पैप्पलाद-संहिता · अध्याय 4.36
मन्वे वां द्यावापृथिवी सुभोजसौ
ये अप्रथेथाम् अमिता योजनानि ।
प्रतिष्ठे ह्य् अभवतं वसूनां
ते नो मुञ्चतम् अंहसः ॥
प्रतिष्ठे हि बभूवथुर् वसूनां
प्रवृद्धे देवी सुभगे उरूची ।
द्यावापृथिवी भवतं मे स्योने
ते नो मुञ्चतम् अंहसः ॥
ये स्रोत्या बिभृथो ये मनुष्यान्
ये अमृतं बिभृथो ये हवींषि ।
द्यावापृथिवी भवतं मे स्योने
ते नो मुञ्चतम् अंहसः ॥
ये उस्रिया बिभृथो ये वनस्पतीन्
ययोर् वां विश्वा भुवनान्य् अन्तः ।
द्यावापृथिवी भवतं मे स्योने
ते नो मुञ्चतम् अंहसः ॥
ये कीलालैस् तर्पयथो ये घृतेन
याभ्यां न र्ते किं चन शक्नुवन्ति ।
द्यावापृथिवी भवतं मे स्योने
ते नो मुञ्चतम् अंहसः ॥
असन्तापे सुतपसा हुवे वाम्
उर्वी गभीरे कविभिर् नमस्ये ।
द्यावापृथिवी भवतं मे स्योने
ते नो मुञ्चतम् अंहसः ॥
यन् मेदम् अभिशोचति
येन वा येन वा कृतं
पौरुषेयं न दैव्यम् ।
स्तौमि द्यावापृथिवी नाथितो जोहवीमि
ते नो मुञ्चतम् अंहसः ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0