भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 20.5

20.5.1

अनु मन्यताम् अनुमन्यमाना
प्रजावतीषम् अक्षीयमाणम् ।
तस्या वयं हेडसि मा वि भूम
सा नो देवी सुहवा शर्म यच्छतु ॥

20.5.2

अनुमते अनु मन्यस्व ता नो
या ते वयं चकृमा या तनूभिः ।
या तोकेषु तनुषु या प्रजायां
या गोष्व् ओषधीष्व् अप्स्व् अन्तः ॥

20.5.3

आ नो देव्य् अनुमतिर् जगम्यात्
सुक्षत्रतावीरता या सुजाता ।
भद्रा ह्य् अस्याः प्रमतिर् बभूव
सेमं यज्ञम् अवतु देवजुष्टम् ॥

20.5.4

अनुमतिर् विश्वम् इदं जजान
यद् एजति चरति यच् च तिष्ठति ।
तस्यास् ते देवि सुमतौ स्याम्-
-आनुमते अनु हि मंससे नः ॥

20.5.5

यत् ते नाम सुहवं सुप्रणीते
अनुमते अनुमतं सुदानु ।
तेन त्वं सुमतिं देव्य् अस्मा
इषं पिन्व विश्ववारं सुवीरम् ॥

20.5.6

प्रजाभ्यस् त्वा प्रजास् त्वानु प्राणन्तु प्रजा अनु प्राणिहि ।
शुक्रं ते शुक्रेण चन्द्रं चन्द्रेणामृतम् अमृतेन क्रीणामि ॥

20.5.7

तपसस् तनूर् असि
प्रजापतेर् वर्णः ।
परमेण पशुना क्रीयसे ॥

20.5.8

अभि त्यं देवं सवितारम् ओण्योः कविक्रतुम् ।
अर्चामि सत्यसवं रत्नधाम् अभि प्रियं मतिम् ॥

20.5.9

ऊर्ध्वा यस्यामतिर् भा अदिद्युतत् सवीमनि ।
हिरण्यपाणिर् अमिमीत सुक्रतुः कृपा स्वः ॥

20.5.10

अयं सहस्रमानृषिः कवीनां
मतिर् ज्योतिर् विधर्मणि ।
ब्रध्नः समीचीर् उषसः सम् ईरयात् ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc