लभन्ति । ते तैः सार्धं निषद्य ज्ञप्तिं कृत्वा पोषधं कुर्वन्ति । प्रातिमोक्षसूत्रोद्देशम् उद्दिशन्ति ।
पूर्वका भिक्षवो न सातिसाराः ॥
पोष्-व् 93. यथा नैवासिकैः सन्निषण्णैः सन्निपतितैः आगन्तुका आगच्छन्त्य् अल्पाः ।
एवं समका । बहुतरकाः ।
पोष्-व् 94.1. यथापि तद् तद् एव पोषधे पञ्चदश्यां आगन्तुका भिक्षवः सन्निषण्णा भवन्ति सन्निपतिताश् चत्वारो वा उत्तरे वा ।
ते तत्र पश्यन्ति नैवासिकाकाराणि नैवासिकलिंगान्य् नैवासिकनिमित्तानि तद्यथा
विहारं सिक्तं संमृष्टं । सुकुमारी ं गोमयकार्षीम् अनुप्रदत्ता ं । शयनासनप्रज्ञप्तिं कृतां । तैलप्रद्योतान् आदीप्तांस् ।
तेषाम् एवं भवति । सन्ति भिक्षवो ये ऽनागतकाः इति । ये ऽनागतका भिक्षवो नश्यन्तु ते । अत एव भवन्तु हिरुग् । भवन्तु दूरेण । परेण भवन्तु ।
ते भेदार्थिनो भेदपरिष्कारा ज्ञप्तिं कृत्वा पोषधं कुर्वन्ति । प्रातिमोक्षसूत्रोद्देशम् उद्दिशंति ।
ततः पश्चान् नैवासिका भिक्षव आगच्छन्त्य् अल्पतरकाः । तैः पुनर् अपि ज्ञप्तिं कृत्वा पोषधः कर्तव्यः । प्रातिमोक्षसूत्रोद्देश उद्देष्टव्यः ।
पूर्वका भिक्षव आपद्यंते स्थूलात्ययां । ते भेदसामन्तका ः ।
पोष्-व् 94.2. यथापि तद् तद् एव पोषधे पंचदश्यां आगन्तुका भिक्षवः सन्निषण्णा भवन्ति सन्निपतिताः चत्वारो वा उत्तरे वा ।
ते तत्र पश्यंति नैवासिकाकाराणि नै वासि कलिंगान्य् नैवासिकनिमित्तानि तद्यथा
विहारं सिक्तं संमृ ष्ट ं । स् उ कुमारी ं गोमयकार्षीम् ( 66र् = ग्ब्म् 6.722 ) अनुप्रदत्तां । शयनासनप्रज्ञप्तिं कृतां । तैलप्रद्योतान् आदीप्तां ।
तेषाम् एवं भवति । सन्ति भिक्षवो ये ऽनागतकाः इति । ये ऽनागतका भिक्षवः न कल्पत्य् अस्माकं तैर् विना ज्ञप्तिं कृत्वा पोषधं कर्तुं । प्रातिमोक्षसूत्रोद्देशम् उद्देष्टुं ।
ते अधर्मसंज्ञिनो व्यग्रसंज्ञिनः ज्ञप्तिं कृत्वा पोषधं कुर्वन्ति । प्रातिमोक्षसूत्रोद्देशम् उद्दिशन्ति ।
ततः पश्चान् नैवासिका भिक्षव आगच्छंत्य् अल्पतरकाः । तैः पुनर् अपि ज्ञप्तिं कृत्वा पोषधः कर्तव्यः । प्रातिमोक्षसूत्रोद्देश उद्देष्टव्यः ।

पूर्वका भिक्षव सातिसारा भवन्ति । व्यग्रसामन्तकाः ।
पोष्-व् 94.3. यथापि तद् तद् एव पोषधे पंचदश्यां आगन्तुका भिक्षवः सन्निषण्णा भवन्ति सन्निपतिताश् चत्वारो वा उत्तरे वा ।
ते तत्र पश्यन्ति नैवासिकाकाराणि नैवासिकलिंगान्य् नैवासिकनिमित्तानि तद्यथा
विहारं सिक्तं संमृष्टं । सुकुमारी ं गोमयकार्षीम् अनुप्रदत्तां । शयनासनप्रज्ञप्तिं कृतां । तैलप्रद्योतान् आदीपितांस् ।
तेषाम् एवं भवति । सन्ति भिक्षवो ये ऽनागतकाः इति । ये ऽनागतका भिक्षवो कल्पत्य् अस्माकं तैर् विना ज्ञप्तिं कृत्वा पोषधं कर्तुं । प्रातिमोक्षसूत्रोद्देशम् उद्देष्टुं ।
ते कल्पार्थिनः कल्पपरिष्कारा यावत् तावन् मार्गित्वा ज्ञप्तिं कृत्वा पोषधं कुर्वन्ति । प्रातिमोक्षसूत्रोद्देशम् उद्दिशंति ।
ततः पश्चान् नैवासिका भिक्षव आगच्छन्त्य् अल्पतरकाः । तैः पुनर् अपि ज्ञप्तिं कृत्वा पोषधः कर्तव्यः । प्रातिमोक्षसूत्रोद्देश उद्देष्टव्यः ।
पूर्वका भिक्षव सातिसाराः कल्पसामन्तकाः ।
पोष्-व् 94.4. यथापि तद् तद् एव पोषधे पञ्चदश्यां आगन्तुका भिक्षवः सन्निषण्णा भवन्ति सन्निपतिताः चत्वारो वा उत्तरे वा ।
ते तत्र पश्यन्ति नैवासिकाकाराणि नैवासिकलिंगान्य् नैवासिकनिमित्तानि तद्यथा
विहारं सिक्तं संमृष्टं । सुकुमारी ं गोमयकार्षीम् ( पोष्-व् 484 ) अनुप्रदत्तां । शयनासनप्रज्ञप्तिं कृतां । तैलप्रद्योतान् आ दी पितांस् ।
तेषाम् एवं भवति । सन्ति भिक्षवो ये ऽनागतकाः इति । ये ऽनागतका भिक्षवो न कल्पत्य् अस्माकं तैर् विना ज्ञप्तिं कृत्वा पोषधं कर्तुं । प्रातिमोक्षसूत्रोद्देशम् उद्देष्टुं ।
ते तान् अध्याशयेन मार्गन्ति । ते तान् अध्याशयेन मार्गित्वा न लभन्ति । ते ज्ञप्तिं कृत्वा पोषधं कुर्वन्ति । प्रातिमोक्षसूत्रोद्देशम् उद्दिशन्ति ।
ततः पश्चान् नैवासिका भिक्षव आगच्छंत्य् अल्पतरकाः । तैः पुनर् अपि ज्ञप्तिं कृत्वा पोषधः कर्तव्यः । प्रातिमोक्षसूत्रोद्देश उद्देष्टव्यः ।
पूर्वका भिक्षवो न सातिसाराः ।
पोष्-व् 94.5. यथापि तद् तद् एव पोषधे पञ्चदश्यां आगन्तुका भिक्षवः सन्निषण्णा भवन्ति सन्निपतिताश् चत्वारो वा उत्तरे वा ।
ते तत्र पश्यन्ति नैवासिकाकाराणि नैवासिकलिंगानि नैवासिकनिमित्तानि तद्यथा
विहारं सिक्तं संमृष्टं । सुकुमारी ं गोमयकार्षीम् अनुप्रदत्तां । शयनासनप्रज्ञप्तिं कृतां । तैलप्रद्योतान् आदीपितांस् ।
तेषाम् एवं भवति । सन्ति भिक्षवो ये ऽनागतकाः इति । ये ऽनागतका भिक्षवो न कल्पत्य् अस्माकं तैर् विना ज्ञप्तिं कृत्वा पोषधं कर्तुं । प्रातिमोक्षसूत्रोद्देशम् उद्देष्टुं ।
ते तान् अध्याशयेन मार्गन्ति । ते तान् अध्याशयेन मार्गित्वा लभन्ति । ते तैः सार्धं निषद्य ज्ञप्तिं कृत्वा पोषधं कुर्वन्ति । प्रातिमोक्षसूत्रोद्देशम् उद्दिशन्ति ।
पूर्वका भिक्षवो न सातिसाराः ।
पोष्-व् 95. ( 66व् = ग्ब्म् 6.723 ) यथापि तद् तद् एव पोषधे पंचदश्यां आगन्तुका भिक्षवः सन्निषण्णा भवन्ति सन्निपतिताश् चत्वारो वा उत्तरे वा ।
ते तत्र शृण्वन्ति नैवासिकाकाराणि नैवासिकलिंगानि नैवासिकनिमित्तानि तद्यथा यष्टिशब्दं पदशब्दं उत्कासनशब्दं ताडकशब्दं कुंचिकासब्दं नैवासिकानां च भिक्षूणां स्वरगुप्तिं ।
तेषाम् एवं भवति । सन्ति भिक्षवो ये ऽनागतकाः । ये ऽनागतका भिक्षवो नश्यन्तु ते । अत एव भवन्तु हि रु ग् । भवन्तु दूरेण । परेण भवन्तु ।
ते भेदार्थिनो भेदपरिष्कारा ज्ञप्तिं कृत्वा पोषधं कुर्वन्ति । प्रातिमोक्षसूत्रोद्देशम् उद्दिशन्ति ।
पूर्ववद् यावत् ते तान् अध्याशयेन मार्गन्ति । अध्याशयेन मार्गित्वा लभन्ति । ते तैः सार्धं निषद्य ज्ञप्तिं कृत्वा पोषधं कुर्वन्ति । प्रातिमोक्षसूत्रोद्देशम् उद्दिशन्ति ।
पूर्वका भिक्षवो न सातिसाराः ।
पोष्-व् 96. यथागन्तुकैः सन्निषण्णैः सन्निपतितैर् नैवासिका आगच्छंत्य् अल्पाः ।
एवं समकाः । बहुतरकाः ॥
पोष्-व् 97. अन्तरोद्दानम्* ॥
भेदो विमतिर् व्यग्रः कल्पा ।
न लभन्ति लभन्ति च ॥
पोष्-व् 98.1 गन्तव्यं भिक्षुणा तद् एव पोषधे पञ्चदश्यां सभिक्षुकाद् आवासात् सभिक्षुकम् आवासं यत्र ब्किक्षवो भवन्ति परिशुद्धाः समानदृष्टयः ।
पोष्-व् 98.2. न गन्तव्यं भिक्षुणा तद् एव पोषधे पञ्चदश्यां सभिक्षुकाद् आवासात् सभिक्षुकम् आवासं यत्र ब्किक्षवो भवन्ति कलहकारका भण्डनकारका विवादकारका विग्रहकारका आधिकरणिकाः स्थापयित्वा आपत्सु वा सर्वसंघेन तत्र ।
पोष्-व् 98.3 गन्तव्यं भिक्षुणा तद् एव पोषधे पञ्चदश्यां सभिक्षुकाद् आवासात् सभिक्षुकम् आवासं अनावासं यत्र भिक्षवो भवन्ति परिशुद्धाः समानदृष्टयः ।
पोष्-व् 98.4. न गन्तव्यं भिक्षुणा तद् एव पोषधे पञ्चदश्यां सभिक्षुकाद् आवासात् सभिक्षुकम् आवासं सभिक्षुकम् अनावसं यत्र ब्किक्षवो भवन्ति कलहकारका भण्डनकारका विग्रहकारका विवादकारका आधिकरणिकाः स्थापयित्वा आपत्सु वा सर्वसंघेन तत्र ।
पोष्-व् 98.5. गन्तव्यं भिक्षुणा तद् एव पोषधे पञ्चदश्यां सभिक्षुकाद् आवासाद् अनावासात् सभिक्षुकम् आवासं सभिक्षुकम् अनावासं सभिक्षुकम् अवासानावासं यत्र भिक्षवो भवन्ति परिशुद्धाः समानदृष्टयः ।
पोष्-व् 98.6. न गन्तव्यं भिक्षुणा तद् एव पोषधे पञ्चदश्यां सभिक्षुकाद् आवासाद् अ नावासात् स भिक्षुकम् आवासं सभिक्षुकम् अनावसं सभिक्षुकम् आवासानावासं यत्र ब्किक्षवो भवन्ति कलहकारका भण्डनकारका विग्रहकारका विवादकारका आधिकरणिकाः । स्थापयित्वा आपदासु वा सर्वसंघेन तत्र ॥
पोष्-व् 98.7. गन्तव्यं भिक्षुणा तद् एव पोषधे पञ्चदश्यां सभिक्षुकाद् आवासाद् अभिक्षुकम् आवासं सभिक्षुकम् अनावासं सभिक्षुकम् आवासम् अनावासं यत्र गत्वा स्पर्शो भवति कायेन वा चित्तेन वा ॥
पोष्-व् 98.8. न गन्तव्यं भिक्षुणा तद् एव पोषधे पञ्चदश्यां सभिक्षुकाद् आवासाद् अभिक्षुकम् आवासं सभिक्षुकम् अनावासं सभिक्षुकम् अवासानावासं स्थापयित्वा आपत्सु वा सर्वसंघेन वा ॥

पोष्-व् 98.9. गन्तव्यं भिक्षुणा तद् एव पोषधे पञ्चदश्यां सभिक्षुकाद् आवासाद् अभिक्षुकम् अनावासं सभिक्षुकम् आवासानावासं यत्र गत्वा स्पर्शो भवति कायेन वा चित्तेन वा ॥
पोष्-व् 98.10. न गन्तव्यं भिक्षुणा तद् एव पोषधे पञ्चदश्यां सभिक्षुकाद् आवासाद् अभिक्षुकम् आवासं अभिक्षुकम् अनावासं अभिक्षुकम् अवासानावासं स्थापयित्वा आपदासु वा सर्वसंघेन वा ॥
पोष्-व् 98.11. गन्तव्यं भिक्षुणा तद् एव पोषधे पञ्चदश्यां सभिक्षुकाद् आवासाद् अनावासाद् अभिक्षुकम् आवासं अभिक्षुकम् आवासानावासं यत्र गत्वा स्पर्शो भवति ( 67र् ) कायेन वा चित्तेन वा ॥
fओलिओस् 67 अन्द् 68 अरे लोस्त्.

मूल पाठ: Poṣadhavastu · Edition: Hai-yan Hu-von Hinüber: Posadhavastu, Vorschriften für die buddhistische Beichtfeier im Vinaya der Mulasarvastivadins, Reinbek 1994 (Studien zur Indologie und Iranistik, Monographie 13). = Poṣ-v; Cf. Gilgit Manuscript, ed. N. Dutt, vol. III: Mulasarvastivadavinayavastu, part IV (Calcutta 1950), pp. 69-116: Posadhavastu; dto.: second edition, Delhi 1984. GBM = Gilgit Buddhist Manuscripts (Facsimile · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc