पाणिनीयशिक्षा · अध्याय p2
शङ्करः शाङ्करीं प्रादाद्दाक्षीपुत्राय धीमते ।
वाङ्मयेभ्यः समाहृत्य देवीं वाचमिति स्थितिः
येनाक्षरसमाम्नायमधिगम्य महेश्वरात् ।
कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः
येन धौता गिरः पुंसां विमर्लः शब्दवारिभिः ।
तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः
अज्ञानान्धस्य लोकस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै पाणिनये नमः
त्रिनयनमभिमुखनिःसृतामिमां य इह पठेत्प्रयतस्सदा द्विजः ।
स भवति धनधान्यपशुपुत्रकीर्तिमान् सुखमतुलं च समश्नुते दिवीति दिवीति
अथ शिक्षामात्मोदात्तश्च हकारं स्वराणां यथा ।
गीत्यचोस्पृष्टोदात्तं चाषस्तु शङ्कर एकादश
मूल पाठ: pāṇinīyaśikṣā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0