भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 2.70

2.70.1

अपाद्यौद् अपाततनद्
अपस्कन्द्य वधेद् अहिम् ।
कल्याण्या यथा स्मितं
शम् उ नः सन्तु विद्युतः ॥

2.70.2

यत् पर्जन्य स्तनयति
सर्वं संविजते जगत् ।
पतिं तद् ऋत्वियावती
पृथिवी प्रति मोदते ॥

2.70.3

एष एना अभ्य् अक्रन्दीद्
वृषाश्वो धेनुका इव ।
अहींस् त्वं विद्युता जहि
मास्माकं पुरुषान् वधीः ॥

2.70.4

अभिक्रन्दात् स्तनयित्नोर्
अवस्फूर्जाद् अशन्या उत ।
देवा मरुतो मृडत नः
पातु नो दुरिताद् अवद्यात् ॥

2.70.5

ऋजीते परि णो नम-
-आदित्याः शर्म यच्छत ।
युयुत पर्णिनं शरम्
उतापर्णं रिशादसः ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc