भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 3.22

3.22.1

विषाणास्याङ्गिरसी
देवजाः प्रतिचक्षणी ।
दिवस् पृथिव्याः संभूता
सहस्राक्षीहैधि नः ॥

3.22.2

सहस्राक्षी या तु गृभा-
-अति पश्यास्य् ओषधे ।
सदान्वाघ्नी रक्षोघ्नी
भवेह प्रतिचक्षणी ॥

3.22.3

ये हरन्त्य् आसुतेयं
पयस्फातिं चौषधे ।
तांस् त्वं सहस्रचक्षो
गृभाय कृतवीर्ये ॥

3.22.4

य आतुरं रन्धयन्ते
ऽर्ष्मन्तं च विहृतम् ।
तांस् त्वं सहस्रचक्षो
गृभाय कृतवीर्ये ॥

3.22.5

यथाश्वा चतुरक्षो
रात्रिं नक्तातिपश्यति ।
एवा सहस्रचक्षो त्वं
प्रति पश्यास्य् आयतः ॥

3.22.6

गोभिर् अश्वैर् वसुभिर्
अपक्रीतास्य् ओषधे ।
श्यावस्याश्वस्य चक्षुषा
प्रति पश्य किमीदिनः ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc