भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 4.38

4.38.1

मन्वे वां मित्रावरुणाव् ऋतावृधौ
सत्यौजसौ द्रुह्वाणं यौ नुदेथे ।
यौ सत्यावानम् अवथो हवेषु
तौ नो मुञ्चतम् अंहसः ॥

4.38.2

सत्यौजसौ द्रुह्वाणं यौ नुदेथे
प्र सत्यावानम् अवथो हवेषु ।
यौ गच्छथो नृचक्षसा बभ्रुणा सुतं
तौ नो मुञ्चतम् अंहसः ॥

4.38.3

याव् अङ्गिरसो ऽवथो याव् अगस्तिं
मित्रावरुणा जमदग्निम् अत्रिम् ।
यौ कश्यपम् अवथो यौ वसिष्ठं
तौ नो मुञ्चतम् अंहसः ॥

4.38.4

यौ भरद्वाजम् अवथो वध्र्यश्वं
विश्वामित्रं वरुण मित्र कुत्सम् ।
यौ कक्षीवन्तम् अवथः प्रोत कण्वं
तौ नो मुञ्चतम् अंहसः ॥

4.38.5

यौ श्यावाश्यम् अवथो यौ गविष्ठिरं
मित्रावरुणा पुरुमीढम् अत्रिम् ।
यौ विमदम् अवथः सप्तवध्रिं
तौ नो मुञ्चतम् अंहसः ॥

4.38.6

यौ मेधातिथिम् अवथो यौ त्रिशोकं
मित्रावरुणा उशनां काव्यं यौ ।
यौ मुद्गलम् अवथो गोतमं च
तौ नो मुञ्चतम् अंहसः ॥

4.38.7

ययो रथः सत्यवर्त्म र्जुरश्मिर्
मिथुया चरन्तम् अभियाति दूषयन् ।
स्तौमि मित्रावरुणा नाथितो जोहवीमि
तौ नो मुञ्चतम् अंहसः ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc