पोषधस्थापनवस्तु · भाग 12
पोषधस्थापनवस्तु
पोषधस्थापनवस्तूद्दानम्* ।
अशुद्धपोषधाद् भिक्षुर् मौद्गल्यायणेन नाशितः ।
ततः शास्त्राणि विगर्हित्वा संघेन पृष्टः पोषधः ॥
एषा उद्दानगाथा चंपायां पोषधसूत्रे विस्तरेण ।
तच् च पोषधसूत्रं मध्यमागमे संगीतनिपाते पठ्यते ॥
उद्दानम्* ।
चोदनात् स्मारणाच् चैव अवकाशो ऽवचनीयतः ।
अववादः प्रस्थापनं पोषधश् च प्रवारणा ॥
उक्तं भगवता संघस्थविरेण त्व् अर्धमासं प्रातिमोक्षसूत्रोद्देश उद्देष्टव्य इति । उपधिवारिकः संघस्थविरस्य पुरस्तात् स्थित्वा कथयति । स्थविर प्रातिमोक्षसूत्रोद्देशम् उद्दिशेति । स कथयति । आयुष्मन् न ( 312र्1 = ग्ब्म् 6.936 ) शुद्धा तावद् भिक्षुपर्षत्* । को ऽत्र स्थविरेणापरिशुद्धो दृष्टः । त्वम् एव तावत्* । कथम् अहं स्थविरेण दृष्टः । दिव्येन चक्षुषा । हन्तेदानीं नष्टाः स्मः । यत्र भिक्षवो दिव्येन चक्षुषा दृष्ट्वा चोदयन्ति स्मारयन्ति । इत्य् एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । असंव्यवहार्यं भिक्षवो दिव्यचक्षुः । तस्मान् न भिक्षुणा दिव्येन चक्षुषा दृष्ट्वा भिक्षुश् चोदयितव्यः स्मारयितव्यः । भिक्षुर् दिव्येन चक्षुषा दृष्ट्वा भिक्षुं चोदयति स्मारयति सातिसारो भवति ।
यथा दिव्येन चक्षुषा एवं दिव्येन श्रोत्रेण ।
पुनर् अप्य् असाव् उपधिवारिकः संघस्थविरस्य पुरस्तात् स्थित्वा कथयति । स्थविर प्रातिमोक्षसूत्रोद्देशम् उद्दिशेति । स कथयति । ( म्स्व् इइइ 108 ) आयुष्मन्न् अपरिशुद्धा तावद् भिक्षुपर्षत्* । स्थविर को ऽत्रापरिशुद्धः । त्वम् एव तावत्* । स्थविर कथम् नाम त्वया संघमध्ये मम शिरसि मुष्टिर् निपातिता । अहो बताहं त्वया एकान्ते चोदितः स्याम् इति । स तूष्णीम् अवस्थितः । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । एकान्ते चोदयितव्यो न संघमध्ये । सचेद् एकान्ते चोद्यमानो न स्मरति स्मारयितव्यः । स्मारितश् चेत् कोपम् आपद्यते । अवकाशः कारयितव्यः । अवकाशं कार्यमाणो ऽन्येनान्यं प्रतिसरति । भगवान् आह । अवचनीयः कर्तव्यः । अवचनीयः कृतः । तथाप्य् अन्येनान्यं प्रतिसरति । भगवान् आह । अववादो ऽस्य स्थापयितव्यः पोषधः प्रवारणा च ।
एकम् अधार्मिकं पोषधस्थापनम् एकं धार्मिकम्* । द्वे अधार्मिके द्वे धार्मिके । त्रीण्य् अधार्मिकाणि त्रीणि धार्मिकाणि । चत्वार्य् अधार्मिकाणि चत्वारि धार्मिकाणि । पंचाधार्मिकाणि पंच धार्मिकाणि । षड् अधार्मिकाणि षड् धार्मिकाणि । सप्ताधार्मिकाणि सप्त धार्मिकाणि । अष्टाव् अधार्मिकाणि अष्टौ धार्मिकाणि । नवाधार्मिकाणि नव धार्मिकाणि । दशाधार्मिकाणि दश धार्मिकाणि पोषधस्थापनानि ।
एकम् अधार्मिकं पोषधस्थापनम् एकं धार्मिकम्* । अधार्मिकं कतरत्* । अमूलकेन कृतेन पोषधं स्थापयति अधार्मिकं पोषधस्थापनम्* । धार्मिकं पोषधस्थापनम् कतरत्* । समूलकेन कृतेन ( म्स्व् इइइ 109 ) पोषधं स्थापयति धार्मिकं पोषधस्थापनम्* । इदम् एकम् अधार्मिकं पोषधस्थापनम् एकं धार्मिकम्* ।
द्वे अधार्मिके पोषधस्थापने द्वे धार्मिके । कतमे । अमूलकेनाकृतेनामूलकेन कृतेन पोषधं स्थापयति अधार्मिकं पोषधस्थापनम्* । समूलकेनाकृतेन समूलकेन कृतेन पोषधं स्थापयति धार्मिकं पोषधस्थापनम्* । इमे द्वे अधार्मिके पोषधस्थापने द्वे धार्मिके ।
त्रीण्य् अधार्मिकाणि त्रीणि धार्मिकाणि पोषधस्थापनानि । कतमानि । अमूलकेन कृतेन अमूलकेनाकृतेन अमूलकेन कृताकृतेन पोषधं स्थापयति अधार्मिकं पोषधस्थापनम्* । समूलकेन कृतेन समूलकेनाकृतेन समूलकेन कृताकृतेन पोषधं स्थापयति धार्मिकं पोषधस्थापनम्* । इमानि त्रीण्य् अधार्मिकाणि पोषधस्थापनानि त्रीणि धार्मिकाणि ।
चत्वार्य् अधार्मिकाणि चत्वारि धार्मिकाणि पोषधस्थापनानि । कतमानि । अमूलिकया शीलविपत्त्या दृष्टिविपत्त्या आचारविपत्त्या आजीवविपत्त्या पोषधं स्थापयत्य् अधार्मिकं पोषधस्थापनम्* । ( 312व्1 = ग्ब्म् 6.937 ) समूलिकया शीलविपत्त्या दृष्टिविपत्त्या आचारविपत्त्या आजीवविपत्त्या पोषधं स्थापयति धार्मिकं पोषधस्थापनम्* । इमानि चत्वार्य् अधार्मिकाणि पोषधस्थापनानि चत्वारि धार्मिकाणि ।
पंचाधार्मिकाणि पंच धार्मिकाणि पोषधस्थापनानि । कतमानि । अमूलिकया पाराजिकया संघावशेषया पायन्तिकया प्रतिदेशनिकया दुष्कृतया पोषधं स्थापयत्य् अधार्मिकं पोषधस्थापनम्* । ( म्स्व् इइइ 110 ) समूलिकया पाराजिकया संघावशेषया पायन्तिकया प्रतिदेशनिकया दुष्कृतया पोषधं स्थापयति धार्मिकं पोषधस्थापनम्* । इमानि पंचाधार्मिकाणि पोषधस्थापनानि पंच धार्मिकाणि ।
षड् अधार्मिकाणि पोषधस्थापनानि षड् धार्मिकाणि पोषधस्थापनानि । कतमानि । अमूलकेन कृतेन अमूलकेनाकृतेन अमूलकेन कृताकृतेन । अमूलकेन कृतेन सावशेषेण अमूलके नाकृतेन सावशेषेण अमूलके न कृताकृतेन सावशेषेण पोषधं स्थापयत्य् अधार्मिकं पोषधस्थापनम्* । समूलकेन कृतेन समूलकेनाकृतेन समूलकेन कृताकृतेन । समूलकेन कृतेन सावशेषेण समूलकेनाकृतेन सावशेषेण समूलकेन कृताकृतेन सावशेषेण पोषधं स्थापयति धार्मिकं पोषधस्थापनम्* । इमानि षड् अधार्मिकाणि पोषधस्थापनानि षड् धार्मिकाणि ।
सप्ताधार्मिकाणि पोषधस्थापनानि सप्त धार्मिकाणि पोषधस्थापनानि । कतमानि । अमूलिकया शीलविपत्त्या दृष्टिविपत्त्या आचारविपत्त्या आजीवविपत्त्या अमूलकेन दृष्टेन श्रुतेन परिशंकितेन पोषधं स्थापयत्य् अधार्मिकं पोषधस्थापनम्* । समूलकिकया शीलविपत्त्या दृष्टिविपत्त्या आचारविपत्त्या आजीवविपत्त्या समूलकेन दृष्टेन श्रुतेन परिशंकितेन पोषधं स्थापयति धार्मिकं पोषधस्थापनम्* । इमानि सप्ताधार्मिकाणि सप्त धार्मिकाणि पोषधस्थापनानि ।
अष्टाव् अधार्मिकाणि अष्टौ धार्मिकाणि पोषधस्थापनानि । कतमानि । अमूलिकया पाराजिकया संघावशेषया पायन्तिकया ( म्स्व् इइइ 111 ) प्रतिदेशनिकया दुष्कृतया अमूलकेन दृष्टेन श्रुतेन परिशंकितेन पोषधं स्थापयत्य् अधार्मिकं पोषधस्थापनम्* । समूलिकया पाराजिकया संघावशेषया पायन्तिकया प्रतिदेशनिकया दुष्कृतया समूलकेन दृष्टेन श्रुतेन परिशंकितेन पोषधं स्थापयति धार्मिकं पोषधस्थापनम्* । इमानि अष्टाव् अधार्मिकाणि पोषधस्थापनानि अष्टौ धार्मिकाणि ।
नवाधार्मिकाणि नव धार्मिकाणि पोषधस्थापनानि । कतमानि । अमूलकेन कृतेन अमूलकेनाकृतेन अमूलकेन कृताकृतेन । अमूलकेन कृतेन सावशेषेण अमूलकेनाकृतेन सावशेषेण अमूलकेन कृताकृतेन सावशेषेण । अमूलकेन कृतेन निरवशेषेण अमूलकेनाकृतेन निरवशेषेण अमूलकेन कृताकृतेन निरवशेषेण पोषधं स्थापयत्य् अधार्मिकं पोषधस्थापनम्* । समूलकेन कृतेन समूलकेनाकृतेन समूलकेन कृताकृतेन । समूलकेन कृतेन सावशेषेण समूलकेनाकृतेन सावशेषेण समूलकेन कृताकृतेन सावशेषेण । समूलकेन कृतेन निरवशेषेण समूलकेनाकृतेन निरवशेषेण समूलकेन कृताकृतेन निरवशेषेण पोषधं स्थापयति ( 313र्1 = ग्ब्म् 6.938 ) धार्मिकं पोषधस्थापनम्* । इमानि नवाधार्मिकाणि पोषधस्थापनानि नव धार्मिकाणि ।
दशाधार्मिकाणि दश धार्मिकाणि पोषधस्थापनानि । कतमानि । पाराजिको न भवति । पाराजिककथा न विप्रकृता भवति । शिक्षा न प्रत्याख्याता भवति । शिक्षाप्रत्याख्यानकथा न ( म्स्व् इइइ 112 ) न विप्रकृता भवति । संघो न प्रत्याख्यातो भवति । संघप्रत्याख्यानकथा न विप्रकृता भवति । शीलविपन्नो न भवति न दृष्टिविपन्नो नाचारविपन्नो नाजीवविपन्नः ।
कथं पाराजिको न भवति । यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः पाराजिकाम् आपत्तिम् आपद्यते तं च भिक्षुः पश्यति न तैर् आकारैर् न तैर् लिङ्गैर् न तैर् निमित्तैः पाराजिकाम् आपत्तिम् आपद्यमानम्* । स चादृष्ट्वा अश्रुत्वा अपरिशंक्य पोषधं स्थापयति । अधार्मिकं पोषधस्थापनम्* । एवं पाराजिको न भवति ।
कथं पाराजिककथा न विप्रकृता भवति । यथापि तत् संबहुला भिक्षवः संनिषण्णा भवन्ति संनिपतिताः । सा च कथा न लज्जा भवति न तन्मया न विप्रकृता । ते च भिक्षवः उत्थायासनेभ्यो नाना विप्रक्रामन्ति । स चादृष्ट्वा अश्रुत्वा अपरिशंक्य च पोषधं स्थापयति । अधार्मिकं पोषधस्थापनम्* । एवं पाराजिककथा न विप्रकृता भवति ।
कथं शिक्षा न प्रत्याख्याता भवति । यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः शिक्षाप्रत्याख्यानं क्रियते तं च भिक्षुः पश्यति न तैर् आकारैर् न तैर् लिङ्गैर् न तैर् निमित्तैः शिक्षाप्रत्याख्यानं कुर्वाणम्* । स चादृष्ट्वा अश्रुत्वा अपरिशंक्य पोषधं स्थापयति । अधार्मिकं पोषधस्थापनम्* । एवं शिक्षा प्रत्याख्याता न भवति ।
कथं शिक्षाप्रत्याख्यानकथा न विप्रकृता भवति । यथापि तत् संबहुला भिक्षवः संनिषण्णा भवन्ति संनिपतिताः । सा च कथा न लज्जा भवति न तन्मया न विप्रकृता भवति । ( म्स्व् इइइ 113 ) ते च भिक्षवः उत्थायासनेभ्यो नाना विप्रक्रामन्ति । स चादृष्ट्वा अश्रुत्वा अपरिशंक्य पोषधं स्थापयति । अधार्मिकं पोषधस्थापनम्* । एवं शिक्षाप्रत्याख्यानकथा न विप्रकृता भवति ।
कथं संघो न प्रत्याख्यातो भवति । यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः संघः प्रत्याख्यायते तं च भिक्षुः पश्यति न तैर् आकारैर् न तैर् लिङ्गैर् न तैर् निमित्तैः संघप्रत्याख्यानं कुर्वन्तम्* । स चादृष्ट्वा अश्रुत्वा अपरिशंक्य पोषधं स्थापयति । अधार्मिकं पोषधस्थापनम्* । एवं संघो न प्रत्याख्यातो न भवति ।
कथं संघप्रत्याख्यानकथा न विप्रकृता भवति । यथापि तत् संबहुला भिक्षवः संनिषण्णा भवन्ति संनिपतिताः । सा च कथा न लज्जा भवति न तन्मया न विप्रकृता भवति । ते च भिक्षवः उत्थायासनेभ्यो नाना विप्रक्रामन्ति । स चादृष्ट्वा अश्रुत्वा अपरिशंक्य पोषधं स्थापयति । अधार्मिकं पोषधस्थापनम्* । एवं संघप्रत्याख्यानकथा न विप्रकृता भवति ।
कथं न शीलविपन्नो भवति । चतुर्णां पाराजिकानाम् अ न्यतमा न्यतमाम् आपत्तिम् आपन्नो भवति । तस्य च भिक्षुर् अदृष्ट्वा अश्रुत्वा अपरिशंक्य पोषधं स्थापयति । अधार्मिकं पोषधस्थापनम्* । एवं न शीलविपन्नो भवति ।
कथं न दृष्टिविपन्नो भवति । द्वाषष्टेर् दृष्टिगतानाम् अन्यतरान्यतरां दृष्टिम् अनभिनिविष्टो भवति । तस्य च भिक्षुर् अदृष्ट्वा अश्रुत्वा अपरिशंक्य पोषधं स्थापयति । अधार्मिकं पोषधस्थापनम्* । एवं न दृष्टिविपन्नो भवति ।
कथं नाचारविपन्नो भवति । आनुलोमिकैः शिक्षानुकूलैर् ( 313व्1 = ग्ब्म् 6.939 ) वचनपथैर् उच्यमानः सम्यक् प्रतिपद्यते । तस्य च भिक्षुर् अदृष्ट्वा अश्रुत्वा अपरिशंक्य पोषधं स्थापयति । अधार्मिकं पोषधस्थापनम्* । एवं नाचारविपन्नो भवति ।
कथं नाजीवविपन्नो भवति । आजीवो ऽस्य परिशुद्धो भवति । तस्य च भिक्षुर् अदृष्ट्वा अश्रुत्वा अपरिशंक्य पोषधं स्थापयति । अधार्मिकं पोषधस्थापनम्* । एवं नाजीवविपन्नो भवति ।
शुक्लपक्षे पाराजिको भवति । पाराजिककथा विप्रकृता भवति । शिक्षा प्रत्याख्याता भवति । शिक्षाप्रत्याख्यानकथा विप्रकृता भवति । संघः प्रत्याख्यातो भवति । संघप्रत्याख्यानकथा विप्रकृता भवति । शीलविपन्नो भवति दृष्टिविपन्न आचारविपन्न आजीवविपन्नः ।
कथं पाराजिको भवति । यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः पाराजिकाम् आपत्तिम् आपद्यते । तं च भिक्षुः पश्यति न तैर् आकारैस् तैर् लिङ्गैस् तैर् निमित्तैः पाराजिकाम् आपत्तिम् आपद्यमानम्* । स दृष्ट्वा श्रुत्वा परिशंक्य पोषधं स्थापयति । धार्मिकं पोषधस्थापनम्* । एवं पाराजिको न भवति ।
कथं पाराजिककथा विप्रकृता भवति । यथापि तत् संबहुला भिक्षवः संनिषण्णा भवन्ति संनिपतिताः । सा च कथा लज्जा भवति तन्मया विप्रकृता । ते च भिक्षवस् तथा संनिषण्णा ( म्स्व् इइइ 115 ) एव । स च दृष्ट्वा श्रुत्वा परिशंक्य पोषधं स्थापयति । धार्मिकं पोषधस्थापनम्* । एवं पाराजिककथा विप्रकृता भवति ।
कथं शिक्षा प्रत्याख्याता भवति । यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः शिक्षाप्रत्याख्यानं क्रियते तं च भिक्षुः पश्यति तैर् आकारैस् तैर् लिङ्गैस् तैर् निमित्तैः शिक्षाप्रत्याख्यानं कुर्वाणम्* । स च दृष्ट्वा श्रुत्वा परिशंक्य पोषधं स्थापयति । धार्मिकं पोषधस्थापनम्* । एवं शिक्षा प्रत्याख्याता भवति ।
कथं शिक्षाप्रत्याख्यानकथा विप्रकृता भवति । यथापि तत् संबहुला भिक्षवः संनिषण्णा भवन्ति संनिपतिताः । सा च कथा लज्जा भवति तन्मया विप्रकृता भवति । ते च भिक्षवस् तथा संनिषण्णा एव । स च दृष्ट्वा श्रुत्वा परिशंक्य पोषधं स्थापयति । धार्मिकं पोषधस्थापनम्* । एवं शिक्षाप्रत्याख्यानकथा विप्रकृता भवति ।
कथं संघो प्रत्याख्यातो भवति । यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः संघः प्रत्याख्यायते तं च भिक्षुः पश्यति तैर् आकारैस् तैर् लिङ्गैस् तैर् निमित्तैः संघप्रत्याख्यानं कुर्वाणम्* । स च दृष्ट्वा श्रुत्वा परिशंक्य पोषधं स्थापयति । धार्मिकं पोषधस्थापनम्* । एवं संघः प्रत्याख्यातो भवति ।
कथं संघप्रत्याख्यानकथा विप्रकृता भवति । यथापि तत् संबहुला भिक्षवः संनिषण्णा भवन्ति संनिपतिताः । सा च कथा लज्जा भवति तन्मया विप्रकृता भवति । ते च भिक्षवस् तथा सं निषण्णा एव । स च दृष्ट्वा श्रुत्वा परिशंक्य पोषधं स्थापयति । धार्मिकं पोषधस्थापनम्* । एवं संघप्रत्याख्यानकथा विप्रकृता भवति ।
कथं शीलविपन्नो भवति । चतुर्णां पाराजिकानाम् अन्यतमान्यतमाम् आपत्तिम् आपन्नो भवति । तस्य च भिक्षुर् दृष्ट्वा श्रुत्वा परिशंक्य पोषधं स्थापयति । धार्मिकं पोषधस्थापनम्* । एवं शीलविपन्नो भवति ।
कथं दृष्टिविपन्नो भवति । द्वाषष्टेर् दृष्टिगतानाम् अन्यतरान्यतरां दृष्टिम् अभिनिविष्टो भवति । तस्य च भिक्षुर् दृष्ट्वा श्रुत्वा परिशंक्य पोषधं स्थापयति । धार्मिकं पोषधस्थापनम्* । ( 314र्1 = ग्ब्म् 6.940 ) एवं दृष्टिविपन्नो भवति ।
कथम् आचारविपन्नो भवति । आनुलोमिकैः शिक्षानुकूलैर् वचनपथैर् उच्यमानो न सम्यक् प्रतिपद्यते । तस्य च भिक्षुर् दृष्ट्वा श्रुत्वा परिशंक्य पोषधं स्थापयति । धार्मिकं पोषधस्थापनम्* । एवम् आचारविपन्नो भवति ।
कथम् आजीवविपन्नो भवति । आजीवो ऽस्यापरिशुद्धो भवति । तस्य च भिक्षुर् दृष्ट्वा श्रुत्वा परिशंक्य पोषधं स्थापयति । धार्मिकं पोषधस्थापनम्* । एवम् आजीवविपन्नो भवति ।
इमानि दशाधार्मिकाणि दश धार्मिकाणि पोषधस्थापनानि । यथा पोषधस्थापनम् एवं प्रवारणास्थापनम्* ।
पंचेमे भिक्षवः संघाः । कतमे पंच । अलज्जिसंघः एड मू कसंघः गणसंघः संवृतिसंघः परमार्थसंघश् च ।
अलज्जिसंघः कतमः । यत्र सर्वे भिक्षवो दुःशीलाः पापधर्माणः । एडमूकसंघः कतमः । यत्र न सूत्रधरो न विनयधरो न मातृकाधरः । गणसंघः कतमः । यत्र गणसंबन्धेन कर्माणि ( म्स्व् इइइ 117 ) क्रियन्ते । संवृतिसंघः कतमः । सर्वे पृथग्जनकल्याणकाः । परमार्थसंघः कतमः । शैक्षाशैक्षा अष्टौ महापुरुषपुद्गलाः । तत्र ये पूर्वकास् त्रयः संघाः अलज्जि नः संघः एडमूकसंघः गणसंघश् च लभ्यम् एभिर् अधर्मेण कर्मणा कर्तुम्* । यो ऽयं संवृतिसंघो लभ्यम् अनेन धर्मसंज्ञिना अधर्मेण कर्मणा कर्तुम्* । यस् त्व् अयं परमार्थसंघो न लभ्यम् अनेनाधर्मेण कर्मणा कर्तुम्* ।
पोषधस्थापनवस्तु समाप्तम्* ॥
मूल पाठ: Poṣadhasthāpanavastu · Edition: N. Dutt: Gilgit Manuscript, vol. III: Mūlasarvāstivādavinayavastu, part 3 (Srinagar 1943), pp. 105-117: Poṣadhasthāpanavastu (second edition: Delhi 1984). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0