भाषा

ENहिગુ
ग्रंथ पाठ

पारिवासिकवस्तु · भाग 11

वस्तुत्रयस्य पिण्डोद्दानम्* ।
अभिवादनं च षष्टिश् च अशुद्धश् चोदनाहि च ।
अधार्मिकश् च शाक्यश् च ग्लानकः कलहेन च ॥
पारिवासिकवस्तु
पारिवासिकवस्तूद्दानम्* ।
अभिवादनं चंक्रमणमासनानि कुलानि च ।
एकच्छदने न संवसेन् न प्रव्राजयेद् अपि ।
न गच्छेद् अपि अभिक्षुकम् ( 309व्1 = ग्ब्म् 6.931 ) आवासम् अधोदेशञ् च सर्वलाभिकम्* ॥
बुद्धो भगवान् श्रावस्त्यां विहरति जेतवने अनाथपिण्डदस्यारामे । असति वैराग्ये भिक्षवः संघावशेषाम् आपत्तिम् आपद्यन्ते । ते विप्रतिसारजाताः संलक्षयन्ति । कथम् इदानीं वयं सापत्तिकाः सन्तः सकौकृत्याः सविलोलाः सकरणीयाः खण्डकारिणः शवलकारिणः कल्मषकारिणः आपत्तिमूलाद् अव्युत्थिताः प्रकृतिस्थकानां भिक्षूणाम् अन्तिकाद् अभिवादनवन्दनप्रत्युत्थानांजलिसामीचीकर्म स्वीकरिष्यामः । श्राद्धानां च ब्राह्मणगृहपतीनां सकाशाद् अग्रासनम् अग्रोदकम् अग्रपिण्डपातं परिभोक्ष्यामः । अल्पकालिकस्य च सुखस्यार्थाय बहुकालिकं दुःखम् आविशामो नरकतीर्यक्प्रेतेभ्यः परिभ्रमन्तः । यन् नु वयं शिक्षां प्रत्याख्याय हानायावर्तामह इति ते शिक्षां प्रत्याख्याय हानायावर्तन्ते । प्रव्रज्याभिलषितं च जनं विप्रलम्भयन्ति । भवन्तो दुश्चरं ब्रह्मचर्यम् अलं प्रव्रज्ययेति । तेषाम् अप्रव्रजिता ना म् अप्रव्राज य तां चाल्पीभूता भिक्षवः । क्षयम् ( म्स्व् इइइ 94 ) आपन्नश् छिद्रीभूतस् तनुभूतो भिक्षुसंघः । जानकाः पृच्छका बुद्धा भगवन्तः पृच्छन्ति । बुद्धो भगवान् आयुष्मन्तम् आननदम्* । क आनन्द हेतुः कः प्रत्ययः येनेतर्ह्य् अल्पीभूता भिक्षवः । क्षयम् आपन्नश् छिद्रीभूतस् तनुभूतो भिक्षुसंघ इति । स एतत् प्रकरणं भगवतो विस्तरेणारोचयति ।
अथ भगवत एतद् अभवत्* । यन्व् अहं संघावशेषाम् आपत्तिम् आपन्नानां भिक्षूणां हस्तोद्धारम् अनुप्रदद्याम् अनुग्रहम् अनेनेति विदित्वा भिक्षु संघं संनिपात्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः । निषद्य भगवान् भिक्षून् आमन्त्रयते स्म । श्रुतं मया भिक्षवः संघावशेषाम् आपत्तिम् आपन्ना विप्रतिसारजाताः शिक्षां प्रत्याख्याय हानायावृत्ता इति । तस्माद् युष्माभिः शासनस्थितये तेषां चानुकम्पया संघावशेषाम् आपत्तिम् आपन्नानां भिक्षूणां परिवासो देयो मूलापकर्षो मानाप्यं मूलमानाप्यं मूलापकर्षमानाप्यम् आवर्हितव्यश् च ।
एवं च पुनर् देयः । शयनासनप्रज्ञप्तिं कृत्वा गण्डीम् आकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे संनिषण्णे संनिपतिते अपश्चिमकेन भिक्षुणा परिवासो देयश् चतुर्वर्गमण्डलकेन । संघावशेषकेण भिक्षुणा यथावृद्धिकया सामीचीं कृत्वा वृद्धान्ते उत्कुटुकेन स्थित्वाञ्जलिं प्रगृह्य परिवासो याचितव्यः । एवं च पुनर् याचितव्यः ।
शृणोतु भदन्तः संघः । अहम् एवंनामा भिक्षुः संबहुलाः संघावशेषा आपत्तीर् आपन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थिताम् अर्धमासप्रतिच्छन्नाम्* । सो ऽहम् एवंनामा भिक्षुस् तासां संबहुलानां संघावशेषाणां आपत्तीनां संचिन्त्यशुक्रविसृष्टिसमुत्थिताम् अर्धमासप्रतिच्छन्नां संघाद् अर्धमासं परिवासं याचे । ददातु मे भदन्तः संघो ममैवंनाम्नो भिक्षोर् आसां संबहुलानां संघावशेषाणां आपत्तीनां संचिन्त्यशुक्रविसृष्टिसमुत्थितानाम् अर्धमासप्रतिच्छन्नानाम् अर्धमासं परिवासम् अनुकंपयानुकंपाम् उपादाय । एवं द्विर् अपि त्रिर् अपि । ततः पश्चाद् एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम्* ।
शृणोतु भदन्तः संघः । अयम् एवंनामा भिक्षुः संबहुलाः संघावशेषा ( 310र्1 = ग्ब्म् 6.932 ) आपत्तीर् आपन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थिताम् अर्धमासप्रतिच्छन्नाम्* । सो ऽयम् एवंनामा भिक्षुर् आसां सं बहुलानां संघावशेषाणाम् आपत्तीनां संचिन्त्यशुक्रविसृष्टिसमुत्थितानाम् अर्धमासप्रतिच्छन्नानां संघाद् अर्धमासं परिवासं याचते । सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघः एवंनाम्नोर् भिक्षोर् आसां संबहुलानां संघावशेषाणां आपत्तीनां संचिन्त्यशुक्रविसृष्टिसमुत्थितानाम् अर्धमासप्रतिच्छन्नानाम् अर्धमासं परिवासं दद्यात्* । इत्य् एषा ज्ञप्तिः । कर्म कर्तव्यम्* ।
शृणोतु भदन्तः संघः । अयम् एवंनामा भिक्षुः संबहुलाः संघावशेषा आपत्तीर् आपन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थिता अर्धमासप्रतिच्छन्नाः । सो ऽयम् एवंनामा भिक्षुर् आसां संबहुलानां संघावशेषाणाम् आपत्तीनां संचिन्त्यशुक्रविसृष्टिसमुत्थितानाम् अर्धमासप्रतिच्छन्नानां ( म्स्व् इइइ 96 ) संघाद् अर्धमासं परिवासं याचते । तत् संघः एवंनाम्नोर् भिक्षोर् आसां सं बहुलानां संघावशेषाणाम् आपत्तीनां संचिन्त्यशुक्रविसृष्टिसमुत्थितानाम् अर्धमासं परिवासं ददाति । एषाम् आयुष्मतां क्षामन्ते एवंनाम्नोर् भिक्षोर् आसां संबहुलानां संघावशेषाणाम् आपत्तीनां संचिन्त्यशुक्रविसृष्टिसमुत्थितानाम् अर्धमासप्रतिच्छन्नानाम् अर्धमासं परिवासं दातुं ते तूष्णीम्* । न क्षमन्ते भाषन्ताम्* । इयं प्रथमा कर्मवाचना वक्तव्या । दत्तः संघेन एवंनाम्नोर् भिक्षोर् आसां संबहुलानां संघावशेषाणाम् आपत्तीनां संचिन्त्यशुक्रविसृष्टिसमुत्थितानाम् अर्धमासप्रतिच्छन्नानाम् अर्धमासं परिवासः । क्षान्तम् अनुज्ञातं संघेन यस्मात् तूष्णीम् एवम् एतद् धारयामि । उक्तं भगवता । परिवासो दातव्यो मूलपरिवास इति विस्तरः ।

षड्वर्गिका भिक्षवः पारिवासिकमानाप्यचारिकाः सन्तः प्रकृतिस्थकानां भिक्षूणाम् अन्तिकाद् अभिवादनवन्दनप्रत्युत्थानांजलिसामीचीकर्म स्वीकुर्वन्ति । अल्पार्था भिक्षवो ऽवध्यायन्ति क्षिपन्ति विवाचयन्ति तद् इदं न च्छेकं न प्रतिरूपं यत्रेदानीं पारिवासिकमानाप्यचारिका भिक्षवः प्रकृतिस्थकानां भिक्षूणाम् अन्तिकाद् अभिवादनवन्दनप्रत्युत्थानांजलिसामीचीकर्म स्वीकुर्वन्ति । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । पारिवासिकमानाप्यचारिकाणाम् अहं भिक्षवो भिक्षूणाम् आसमुदाचारिकान् धर्मान् प्रज्ञपयामि । पारिवासिकमानाप्यचारिकैर् भिक्षुभिः प्रकृतिस्थकानां भिक्षूणाम् अन्तिकाद् अभिवादनवन्दन प्रत्यु त्थानांजलिसामीचीकर्म न स्वीकर्तव्यम्* । नैकासने निषत्तव्यम्* ( म्स्व् इइइ 97 ) । नापि समासने । सचेन् निषीदन्ति नीचतरम् आसनं गृहीत्वा निषत्तव्यम्* । न चंक्रमे युगपच् छंक्रमितव्यम्* । नाप्य् अग्रतः । सचेच् चंक्रमे चंक्रमन्ति पदपरिहाणिकया । न ब्राह्मणकुलानि उपसंक्रमितव्यम्* । सचेद् उपसंक्रमन्ति पश्चाच्छ्रमणन्यायेन । नैकच् छदने वस्तव्यम्* । न प्रव्राजयितव्यम्* । नोपसंपादयितव्यम्* । न निश्रयो देयः । न श्रमणोद्देशी उपस्थापयितव्यः । न कर्म कर्तव्यम्* । न कर्मकारकः संमन्तव्यः । न भिक्षुण्यो ऽववदितव्याः । न भिक्षुण्यववादकः संमन्तव्यः । न पूर्वसंमतेन भिक्षुण्यो ऽववदितव्याः । न भिक्षुश् चोदयितव्यः ( 310व्1 = ग्ब्म् 6.933 ) स्मारयितव्यः शीलविपत्त्या दृष्टिविपत्त्या आचारविपत्त्या आजीवविपत्त्या । नानेनाववादः स्थापयितव्यः । न पोषधो न प्रवारणा न ज्ञप्तिर् न ज्ञप्तिद्वितीयं न ज्ञप्तिचतुर्थं कर्म । काल्यम् एवोत्थाय द्वारं भोक्तव्यम्* । दीपस्थालक उद्वर्तव्यः । विहारः सेक्तव्यः । संमार्ष्टव्यः । सुकुमारी गोमयकार्षी अनुप्रदातव्या । प्रस्रावोच्चारकुटी धावयितव्या । मृत्तिका उपस्थापयितव्या पात्राणि पानीयं शीतलं वा कालानुरूपतः । प्रणाडिकामुखानि धावयितव्यानि । कालं ज्ञात्वासनप्रज्ञप्तिं कृत्वा धूपकटच्छूके धूपश् चोपस्थापयितवः । सचेत् प्रतिबलो भवति शास्तुर् गुणसंकीर्तनं कर्तुं स्वयम् एव कर्तव्यम्* । नोचेद् भाषणकः प्रष्टव्यः उपान्वाहारं प्रत्यवेक्ष्योपान्वाहृतं चेच् छरणपृष्ठम् अभिरुह्य गण्डीर् ( म्स्व् इइइ 98 ) दातव्या । निदाघकाले भिक्षूणां व्यजनं ग्रहीतव्यम्* । ततः सर्वोपसंपन्नानां चोपरिष्टाच् छान्तेनेर्यापथवर्तिना भिक्षुसंघम् उपस्थाप्य भोक्तव्यम्* । कृतभक्तकृत्येन शयनासनं छन्ने गोपयितव्यम्* । पात्राधिष्ठानं छोरयितव्यम्* । कालं ज्ञात्वा तथागतकेशनखस्तूपाः संमार्ष्टव्याः सुकुमारी गोमयकार्षी अनुप्रदातव्या । सामग्रीवेलायां पुनः शयनासनप्रज्ञप्तिः कर्तव्या । धूपकटच्छुके धूप उपस्थापयितव्यः । शस्तुर् गुणसंकीर्तनं पूर्ववत् कर्तव्यम्* । दिवस आरोचयितव्यः । शृणोतु भदन्तः संघः । अद्य पक्षय दशमीत्य् एवमादि यथा उपधिवारिका आरोचयन्ति । ततः परिवास आरोचयितव्यः । शृणोतु भदन्तः संघः । अहम् एवंनामा भिक्षुर् एवंरूपां चैवंरूपां च संघावशेषाम् आपत्तिम् आपन्न इयत्कालप्रतिच्छन्नाम्* । तस्य मम संघेन इयत्कालं परिवासो दत्तः । ततो मया इयच्चरितं शिष्टं चरितव्यम्* । पारिवासिकं मां भदन्तः संघो धारयतु मानाप्यचारिकं चेति ।
उक्तं भगवता । परिवास आरोचयितव्यः । इत्य् आगन्तुकानां नारोचयति । भगवान् आह । आगन्तुकानाम् आरोचयितव्यम् इति । उक्तं भगवता । आगन्तुकानाम् अप्य् आरोचयितव्यम् इति । अन्यतमश् च भिक्षुर् आगन्तुक आगतः । स यावन् न पात्रचीवरं स्थापयति तावत् पारिवासिको ऽस्य पुरतः स्थित्वा कथयति । समन्वाहर माम् आयुष्मन्न् ( म्स्व् इइइ 99 ) अहम् एवंनामा भिक्षुः संघावशेषाम् आपत्तिम् आपन्नः । पूर्ववद् यावत् पारिवासिकं माम् आयुष्मान् धरयत्व् इति ।
स तस्यान्तिके पर्यवस्थितः कथयति । अपेहि मम पुरस्तान् मोहपुरुष मा परिवासो मा त्वम् इति । स लज्जापरिगतहृदयो ऽवाङ्मुखो मन्दगतिप्रचारतया तस्य भिक्षोः सकाशात् प्रक्रान्तः । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । आगन्तुकस्य भिक्षोः पात्रचीवरे अप्रतिशामिते नारोचयितव्यम्* । अपि तु न एकैकस्यारोचयितव्यम्* । किं तु सर्वसंघे संनिषण्णे संनिपतित इति । भगवान् आह । गण्ड्याम् आकोटितायां यथा संनिहितानाम् आरोचयितव्यम्* ।
न चानेनाभिक्षुकं विहारं गन्तव्यम्* । सचेद् गच्छति न तत्र वस्तव्यम्* ।
विकाले भिक्षूणाम् उष्णेन शीताम्बुना वा यथाकालं पादाः शोचितव्याः । म्रक्षयितव्याः । न चेद् इच्छन्ति । स्नेहलाभोपसंहारः कर्तव्यः । ततः स्मृतिम् उपस्थाप्य उत्थानसंज्ञिना शय्या कल्पयितव्या ।
पारिवासिकमानाप्यचारिका ( 311र्1 = ग्ब्म् 6.934 ) भिक्षवो यथा प्रज्ञप्तान् आसमुदाचारिकान् धर्मान् न समादाय वर्तन्ते सातिसारा भवन्ति ।
तस्य विहारं नोद्दिशन्ति । लाभं नानुप्रयच्छन्ति । भगवान् आह । सर्वपश्चात् तस्य विहार उद्देष्टव्यः । सर्वपश्चाच् च लाभो देयः ।
उद्दानम्* ।
षष्टिशतं कुर्यात् पुद्गलश् चैव विंशिकात्* ।
संघे मानाप्यं चरितव्यम् आगताः प्रतिवैकारिकाः ॥
षड्वर्गिकाः पारिवासिकमानाप्यचारिकाः सन्तो भिक्षूणां परिवासं प्रददति । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । न चतुर्भिः पारिवासिकैर् भिक्षोः परिवासो दातव्यः । न त्रिभिः पारिवासिकैर् एकेन प्रकृतिस्थेन । न द्वाभ्यां पारिवासिकाभ्यां द्वाभ्यां प्रकृतिस्थकाभ्याम्* । नैकेन पारिवासिकेन न त्रिभिः प्रकृतिस्थकैः । किन् तु सर्वैः परिशुद्धैः समानदृष्टिभिर् भिक्षोः परिवासो दातव्यः ।
यथा पारिवासिकैर् एवं मूलपारिवासिकैर् मानाप्यचारिकैश् चरितमानाप्यैः ।
यथा परिवासम् एवं मूलपरिवासं मूलापकर्षं मानाप्यं मूलमानाप्यं मूलापकर्षमानाप्यं च ।
षड्वर्गिका भिक्षवः पारिवासिकमानाप्यचारिकाः सन्तो भिक्षून् आवर्हन्ति । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । न विंशत्या पारिवासिकैर् भिक्षुर् आवर्हितव्यः । न एकोनविंशत्या पारिवासिकैर् एकेन प्रकृतिस्थकेन । नाष्टादशभिः पारिवासिकैर् द्वाभ्यां प्रकृतिस्थकाभ्याम् एवं यावन् न एकोनविंशत्या प्रकृतिस्थकैर् एकेन पारिवासिकेन ।
यथा पारिवासिकैर् एवं पर्युषितपरिवासैर् मानाप्यैश् चारितमानाप्यैः शिक्षादत्तकैश् च ।
षड्वर्गिका भिक्षवः पारिवासिकमानाप्यचारिकाः सन्तः पारिवासिकानां भिक्षूणाम् अन्तिके परिवासं चरन्ति । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । न भिक्षुणा चतुर्णां पारिवासिकानाम् अन्तिकात् परिवासश् चरितव्यः । न त्रयाणां पारिवासिकानाम् एकस्य प्रकृतिस्थकस्य । न द्वयोः पारिवासिकयोर् द्वयोः प्रकृतिस्थ क योः । न त्रयाणां प्रकृतिस्थकानाम् एकस्य पारिवासिकस्य । अपि तु सर्वेषां परिशुद्धानां समानदृष्टिकानाम् अन्तिकात् परिवासश् चरितव्यः ।

यथा पारिवासिकानाम् एवं पर्युषितपारिवासिकानां मानाप्यचारिकाणां चारितमानाप्यानां शिक्षादत्तकानां च ।
यथा परिवासम् एवं मूलपरिवासं मूलापकर्षं मानाप्यं मूलमानाप्यं मूलापकर्षमानाप्यं चरन्ति ।
षड्वर्गिका भिक्षवः पारिवासिकमानाप्यचारिकाः सन्तः शून्यविहारं गत्वा परिवासं चरन्ति । ते भिक्षुभिर् दृष्टा उक्ताश् च । आयुष्मन्तः किम् एष विहारो युष्माभिर् आवासितः । ते कथयन्ति । नायम् अस्माभिर् आवासितः । किं तु परिवासं चराम इति । ते कथयन्ति । यूयं परिवासं चरथा । किं तर्हि प्रच्छाद्यन्ति । तैर् अभ्याहतास् तूष्णीम् अवस्थिताः । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । न भिक्षवः शून्यागारे परिवासश् चरितव्यो नापि यत्रैको भिक्षुर् द्वौ त्रयो वा । अपि तु यत्र ( म्स्व् इइइ 102 ) चत्वारो भिक्षवः परिशुद्धाः समानदृष्टयः प्रतिवसन्ति तत्र परिवासश् चरितव्यः ।
यथा परिवास एवं मूलपरिवासो मूलापकर्षो मानाप्यं मूलमानाप्यं मूलापकर्षमानाप्यं च ।
अथायुष्मान् उपाली बुद्धं भगवन्तं पृच्छति । यथापि तद् भदन्त पारिवासिकमानाप्यचारिकैः श्रुतं भिक्षव आगच्छन्ति कलहकारका भण्डनकारका विग्रहकारका विवादकारका आधिकरणिकाः । ते ऽस्मांश् चोदयिष्यन्ति अलज्जितेन वा वैतरिकेण वा इति । तैस् तेषां कथं प्रतिपत्तव्यम् इति । भगवान् आह । पारिवासिकमानाप्यचारिकैर् उपालिन् भिक्षुभिः कलहकारका भिक्षव आगच्छन्तीति श्रुत्वा स परिवासो भिक्षोः पुरस्तात् प्रतिनिस्रष्टव्यः । एवं च पुनः प्रतिनिस्रष्टव्यः । समीचीं कृत्वा उत्कुटुकेन स्थित्वाञ्जलिं प्रगृह्य इदं स्याद् वचनीयम्* । समन्वाहरायुष्मन्न् अहम् एवंनामा एवंरूपां चैवंरूपां च संघावशेषाम् आपत्तिम् आपन्नः इयच्चिरकालप्रतिच्छन्नाम्* । तस्य मम संघेन इयन्तं कालं परिवासो दत्तः । तेन मया पारिवासिकेन सता श्रुतं भिक्षव आगच्छन्ति कलहकारका भण्डनकारका विग्रहकारका विवादकारका आधिकरणिकास् ते मां चोदयिष्यन्ति स्मारयिष्यन्ति अलज्जितेन वा वैतरिकेण वा । सो ऽहम् एवंनामा पारिवासिको भिक्षुस् तं परिवासम् आयुष्मतः पुरस्तात् प्रतिनिसृजामि । इयत्कालं मे चरितम् इयत्कालं तु चरितव्यम्* । प्रकृतिस्थकं ( म्स्व् इइइ 103 ) मामायुष्मन् धारयत्व् इति । ततः पुनर् अपि गतवेगैर् हतवेगैर् गतप्रत्यर्थिकैस् तथैव प्रकृतिस्थकस्य भिक्षोः पुरस्तात् परिवासः समादातव्यः । एवम् च पुनः समादातव्यः । समीचीं कृत्वा उत्कुटुकेन स्थित्वाञ्जलिं प्रगृह्य इदं स्याद् वचनीयम्* । समन्वाहरायुष्मन्न् अहम् एवंनामा भिक्षुर् एवंरूपां चैवंरूपां च संघावशेषाम् आपत्तिम् आपन्नः इयच्चिरकालप्रतिच्छन्नाम्* । तस्य मम संघेन इयन्तं कालं परिवासो दत्तः । तेन मया पारिवासिकेन श्रुतं भिक्षव आगच्छन्ति कलहकारका भण्डनकारका विग्रहकारका विवादकारका आधिकरणिकास् ते मां चोदयिष्यन्ति स्मारयिष्यन्ति अलज्जितेन वा वैतरिकेणेति । तन् मया पारिवासिकवृत्तं भिक्षोः पुरस्तात् प्रतिनिसृष्टम्* । सो ऽहम् एवंनामा भिक्षुस् तं परिवासम् आयुष्मतः पुरस्तात् समाददे । इयत्कालं मे चरितम् इयत्कालं मे कर्तव्यं भविष्यति । पारिवासिकं मामायुष्मन् धारयतु ।
यथा परिवास एवं मूलपरिवासो मूलापकर्षो मानाप्यं च ।
पारिवासिकवस्तु समाप्तम्* ॥

मूल पाठ: Pārivāsikavastu · Edition: N. Dutt: Gilgit Manuscript, vol. III: Mūlasarvāstivādavinayavastu, part 3 (Srinagar 1943), pp. 89-103: Pārivāsikavastu (second edition: Delhi 1984). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc