भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 9.4

9.4.1

सहैव वो हृदयानि
सह विज्ञानम् अस्तु वः ।
सहेन्द्रो वृत्रहा करत्
सह देवो बृहस्पतिः ॥

9.4.2

समानम् अस्तु वो हृदयं
समानम् उतो वो मनः ।
समानो अग्निर् वो देवः
सह राष्ट्रम् उपाध्वम् ॥

9.4.3

सं जानीध्वं सहृदयाः
सर्वे संमनस स्थ ।
नष्टो वो मन्युर् जीर्णेर्ष्या
सह जीवाथ भद्रया ॥

9.4.4

यथा पुत्रः प्रवावदः
पितृभ्यां वदति प्रियम् ।
एवा यूयम् अन्यो ऽन्यस्मै
जिह्वया वदत प्रियम् ॥

9.4.5

सहैव वो धान्यानि
समानाः पशवश् च वः ।
सह पृथिव्यां वीरुधः
सह वः सन्त्व् ओषधीः ॥

9.4.6

सह दीक्षा सह यज्ञो
विवाहो वः सहासति ।
सह प्रफर्वा नृत्यन्तु
सह व स्त्रिय आसताम् ॥

9.4.7

सहैव वो वीर्याणि
सहान्यान् रन्धयाध्वै ।
सह पतत्रिणीम् इषुम्
अन्यस्मै हेतिम् अस्यत ॥

9.4.8

सं वस्यामि समितिं
मधुना वाचम् आञ्जिषम् ।
युष्माकम् अन्ये शृण्वन्तु-
-उदितं सङ्गते जने ॥

9.4.9

युष्मान् मित्रा वृणतां
युष्मान् प्रतिजना उत ।
युष्मात् ज्ञातित्वं प्रेप्सन्त्य्
अमृतं मर्त्या इव ॥

9.4.10

संसम् इद् यः सम् आकरं
सह यूथा गवाम् इव ।
समानम् अस्तु वो मनो
ज्येष्ठं विज्ञानम् अन्व् इत ॥

9.4.11

इदं यद् एषां हृदयं
तद् एषां हृदये भवत् ।
अथो यद् एषां हृदयं
तद् वेषां हृदि श्रितम् ।
समानम् अस्तु वो मनः
श्रेष्ठं विज्ञानम् अन्व् इत ॥

9.4.12

इदं यद् एषां मन
एषां यानि मनांसि च ।
सध्र्यग् इन्द्र तत् कृणु
रथे पादाव् इवाहितौ ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc