पैप्पलाद-संहिता · अध्याय 8.8
शतम् अर्वाक् प्र स्यन्दन्ते
प्र स्यन्दन्ते शतं परः ।
शतं वृत्रस्य काण्डानि
तेभ्य आपो वि धावथ ॥
अन्तरिक्षे पतयिष्णवो
नभसस् परि जज्ञिरे ।
आपो हिरण्यवर्णास्
तास् ते भवन्तु शं हृदे ॥
शं ते सन्तु हृदयाय
शं ते हृदय्याभ्यः ।
शं ते यकक्लोमभ्यः
शम् उ ते अन्तष्टेभ्यः ॥
यद् अङ्गैर् अपसिस्मिषे
यच् छीर्ष्णा यच् च पृष्टिभिः ।
आपस् तत् सर्वं निष् करन्
तष्टा रिष्टम् इवानसः ॥
सं हृदयेन हृदयम्
ओपशेन सम् ओपशः ।
अद्भिर् मुञ्चापस्मितं
पार्ष्णिद्योतः सम् एतु मे ॥
आचरन्तीः पर्वतेभ्यो
देवीर् देवेभ्यस् परि ।
आपो यम् अद्य प्रापन्
न स रिष्याति पूरुषः ॥
शं त आपो हैमवतीः
शम् उ ते सन्तूत्स्याः ।
शं ते सनिष्यदा आपः
शम् उ ते सन्तु वर्ष्याः ॥
शं त आपो धन्वन्याः
शम् उ ते सन्त्व् अनूप्याः ।
शं ते खनित्रिमा आपः
शं याः कुम्भेभिर् आभृताः ॥
अनभ्रयः खनमाना
विप्रा गम्भीरे ऽपसः ।
भिषग्भ्यो भिषक्तरा
आपो अच्छा वदामसि ॥
अपाम् अह दिव्यानाम्
अपां स्रोतस्यानाम् ।
अपाम् अह प्रणेजने
ऽश्वा भवथ वाजिनः ॥
ता आपः शिवा आपो
ऽयक्ष्मंकरणीर् अपः ।
यथैव तृष्यते मयस्
तास् त आद्युत्तभेषजी ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0