पैप्पलाद-संहिता · अध्याय 4.21
खनन्ति त्वा तैमातां
दासा अरसबाहवः ।
दास्य् असि प्रक्रीर् अस्य्
उत्खातम् अरसं विषम् ॥
अदन्ति त्वा कक्कटासः
कुरुङ्गा अधि सानुषु ।
पापी जग्धप्रसूर् अस्य्
अभ्रिखाते न रूरुपः ॥
अव ज्याम् इव धन्वनः
शुष्मं तिरामि ते विष ।
प्र रोपीर् अस्य पातय
सूर्यः पूर्वा इवोषसः ॥
सिन्धुः पश्चात् परिहितः
सूर्यस्योदयनं पुरः ।
ततो यद् अन्तरा वनं
तत् सर्वं विषदूषणम् ॥
मधु त्वा मधुकृत् कृणोतु
पितुं त्वा पितुकृत् कृणोतु ।
उतो निषद्य पातवे
अथो ऊर्ध्वाय तिष्ठते ॥
जघास त्वा लोमकर्णस्
तन् न्य् आस परुष्णियाम् ।
तद् भैमीश् चक्रिरे स्रजः
सर्वं महिषदो विषम् ॥
उर्व्या उरुक्षितस्
तुराया आतुरस्य च ।
भूम्या हि जग्रभ नाम
विषं वारयताम् इति ।
विषं दूषयताद् इति ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0