भाषा

ENहिગુ
ग्रंथ पाठ

पैप्पलाद-संहिता · अध्याय 2.52

2.52.1

ये केशिनः प्रथमाः सत्त्रम् आसत
येभिर् आभृतं यद् इदं विरोचते ।
तेभ्यो जुहोमि हविषा घृतेन-
-अश्ववान् गोमान् अयम् अस्तु वीरः ॥

2.52.2

न र्ते दानात् तमसो मुच्यते परि
द्विनाम्नीं दीक्षां वशिनीं य आयत् ।
प्रास्य केशाः सुवते काण्डिनो भवन्ति
तेषां ब्रह्मेशे वपनस्य नान्यः ॥

2.52.3

येनावपत् सविता शीर्ष्णो अग्रे
क्षुरेण राज्ञो वरुणस्य केशान् ।
तेन ब्रह्माणो वपतेदम् अस्य-
- आस्रामो दीर्घायुर् अयम् अस्तु वीरः ॥

2.52.4

मा ते केशाँ अनु गाद् वर्च एतत्
तथा धाता दधातु ते ।
तुभ्यम् इन्द्रो वरुणो बृहस्पतिः
सविता वर्च आ दधन् ॥

2.52.5

आ रोह प्रोष्ठं वि षहस्व शत्रून्
अवास्राग् दीक्षां वशिनी ह्य् उग्रा ।
देहि दक्षिणां ब्राह्मणेभ्यो
अथो मुच्यस्व वरुणस्य पाशात् ॥

मूल पाठ: Paippalāda-Saṃhitā · Edition: Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume One, Consisting of the first fifteen Kāṇḍas Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume Two, Consisting of the sixteenth Kāṇḍa Calcutta The Asiatic Society Dipak Bhattacharya The Paippalāda-Saṁhitā of the Atharvaveda. Volume three, consisting of the Seventeenth and Eighteenth · Data entry Arlo Griffiths Thomas Zehnder Philipp Kubisch Duccio Lelli Alexander Lubotsky Carmen Spiers Michael Witzel · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc