भाषा

ENहिગુ
ग्रंथ पाठ

परशुरामस्तोत्रम् · अध्याय 1

1

कराभ्यां परशुं चापं दधानं रेणुकात्मजं।
जामदग्न्यं भजे रामं भार्गवं क्षत्रियान्तकं

2

नमामि भार्गवं रामं रेणुका चित्तनन्दनं।
मोचितंबार्तिमुत्पातनाशनं क्षत्रनाशनम्

3

भयार्तस्वजनत्राणतत्परं धर्मतत्परम्।
गतगर्वप्रियं शूरं जमदग्निसुतं मतम्

4

वशीकृतमहादेवं दृप्त भूप कुलान्तकम्।
तेजस्विनं कार्तवीर्यनाशनं भवनाशनम्

5

परशुं दक्षिणे हस्ते वामे च दधतं धनुः ।
रम्यं भृगुकुलोत्तंसं घनश्यामं मनोहरम्

6

शुद्धं बुद्धं महाप्रज्ञापण्डितं रणपण्डितं।
रामं श्रीदत्तकरुणाभाजनं विप्ररंजनम्

7

मार्गणाशोषिताभ्ध्यंशं पावनं चिरजीवनम्।
य एतानि जपेन्द्रामनामानि स कृति भवेत्

इति श्री प. प. श्री वासुदेवानंदसरस्वतीविरचितं श्री परशुराम स्तोत्रं संपूर्णम्॥

मूल पाठ: paraśurāmastotram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc