भाषा

ENहिગુ
ग्रंथ पाठ

पञ्चदशी · अध्याय p12

p12.1

महावाक्यविवेकोनाम - पञ्चमः परिच्छेदः ।
येनेक्षते शृणोतीदं जिघ्रति व्याकरोति च ।
स्वाद्वस्वादू विजानाति तत्प्रज्ञानमुदीरितम्

p12.2

चतुर्मुखेन्द्रदेवेषु मनुष्याश्वश्वगवादिषु ।
चैतन्यमेकं ब्रह्मातः प्रज्ञानं ब्रह्ममय्यपि

p12.3

परिपूर्णः परात्मास्मिन्देहे विद्याधिकारिणि ।
बुद्धेः साक्षितया स्थित्वा स्फुरन्नहमितीर्यते

p12.4

स्वतः पूर्णः परात्मात्र ब्रह्मशब्देन वर्णितः ।
अस्मीत्यैक्यपरामर्शस्तेन ब्रह्म भवाम्यहम्

p12.5

एकमेवाद्वितीयं सन्नामरूपविवर्जितम् ।
सृष्टेः पुराधुनाप्यस्य तादृक्त्वं तदितीर्यते

p12.6

श्रोतुर्देहेन्द्रियातीतं वस्त्वत्र त्वं पदेरितम् ।
एकता गृह्यतेऽसीति तदैक्यमनुभूयताम्

p12.7

स्वप्रकाशापरोक्षत्वमयमित्युक्तितो मतम् ।
अहङ्कारादिदेहान्तात्प्रत्यगात्मेति गीयते

p12.8

दृश्यमानस्य सर्वस्य जगतस्तत्त्वमीर्यते ।
ब्रह्मशब्देन तद्ब्रह्म स्वप्रकाशात्मरूपकम्

p12.5

इति महावाक्यविवेकोनाम पञ्चमः परिच्छेदः

मूल पाठ: pañcadaśī · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc