पैप्पलाद-संहिता · अध्याय 3.17
एकशतं भेषजानि
तेषां मातास्य् ओषधे ।
समुद्रम् अव गच्छसि
पृथिव्याम् अधि निष्ठिता ॥
तस्यां वेदाधि भेषजं
दशशीर्षो दशजिह्वः ।
यस् ते प्रथम आददे
शं श्वावन्त ओषधे
यम् अदाद् वीरयुग् भिषक् ॥
पुनश् चक्षुः पुनः प्राणः
पुनर् आयुर् न आगमत् ।
निष् ट्वाकरं निष्कृत्या
निष् ट्वा निष्कृत्याकरम् ॥
मुञ्चामि त्वा शपथ्याद्
अथो वरुण्याद् उत ।
अथो यमस्य पड्वीशाद्
विश्वस्माद् देवकिल्बिषात् ॥
सं ते शीर्ष्णः कपालानि
हृदयस्य च यो विदुः ।
उद्यन् सूर्य आदित्यो
अङ्गद्योतम् अनीनशत् ॥
हिमवतः प्र स्रवथ
सिन्धौ समह सङ्गमः ।
ता आपः सर्वाः सङ्गत्य
चक्षुः प्राणं च धत्त नः ॥
मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0