भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 7.14

7.14.1

अग्निर् आयुष्मान्
स वनस्पतिभिर् आयुष्मान् ।
स मायुष्मान् आयुष्मन्तं कृणोतु ॥

7.14.2

वायुर् आयुष्मान्
सो ऽन्तरिक्षेणायुष्मान् (…) ॥

7.14.3

सूर्य आयुष्मान्
स दिवायुष्मान् (…) ॥

7.14.4

चन्द्र आयुष्मान्
स नक्षत्रैर् आयुष्मान् (…) ॥

7.14.5

सोम आयुष्मान्
स ओषधीभिर् आयुष्मान् (…) ॥

7.14.6

यज्ञ आयुष्मान्
स दक्षिणाभिर् आयुष्मान् (…) ॥

7.14.7

समुद्र आयुष्मान्
स नदीभिर् आयुष्मान् ।
स मायुष्मान् आयुष्मन्तं कृणोतु ॥

7.14.8

ब्रह्मायुष्मत्
तद् ब्रह्मचारिभिर् आयुष्मत् ।
तन् मायुष्मद् आयुष्मन्तं कृणोतु ॥

7.14.9

इन्द्र आयुष्मान्
स वीर्येणायुष्मान् ।
स मायुष्मान् आयुष्मन्तं कृणोतु ॥

7.14.10

देवा आयुष्मन्तस्
ते ऽमृतेनायुष्मन्तः ।
ते मायुष्मन्त आयुष्मन्तं कृण्वन्तु ॥

7.14.11

प्रजापतिर् आयुष्मान्
स प्रजाभिर् आयुष्मान् ।
स मायुष्मान् आयुष्मन्तं कृणोतु ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc