भाषा

ENहिગુ
ग्रंथ पाठ

पाणिनीयशिक्षा · अध्याय p1

p1.38

अचोऽस्पृष्टा यणस्त्वीषन्नेमस्पृषष्टाः शलः स्मृताः ।
शेषाः स्पृष्टा हलः प्रोक्ता निबोधानुप्रदानतः

p1.39

अमोनुनासिका नह्रौ नादिनो हझषः स्मृताः ।
ईषन्नादा यमो ङश्च श्वासिनस्तु खफादयः

p1.40

ईषच्छ्वासांश्चरो विद्याद्गोर्धामैतत्प्रचक्षते ।
दाक्षीपुत्रः पाणिनिना येनेदं व्यापितं भुवि

p1.41

छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते ।
ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते

p1.42

शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् ।
तस्मात्साङ्गमधीत्येव ब्रह्मलोके महीयते

मूल पाठ: pāṇinīyaśikṣā · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc