भाषा

ENहिગુ
ग्रंथ पाठ

पञ्चतन्त्र · अध्याय 5

5.1

इति श्री-विष्णु-शर्म-विरचिते पञ्चतन्त्रे लब्ध-प्रणाशं नाम
चतुर्थं तन्त्रं समाप्तम्
॥4॥
पञ्चमं तन्त्रम्
अपरीक्षित-कारकम्
क्षपणक-कथा
अथेदम् आरभ्यतेऽपरीक्षित-कारकं नाम पञ्चमं तन्त्रम् । तस्यायम् आदिमः श्लोकः-
कुदृष्टं कुपरिज्ञातं कुश्रुतं कुपरीक्षितम् ।
तन् नरेण न कर्तव्यं नापितेनात्र यत् कृतम्

5.2

तद् यथानुश्रूयते-अस्ति दाक्षिणात्ये जनपदे पाटलिपुत्रं नाम नगरम् । तत्र मणिभद्रो नाम श्रेष्ठी प्रतिवसति स्म । तस्य च धर्मार्थ-काम-मोक्ष-कर्माणि कुर्वतो विधि-वशाद् धन-क्षयः सञ्जातः । ततो विभव-क्षयाद् अपमान-परम्परया परं विषादं गतः । अथान्यदा रात्रौ सुप्तिश् चिन्तितवान्-अहो धिग् इयं दरिद्रता । उक्तं च-
शीलं शौचं क्षान्तिर् दाक्षिण्यं मधुरता कुले जन्म ।
न विराजन्ति हि सर्वे वित्त-विहीनस्य पुसुषस्य

5.3

मानो वा दर्पो वा विज्ञानं विभ्रमः सुबुद्धिर् वा ।
सर्वं प्रणश्यति समं वित्त-विहीनो यदा पुरुषः

5.4

प्रतिदिवसं याति लयं वसन्त-वाताहतेव शिशिर-श्रीः ।
बुद्धिर् बुद्धिमताम् अपि कुटुम्ब-भर-चिन्तया सततम्

5.5

नश्यति विपुलमतेर् अपि बुद्धिः पुरुषस्य मन्द-विभवस्य ।
घृत-लवण-तैल-तण्डुल-वस्त्रेन्धन-चिन्तया सततम्

5.6

गणनम् इव नष्ट-तारकं
सुष्कम् इव सरः श्मशानम् इव रौद्रम् ।
प्रिय-दर्शनम् अपि रूक्षं
भवति गृहं धन-विहीनस्य

5.7

न विभाव्यन्ते लघवो वित्त-विहीनाः पुरो ऽपि निवसन्तः ।
सततं जात-विनष्टाः पयसाम् इव बुद्बुदाः पयसि

5.8

सुकुलं कुशलं सुजनं विहाय कुल-कुशल-शील-विकलेऽपि ।
आढ्ये कल्प-तराव् इव नित्यं रज्यन्ति जन-निवहाः

5.9

विफलम् इह पूर्व-सुकृतं विद्यावन्तो ऽपि कुल-समुद्भूताः ।
यस्य यदा विभवः स्यात् तस्य तदा दासतां यान्ति

5.10

लघुर् अयम् आह न लोकः कामं गर्जन्तम् अपि पतिं पयसाम् ।
सर्वम् अलज्जाकरम् इह यद् यत् कुर्वन्ति परिपूर्णाः

5.11

एवं सम्प्रधार्य भूयो ऽप्य् अचिन्तयत्-तद् अहम् अनशनं कृत्वा प्राणान् उत्सृजामि । किम् अनेन व्यर्थ-जीवित-व्यसनेन ? एवं निश्चयं कृत्वा सुप्तः । अथ तस्य स्वप्ने पद्मनिधिः क्षपणक-रूपो दर्शनं दत्त्वा प्रोवाच-भोः श्रेष्ठिन् ! मा त्वं वैराग्यं गच्छ । अहं पद्मनिधिस् तव पूर्व-पुरुषोपार्जितः । तद् अनेनैव रूपेण प्रातस् त्वद्-गृहम् आगमिष्यामि । तत् त्वयाहं लगुड-प्रहारेण शिरसि ताडनीयः, येन कनक-मयो भूत्वाक्षयो भवामि ।
अथ प्रातः प्रबुद्धः सन् स्वप्नं स्मरंश् चिन्ता-चक्रम् आरूढस् तिष्ठति-अहो सत्यो ऽयं स्वप्नः किं वा असत्यो भविष्यति, न ज्ञायते । अथवा नूनं मिथ्यानेन भाव्यम् । यतो ऽहम् अहर्-निशं केवलं वित्तम् एव चिन्तयामि । उक्तं च-
व्याधितेन स-शोकेन चिन्ता-ग्रस्तेन जन्तुना ।
कामार्तेनाथ मत्तेन दृष्टः स्वप्नो निरर्थकः

5.12

एतस्मिन्न् अन्तरे तस्य भार्यया कश्चिन् नापितः पाद-प्रक्षालनायाहूतः अत्रान्तरे च यथा-निर्दिष्टः क्षपणकः सहसा प्रादुर्बभूव । अथ स तम् आलोक्य प्रहृष्ट-मना यथासन्न-काष्ठ-दण्डेन तं शिरस्य् अताडयत् । सो ऽपि सुवर्ण-मयो भूत्वा तत्-क्षणात् भूमौ निपतितः । अथ तं स श्रेष्ठी निभृतं स्व-गृह-मध्ये कृत्वा नापितं सन्तोष्य प्रोवाच-तद् एतद् धनं वस्त्राणि च मया दत्तानि गृहाण । भद्र ! पुनः कस्यचिन् नाख्येयो ऽयं वृत्तान्तः ।
नापितो ऽपि स्व-गृहं गत्वा व्यचिन्तयत्-नूनम् एते सर्वेऽपि नग्नकाः शिरसि ताडिताः काञ्चन-मया भवन्ति । तद् अहम् अपि प्रातः प्रभूतान् आहूय लगुडैः शिरसि हन्मि, येन प्रभूतं हाटकं मे भवति । एवं चिन्तयतो महता कष्टेन निशातिचक्राम ।
अथ प्रभातेऽभ्युत्थाय बृहल् लगुडम् एकं प्रगुणीकृत्य, क्षपणक-विहारं गत्वा जिनेन्द्रस्य प्रदक्षिण-त्रयं विधाय, जानुभ्याम् अवनिं गत्वा वक्त्र-द्वार-न्यस्तोत्तरीयाञ्चलस् तार-स्वरेणेमं श्लोकम् अपठत्-
जयन्ति ते जिना येषां केवल-ज्ञान-शालिनाम् ।
आ जन्मनः स्मरोत्पत्तौ मानसेनोषरायितम्

5.13

अन्यच् च-
सा जिह्वा या जिनं स्तौति तच्-चित्तं यज् जिने रतम् ।
तौ एव तु करौ श्लाघ्यौ यौ तत्-पूजा-करौ करौ

5.14

तथा च-
ध्यान-व्याजम् उपेत्य चिन्तयसि काम् उन्मील्य चक्षुः क्षणं
पश्यानङ्ग-शरातुरं जनम् इमं त्रातापि नो रक्षसि ।
मिथ्या-कारुणिको ऽसि निर्घृणतरस् त्वत्तः कुतो ऽन्यः पुमान्
सेर्ष्यं मार-वधूभिर् इत्य् अभिहितो बौद्धो जिनः पातु वः

5.15

एवं संस्तूय, ततः प्रधान-क्षपणकणम् आसाद्य क्षिति-निहित-जानु-चरणः-नमो ऽस्तु वन्दे इत्य् उच्चार्य, लब्ध-धर्म-वृद्ध्य्-आशीर्वादः सुख-मालिकानुग्रह-लब्ध-व्रतादेश उत्तरीय-निबद्ध-ग्रन्थिः सप्रश्रयम् इदम् आह-भगवन् अद्य विहरण-क्रिया समस्त-मुनि-समेतेनास्मद्-गृहे कर्तव्या ।
तच् छ्रुत्वा नापित आह-भगवन् ! वेद्म्य् अहं युष्मद्-धर्मम् । परं भवतो बहु-श्रावका आह्वयन्ति । साम्प्रतं पुनः पुस्तकाच्छादन-योग्यानि कर्पटानि बहु-मूल्यानि प्रगुणीकृतानि । तथा पुस्तकानां लेखनार्थं लेखकानां च वित्तं सञ्चितम् आस्ते तत् सर्वथा कालोचितं कार्यम् ।
ततो नापितो ऽपि स्व-गृहं गतः । तत्र च गत्वा खदिर-मयं लगुडं सज्जीकृत्य कपाट-युगलं द्वारि समाधाय सार्ध-प्रहरैक-समये भूयो ऽपि विहार-द्वारम् आश्रित्य सर्वान् भक्ति-युक्तान् अपि परिचित-श्रावकान् परित्यज्य प्रहृष्ट-मनसस् तस्य पृष्ठतो ययुः । अथवा साध्व् इदम् उच्यते-
एकाकी गृह-सन्त्यक्तः पाणि-पात्रो दिगम्बरः ।
सो ऽपि सम्बाध्यते लोके तृष्णया पश्य कौतुकम्

5.16

जीर्यन्ते जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः ।
चक्षुः श्रोत्रे च जीर्येते तृष्णैका तरुणायते
ततः परं गृह-मध्ये तान् प्रवेश्य द्वारं निभृतं पिधाय, लगुड-प्रहारैः शिरस्य् अताडयत् । तेऽपि ताड्यमाना एके मृताः, अन्ये भिन्न-मस्तका फूत्कर्तुम् उपचक्रमिरे । अत्रान्तरे तम् आक्रन्दम् आकर्ण्य कोटर-क्षपालेनाभिहितम्-भो भोः किम् अयं कोलाहलो नगर-मध्ये ? तद् गम्यताम् ।
ते स सर्वे तदादेशकारिणस् तत्-सहिता वेगात् तद्-गृहं गता यावत् पश्यन्ति तावद् रुधिर-प्लावित-देहाः पलायमाना नग्नका दृष्टाः पृष्टाश् च-भोः किम् एतत् ? ते प्रोचुर् यथावस्थितं नापित-वृत्तम् ।
तैर् अपि स नापितो बद्धो हत-शेषैः सह धर्माधिष्ठानं नीतः । तैर् नापितः पृष्टः-भोः ! किम् एतत् भवता कुकृत्यम् अनुष्ठितम् ?
स आह-किं करोमि ? मया श्रेष्ठि-मणिभद्र-गृहे दृष्ट एवंविधो व्यतिकरः । सो ऽपि सर्वं मणिप्रभ-वृत्तान्तं यथा-दृष्टम् अकथयत् ।
ततः श्रेष्ठिनम् आहूय ते भणितवन्तः-भोः श्रेष्ठिन् ! किं त्वया कश्चित् क्षपणको व्यापादितः ?
ततः तेनापि सर्वः क्षपणक-वृत्तान्तस् तेषां निवेदितः । अथ तैर् अभिहितम्-अहो शूलम् आरोप्यताम् असौ दुष्टात्मा कुपरिक्षितकारी नापितः । तथानुष्ठिते तैर् अभिहितम्-
कुक्कुटं कुपरिज्ञातं कुश्रुतं कुपरीक्षितम् ।
तन् नरेण न कर्तव्यं नापितेनात्र यत् कृतम्

5.17

अथवा साध्व् इदम् उच्यते-
अपरीक्ष्य न कर्तव्यं कर्तव्यं सुपरीक्षितम् ।
पश्चाद् भवति सन्तापो ब्राह्मणी नकुलं यथा

5.18

मणिभद्र आह-कथम् एतत् ?
ते धर्माधिकारिणः प्रोचुः-
कथा 1
ब्राह्मणी-नकुल-कथा
कस्मिंश्चिद् अधिष्ठाने देवशर्मा नाम ब्राह्मणः प्रतिवसति स्म । तस्य भार्या प्रसूता सुतम् अजनयत् । तस्मिन्न् एव दिने नकुली नकुलं प्रसूय सृता । अथ सा सुत-वत्सला दारकवत्तम् अपि नकुलं स्तन्य-दानाभ्यङ्ग-मर्दनादिभिः पुपोष, परं तस्य न विश्वसिति । अपत्य-स्नेहस्य सर्व-स्नेहातिरिक्ततया सततम् एवम् आशङ्कते यत् कदाचिद् एष स्व-जाति-दोष-वशाद् अस्य दारकस्य विरुद्धम् आचरिष्यति इति । उक्तं च-
कुपुत्रो ऽपि भवेत् पुंसां हृदयानन्द-कारकः ।
दुर्विनीतः कुरूपो ऽपि मूर्खो ऽपि व्यसनी खलः

5.19

एवं च भाषते लोकश् चन्दनं किल शीतलम् ।
पुत्र-गात्रस्य संस्पर्शश् चन्दनाद् अतिरिच्यते

5.20

सौहृदस्य न वाञ्छन्ति जनकस्य हितस्य च ।
लोकाः प्रपालकस्यापि यथा पुत्रस्य बन्धनम्

5.21

अथ सा कदाचिच् छय्यायां पुत्रं शाययित्वा जल-कुम्भम् आदाय पतिम् उवाच-ब्राह्मण, जलार्थम् अहं तडागे यास्यामि । त्वया पुत्रो ऽयं नकुलाद् रक्षणीयः ।
अथ तस्यां गतायां, पृष्ठे ब्राह्मणो ऽपि शून्यं गृहं मुक्त्वा भिक्षार्थं क्वचिन् निर्गतः । मातापि तं रुधिर-क्लिन्न-मुखम् आलोक्य शङ्कित-चित्ता नूनम् अनेन दुरात्मना दारको भक्षितः इति निश्चिन्त्य कोपात् तस्योपरि तं जल-कुम्भं चिक्षेप ।
एवं सा नकुलं व्यापाद्य यावत् प्रलपन्ती गृहे आगच्छति, तावत् सुतस् तथैव सुप्तस् तिष्ठति । समीपे कृष्ण-सर्पं खण्डशः कृतम् अवलोक्य पुत्र-वध-शोकेनात्म-शिरो वक्षः-स्थलं च ताडितुम् आरब्धा ।
अत्रान्तरे ब्राह्मणो गृहीत-निर्वापः समायातो यावत् पश्यति तावत् पुत्र-शोको ऽभितप्ता ब्राह्मणी प्रलपति-भो भो लोभात्मन् ! लोभाभिभूतेन त्वया न कृतं मद्-वचः । तद् अनुभव साम्प्रतं पुत्र-मृत्यु-दुःख-वृक्ष-फलम् । अथवा साध्व् इदम् उच्यते-
अतिलोभो न कर्तव्यः कर्तव्यस् तु प्रमाणतः ।
अतिलोभज-दोषेण जम्बुको निधनं गतः

5.22

ब्राह्मण आह-किम् एतत् ?
सा प्राह-
कथा 2
लोभाविष्ट-चक्र-धर-कथा
कस्मिंश्चिद् अधिष्ठाने चत्वारो ब्राह्मण-पुत्राः परस्परं मित्रतां गता वसन्ति स्म । ते चापि दारिद्र्योपहताः परस्परं मन्त्रं चक्रुः-अहो धिग् इयं दरिद्रता ! उक्तं च-
वरं वनं व्याघ्र-गजादि-सेवितं
जनेन हीनं बहु-कण्टकावृतम् ।
तृणानि शय्या परिधान-वल्कलः
न बन्धु-मध्ये धन-हीन-जीवितम्

5.23

तथा च-
स्वामी द्वेष्टि सुसेवितो ऽपि सहसा प्रोज्झन्ति सद्-बान्धवाः
राजन्ते न गुणास् त्यजन्ति तनुजाः स्फारीभवन्त्य् आपदः ।
भार्या साधु सुवंशजापि भजते नो यान्ति मित्राणि च
न्यायारोपित-विक्रमाण्य् अपि नृणां येषां न हि स्याद् धनम्

5.24

शूरः सुरूपः सुभगश् च वाग्मी
शस्त्राणि शास्त्राणि विदांकरोतु ।
अर्थं विना नैव यशश् च मानं
प्राप्नोति मर्त्यो ऽत्र मनुष्य-लोके

5.25

तानीन्द्रियाण्य् अविकलानि तद् एव नाम
सा बुद्धिर् अप्रतिहता वचनं तद् एव ।
अर्थोष्मणा विरहितः पुरुषः स एव
बाह्यः क्षणेन भवतीति विचित्रम् एतत्

5.26

तद् गच्छामः कुत्रचिद् अर्थाय इति सम्मन्त्र्य स्व-देशं पुरं च स्व-सुहृत्-सहितं गृहं च परित्यज्य प्रस्थिताः । अथवा साध्व् इदम् उच्यते-
सत्यं परित्यजति मुञ्चति बन्धु-वर्गं
शीघ्रं विहाय जननीम् अपि जन्म-भूमिम् ।
सन्त्यज्य गच्छति विदेशम् अभीष्ट-लोकं
चिन्ताकुलीकृत-मतिः पुरुषो ऽत्र लोके

5.27

एवं क्रमेण गच्छन्तो ऽवन्तीं प्राप्ताः । तत्र सिप्राजले कृत-स्नानाः महा-कालं प्रणम्य यावन् निर्गच्छन्ति तावत् भैरवानन्दो नाम योगी संमुखो बभूव । ततस् तं ब्राह्मणोचित-विधिना सम्भाव्य तेनैव सह तस्य मठं जग्मुः । अथ तेन पृष्टाः-कुतो भवन्तः समायाताः ? क्व यास्यथ ? किं प्रयोजनम् ?
ततस् तैर् अभिहितम्-वयं सिद्धि-यात्रिकाः । तत्र यास्यामो यत्र धनाप्तिर् मृत्युर् वा भविष्यतीत्य् एष निश्चयः । उक्तं च-
दुष्प्राप्याणि बहूनि च लभ्यन्ते वाञ्छितानि द्रविणानि ।
अवसर-तुलिताभिर् अलं तनुभिः साहसिक-पुरुषाणाम्

5.28

तथा च-
पतति कदाचिन् नभसः खाते पातालतो ऽपि जलम् एति ।
दैवम् अचिन्त्यं बलवद् बलवान् ननु पुरुषकारो ऽपि

5.29

अभिमत-सिद्धिर् अशेषा भवति हि पुरुषस्य पुरुषकारेण ।
दैवम् इति यदपि कथयसि पुरुष-गुणः सो ऽप्य् अदृष्टाख्यः

5.30

भयम् अतुलं गुरु-लोकात् तृणम् इव तुलयन्ति साधु साहसिकाः ।
प्राणान् अद्भुतम् एतच् चार्तिं चरितं ह्य् उदाराणाम्

5.31

क्लेशस्याङ्गम् अदत्त्वा सुखम् एव सुखानि नेह लभ्यन्ते ।
मधुभिन् मथनायस् तैर् आश्लिष्यति बाहुभिर् लक्ष्मीम्

5.32

तस्य कथं न चला स्यात् पत्नी विष्णोर् नृसिंहकस्यापि
मासांश् चतुरो निद्रां यः सेवति जल-गतः सततम्

5.33

दुरधिगमः पर-भागो यावत् पुरुषेण साहसं न कृतम् ।
जयति तुलाम् अधिरूढो भास्वान् इह जलद-पटलानि

5.34

तत् कथ्यताम् अस्माकं कश्चित् धनोपायो विवर-प्रवेश-शाकिनी-साधन-श्मशान-सेवन-महा-मांस-विक्रय-साधक-वर्जित-प्रभृतीनाम् एकतम इति । अद्भुत-शक्तिर् भवान् श्रूयते । वयम् अप्य् अतिसाहसिकाः । उक्तं च-
महान्त एव महताम् अर्थं साधयितुं क्षमाः ।
ऋते समुद्राद् अन्यः को बिभर्ति बडवानलम्

5.35

भैरवानन्दो ऽपि तेषां सिद्ध्य्-अर्थं बहूपायं सिद्ध-वर्ति-चतुष्टयं कृत्वार्पयत् । आह च-गम्यतां हिमालय-दिशि । तत्र सम्प्राप्तानां यत्र वर्तिः पतिष्यति, तत्र निधानम् असन्दिग्धं प्राप्यस्व । तत्र स्थानं खनित्वा निधिं गृहीत्वा व्याघुट्यताम् ।
तथानुष्ठिते तेषां गच्छताम् एकतमस्य हस्ताद् वरित्र् निपपात । अथासौ यावत् तं प्रवेशं खनति तावत् ताम्रमयी भूमिः । ततस् तेनाभिहितम्-अहो, गृह्यतां स्वेच्छया ताम्रम् ।
अन्ये प्रोचुः-भो मूढ ! किम् अनेन क्रियते यत् प्रभूतम् अपि दारिद्र्यं न नाशयति । तद् उत्तिष्ठ अग्रतो गच्छामः ।
सो ऽब्रवीत्-यान्तु भवन्तः । नाहम् अग्र यास्यामि । एवम् अभिधाय ताम्रं यथेच्छया गृहीत्वा प्रथमो निवृत्तः ।
ते त्रयो ऽपि अग्रे प्रस्थिताः । अथ किञ्चिन्-मात्रं गतस्याग्रेसरस्य वर्तिर् निपपात । सो ऽपि यावत् खनितुम् आरब्धस् तावद् रूप्य-मयी क्षितिः । ततः प्रहर्षितः प्राह, यत्-भो भो, गृह्यतां यथेच्छया रूप्यम् । नाग्रे गन्तव्यम् ।
ताव् ऊचतुः-भोः पृष्ठतस् ताम्रमयी भूमिः । अग्रतो रूप्य-मयी । तन् नूनम् अग्रे सुवर्ण-मयी भविष्यति । किं चानेन प्रभूतेनापि दारिद्र्य-नाशो न भवति । तद् आवाम् अग्रे यास्यावः ।
एवम् उक्त्वा द्वाव् अप्य् अग्रे प्रस्थितौ । सो ऽपि स्व-शक्त्या रूप्यम् आदाय निवृत्तः । अथ तयोर् अपि गच्छतोर् एकस्याग्रे वर्तिः पपात । सो ऽपि प्रहृष्टो यावत् खनति, तावत् सुवर्ण-भूमिं दृष्ट्वा द्वितीयं प्राह-भो, गृह्यतां स्वेच्छया सुवर्णम् । सुवर्णाद् अन्यन् न किञ्चिद् उत्तमं भविष्यति ।
स प्राह-मूढ ! न किञ्चिद् वेत्सि । प्राक् ताम्रं, ततो रूप्यं, ततः सुवर्णम् । तन् नूनम् अतः परं रत्नानि भविष्यन्ति । येषाम् एकतमेनापि दारिद्र्य-नाशो भवति । तद् उत्तिष्ठ, अग्रे गच्छावः । किम् अनेन भार-भूतेनापि प्रभूतेन ?
स आह-गच्छतु भवान् । अहम् अत्र स्थितस् त्वां प्रतिपालयिष्यामि । तथानुष्ठिते सो ऽपि गच्छन्न् एकाकी, ग्रीष्मार्क-प्रताप-सन्तप्त-तनुः पिपासाकुलितः सिद्धि-मार्ग-च्युत इतश् चेतश् च बभ्राम ।
अथ भ्राम्यन्, स्थलोपरि पुरुषम् एकं रुधिर-प्लावित-गात्रं भ्रमच्-चक्र-मस्तकम् अपश्यत् । ततो द्रुततरं गत्वा तम् अवोचत्-भोः ! को भवान् ? किम् एवं चक्रेण शिरसि तिष्ठसि ? तत् कथय मे यदि कुत्रचिज् जलम् अस्ति ।
एवं तस्य प्रवदतस् तच् चक्रं तत्-क्षणात् तस्य शिरसो ब्राह्मण-मस्तके चटितम् ।
स आह-भद्र, किम् एतत् ?
स आह-ममाप्य् एवम् एतच् छिरसि चटितम् ?
स आह-तत् कथय, कदैतद् उत्तरिष्यति ? महती मे वेदना वर्तते ।
स आह-यदा त्वम् इव कश्चिद् अधृत-सिद्ध-वर्तिर् एवम् आगत्य, त्वाम् आलापयिष्यति तदा तस्य मस्तकं चटिष्यति ।
स आह-कियान् कालस् तवैवं स्थितस्य ?
स आह-साम्प्रतं को राजा धरणी-तले ?
स आह-वीणा-वादन-पटुः वत्स-राजः ।
स आह-अहं तावत्-काल-सङ्ख्यां न जानामि । परं यदा रामो राजासीत् तवाहं दारिद्र्योपहतः सिद्ध-वर्तिम् आदायानेन पथा समायातः । ततो मयान्यो नरो मस्तक-श्रुत-चक्रो दृष्टः, पृष्टश् च । ततश् चैतज् जातम् ।
स आह-भद्र ! कथं तदैवं स्थितस्य भोजन-जल-प्राप्तिर् आसीत् ?
स आह-भद्र ! धनदेन निधान-हरण-भयात् सिद्धानाम् एतच्-चक्र-पतन-रूपं भयं दर्शितम् । तेन कश्चिद् अपि नागच्छति । यदि कश्चिद् आयाति, स क्षुत्-पिपासा-निद्रा-रहितो जरा-मरण-वर्जितः केवलम् एवं वेदनाम् अनुभवति इति । तद् आज्ञापय मां स्व-गृहाय । इत्य् उक्त्वा गतः ।
तस्मिंश् चिरयति स सुवर्ण-सिद्धिस् तस्यान्वेषण-परस् तत्-पद-पङ्क्त्या यावत् किञ्चिद् वनान्तरम् आगच्छति तावद् रुधिर-प्लावित-शरीरस् तीक्ष्ण-चक्रेण मस्तके भ्रमता स-वेदनः क्वणन्न् उपविष्ठस् तिष्ठतीति ददर्श । ततः समीपवर्तिना भूवा सर्वार्थं पृष्टः-भद्र ! किम् एतत् ?
स आह-विधि-नियोगः ।
स आह-कथं तत् ? कथय कारणम् एतस्य ।
सो ऽपि तेन पृष्टः । सर्वं चक्र-वृत्तान्तम् अकथयत् ।
तच् छ्रुत्वासौ तं विगर्हयन्न् इदम् आह-भोः ! निषिद्धस् त्वं मयानेकशो न शृणोषि मे वाक्यम् । तत् किं क्रियते ? विद्यावान् अपि कुलीनो ऽपि वस्तुतो बुद्धि-रहितो ऽसि । अथवा साध्व् इदम् उच्यते-
वरं बुद्धिर् न सा विद्या विद्याया बुद्धिर् उत्तमा ।
बुद्धि-हीनो विनश्यन्ति यथा ते सिंह-कारकाः

5.36

चक्रधर आह-कथम् एतत् ?
सुवर्णसिद्धिर् आह-
कथा 3
सिंह-कारक-मूर्ख-ब्राह्मण-कथा
कस्मिंश्चिद् अधिष्ठाने चत्वारो ब्राह्मण-पुत्राह् परं मित्र-भावम् उपगता वसन्ति स्म । तेषां त्रयः शास्त्र-पारङ्गताः परन्तु बुद्धि-रहिताः । एकस् तु बुद्धिमान् केवलं शास्त्र-पराङ्मुखः । अथ तैः कदाचिन् मित्रैर् मन्त्रितम्-को गुणो विद्यायाः, येन देशान्तरं गत्वा, भूपतीन् परितोष्यार्थोपार्जनं न क्रियते । तत् पूर्व-देशं गच्छावः ।
तथानुष्ठिते किञ्चिन् मार्गं गत्वा तेषां ज्येष्ठतरः प्राह-अहो ! अस्माकम् एकश् चतुर्थो मूढः । केवलं बुद्धिमान् । न च राज-प्रतिग्रहो बुद्ध्या लभ्यते, विद्यां विना । तन् नास्मै स्वोपार्जितं दास्यामः । तद् गच्छतु गृहम् ।
ततो द्वितीयेनाभिहितम्-भोः सुबुद्धे ! गच्छ त्वं स्व-गृहं, यतस् ते विद्या नास्ति ।
ततस् तृतीयेनाभिहितम्-अहो, न युज्यते एवं कर्तुम् । यतो वयं बाल्यात् प्रभृत्य् एकत्र क्रीडिताः । तद् आगच्छतु महानुभावो ऽस्मद्-उपार्जित-वित्तस्य सम-भागी भविष्यतीति । उक्तं च-
किं तया क्रियते लक्ष्म्या या वधूर् इव केवला ।
या न वेश्येव सामान्या पथिकैर् उपभुज्यते

5.37

तथा च-
अयं निजः परो वेति गणना लघु-चेतसाम् ।
उदार-चरितानां तु वसुधैव कुटुम्बकम्

5.38

तद् आगच्छत्व् एषो ऽपीति ।
तथानुष्ठिते तैर् मार्गाश्रितैर् अटव्यां मृत-सिंहस्यास्थीनि दृष्टानि । ततश् चैकेनाभिहितं-अहो ! अद्य विद्या-प्रत्ययः क्रियते । किञ्चिद् एतत् सत्त्वं मृतं तिष्ठति । तद् विद्या-प्रभावेण जीवन-सहितं कुर्मः । अहम् अस्थि-सञ्चयं करोमि ।
ततश् च तेनौत्सुक्याद् अस्थि-सञ्चयः कृतः । द्वितीयेन चर्म-मांस-रुधिरं संयोजितम् । तृतीयो ऽपि यावज् जीवनं सञ्चारयति, तावत् सुबुद्धिना निषिद्धः-भोः तिष्ठतु भवान् । एष सिंहो निष्पाद्यते । यद्य् एनं सजीवं करिष्यसि ततः सर्वान् अपि व्यापादयिष्यति ।
इति तेनाभिहितः स आह-धिङ् मूर्ख ! नाहं विद्याया विफलतां करोमि ।
ततस् तेनाभिहितं-तर्हि प्रतीक्षस्व क्षणं यावद् अहं वृक्षम् आरोहामि ।
तथानुष्ठिते, यावत् सजीवः कृतस् तावत् ते त्रयो ऽपि सिंहेनोत्थाय व्यापादिताः । स च पुनर् वृक्षाद् अवतीर्य गृहं गतः । अतो ऽहं ब्रवीमि-वरं बुद्धिर् न सा विद्या इति ।
अतः परम् उक्तं स सुवर्णसिद्धिना-
अपि शास्त्रेषु कुशला लोकाचार-विवर्जिताः ।
सर्वे ते हास्यतां यान्ति यथा ते मूर्ख-पण्डिताः

5.39

चक्रधर आह-कथम् एतत् ?
सो ऽब्रवीत्-
कथा 4
मूर्ख-पण्डित-कथा
कस्मिंश्चिद् अधिष्ठाने चत्वारो ब्राह्मणाः परस्परं मित्रत्वम् आपन्ना वसन्ति स्म । बाल-भावे तेषां मतिर् अजायत-भोः वेशान्तरं गत्वा विद्याया उपार्जनं क्रियते ।
अथ्:अन्यस्मिन् दिवसे ते ब्राह्मणाः परस्परं निश्चयं कृत्वा विद्योपार्जनार्थं कान्यकुब्जे गताः । तत्र च विद्या-मठे गत्वा पठन्ति । एवं द्वादशाब्दानि यावद् एकचित्ततया पठित्वा, विद्या-कुशलास् ते सर्वे सञ्जाताः ।
ततस् तैश् चतुर्भिर् मिलित्वोक्तम्-वयं सर्व-विद्या-पारङ्गताः । तद्-उपाध्यायम् उत्कलापयित्वा स्व-देशं गच्छामः । तथैवानुष्ठीयताम् इत्य् उक्त्वा ब्राह्मणाः उपाध्यायम् उकलापयित्वा अनुज्ञां लब्ध्वा पुस्तकानि नीत्वा प्रचलिताः । यावत् किञ्चिन्-मार्गं यान्ति, तावद् द्वौ पन्थानौ समायातौ उपविष्टाः सर्वे ।
तत्रैकः प्रोवाच-केन मार्गेण गच्छामः ?
एतस्मिन् समये तस्मिन् पत्तने कश्चित् वणिक्-पुत्रो मृतः । तस्य दाहाय महाजनो गतो ऽभूत् । ततश् चतूर्णां मध्याद् एकेन पुस्तकम् अवलोकितम्-महाजनो येन गतः स पन्थः इति । तन् महा-जन-मार्गेण गच्छामः ।
अथ ते पण्डिता यावन् महाजनम् एलापकेन सह यान्ति, तावद् रासभः कश्चित् तत्र श्मशाने दृष्टः । अथ द्वितीयेन पुस्तकम् उद्घाट्यावलोकितम् ।
उत्सवे व्यसने प्राप्ते दुर्भिक्षे शत्रु-सङ्कटे ।
राज-द्वारे श्मशाने च यस् तिष्ठति स बान्धवः

5.40

तद् अहो ! अयम् अस्मदीयो बान्धवः । ततः कश्चित् तस्य ग्रीवायां लगति । कश्चित् पादौ प्रक्षालयति । अथ यावत् ते पण्डिताह् दिशाम् अवलोकनं कुर्वन्ति तावत् कश्चिद् दुष्टो दृष्टः । तैश् चोक्तम्-एतत् किम् ?
तावत् तृतीयेन पुस्तकम् उद्घाट्योक्तम्-धर्मस्य त्वरिता गतिः । तन् नूनम् एष धर्मस् तावत् ।
चतुर्थेनोक्तम्-इष्टं धर्मेण योजयेत् ।
अथ तैश् च रासभ उष्ट्र-ग्रीवायां बद्धः । तत् तु केनचित् तत्-स्वामिनो रजकस्याग्रे कथितम् । यावद् रजकस् तेषां मूर्ख-पण्डितानां प्रहार-करणाय समायातस् तावत् ते प्रणष्टाः ।
ततो तावद् अग्रे किञ्चित् स्तोकं मार्गं यान्ति तावत् काचिन् नदी समासादिता । तस्य जल-मध्ये पलाश-पत्रम् आयातं दृष्ट्वा पण्डितेनैकेनोक्तम्-आगमिष्यति यत् पत्रं तस् अस्मांस् तारयिष्यति । एतत् कथयित्वा तत्-पत्रस्योपरि पतितो यावन् नद्या नीयते तावत् तं नीयमानम् अलोक्यान्येन पण्डितेन केशान्तं गृहीत्वोक्तम्-
सर्व-नाशे समुत्पन्ने अर्धं त्यजति पण्डितः ।
अर्धेन कुरुते कार्यं सर्व-नाशो हि दुःसहः

5.41

अथ तैश् च पश्चात् गत्वा कश्चित् ग्राम आसादितः । तेऽपि ग्रामीणैर् निमन्त्रितः पृथग् गृहेषु नीताः । तत एकस्य सूत्रिका घृतमण्ड-संयुता भोजने दत्ता । ततो विचिन्त्य पण्डितेनोक्तं यत्-दीर्घ-सूत्री विनश्यति इति । एवम् उक्त्वा भोजनं परित्यज्य गतः । तथा द्वितीयस्य भण्डका दत्ताह् । तेनायुक्तं-अतिविस्तार-विस्तीर्णं तद् भवेन् न चिरायुषम् । स भोजनं त्यक्त्वा गतः ।
अथ तृतीयस्य वाटिका भोजने दत्ता । तत्रापि तेन पण्डितेनोक्तम्-छिद्रेष्व् अनर्था बहुलीभवन्ति । एवं ते त्रयो ऽपि पण्डिताः क्षुत्क्षाम-कण्ठालोके हास्यमानास् ततः स्थानात् स्व-देशं गताः ।
अथ सुवर्ण-सिद्धिर् आह-यत् त्वं लोक-व्यवहारम् अजानन् मया वार्यमाणो ऽपि न स्थितः तत ईदृशीम् अवस्थातुम् उपगतः । अतो ऽहं ब्रवीमि-अपि शास्त्रेषु कुशलाः इति ।
तच् छ्रुत्वा चक्रधर आह-अहो अकारणम् एतत् । यतो हि-
सुबुद्धयो विनश्यन्ति दुष्ट-दैवेन नाशिताः ।
स्वल्प-धीर् अपि तस्मिंस् तु कुले नन्दति सन्ततम्

5.42

उक्तं च-
अरक्षितं तिष्ठति दैव-रक्षितं सुरक्षितं दैव-हतं विनश्यति ।
जीवत्य् अनाथो ऽपि वने विसर्जितः कृत-प्रयत्नो ऽपि गृहे न जीवति

5.43

तथा च-
शतबुद्धिः शिरस्थो ऽयं लम्बते च सहस्र-धीः ।
एक-बुद्धिर् अहं भद्रे क्रीडामि विमले जले

5.44

सुवर्णसिद्धिर् आह-कथम् एतत् ?
स आह-
कथा 5
मत्स्य-मण्डूक-कथा
कस्मिंश्चिज् जलाशये शतबुद्धिः सहस्रबुद्धिश् च द्वौ मत्स्यौ निवसतः स्म । अथ तयोर् एकबुद्धिर् नाम मण्डूको मित्रतां गतः । एवं ते त्रयो ऽपि जल-तीरे वेलायां सुभाषित-गोष्ठी-सुखम् अनुभूय, भूयो ऽपि सलिलं प्रविशन्ति ।
अथ कदाचित् तेषां गोष्ठी-गतानां तस्मिन् जलाशये समायाताः । ततः सलिलाशयं दृष्ट्वा मिथः प्रोचुः-अहो बहु-मत्स्यो ऽयं ह्रदो दृश्यते, स्वल्प-सलिलश् च। तत् प्रभातेऽत्रागमिष्यामः । एवम् उक्त्वा स्व-गृहं गताः ।
मत्स्याश् च विषण्ण-वदना मिथो मन्त्रं चक्रुः । ततो मण्डूक आह-भोः शतबुद्धे ! श्रुतं धीवरोक्तं भवता ? तत् किम् अत्र युज्यते कर्तुम् ? पलायनम् अवष्टम्भो वा ? यत् कर्तुं युक्तं भवति तद् आदिश्यताम् अद्य ।
तच् छ्रुत्वा सहस्र-बुद्धिः प्रहस्य आह-भोः मित्र ! मा भैषीः । तयोः वचन-श्रवण-मात्राद् एव भयं न कार्यम् । न भेतव्यम् । उक्तं च-
सर्पाणां च खलानां च सर्वेषां दुष्ट-चेतसाम् ।
अभिप्राया न सिध्यन्ति तेनेदं वर्तते जगत्

5.45

तावत् तेषाम् आगमनम् अपि न सम्पत्स्यते । भविष्यति तर्हि त्वां बुद्धि-प्रभावेणात्म-सहितं रक्षयिष्यामि । यतो ऽनेकांसलिल-चर्याम् अहं जानामि ।
तद् आकर्ण्य शतबुद्धिर् आह-भोः युक्तम् उक्तं भवता । सहस्रबुद्धिर् एव भवान् । अथवा साध्व् इदम् उच्यते ।
बुद्धेर् बुद्धिमतां लोके नास्त्य् अगम्यं हि किञ्चन ।
बुद्ध्या यतो हता नन्दाश् चाणक्येनासि-पाणयः

5.46

तथा-
न यत्रास्ति गतिर् वायो रश्मीनां च विवस्वतः ।
तत्रापि प्रविशत्य् आशु बुद्धिर् बुद्धिमतां सदा

5.47

ततो वचन-श्रवण-मात्राद् अपि पितृ-पर्यायागतं जन्म-स्थानं त्यक्तुं न शक्यते । उक्तं च-
न यत् स्वर्गेऽपि सौख्यं स्याद् दिव्य-स्पर्शेन शोभने ।
कुस्थानेऽपि भवेत् पुंसां जन्मनो यत्र सम्भवः

5.48

तन् न कदाचिद् अपि गन्तव्यम् । अहं त्वां बुद्धि-प्रभावेण रक्षयिष्यामि । मण्डूक आह-भद्रौ ! मम तावद् एकैव बुद्धिः पलायन-परा । तद् अहम् अन्य-जलाशयम् अद्यैव सभार्यो यास्यामि ।
एवम् उक्त्वा स मण्डूको रात्राव् एवान्य-जलाशयं गतः । धीवरैर् अपि प्रभाते आगत्य, जघन्य-मध्यमोत्तम-जलचराः मत्स्य-कूर्म-मण्डूक-कर्कटादयो गृहीताः । ताव् अपि शतबुद्धि-सहस्रबुद्धी सभार्यौ पलायमानौ चिरम् आत्मानं गति-विशेष-विज्ञानैः कुटिल-चारेण रक्षन्तौ जाले निपतितौ, व्यापादितौ च ।
अथापराह्न-समये प्रहृष्टास् ते धीवराः स्व-गृहं प्रति प्रस्थिताः । गुरुत्वाच् चैकेन शतबुद्धिः स्कन्धे कृतः सहस्रबुद्धिः प्रलम्बमानो नीयते । ततश् च वापीकण्ठोपगतेन मण्डूकेन तौ तथा नीयमानौ दृष्ट्वा अभिहिता स्वपत्नी-प्रिये ! पश्य पश्य-
शतबुद्धिः शिरःस्थो ऽयं लम्बते च सहस्रधीः ।
एकबुद्धिर् अहं भद्रे क्रीडामि विमले जले

5.49

अतश् च वरं बुद्धिर् न सा विद्या यद् भवतोक्तं तत्रेयं मे मतिर् यत् न एकान्तेन बुद्धिर् अपि प्रमाणम् ।
सुवर्णसिद्धिः प्राह-यद्यप्य् एतद् अस्ति, तथापि मित्र-वचनं न लङ्घनीयम् । परं किं क्रियते ? निवारितो ऽपि मया न स्थितो ऽसि, अतिलौल्यात् विद्याहङ्काराच् च । अथवा साध्व् इदम् उच्यते-
साधु मातुल गीतेन मया प्रोक्तो ऽपि न स्थितः ।
अपूर्वो ऽयं मणिर् बद्धः सम्प्राप्तं गीत-लक्षणम्

5.50

चक्रधर आह-कथम् एतत् ?
सो ऽब्रवीत्-
कथा 6
रासभ-शृगाल-कथा
कस्मिंश्च्द् अधिष्ठाने उद्धतो नाम गर्दभः प्रतिवसति स्म । स सदैव रजक-गृहे भारोद्वहनं कृत्वा रात्रौ स्वेच्छया पर्यटति । ततः प्रत्यूषे बन्धन-भयात् स्वयम् एव रजक-गृहम् आयाति । रजको ऽपि ततस् तं बन्धनेन नियुनक्ति ।
अथ तस्य रात्रौ क्षेत्राणि पर्यटतः कदाचिच् छृगालेन सह मैत्री सञ्जाता स च पीवरत्वाद् वृत्ति-भङ्गं कृत्वा कर्कटिका-क्षेत्रे शृगाल-सहितः प्रविशति । एवं तौ यदृच्छया चिर्भटिका-भक्षणं कृत्वा, प्रत्यहं प्रत्यूषे स्व-स्थानं व्रजतः ।
अथ कदाचित् तेन मदोद्धतेन रासभेन क्षेत्र-मध्य-स्थितेन शृगाओ ऽभिहितः-भोः भगिनी-सूत ! पश्य पश्य । अतीव निर्मला रजनी । तद् अहं गीतं करिष्यामि । तत् कथय कतमेन रागेण करोमि ।
स आह-माम ! किम् अनेन वृथानर्थ-प्रचालनेन ? यतश् चौरकर्म-प्रवृत्ताव् आवाम् । निभृतैश् च चौर-जारैर् अत्र स्थातव्यम् । उक्तं च-
कांसी विवर्जयेच् चौर्यं निद्रालुश् चेत् स पुंश्चलीम् ।
जिह्वा-लौल्यं च रुजाक्रान्तो जीवितं यो ऽत्र वाञ्छति

5.51

अपरं त्वदीयं गीतं न मधुर-स्वरं, शङ्ख-शब्दानुकारं दूराद् अपि श्रूयते । तद् अत्र क्षेत्रे रक्षा-पुरुषाः सुसुप्ताः सन्ति । ते उत्थाय वधं बन्धनं वा करिष्यन्ति । तद् भक्षय तावद् अमृतमयीश् चर्भटीः । मा त्वम् अत्र गीत-व्यापार-परो भव ।
तच् छ्रुत्वा राभस आह-भोः वनाश्रयत्वात् त्वं गीत-रसं न वेत्सि, तेनैतद् ब्रवीषि । उक्तं च-
शरज्-ज्योत्स्नाहते दूरं तमसि प्रिय-सन्निधौ ।
धन्यानां विशति श्रोत्रे गीत-झङ्कार-जा सुधा

5.52

शृगाल आह-माम, अस्त्य् एतत् । परं न वेत्सि त्वं गीतम् । केवलम् उन्नदसि । तत् किं तेन स्वार्थ-भ्रंशकेन ?
रासभ आह-धिग् धिङ् मूर्ख ! किम् अहं न जानासि गीतम् ? तद् यथा तस्य भेदान् शृणु-
सप्त स्वरास् त्रयो ग्रामा मूर्च्छताश् चैकत्रिंशतिः ।
तानास् त्व् एकोनपऊचाशत् तिस्रो मात्रा लयास् त्रयः

5.53

स्थान-त्रयं यतीनां च षड्-अस्यानि रसा नव ।
रागा षट्-त्रिंशतिर् भावाश् चत्वारिंशत् ततः स्मृताः

5.54

पञ्चाशीत्य्-अधिकं ह्य् एतद् गीताङ्गानां शतं स्मृतम् ।
स्वयम् एव पुरा प्रोक्तं भरतेन श्रुतेः परम्

5.55

नान्यद् गीतात् प्रियं लोके देवानाम् अपि दृश्यते ।
शुष्क-स्नायु-स्वराह्लादात् त्र्य्-अक्षं जग्राह रावणः

5.56

तत् कथं भगिनी-सुत माम् अनभिज्ञं वदन् निवारयति ?
शृगाल आह-माम ! यद्य् एवं यावद् वृत्तेर् द्वार-स्थितः क्षेत्रपालम् अवलोकयामि, त्वं पुनः स्वेच्छया गीतं कुरु ।
तथानुष्ठिते रासभ-रटनम् आकर्ण्य क्षेत्रपः क्रोधात् दन्तान् धर्षयन् प्रधावितः । यावद् रासभो दृष्टस् तावल् लगुड-प्रहारैस् तथा हतो, यथा प्रताडितो भू-पृष्ठे पतितः । ततश् च सच्-छिद्रम् उलूखलं तस्य गले बद्ध्वा क्षेत्रपालः प्रसुप्तः । रासभो ऽपि स्वजाति-स्वभावाद् गत-वेदनः क्षणेनाभ्युत्थितः । उक्तं च-
सारमेयस्य चाश्वस्य रासभस्य विशेषतः ।
मुहूर्तात् परतौ न स्यात् प्रहार-जनिता व्यथा

5.57

तत तम् एवोलूखलम् आदाय वृत्तिं चूर्णयित्वा पलायितुम् आरब्धः । अत्रान्तरे शृगालो ऽपि दूराद् एव दृष्ट्वा स-स्मितम् आह-
साधु मातुल गीतेन मया प्रोक्तो ऽपि न स्थितः ।
अपूर्वो ऽपि मणिर् बद्धः साम्प्रतं गीत-लक्षणम्

5.58

तद् भवान् अपि मया वार्यमाणो ऽपि न स्थितः ।
तच् छ्रुत्वा चक्रधर आह-भो मित्र ! सत्यम् एतत् । अथवा साध्व् इदम् उच्यते-
यस्य नास्ति स्वयं प्रज्ञा मित्रोक्तं न करोति यः ।
स एव निधनं याति यथा मन्थर-कोलिकः

5.59

सुवर्णसिद्धिर् आह-कथम् एतत् ?
सो ऽब्रवीत्-
कथा 7
मन्थर-कौलिक-कथा
कस्मिंश्चिद् अधिष्ठाने मन्थरको नाम कौलिकः प्रतिवसति स्म । तस्य कदाचित् पट-कर्माणि कुर्वतः सर्व-पट-कर्म-काष्ठानि भग्नानि । ततः स कुठारम् आदाय वने काष्ठार्थं गतः । स च समुद्र-तटे यावद् भ्रमन् प्रयातः तावत् तत्र शिंशपा-पादपस् तेन दृष्टः । ततश् चिन्तितवान्-महान् अयं वृक्षो दृश्यते । तद् अनेनैव कर्तितेन प्रभूतानि पट-कर्मोपकरणानि भविष्यन्ति । इत्य् अवधार्य तस्योपरि कुठारम् उत्क्षिप्तवान् ।
अथ तत्र वृक्षे कश्चित् व्यन्तरः समाश्रित्य आसीत् । अथ तेनाभिहितम्-भोः ! मद्-आश्रयो ऽयं पादपः सर्वथा रक्षणीयः । यतो ऽहम् अत्र महा-सौख्येन तिष्ठामि । समुद्र-कल्लोल-स्पर्शनाच् छीत-वायुनाप्यायितः ।
कौलिक आह-भोः ! किम् अहं करोमि ? दारु-सामग्रीं विना मे कुटुम्बं बुभुक्षया पीड्यते । तस्माद् अन्यत्र शीघ्रं गम्यताम् । अहम् एनं कर्तयिष्यामि ।
व्यन्तर आह-भोः ! तुष्टस् तवाहम् । तत् प्रार्थ्यताम् अभीष्टं किञ्चित् । रक्षैमं पादपम् इति ।
कौलिक आह-यद्य् एव तद् अहं स्व-गृहं गत्वा स्व-मित्रं स्व-भार्यां च पृष्ट्वा आगमिष्यामि । ततस् त्वया देयम् ।
अथ तथेति व्यन्तरेण प्रतिज्ञाते स कौलिकः प्रहृष्टः स्व-गृहं प्रति निवृत्तो यावद् अग्रे गच्छति, तावद् ग्राम-प्रवेशे निज-सुहृदं नापितम् अपश्यत् । ततः तस्य व्यन्तर-वाक्यं निवेदयामास, यत्-अहो मित्र ! मम कश्चित् व्यन्तरः सिद्धः । तत् कथय, किं प्रार्थये ? अहं त्वां प्रष्टुम् आगतः ।
नापित आह-भद्र ! यद्य् एवं तद् राज्यं प्रार्थयस्व, येन त्वं राजा भवसि अहं त्वन्-मन्त्री । द्वाव् अपीह सुखम् अनुभूय पर-लोक-सुखम् अनुभवावः । उक्तं च-
राजा दान-परो नित्यम् इह कीर्तिम् अवाप्य च ।
तत् प्रभावात् पुनः स्वर्गं स्पर्धते त्रिदशैः सह

5.60

कौलिक आह-अस्त्य् एतत् तथापि गृहिणीं पृच्छामि ।
स आह-भद्र ! शास्त्र-विरुद्धम् एतत् यत् स्त्रिया सह मन्त्रः । यतस् ताः स्वल्प-मतयो भवन्ति । उक्तं च-
भोजनाच्छादने दद्याद् ऋतु-काले च सङ्गमम् ।
भूषणाद्यं च नारीणां न ताभिर् मन्त्रयेत् सुधीः

5.61

यत्र स्त्री यत्र कितवो बालो यत्र प्रशासिता ।
तद् गृहं क्षयम् आयाति भार्गवो हीदम् अब्रवीत्

5.62

तावत् स्यात् सुप्रसन्नास्यस् तावद् गुरु-जने रतः ।
पुरुषो योषितां यावन् न शृणोति वचो रहः

5.63

एताः स्वार्थ-परा नार्यः केवलं स्व-सुखे रताः ।
न तासां वल्लभः को ऽपि सुतो ऽपि स्व-सुखं विना

5.64

कौलिक आह-तथापि प्रष्टव्या सा मया । यतः पतिव्रता सा । अपरं ताम् अपृष्ट्वाहं न किञ्चित् करोमि ।
एवं तम् अभिधाय सत्वरं गत्वा ताम् उवाच-प्रिये ! अद्यास्माकं कश्चिद् व्यन्तरः सिद्धः । स वाञ्छितं प्रयच्छति । तद् अहं त्वां प्रष्टुम् आगतः । तत् कथय किं प्रार्थये ? एष तावन् मम मित्रं नापितो वतद्य् एवं यत्-राज्यं प्रार्थयस्व ।
साह-आर्यपुत्र ! का मतिर् नापितानाम् ? तन् न कार्यं तद् वचः । उक्तं च-
चारणैर् वन्दिभिर् नीचैर् नापितैर् बालकैर् अपि ।
न मन्त्रं मैत्मान् कुर्यात् सार्धं भिक्षुभिर् एव च

5.65

अपरं महती क्लेश-परम्परैषा राज्य-स्थितिः सन्धि-विग्रह-यानासन-संश्रय-द्वैधीभावादिभिः कदाचित् पुरुषस्य सुखं न प्रयच्छतीति । यतः-
यदैव राज्ये क्रियतेऽभिषेकस् तदैव याति व्यसनेषु बुद्धिः ।
घटा नृपाणाम् अभिषेक-काले सहाम्भसैवापदम् उद्गिरन्ति

5.66

तथा च-
रामस्य व्रजनं वने निवसनं पाण्डोः सुतानां वने
वृष्णीनां निधनं नलस्य नृपते राज्यात् परिभ्रंशनम् ।
सौदासं तद्-अवस्थम् अर्जुन-वधं सञ्चिन्त्य लङ्केश्वरं
दृष्ट्वा राज्य-कृते विडम्बन-गतं तस्मान् न तद् वाञ्छयेत्

5.67

यद्-अर्थं भ्रातरः पुत्रा अपि वाञ्छन्ति ये निजाः ।
वधः राज्य-कृतां राज्ञां तद् राज्यं दूरतस् त्यजेत्

5.68

कौलिक आह-सत्यम् उक्तं भवत्या । तत् कथय किं प्रार्थये ?
साह-त्वं तावद् एकं पटं नित्यम् एव निष्पादयसि । तेन सर्वा व्यय-शुद्धिः सम्पद्यते । इदानीं त्वम् आत्मनो ऽन्यद् बाहु-युगलं द्वितीयं शिरश् च याचस्व, येन पट-द्वयं सम्पादयसि पुरतः पृष्ठतश् च । एकस्य मूल्येन गृःए यथा-पूर्वं व्ययं सम्पादयिष्यसि, द्वितीयस्य मूल्येन विशेष-कृत्यानि करिष्यसि । एवं सौख्येन स्वजाति-मध्ये श्लाघ्यमानस्य कालो यास्यति, लोक-द्वयस्योपार्जना च भविष्यति ।
सो ऽपि तद् आकर्ण्य प्रहृष्टः प्राह-साधु पतिव्रते ! साधु ! युक्तम् उक्तं भवत्या । तद् एवं करिष्यामि । एष मे निश्चयः ।
ततो ऽसौ गत्वा व्यन्तरं प्रार्थयांचक्रे-भो, यदि ममेप्सितं प्रयच्छसि तत् देहि मे द्वितीयं बाहु-युगलं शिरश् च ।
एवम् अभिहिते तत्-क्षणाद् एव स द्विशिराश् चतुर्बाहुश् च सञ्जातः । ततो हृष्ट-मना यावद् गृहम् आगच्छति तावल्-लोकैः राक्षसो ऽयम् इति मान्यमानैर् लगुड-पाषाण-प्रहारैस् ताडितो मृतश् च ।
अतो ऽहं ब्रवीमि-यस्य नास्ति स्वयं प्रज्ञा इति ।
चक्रधर आह-भोः ! सत्यम् एतत् । सर्वो ऽपि जनो ऽश्रद्देयाम् आशापिशाचिकां प्राप्य हास्य-पदवीं याति । अथवा साध्व् इदम् उच्यते केनापि-
अनागतवतीं चिन्ताम् असम्भाव्यां करोति यः ।
स एव पाण्डुरः शेते सोम-शर्म-पिता यथा

5.69

सुवर्णसिद्धिर् आह-कथम् एतत् ?
सो ऽब्रवीत्-
कथा 8
सोम-शर्म-पितृ-कथा
कस्मिंश्चिन् नगरे कश्चित् स्वभाव-कृपणो नाम ब्राह्मणः प्रतिवसति स्म । तस्य भिक्षार्जितैः सक्तुभिर् भुक्त-शेषैः कलशः सम्पूरितः । तं च घटं नागदन्तेऽवलम्ब्य तस्याधस्तात् खट्वां निधाय सततम् एक-दृष्ट्या तम् अवलोकयति ।
अथ कदाचिद् रात्रौ सुप्तश् चिन्तयामास-यत् परिपूर्णो ऽयं घटस् तावत् सक्तुभिर् वर्तते । तद् यदि दुर्भिक्षं भवति, तद् अनेन रूप्यकाणां शतम् उत्पत्स्यते । ततस् तेन मयाजाद् वयं ग्रहीतव्यम् । ततः षाण्-मासिकम् आप्रसव-वशात् ताभ्यां यूथं भविष्यति । ततो ऽजाभिः प्रभूता गा ग्रहीष्यामि । गोभिर् महिषीः । महिषीर् बडवाः । बडवा-प्रसवतः प्रभूता अश्वा भविष्यन्ति । तेषां विक्रयात् प्रभूतं सुवर्णं भविष्यति । सुवर्णेन चतुःशालं गृहं सम्पत्स्यते ।
ततः कश्चिद् ब्राह्मणो मम गृहम् आगत्य प्राप्त-वयस्कां रूपाढ्यां कन्यां मह्यं दास्यति । तत्-सकाशाट् पुत्रो मे भविष्यति । तस्याःअं सोमशर्मा इति नाम करिष्यामि । ततस् तस्मिन् जानु-चलन-योग्ये सञ्जातेऽहं पुस्तकं गृहीत्वाश्व-शालायाः पृष्ठ-देशे उपविष्टस् तद्-अवधारयिष्यामि । अत्रान्तरे सोमशर्मा मां दृष्ट्वा जनन्य्-उत्सङ्गाज् जानु-चलन-परो ऽश्व-खुरासन्न-वर्ती मत्-समीपम् आगमिष्यति । ततो ऽहं ब्राह्मणीं कोपाविष्टो ऽभिधास्यामि-गृहाण तावद् बालकम् । सापि गृह-कर्म-व्यग्रतयास्मद्-वचनं न श्रोष्यति । ततो ऽहं समुत्थाय तां पाद-प्रहारेण ताडयिष्यामि ।
एवं तेन ध्यान-स्थितेन तथैव पाद-प्रहारो दत्तो यथा स घटो भग्नः, स्वयं च सक्तुभिः पाण्डुरतां गतः । अतो ऽहं ब्रवीमि-अनागतवतीं चिन्ताम् इति ।
सुवर्णसिद्धिर् आह-एवम् एतत् । कस् ते दोषः, यतः सर्वो ऽपि लोभेन विडम्बितो बाध्यते ? उक्तं च-
यो लौल्यात् कुरुते नैवोदर्कम् अवेक्षते ।
विडम्बनाम् अवाप्नोति स यथा चन्द्र-भूपतिः

5.70

चक्रधर आह-कथम् एतत् ?
स आह-
कथा 9
चन्द्र-भूपति-कथा
कस्मिंश्चिन् नगरे चन्द्रो नाम भूपतिः प्रतिवसति स्म । तस्य पुत्रा वानर-क्रीडा-रता वानर-यूथं नित्यम् एवानेक-भोजन-भक्ष्यादिभिः पुष्टिं नयन्ति स्म । अथ वानराधिपो यः स औशनस-बार्हस्पत्य-चाणक्य-मत-वित् तद्-अनुष्ठाता च तत्-सर्वान् अप्य् अध्यापयति स्म ।
अथ तस्मिन् राज-गृहे लघु-कुमार-वाहन-योग्यं मेष-यूथम् अस्ति । तन्-मध्याद् एको जिह्वा-लौल्याद् अहर्-निशं निःशङ्कं महानसे प्रविश्य यत् पश्यति तत् सर्वं भक्षयति । ते च सूपकर् यत् किञ्चित् काष्ठं मृण्-मयं भाजनं कांस्य-पात्रं ताम्र-पात्रं वा पश्यन्ति तेनाशु ताडयन्ति ।
सो ऽपि वानर-यूथपस् तद् दृष्ट्वा व्यचिन्तयत्-अहो मेष-सूपकार-कलहो ऽयं वानराणां क्षयाय भविष्यति । यतो ऽन्न-रसास्वाद-लम्पटो ऽयं मेषो, महा-कोपाश् च सूपकारा यथासन्न-वस्तुना प्रहरन्ति । तद् यदि वस्तुनो ऽभावात् कदाचिद् उल्मुकेन ताडयिष्यन्ति, तदोर्णा-प्रचुरो ऽयं मेषः स्वल्पेनापि वह्निना प्रज्वलयिष्यति । तद् दह्यमानः पुनर् अश्व-कुट्यां समीप-वर्तिन्यां प्रवेक्ष्यति । सापि तृण-प्राचुर्याज् ज्वलिष्यति । ततो ऽश्वा वह्नि-दाहम् अवाप्स्यन्ति ।
शालिहोत्रेण पुनर् एतद् उक्तं यत्-वानर-वसयाश्वानां वह्नि-दाह-दोषः प्रशाम्यति । तन् नूनम् एतेन भाव्यम् अत्र निश्चयः । एवं निश्चित्य सर्वान् वानरान् आहूय रहसि प्रोवाच, यत्-
मेषेण सूपकाराणां कलहो यत्र जायते ।
स भविष्यत्य् असन्दिग्धं वानराणां क्षयावहः

5.71

तस्मात् स्यात् कलहो यत्र गृहे नित्यम् अकारणः ।
तद्-गृहं जीवितं वाञ्छन् दूरतः परिवर्जयेत्

5.72

कलहान्तानि हर्म्याणि कुवाक्यान्तं च सौहृदम् ।
कुराजान्तानि राष्ट्राणि कुकर्मान्तं यशो नृणाम्

5.73

तन् न यावत् सर्वेषां सङ्क्षयो भवति, तावद् एवैतद् राज-गृहं सन्त्यज्य वनं गच्छामः । अथ तत् तस्य वचनम् अश्रद्धेयं श्रुत्वा मदोद्धता वानराः प्रहस्य प्रोचुः-भो भवतो वृद्ध-भावाद् बुद्धि-वैकल्यं सञ्जातं, येनैतद् ब्रवीषि । उक्तं च-
वदनं दशनैर् हीनं लाला स्रवति नित्यशः ।
न मतिः स्फुरति क्वापि बाले वृद्धे विशेषतः

5.74

न वयं स्वर्ग-समानोपभोगान् नाना-विधान् भक्ष्य-विशेषान् राज-पुत्रैः स्व-दत्तान् अमृत-कल्पान् परित्यज्य तत्राटव्यां कषाय-कटु-तिक्त-क्षार-रूक्ष-फलानि भक्षयिष्यामः ।
तच् छ्रुत्वाश्रु-कलुषां दृष्टिं कृत्वा स प्रोवाच-रे रे मूर्खाः ! यूयम् एतस्य सुखस्य परिणामं न जानीथ । किं पाक-रसास्वादन-प्रायम् एतत् सुखं परिणामे विषवद् भविष्यति । तद् अहं कुल-क्षयं स्वयं नावलोकयिष्यामि । साम्प्रतं वनं यास्यामि । उक्तं च-
मित्रं व्यसन-सम्प्राप्तं स्व-स्थानं पर-पीडनम् ।
धन्यास् ते ये न पश्यन्ति देश-भङ्गं कुल-क्षयम्

5.75

एवम् अभिधाय सर्वांस् तान् परित्यज्य स यूथाधिपो ऽटव्यां गतः । अथ तस्मिन् गतेऽन्यस्मिन् अहनि स मेषो महानसे प्रविष्टो, यावत् सूपकारेण नान्यत् किञ्चित् समासादितं तावद् अर्ध-ज्वलित-काष्ठेन ताड्यमानो जाज्वल्यमन-शरीरः शब्दायमानो ऽश्व-कुट्यां प्रत्यासन्न-वर्तिन्यां प्रविष्टः ।
तत्र तृण-प्राचुर्य-युक्तायां क्षितौ तस्य प्रलुठतः सर्वत्रापि वह्नि-ज्वालास् तथा समुत्थिता यथा केचिद् अश्वाः स्फुटित-लोचनाः पञ्चत्वं गताः । केचिद् बन्धनानि त्रोटयित्वा अर्ध-दग्ध-शरीरा इतश् चेतश् च ह्रेषायमाणा धावमाना सर्वम् अपि जन-समूहम् आकुलीचक्रुः ।
अत्रान्तरे राजा सविषादः शालिहोत्रज्ञान् वैद्यान् आहूय प्रोवाच-भोः ! प्रोच्यताम् एषाम् अश्वानां कश्चिद् दाहोपशमनोपायः ।
तेऽपि शास्त्राणि विलोक्य प्रोचुः-देव ! प्रोक्तम् अत्र विषये भगवता शालिहोत्रेण, यत्-
कपीनां मेदसा दोषो वह्नि-दाह-समुद्भवा ।
अश्वानां नाशम् अभ्येति तमः सूर्योदये यथा

5.76

तत् क्रियताम् एतच् चिकित्सितां द्राक्, यावद् एते न दाह-दोषेण विनश्यन्ति ।
सो ऽपि तद् आकर्ण्य समस्त-वानर-वधम् आदिष्टवान् । किं बहुना, सर्वेऽपि ते वानरा विविधायुध-लगुड-पाषाणादिभिर् व्यापादिताः इति ।
अथ सो ऽपि वानर-यूथपस् तं पुत्र-पौत्र-भ्रातृ-सुत-भागिनेयादि-सङ्क्षयं ज्ञात्वा विषादम् उपगतः । सन्त्यक्ताहार-क्रियो वनाद् वनं पर्यटति । अचिन्तयच् च-कथम् अहं तस्य नृपापसदयानृणता-कृत्येनापकृत्यं करिष्यामि । उक्तं च-
मर्षयेद् धर्षणां यो ऽत्र वंशजां पर-निर्मिताम् ।
भयाद् वा यदि वा कामात् स ज्ञेयः पुरुषाधमः

5.77

अथ तेन वृद्ध-वानरेण कुत्रचित् पिपासाकुलेन भ्रमता पद्मिनी-खण्ड-मण्डितं सरः समासादितम् । तद् यावत् सूक्ष्मेक्षिकयावलोकयति तावद् वनचर-मनुष्याणां पद-पङ्क्ति-प्रदेशो ऽस्ति न निष्क्रमणम् । ततश् चिन्तितम्-नूनम् अत्र आक्रान्ते दुष्ट-ग्राहेण भाव्यम् । तत्-पद्मिनी-नालम् आदाय दूरस्थो ऽपि जलं पिबामि ।
तथानुष्ठिते तन्-मध्याद् राक्षसो निष्क्रम्य रत्न-माला-विभूषित-कण्ठस् तम् उवाच-भोः ! अत्र यः सलिले प्रवेशं करोति स मे भक्ष्यः इति । तन् नास्ति धूर्ततरस् त्वत्-समो ऽन्यो यः पानीयम् अनेन विधिना पिबति । ततस् तुष्टो ऽहं, प्रार्थयस्व हृदय-वाञ्छितम् ।
कपिर् आह-भोः ! कियती मे भक्षण-शक्तिः ?
स आह-शत-सहस्रायुत-लक्षाण्य् अपि जल-प्रविष्टानि भक्षयामि । बाह्यतः शृगालो ऽपि मां धर्षयति ।
वानर आह-अस्ति मे केनचिद् भूपतिना सहात्यन्तं वैरम् । यद्य् एनां रत्न-मालां मे प्रयच्छसि, तत् परिवारम् अपि तं भूपतिं वाक्य-प्रपञ्चेन लोभयित्वात्र सरसि प्रवेशयामि ।
सो ऽपि श्रद्धेयं वचस् तस्य श्रुत्वा रत्न-मालां दत्त्वा प्राह-भो मित्र ! यत् समुचितं भवति तत् कर्तव्यम् इति ।
वानरो ऽपि रत्न-माला-विभूषित-कण्ठो वृक्ष-प्रासादेषु परिभ्रमन् जनैर् दृष्टः । पृष्टश् च-भो यूथप ! भवान् इयन्तं कालं कुत्र स्थितः ? भवता ईदृग् रत्न-माला कुत्र लब्धा ? दीप्त्या सूर्यम् अपि तिरस्करोति ।
वानरः प्राह-अस्ति कुत्रचिद् अरण्ये गुप्ततरं महत् सरो धनद-निर्मितम् । तत्र सूर्येऽर्धोदिते रवि-वारे यः कश्चिन् निमज्जति, स धनद-प्रसादाद् ईदृग्-रत्न-माला-विभूषित-कण्ठो निःसरति ।
अथ भूभुजा तद् आकर्ण्य, स वानरः समाहूतः । पृष्टश् च-भो यूथाधिप ! किं सत्यम् एतत् ? रत्न-माला-सनाथं सरो ऽस्ति क्वापि ?
कपिर् आह-स्वामिन् ! एष प्रत्यक्षतया मत्-कण्ठ-स्थितया रत्न-मालया प्रत्ययस् ते । तद् यदि रत्न-मालया प्रयोजनं तन् मया सह कम् अपि प्रेषय, येन दर्शयामि ।
तच् छ्रुत्वा नृपतिर् आह-यद्य् एवं तद् अहं स-परिजनः स्वयम् एष्यामि, येन प्रभूता रत्न-माला उत्पद्यते ।
वानर आह-एवं क्रियताम् ।
तथानुष्ठिते भूपतिना सह रत्न-माला-लोभेन सर्वे कलत्र-भृत्याः प्रस्थिताः । वानरो ऽपि राज्ञा दोलाधिरूढेन स्वोत्सङ्गे आरोपितः सुखेन प्रीति-पूर्वम् आनीयते । अथवा साध्व् इदम् उच्यते-
तृष्णे देवि नमस् तुभ्यं यया वित्तान्विता अपि ।
अकृत्येषु नियोज्यन्ते भ्रामन्ते दुर्गमेष्व् अपि

5.78

तथा च-
इच्छति शती सहस्रं सहस्री लक्षम् ईहते ।
लक्षाधिपस् तथा राज्यं राज्यस्थः स्वर्गम् ईहते

5.79

जीर्यन्ते जीर्यतः केशाः दन्ता जीर्यन्ति जीर्यतः ।
जीर्यतश् चक्षुषी श्रोत्रे तृष्णैका तरुणायते

5.80

अथ तत्-सरः समासाद्य वानरः प्रत्यूष-समये राजानम् उवाच-देव ! अत्रार्धोदिते सूर्येऽन्तः-प्रविष्टानां सिद्धिर् भवति तत् सर्वो ऽपि जन एकदैव प्रविशतु । त्वया पुनर् मया सह प्रवेष्टव्यं, येन पूर्व-दृष्ट-स्थानम् आसाद्य, प्रभूतास् ते रत्न-माला दर्शयामि ।
अथ प्रविष्टास् ते लोकाः सर्वे भक्षिता राक्षसेन । अथ तेषु चिरमाणेषु राजा वानरम् आह-भो यूथाधिप किम् इति चिरायते मे परिजनः ?
तच् छ्रुत्वा वानरः सत्वरं वृक्षम् आरुह्य राजानम् उवाच-भो दुष्ट-नरपते ! राक्षसेनान्तः-सलिल-स्थितेन भक्षितास् ते परिजनः । साधितं मया कुल-क्षयजं वैरम्, तद् गम्यताम् । त्वं स्वामीति मत्वा नात्र प्रवेशितः । उक्तं च-
कृते प्रतिकृतं कुर्याद् धिंसिते प्रतिहिंसितम् ।
न तत्र दोषं पश्यामि यो दुष्टे दुष्टम् आचरेत्

5.81

तत् त्वया मम कुल-क्षयः कृतः मया पुनस् तव इति ।
अथैतद् आकर्ण्य राजा कोपाविष्टः पदातिर् एकाकी यथायात-मार्गेण निष्क्रान्तः । अथ तस्मिन् भूपतौ गते राक्षस-स्पृष्टो जलान् निष्क्रम्य सानन्दम् इदम् आह-
हतः शत्रुः कृतं मित्रं रत्न-माला न हारिता ।
नालेन पिबता तोयं भवता साधु वानर

5.82

अतो ऽहं ब्रवीमि-यो लौल्यात् कुरुते कर्म इति ।
एवम् उक्त्वा भूयो ऽपि स चक्रधरम् आह-भो मित्र ! प्रेषय मां, येन स्व-गृहं गच्छामि ।
चक्रधर आह-भद्र ! आपद्-अर्थे धन-मित्र-सङ्ग्रहः क्रियते । तन् माम् एवंविधं त्यक्त्वा क्व यास्यसि ? उक्तं च-
यस् त्यक्त्वा सापदं मित्रं याति निष्ठुरतां वहन् ।
कृतघ्नस् तेन पापेन नरके यात्य् असंशयम्

5.83

सुवर्णसिद्धिर् आह-भोः, सत्यम् एतद् यदि गम्य-स्थाने शक्तिर् भवति । एतत् पुनर् मनुष्याणाम् अगम्य-स्थानम् । नास्ति कस्यापि त्वाम् उन्मोचयितुं शक्तिः अपरं यथा यथा चक्र-भ्रम-वेदनया तव मुख-विकारं पश्यामि तथा तथाहम् एतज् जानामि यत् द्राग् गच्छामि मा कश्चिन् ममाप्य् अनर्थो भवेद् इति । यतः-
यादृशी वदन-च्छाया दृश्यते तव वानर ।
विकालेन गृहीतो ऽसि यः परैति स जीवति

5.84

चक्रधर आह-कथम् एतत् ?
सो ऽब्रवीत्-
कथा 10
विकाल-वानर-कथा
कस्मिंश्चिन् नगरे भद्रसेनो नाम राजा प्रतिवसति स्म । तस्य सर्व-लक्षण-सम्पन्ना रत्नवती नाम कन्यास्ति । तां कश्चिद् राक्षसो जिहीर्षति । रात्राव् आगत्योपभुङ्क्ते, परं कृत-रक्षोपधानां तां हर्तुं न शक्नोति । सापि तत्-समये रक्षः-सान्निध्यजाम् अवस्थाम् अनुभवति कम्पादिभिः ।
एकम् अतिक्रामति काले कदाचित् स राक्षसो मध्य-निशायां गृह-कोणे स्थितः । सापि राज-कन्या स्व-सखीम् उवाच-सखि ! पश्यैष विकालः समये नित्यम् एव मां कदर्थयति । अस्ति तस्य दुरात्मनः प्रतिषेधोपायः कश्चित् ?
तच् छ्रुत्वा राक्षसो ऽपि व्यचिन्तयत्-नूनं यथाहं तथान्यो ऽपि कश्चिद् विकाल-नामास्या हरणाय नित्यम् एवागच्छति । परं सो ऽप्य् एनां हर्तुं न शक्नोति । तत् तावद् अश्व-रूपं कृत्वाश्व-मध्य-गतो निरीक्षयामि । किं-रूपः स किं-प्रभावश् चेति ? एवं राक्षसो ऽश्व-रूपं कृत्वाश्वानां मध्ये तिष्ठति ।
तथानुष्ठिते निशीथ-समये राज-गृहे कश्चिद् अश्व-चौरः प्रविष्टः । स च सर्वान् अश्वान् अवलोक्य तं राक्षसम् अश्वतमं विज्ञायाधिरूढः ।
अत्रान्तरे राक्षसश् चिन्तयामास-नूनम् एष विकाल-नामा मां चौरं मत्वा कोपान् निहन्तुम् आगतः । तत् किं करोमि ? एवं चिन्तयन् सो ऽपि तेन खलीनं मुखे निधाय कशाघातेन ताडितः । अथासौ भय-त्रस्त-मनाः प्रधावितुम् आरब्धः ।
चौरो ऽपि दूरं गत्वा खलीनाकर्षणेन तं स्थिरं कर्तुम् आरब्धवान् । स तु वेगाद् वेगतरं गच्छति । अथ तं तथागणित-खलीनाकर्षणं मत्वा चौरश् चिन्तयामास-अहो नैवं-विधा वाजिनो भवन्त्य् अगणित-खलीनाः । तन् नूनम् अनेनाश्व-रूपेण राक्षसेन भवितव्यम् । यद्यपि कञ्चित् पांसुलं भूमि-देशम् अवलोकयामि तद् आत्मानं तत्र पातयामि । नान्यथा मे जीवितव्यम् अस्ति ।
एवं चिन्तयत इष्ट-देवतां स्मरतस् तस्य सो ऽश्वो बट-वृक्षस्य तले निष्क्रान्तः । चौरो ऽपि बट-प्ररोहम् आसाद्य तत्रैव विलग्नः । ततो द्वाव् अपि तौ पृथग्-भूतौ परमानन्द-भाजौ जीवित-विषये लब्ध-प्रत्याशौ सम्पन्नौ ।
अथ तत्र बटे कश्चिद् राक्षस-सुहृद् वानरः स्थित आसीत् । तेन राक्षसं त्रस्तम् आलोक्य व्याहृतम्-भो मित्र ! किम् एव अलाय्यतेऽलीक-भयेन ? तद् भक्ष्यो ऽयं मानुषः भक्ष्यताम् ।
सो ऽपि वानर-वचो निशम्य, स्वरूपम् आधाय शङ्कित-मनाः स्खलित-गतिर् निवृत्तः । चौरो ऽपि तं वानराहूतं ज्ञात्वा कोपात् तस्य लाङ्गुलं लम्बमानं मुखे निधाय चर्वितवान् ।
वानरो ऽपि तं राक्षसाभ्यधिकं मन्यमानो भयान् न किञ्चिद् उक्तवान् । केवलं व्यथार्तो निमीलित-नयनस् तिष्ठति । राक्षसो ऽपि तं तथा-भूतम् अवलोक्य श्लोकम् एनम् अपठत्-
यादृशी वचन-च्छाया दृश्यते तव वानर ।
विकालेन गृहीतो ऽसि यः परैति स जीवति

5.85

इत्य् उक्त्वा प्रणष्टश् च । तत् प्रेषय मां येन गृहं गच्छामि । त्वं पुनर् अनुभुङ्क्ष्वात्र स्थित एव लोभ-वृक्ष-फलम् ।
चक्रधर आह-भोः अकारणम् एतत् । दैव-वशात् सम्पद्यते नृणां शुभाशुभम् । उक्तं च-
दुर्गस् त्रिकूटः परिखा समुद्रो
रक्षांसि योधा धनदाच् च वित्तम् ।
शास्त्रं च यस्योशनसा प्रणीतं
स रावणो दैव-वशाद् विपन्नः

5.86

तथा च-
अन्धकः कुब्जकश् चैव त्रिस्तनी राज-कन्यका ।
त्रयो ऽप्य् अन्यायतः सिद्धाः संमुखे कर्मणि स्थिते

5.87

सुवर्ण-सिद्धिः प्राह-कथम् एतत् ?
सो ऽब्रवीत्-
कथा 11
अन्धक-कुब्जक-त्रिस्तनी-कथा
अस्त्य् अत्र धरा-तल उत्तरा-पथे मधु-पुरं नाम नगरम् । तत्र मधुसेना नाम राजा बभूव । तस्य कदाचिद् विषय-सुखम् अनुभवतस् त्रिस्तनी कन्या बभूव । अथ तां त्रस्तनीं जातां श्रुत्वा स राजा कञ्चुकिनः प्रोवाच, यद्-भोस् त्यज्यताम् इयं त्रस्तनी गत्वा दूरेऽरण्ये यथा कश्चिन् न जानाति ।
तच् छ्रुत्वा कञ्चुकिनः प्रोचुः-महाराज ज्ञायते यद् अनिष्ट-कारिणी त्रिस्तनी कन्या भवति । तथापि ब्राह्मणम् आहूय प्रष्टव्याः, येन लोक-द्वयं न विरुध्यते, यतः-
यः सततं परिपृच्छति शृणोति सन्धारयत्य् अनिशम् ।
तस्य दिवाकर-किरणैर् नलिनीव विवर्धते बुद्धिः

5.88

तथा च-
पृच्छकेन सदा भाव्यं पुरुषेण विजानता ।
राक्षसेन्द्र-गृहीतो ऽपि प्रश्नान् मुक्तो द्विजः पुरा

5.89

राजा आह--कथम् एतत् ?
ते प्रोचुः-
कथा 12
चण्डकर्म-नाम-राक्षस-कथा
देव ! कस्मिंश्चिद् वनोद्देशे चण्डकर्मा नाम राक्षसः प्रतिवसति स्म । एकदा तेन भ्रमताटव्यां कश्चिद् ब्राह्मणः समासादितः । ततस् तस्य स्कन्धम् आरुह्य प्रोवाच-भो अग्रेसरो गम्यताम् ।
ब्राह्मणो ऽपि भय-त्रस्त-मनास् तम् आदाय प्रस्थितः । अथ तस्य कमलोदर-कोमलौ पादौ दृष्ट्वा ब्राह्मणो राक्षसम् अपृच्छत्-भोः ! किम् एवं-विधौ ते पादाव् अतिकोमलौ ?
राक्षस आह-भोः ! व्रतम् अस्ति, नाहम् आर्द्र-पादो भूमिं स्पृशामि ।
ततस् तच् छ्रुत्वात्मनो मोक्षोपायं चिन्तयंस् तत्-सरः प्राप्तः । ततो राक्षसेनाभिहितं-भोः ! यावद् अहं स्नानं कृत्वा देवतार्चन-विधिं विधायागच्छामि तावत् त्वयातः स्थानाद् अन्यत्र न गन्तव्यम् ।
तथानुष्ठिते दिव्जश् चिन्तयामास-नूनं देवतार्चन-विधेर् ऊर्ध्वं माम् एष भक्षयिष्यति । तद् द्रुततरं गच्छामि, येनैष आर्द्र-पादो न मम पृष्ठम् एष्यति ।
तथानुष्ठिते राक्षसो व्रत-भङ्ग-भयात् तस्य पृष्ठं न गतः । अतो ऽहं ब्रवीमि-पृच्छकेन सदा भाव्यम् इति ।
अथ तेभ्यस् तच् छ्रुत्वा-राजा द्विजान् आहूय प्रोवाच-भो ब्राह्मणाः ! त्रिस्तनी मे कन्या समुत्पन्ना, तत् किं तस्याः प्रतिविधानम् अस्ति, न वा ?
हीनाङ्गी वाधिकाङ्गी वा या भवेत् कन्यका नृणाम् ।
भर्तुः स्यात् सा विनाशाय स्व-शील-निधनाय च

5.90

या पुनस् त्रिस्तनी कन्या याति लोचन-गोचरम् ।
पितरं नाशत्य् एव सा द्रुतं नात्र संशयः

5.91

तस्माद् अस्या दर्शनं परिहरतु देवः । तथा यदि कश्चिद् उद्वाहयति, तद् एनां तस्मै दत्त्वा, देश-त्यागेन स नियोजयितव्यः इति । एवं-कृते लोक-द्वयाविरुद्धता भवति ।
अथ तेषां तद्-वचनम् आकर्ण्य स राजा पटह-शब्देन सर्वत्र घोषणाम् आज्ञापयामास-अहो ! त्रिस्तनीं राजकन्यां यः कश्चिद् उद्वाहयति स सुवर्ण-लक्षम् आप्नोति देश-त्यागं च ।
एवं तस्याम् आघोषणायां क्रियमाणायां महान् कालो व्यतीतः । न कश्चित् तां प्रतिगृह्णाति । सापि यौवनोन्मुखी सञ्जाता सुगुप्त-स्थान-स्थिता यत्नेन रक्ष्यमाणा तिष्ठति ।
अत्र तत्रैव नगरे कश्चिद् अन्धस् तिष्ठति । तस्य च मन्थरक-नामा कुब्जो ऽग्रेसरो यष्टि-ग्राही । ताभ्यां तं पटह-शब्दम् आकर्ण्य, मिथो मन्त्रितं-स्पृश्यतेऽयं पटहः । यदि कथम् अपि दैवात् कन्या लभ्यते । सुवर्ण-प्राप्तिश् च भवति, तथा सुखेन सुवर्ण-प्राप्त्या कालो व्रजति । अथ यदि तस्य दोषतो मृत्युर् भवति । तदा दारिद्र्योपात्तस्यास्य क्लेशस्य पर्यन्तो भवति । उक्तं च-
लज्जा स्नेहः स्वर-मधुरता बुद्धयो यौवन-श्रीः
कान्तासङ्गः स्वजन-ममता दुःख-हानिर् विलासः ।
धर्मः शास्त्रं सुर-गुरु-मतिः शौचम् आचार-चिन्ता
पूर्णे सर्वे जठर-पिठरे प्राणिनां सम्भवन्ति

5.92

एवम् उक्त्वान्धेन गत्वा, स पटहः स्पृष्टः । उक्तं च-भोः ! अहं तां कन्याम् उद्वाहयामि, यदि राजा मे प्रयच्छति ।
ततस् तै राज-पुरुषैर् गत्वा राज्ञे निवेदितम्-देव ! अन्धेन केनचित् पटहः स्पृष्टः । तद् अत्र विषये देवः प्रमाणम् ।
राजा प्राह-
अन्धो वा वधिरो वाथ कुष्टी वाप्य् अन्त्यजो ऽपि वा ।
परिगृह्णातु तां कन्यां स-लक्षां स्याद् विदेशगः

5.93

अथ राजादेशात् तै राज-पुरुषैस् तं नदी-तीरे नीत्वा सुवर्ण-लक्षेण समं विवाह-विधिना त्रिस्तनीं तस्मै दत्त्वा, जल-याने निधाय कैवर्ताः प्रोक्ताः-भो ! देशान्तरं नीत्वा कस्मिंश्चिद् अधिष्ठानेऽन्धः सपत्नीकः । कुब्जकेन सह मोचनीयः ।
तथानुष्ठिते विदेशम् आसाद्य कस्मिंश्चिद् अधिष्ठाने कैवर्त-दर्शिते त्रयो ऽपि मूल्येन गृहं प्राप्ताः सुखेन कालं नयन्ति स्म । केवलम् अन्धः पर्यङ्के सुप्तस् तिष्ठति, गृह-व्यापारं मन्थरकः करोति । एवं गच्छता कालेन त्रिस्तन्या कुब्जकेन सह विकृतिः समपद्यत । अथवा साध्व् इदम् उच्यते-
यदि स्याच् छ्री-तलो वह्निश् चन्द्रमा दहनात्मकः ।
सुस्वादः सागरः स्त्रीणां तत्-सतीस् त्वं प्रजायते

5.94

अथान्येद्युस् त्रिस्तन्या मन्थरको ऽभिहितः-भोः सुभग ! यद्य् एषो ऽन्धः कथञ्चित् व्यापाद्यते, तद् आवयोः सुखेन कालो याति । तद् अन्विष्यतां कुत्रचिद् विषम्, येनास्मै तत् प्रदाय सुखिनी भवामि ।
अन्यदा कुब्जकेन परिभ्रमता मृतः कृष्णसर्पः प्राप्तः । तं गृहीत्वा प्रहृष्ट-मना गृहम् अभ्येत्य ताम् आह-सुभगे ! लब्धो ऽयं कृष्ण-सर्पः । तद् एनं खण्डशः कृत्वा प्रभूत-शुण्ठ्य्-आदिभिः संस्कार्यास्मै विकल-नेत्राय मत्स्यामिषं भणित्वा प्रयच्छ येन द्राग् विनश्यति । यतो ऽस्य मत्स्यामिषं सदा प्रियम् । एवम् उक्त्वा मन्थरको बहिर् गतः ।
सापि प्रदीप्ते वह्नौ कृष्ण-सर्पं खण्डशः कृत्वा तक्र-स्थाल्याम् आधाय गृह-व्यापाराकुला तं विकलाक्षं स-प्रश्रयम् उवाच-आर्य-पुत्र ! तवाभीष्टं मत्स्य-मांसं समानीतम् । यतस् त्वं सदैव तत् पृच्छसि । ते च मत्स्या वह्नौ पावनाय तिष्ठन्ति । तद् यावद् अहं गृह-कृत्यं करोमि, तावत् त्वं दर्वीम् आदाय क्षणम् एकं तान् प्रचालय ।
सो ऽपि तद् आकर्ण्य हृष्ट-मनाः सृक्कणी परिलिहन् द्रुतम् उत्थाय दर्वीम् आदाय प्रमथितुम् आरब्धः । अथ तस्य मत्स्यान् मथ्नतो विष-गर्भ-बाष्पेण संस्पृष्टं नील-पटलं चक्षुर्भ्याम् अगलत् । असाव् अप्य् अन्धस् तं बहु-गुणं मन्यमानो विशेषान् नेत्राभ्यां बाष्प-ग्रहणम् अकरोत् ।
ततो लब्ध-दृष्टिर् जातो यावत् पश्यति, तावत् तक्र-मध्ये कृष्ण-सर्प-खण्डानि केवलान्य् एवावलोकयति । ततो व्यचिन्तयत्-अहो, किम् एतत् ? मम मत्स्यामिषं कथितम् आसीद् अनया । एतानि तु कृष्ण-सर्प-खण्डानि । तत् तावद् विजानामि सम्यक् त्रिस्तन्याश् चेष्टितम् । किं मम वधोपाय-क्रमः कुब्जस्य वा ? उताहो अन्यस्य वा कस्यचित् ? एवं विचिन्त्य स्वाकारं गूहयन्न् अन्धवत् कर्म करोति यथा पुरा ।
अत्रान्तरे कुब्जः समागत्य निःशङ्कतयालिङ्गन-चुम्बनादिभिस् त्रिस्तनीं सेवितुम् उपचक्रमे । सो ऽप्य् अन्धस् तम् अवलोकयन्न् अपि यावन् न किञ्चिच् छस्त्रं पश्यति, तावत् कोप-व्याकुल-मनाः पूर्ववच् छयनं गत्वा कुब्जं चरणाभ्यां सङ्गृह्य सामर्थ्यात् स्व-मस्तकोपरि भ्रामयित्वा त्रिस्तनीं हृदये व्यताडयत् ।
अथ कुब्ज-प्रहारेण तस्यास् तृतीयः स्तन उरसि प्रविष्टः । तथा बलान् मस्तकोपरि भ्रमणेन कुब्जः प्राञ्जलतां गतः ।
अतो ऽहं ब्रवीमि-अन्धकः कुब्जकश् चैव (84) इति ।
सुवर्णसिद्धिर् आह-भोः सत्यम् एतत् । दैवानुकूलतया सर्वं कल्याणं सम्पद्यते । तथापि पुरुषेण सतां वचनं कार्यम् । पुनर् एवम् एव वर्तितव्यम् । अथ एवम् एव यो वर्तते, स त्वम् इव विनश्यति । तथा च-
एकोदराः पृथग् ग्रीवा अन्यान्य-फल-भक्षिणः ।
असंहता विनश्यन्ति भारुण्डा इव पक्षिणः

5.95

चक्रधर आह-कथम् एतत् ?
सो ऽब्रवीत्-
कथा 13
भारुण्ड-पक्षि-कथा
कस्मिंश्चित् सरोवरे भारुण्ड-नामा पक्षी एकोदरः पृथग्-ग्रीवः प्रतिवसति स्म । तेन च समुद्र-तीरे परिभ्रमता कञ्चित् फलम् अमृत-कल्पं तरङ्ग-क्षिप्तं सम्प्राप्तम् । सो ऽपि भक्षयन्न् इदम् आह-अहो ! बहूनि मयामृत-प्रायाणि समुद्र-कल्लोलाहृतानि फलानि भक्षितानि । परम् अपूर्वो ऽस्यास्वादः । तत् किं पारिजात-हरिचन्दन-तरु-सम्भवम् ? किं वा, किञ्चिद् अमृत-मय-फलम् इदम् अव्यक्तेनापि विधिनापातितम् ।
एवं तस्य ब्रुवतो द्वितीय-मुखेनाभिहितम्-भो, यद्य् एवं तन् ममापि स्तोकं प्रयच्छ, येनाहम् अपि जिह्वा-सौख्यम् अनुभवामि ।
ततो विहस्य प्रथम-वक्त्रेणाभिहितम्-आवयोस् तावद् एकम् उदरम् । एका तृप्तिश् च भवति । ततः किं पृथग् भक्षितेन ? वरम् अनेन शेषेण प्रिया तोष्यते ।
एवम् अभिधाय तेन शेषं भारुण्ड्याः प्रदत्तम् । सापि तद् आस्वाद्य प्रहृष्टतमालिङ्गन-चुम्बन-सम्भावनाद्य्-अनेक-चाटु-परा च बभूव । द्वितीयं मुखं तद्-दिनाद् एव प्रभृति सोद्वेगं स-विषादं च तिष्ठति ।
अथान्येद्युर् द्वितीय-मुखेन विष-फलं प्राप्तम् । तद् दृष्ट्वापरम् आह-भो निस्त्रिंश ! पुरुषाधम ! निरपेक्ष ! मया विष-फलम् आसादितम् । तत् तवापमानाद् भक्षयामि ।
अपरेणाभिहितम्-मूर्ख ! मा मैवं कुरु । एवं कृते द्वयोर् अपि विनाशो भविष्यति । अथैवं वदता तेनापमानेन तत् फलं भक्षितम् । किं बहुना, द्वाव् अपि विनष्टौ ।
अतो ऽहं ब्रवीमि-एकोदराः पृथग्-ग्रीवाः (92) इति ।
चक्रधर आह-सत्यम् एतत् । तद् गच्छ गृहम् । परम् एकाकिना न गन्तव्यम् । उक्तं च-
एकः स्वादु न भुञ्जीत एकश् चार्थान् न चिन्तयेत् ।
एको न गच्छेद् अध्वानं नैकः सुप्तेषु जागृयात्

5.96

अपि च-
अपि कापुरुषो मार्गे द्वितीयः क्षेम-कारकः ।
कर्कटेन द्वितीयेन जीवितं परिरक्षितम्

5.97

सुवर्ण-सिद्धिः प्राह-कथम् एतत् ?
सो ऽब्रवीत्-
कथा 14
ब्राह्मण-कर्कटक-कथा
कस्मिंश्चिद् अधिष्ठाने ब्रह्मदत्त-नामा ब्राह्मणः प्रतिवसति स्म । स च प्रयोजन-वशाद् ग्रामं प्रस्थितः स्व-मात्राभिहितः, यद्-वत्स ! कथम् एकाकी व्रजसि ? तद् अन्विष्यतां कश्चिद् द्वितीयः सहायः ।
स आह-अम्ब ! मा भैषीः । निरुपद्रवो ऽयं मार्गः । कार्य-वशाद् एकाकी गमिष्यामि ।
अथ तस्य तं निश्चयं ज्ञात्वा समीपस्थ-वाप्याः सकाशात् कर्कटम् आदाय मात्राभिहितं-वत्स, अवश्यं यदि गन्तव्यम् । तद् एष कर्कटो ऽपि सहायो भवतु । तद् एनं गृहीत्वा गच्छ ।
सो ऽपि मातुर् वचनाद् उभाभ्यां पाणिभ्यां न सङ्गृह्य कर्पूर-पुटिका-मध्ये निधाय, पात्र-मध्ये संस्थाप्य शीघ्रं प्रस्थितः ।
अथ गच्छन् ग्रीष्मोष्मणा सन्तप्तः कञ्चिन् मार्गस्थं वृक्षम् आसाद्य, तत्रैव प्रसुप्तः । अत्रान्तरे वृक्ष-कोटरान् निर्गत्य सर्पस् तत्-समीपम् आगतः ।
स चाभ्यन्तर-गतां कर्पूर-पुटिकाम् अतिलौल्याद् अभक्षयत् । सो ऽपि कर्कटस् तत्रैव स्थितः सन् सर्प-प्राणान् अपाहरत । ब्राह्मणेऽपि यावत् प्रबुद्धः पश्यति, तावत् समीपे मृत-कृष्ण-सर्पो निज-पार्श्वे कर्पूर-पुटिकोपरि स्थितस् तिष्ठति । तं दृष्ट्वा व्यचिन्तयत्-कर्कटेनायं हतः इति । प्रसन्नो भूत्वाब्रवीच् च-भोः ! सत्यम् अभिहितं मम मात्रा यत् पुरुषेण को ऽपि सहायः कार्यः । नैकाकिना गन्तव्यम् । यतो मया श्रद्धा-पूरित-चेतसा तद्-वचनम् अनुष्ठितं तेनाहं कर्कटेन सर्व-व्यापादनाद् रक्षितः । अथवा साध्व् इदम् उच्यते-
क्षीणः श्रयति शशी रविम् ऋद्धो वर्धयति पयसां नाथम् ।
अन्ये विपदि सहाया धनिनां श्रियम् अनुभवन्त्य् अन्ये

5.98

मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ ।
यादृशी भावना यस्य सिद्धिर् भवति तादृशी

मूल पाठ: Pañcatantra · Edition: Ramchandra Jha, 6th edition, Varanasi : Chowkhamba Vidyabhavan, 1991. (Vidyabhavan Sanskrit Grantha Mala, 17) Also consulted: ed. by M.R. Kale. Delhi : Motilal Banarsidass, reprint. 1991. · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc